वायुपुराणम्/उत्तरार्धम्/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः ३० वायुपुराणम्
अध्यायः ३१
वेदव्यासः
उत्तरार्धम्, अध्यायः ३२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


        ।।ऋषयः ऊचुः।।
मरुतेन कथं कन्या राज्ञे दत्ता महात्मना।
किंवीर्याश्च महात्मानो जाता मरुतकन्यकाः ।। ३१.१ ।।

         ।।सूत उवाच।।
आहवन् तं मरुत्सोममन्नकामः प्रजेश्वरम्।
मासि मासि महातेजाः षष्टिसंवत्सरान्नृपः ।। ३१.२ ।।

तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः।
अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ।। ३१.३ ।।

अन्नं तस्य सकृत्पक्वमहोरात्रे न क्षीयते।
कोटिशो दीयमानं च सूर्य्यस्योदयनादपि ।। ३१.४ ।।

मित्राज्योतिस्तु कन्यायां मरुतस्य च धीमतः।
तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ।। ३१.५ ।।

संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः।
यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ।। ३१.६ ।।

अनपायस्ततो जातस्तदा धर्मप्रदत्तवान्।
क्षत्रधर्मस्ततो जातः प्रतिपक्षो महातपाः ।। ३१.७ ।।

प्रतिपक्षसुतश्चापि सञ्जयो नाम विश्रुतः।
सञ्जयस्य जयः पुत्रो विजयस्तस्य जग्मिवान् ।। ३१.८ ।।

विजयस्य जयः पुत्रस्तस्य हर्यन्द्वतः स्मृतः ।
हर्यन्दुतस्ततो राजा सहदेवः प्रतापवान् ।। ३१.९ ।।

सहदेवस्य धर्मात्मा अदीन इति विश्रुतः।
अदीनस्य जयत्सेनस्तस्य पुत्रोऽथ संकृतिः ।। ३१.१० ।।

संकृतेरपि धर्मात्मा कृतधर्मा महायशाः।
इत्येते क्षत्र धर्माणो नहुषस्य निबोधत ।। ३१.११ ।।

नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः।
उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।। ३१.१२ ।।

यतिर्ययातिः संयातिरायातिः पञ्च तुद्वयः।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः ।। ३१.१३ ।।

काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा।
संयातिर्मो क्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः ।। ३१.१४ ।।

तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः।
देवयानिमुशनसः सुतां भार्यामवाप ह ।। ३१.१५ ।।

शर्मिष्ठा मासुरीं चैव तनयां वृषपर्वणः।
यदुं च तुर्वसुं चैव देवयानिर्व्यजायत ।। ३१.१६ ।।

द्रुह्युञ्चानुञ्च पूरुञ्च शर्मिष्ठा वार्षपर्वणी ।
अजीजनन्महावीर्यान् सुतान्देवसुतोपमान् ।। ३१.१७ ।।

रथन्तस्मै ददौ रुद्रः प्रीतः परमभास्वरम्।
असङ्गं काञ्चनं दिव्यमक्षयौ च महेषुधी ।। ३१.१८ ।।

युक्तं मनो जवैरश्वैर्येन कन्यां समुद्वहत्।
स तेन रथमुख्येन जिगाय च ततो महीम् ।। ३१.१९ ।।

ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ।
पौरवाणां नृपाणाञ्च सर्वेषां सोऽभवद्रथः ।। ३१.२० ।।

योवत्सुदेशप्रभवः कौरवो जनमेजयः।
कुरोः पुत्रस्य राज्ञस्तु राज्ञः पारिक्षितस्य ह।
जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः ।। ३१.२१ ।।

गार्ग्यस्य हि सुतं बालः स राजा जनमेजयः।
दुर्बुद्धिर्हिंसयामास लोहगन्धं नराधिपम् ।। ३१.२२ ।।

स लोहगन्धो राजर्षिः परिधावन्नितस्ततः।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ।। ३१.२३ ।।

ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित्।
शशाप हेतुकमृषिं शरण्यं व्यथितस्तदा ।। ३१.२४ ।।

