सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः २८

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः २७ वायुपुराणम्
अध्यायः २८
वेदव्यासः
उत्तरार्धम्, अध्यायः २९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


       उत्तरार्द्धम् - २८
       ।।सूत उवाच ।।

पिता सोमस्य वैविप्रा जज्ञेऽत्रिर्भगवानृषिः।
सोऽति तस्थौ सर्वलोकान्भगवान्त्स्वेन तेजसा ।। २८.१ ।।

कर्मणा मनसा वाचा शुभान्येव समाचरन्।
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ।। २८.२ ।।

सुदुश्चरं नाम तपो येन तप्तं महत्पुरा।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ।। २८.३ ।।

तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहम्।
सोमत्वन्तनुरापेदे महाबुद्धिः स वै द्विजः ।। २८.४ ।।

ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः।
सोमः सुस्राव नेत्राभ्यां दश वा द्योतयन् दिशः ।। २८.५ ।।

तं गर्भं विधिनादिष्टा दश देव्यो दधुस्तदा।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ।। २८.६ ।।

स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः।
यथावभासयंल्लोकाञ्झीतांशुः सर्वभावनः ।। २८.७ ।।

यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः।
ततः स ताभिः शीतांशुर्निपपात वसुन्धराम् ।। २८.८ ।।

पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः।
रथमारोपयामास लोकानां हितकाम्यया ।। २८.९ ।।

स हि देवमयो विप्रा धर्म्मार्थी सत्यसङ्गरः।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ।। २८.१० ।।

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि।
तुष्टुवुर्ब्रह्मणः पुत्राः मानसाः सप्त विश्रुताः ।। २८.११ ।।

तत्रैवाङ्गिरसस्तस्य भृगोश्चैवात्मजस्तथा।
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ।। २८.१२ ।।

ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः।
आप्यायमानं लोकांस्त्रीन् भावयामास सर्व्वशः ।। २८.१३ ।।

समेन रथमुख्येन सागरान्तां वसुन्धराम्।
त्रिःसप्तकृत्वो विपुल श्चकाराभिप्रदक्षिणम् ।। २८.१४ ।।

तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत।
ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत ।। २८.१५ ।।

ताभिर्धार्यत्ययं लोकान् प्रजाश्चापि चतुर्विधाः।
पोष्टा हि भगवान् सोमो जगतो हि द्विजोत्तमाः ।। २८.१६ ।।

स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्म्मभिः।
तपस्तेपे महाभागः पझानां दशतीर्दश ।। २८.१७ ।।

हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्।
विभुस्तासाम्भवेत्सोमः प्रख्यातः स्वेन कर्म्मणा ।। २८.१८ ।।

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः।
बीजौषधिषु विप्राणामपाञ्च द्विजसत्तमाः ।। २८.१९ ।।

सोऽभिषिक्तो महातेजा महाराज्येन राजराट् ।
लोकानां भावयामास स्वभावात्तपतां वरः ।। २८.२० ।।

सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ।। २८.२१ ।।

स तत्प्राप्य महद्राजयं सोमः सोमवतां प्रभुः।
समाजज्ञे राजसूयं सहस्रशतदक्षिणम् ।। २८.२२ ।।

हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्।
सदस्यस्तत्र भगवान् हरिर्नारायणः प्रभुः ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ।। २८.२३ ।।

दक्षिणामददत्सोमस्त्रील्लोँकानिति नः श्रुतम्।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ।। २८.२४ ।।

तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभावसुः।
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ।। २८.२५ ।।

प्राप्यावभृथमव्यग्रः सर्व्वदेवर्षिपूजितः।
अतिराजातिराजेन्द्रो दशधातापयद्दिशः ।। २८.२६ ।।

तदा तत् प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम्।
स विभ्रममतिर्विप्रा विनये विनयो हतः ।। २८.२७ ।।

बृहस्पतेः स वै भार्यान्तारां नाम यशस्विनीम्।
जहार सहसा सर्व्वानवमत्याङ्गिरःसुतान् ।। २८.२८ ।।

स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह।
नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ।। २८.२९ ।।

उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो द्विजाः।
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ।। २८.३० ।।

तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः।
पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवन्धनुः ।। २८.३१ ।।

तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं महात्मना।
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ।। २८.३२ ।।

तत्र तद्युद्धमभवत् प्रत्यक्षन्तारकामयम्।
देवानां दानवानाञ्च लोकक्षयकरं महत् ।। २८.३३ ।।

तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः।
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ।। २८.३४ ।।

ततो निवार्योशनसं रुद्रं ज्येष्ठञ्च शङ्करम्।
ददावाङ्गिरसे तारां स्वयमेव पितामहः ।। २८.३५ ।।

अन्तर्वत्नीं च तां दृष्ट्वा तारान्ताराधिपाननाम्।
गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ।। २८.३६ ।।

मदीयायां तनौ योनौ गर्भो धार्यः कथञ्चन।
अथो नावसृजत्तन्तु कुमारं दस्युहन्तमम् ।। २८.३७ ।।

ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम्।
जातमात्रोऽथ भगवान् देवानामाक्षिपद्वपुः ।। २८.३८ ।।

ततः संशयमापन्नास्तारामकथयन् सुराः।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।। २८.३९ ।।

ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा ।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।। २८.४० ।।

सन्निवार्य तदा ब्रह्मा तारां चन्द्रस्य संशयः।
यदत्र तथ्यन्तद्‌ब्रूहि तारे कस्य सुतस्त्वयम् ।। २८.४१ ।।

सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम्।
सोमस्येति महात्मानं कुमारन्दस्युहन्तमम् ।। २८.४२ ।।

ततः स तमुपाघाय सोमो दाता प्रजापतिः।
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।। २८.४३ ।।

प्रतिपूर्व्वञ्च गमने समभ्युत्तिष्ठते बुधैः।
उत्पादयामास तदा पुत्रं वै राजपुत्रिका ।। २८.४४ ।।

तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः ।
उर्वश्यां जज्ञिरे तस्य पुत्राः षट् सुमहौजसः ।। २८.४५ ।।

प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा ।
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ।। २८.४६ ।।

तस्य तत्पापशमनं चकारात्रिर्महायशाः।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्व्वशः ।। २८.४७ ।।

एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः।
वंशन्तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ।। २८.४८ ।।

धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम्।
सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ।। २८.४९ ।।

इति श्रीमहापुराणे वायुप्रोक्ते शोमोत्पत्तिर्नामाष्टाविंशोऽध्यायः ।। २८ ।। *