ईन्द्रोतो नाम विख्यातो योऽसौ मुनिरुदारधीः।
योजयामास चेन्द्रोतः शौनको जनमेजयम्।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः ।। ३१.२५ ।।

स लोहगन्धो व्यनशत्तस्यावसथमेत्य ह।
स च दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा ।। ३१.२६ ।।

ततः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः।
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम्।
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ।। ३१.२७ ।।

स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः।
पुत्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्वचः ।।३१.२८ ।।

जरावली च मां तात पलितानि च पर्यगुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ।। ३१.२९ ।।

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह।
जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ।। ३१.३० ।।

अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
सा च व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ।। ३१.३१ ।।

जराया बहवो दोषा पानभोजनकारिणः।
तस्माज्जरान्न ते राजन् ग्रहीतुमहमुत्सहे ।। ३१.३२ ।।

सितश्मश्रुधरो दीनो जरया शिथिलीकृतः।
बली सन्नतगात्रश्च दुर्द्दशो दुर्बलाकृतिः ।। ३१.३३ ।।

अशक्तः कार्यकरणे परिभूतस्तु यौवने।
महोपभीतिभिश्चैव तां जरान्नाभिकामये ।। ३१.३४ ।।

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप।
प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ।। ३१.३५ ।।

स एवमुक्तो यदुना तीव्रकोपसमन्वितः।
उवाच वदतां श्रेष्छो ज्येष्ठं तं गर्हयन् सुतम् ।। ३१.३६ ।।

आश्रमः कश्च वान्योऽस्ति को वा धर्मविधिस्तव।
मामनादृत्य दुर्बुद्धे यदात्थ नवदेशिक ।। ३१.३७ ।।

एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् ।
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।। ३१.३८ ।।

तस्मान्न राज्यभाग् मूढ प्रजा ते वै भविष्यति।
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ।। ३१.३९ ।।

        तुर्वसुरुवाच।।
न कामये जरां तात सामभोगप्रणाशिनीम्।
जराया बहवो दोषाः पानभोजनकारिणः।
तस्माज्जरां न ते राजन् ग्रहीतुमहमुत्सहे ।। ३१.४० ।।

       ययातिरुवाच।।
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि।
तस्मात् प्रजा समुच्छेदं तुर्वसो तव यास्यति ।। ३१.४१ ।।

असङ्कीर्णा च धर्मेण प्रतिलोमवरेषु च।
पिशितादिषु चान्येषु मूढ राजा भविष्यसि ।। ३१.४२ ।।

गुरु दारप्रसक्तेषु तिर्यग्योनिगतेषु वा।
पशुधर्मेषु म्लेच्छेषु भविष्यति न संशयः ।। ३१.४३ ।।

          सूत उवाच।
एवन्तु तुर्वसुं शप्त्वा ययातिः सुतमात्मनः।
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ।। ३१.४४ ।।

द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्।
जरां वर्षसहस्रं वै यौवनं स्वन्ददस्व मे ।। ३१.४५ ।।

पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम्।
स्वञ्चादास्यामि बूयोऽहं पाप्मानं जरया सह ।। ३१.४६ ।।

       द्रुह्युरुवाच।।
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।।

न सङ्गश्चास्य भवति न जरां तेन कामये ।। ३१.४७ ।।

              ययातिरुवाच।।
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि।
तस्माद् द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ।। ३१.४८ ।।

नौप्लवोत्तरसञ्चारस्तत्र नित्यं भविष्यति।
अराजभ्राजवंशस्त्वं तत्र नित्यं भविष्यसि ।। ३१.४९ ।।

अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह।
एवं वर्षसहस्रन्तु चरेयं यौवनेन ते ।। ३१.५० ।।

       अनुरुवाच।।
जीर्णः शिशुवरं दत्ते जरया ह्यशुचिः सदा।।
न जुहोति स कालेऽग्नि तां जरान्नाबिकामये ।। ३१.५१ ।।

          ययातिरुवाच।।
यस्त्वं मे हृदयाज्जातो वयः स्वन्न प्रयच्छसि।
जरादोषस्त्वयोक्तोऽयं तस्मात्ते प्रतिपत्स्यते ।। ३१.५२ ।।

प्रजा च यौवनं प्राप्ता विनशिष्यत्यतस्तव।
अग्निप्रस्कन्दनपरस्त्वं चाप्येव भविष्यसि ।। ३१.५३ ।।

पूरो त्वं प्रतिपद्यस्व पाप्मानञ्जरया सह।
जरावली च मान्तात पलितानि च पर्यगुः ।। ३१.५४ ।।

काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने।
कञ्चित्कालञ्जरेयं वै विषयान् वयसा तव ।। ३१.५५ ।।

पूर्णें वर्षसहस्रे ते प्रतिदास्यामि यौवनम्।
स्वञ्चैव प्रतिपत्स्यामि पाप्मानञ्जरया सह ।। ३१.५६ ।।

             सूत उवाच।।
एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा।
यथानुमन्यसे तात करिष्यामि तथैव च ।। ३१.५७ ।।

प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह।
गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ।। ३१.५८ ।।

जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव।
यौवनं भवते दत्त्वा चरिष्यामि यथार्तवत् ।। ३१.५९ ।।

          ययातिरुवाच।।
पूरो प्रीतोऽस्मि भद्रन्ते प्रीतश्चेदं ददामि ते।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ।। ३१.६० ।।

           सूत उवाच।।
पूरोरनुमतो राजा ययातिः स्वां जरान्ततः।
संक्रामयामास तदा प्रसादाद्भार्गवस्य तु ।। ३१.६१ ।।

यौवनेनाथ वयसा ययातिरनहुषात्मजः ।
प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् स्वकान् ।। ३१.६२ ।।

यथाकामं यथोत्साहं यथाकालं यथासुखम्।
धर्म्माविरोधाद्राजेन्द्रो यथार्हति स एव हि ।। ३१.६३ ।।

देवानतर्पयद्यज्ञैः पितॄञ्छ्राद्धैस्तथैव च।
दीनांश्चानुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ।। ३१.६४ ।।

अतिथीनन्नपानैश्च वैश्यांश्च परिपालनैः।
आनृशंस्येन शूद्रांश्च दस्यून् संनिग्रहेण च ।। ३१.६५ ।।

धर्म्मेण च प्रजाः सर्व्वा यथावदनुरञ्जयन्।
ययातिः पालयामास साक्षादिन्द्र इवापरः ।। ३१.६६ ।।

स राजा सिंहविक्रान्तो युवा विषयगोचरः।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ।। ३१.६७ ।।

स मार्गमाणः कामानामन्तर्दोषनिदर्शनात्।
विश्वासहेतो रेमे वै वैब्राजे नन्दने वने ।। ३१.६८ ।।

अपश्यत्स यदा तां वै वर्द्धमानां नृपस्तदा।
गत्वा पूरोः सकाशं वै स्वां जरा प्रत्यपद्यत ।। ३१.६९ ।।

स सम्प्राप्य तु तान् कामांस्तृप्तः खिन्नश्च पार्थिवः।
कालं वर्षसहस्रं वै सस्मार मनुजाधिपः। ।। ३१.७० ।।

परिसङ्ख्याय कालञ्च कलाकाष्ठास्तथैव च।
पूर्णं मत्त्वा ततः कालं पूरुं पुत्रमुवाच ह ।। ३१.७१ ।।

यथासुखं यथोत्साहं यथाकालमरिंदम।
सेविता विषयाः पुत्र यौवनेन मया तव ।। ३१.७२ ।।

पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्।
राष्ट्रञ्च नृपं पूरुं पुत्रं कनीयसम्।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।। ३१.७३ ।।

प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ।। ३१.७४ ।।

अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम्।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।। ३१.७५ ।।

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो।
श्रेष्ठं यदुमतिक्रम्य पूरो राज्यं प्रदास्यसि ।। ३१.७६ ।।

यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः।
शर्मिष्ठायाः सुतो द्रुह्युस्तनोऽनुः पूरुरेव च ।। ३१.७७ ।।

कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति ।
अतः सम्बोधयामि त्वां धर्म्मं समनुपालय ।। ३१.७८ ।।

          ययातिरुवाच।।
ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः।
ज्येष्टं प्रति यथा रार्ष्ट्रं न देयं मे कथञ्चन ।। ३१.७९ ।।

माता पित्रोर्वचनकृत्स हि पुत्रः प्रशस्यते ।
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।। ३१.८० ।।

प्रतिकूलं पितुर्यश्च न स पुत्रः सतां मतः।
स पुत्रः पुत्रवद् यश्च वर्त्तते पितृमातृषु ।। ३१.८१ ।।

यदुनाहमवज्ञातस्तथा तुर्वसुनापि च।
द्रुह्युणा चानुना चैवमप्यवज्ञा कृता भृशम् ।। ३१.८२ ।।

पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः।
कनीयान् मम दायादो जरा येन धृता मम।
सर्वकामः सर्वकृतः पूरुणा पुत्रकारिणा ।। ३१.८३ ।।

शुक्रेण च वरो दत्तः काव्ये नोशनसा स्वयम्।
पुत्रो यस्त्वानुवर्त्तेत स राजा ते महामते ।। ३१.८४ ।।

भवतोऽनुमतोप्येवं पूरु राष्ट्रेऽभिषिच्यताम् ।
यःपुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा।
सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ।। ३१.८५ ।।

अर्हः पूरुरिदं राष्ट्रं यः प्रियः प्रियकृत्तव।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ।। ३१.८६ ।।

पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा।
अभिषिच्य ततः पूरुं स्वराष्ट्रे सुतमात्मनः ।। ३१.८७ ।।

दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत्।
दक्षिणापरतो राजा यदुं श्रेष्ठं न्यवेशयत् ।। ३१.८८ ।।

प्रतीच्यामुत्तरस्याञ्च द्रुह्युञ्चानुञ्च तावुभौ।
सप्तद्वीपां ययातिस्तु जित्त्वा पृथ्वीं ससागराम्।
व्यभजत् पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ।। ३१.८९ ।।

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना।
यथाप्रदेशं धर्मज्ञैर्धर्म्मेण प्रतिपाल्यते ।। ३१.९० ।।

एवं विसृज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा।
पुत्रसंक्रामितश्रीस्तु प्रीतिमानभवन्नृपः ।। ३१.९१ ।।

धनुर्न्यस्य पृषत्कांश्च राज्यञ्चैव सुतेषु तु।
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ।। ३१.९२ ।।

अत्र गाथा महाराज्ञा पुरा गीता ययातिना।
योऽभिप्रेत्याहरन् कामान् कूर्मोङ्गानीव सर्वशः ।। ३१.९३ ।।

न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ।। ३१.९४ ।।

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ।। ३१.९५ ।।

यदा तु कुरुते भावं सर्व्वभूतेषु पावकम्।
कर्म्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ।। ३१.९६ ।।

यदा परान्न बिभेति यदा त्वस्मान्न बिभ्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ।। ३१.९७ ।।

या दुस्त्यजा दुर्म्मतिभिर्या न जीर्यति जीर्य्यतः।
दोषाप्राणान्तिको रागस्तां तृष्णान्त्यजतः सुखम् ।। ३१.९८ ।।

जीर्य्यन्ति जीर्यतः कोशा दन्ता जीर्यन्ति जर्यितः।
जीविताशा धनाशा च जीर्य्यतोपि न जीर्यति ।। ३१.९९ ।।

यच्चाकामसुखं लोके यच्च दिव्यं महत् सुखम्।
तृष्णास्य च सुखस्यैव कलां नार्हति षोडशीम् ।। ३१.१०० ।।

एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम्।
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः।
पालयित्वा व्रतशतं तत्रैव स्वर्गमाप्नुयात् ।। ३१.१०१ ।।

तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः।
यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ।। ३१.१०२ ।।

धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः।
ययातेश्चरितं सर्वं पठञ्छृण्वन् द्विजोत्तमः ।। ३१.१०३ ।।

इति श्रीमहापुराणे वायुप्रोक्ते चन्द्र वंशकीर्त्तनं नामैकत्रिंशोऽद्यायः ।। ३१ ।।*