सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ४५

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ४४ वायुपुराणम्
अध्यायः ४५
वेदव्यासः
उत्तरार्धम्, अध्यायः ४६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


             ।।नारद उवाच।।
कथं शिला समुत्पन्ना ययाक्रान्तो गयासुरः ।
किं रूपं किं च माहात्म्यं तस्याः किं वद नाम च ।। ४५.१ ।।

           ।.सनत्कुमार उवाच।।
आसीद्धर्म्मो महातेजाः सर्व्वविज्ञानपारगः।
विश्वरुपा च तत्पत्नी भर्त्तृव्रतपरायणा ।। ४५.२ ।।

तस्यां धर्म्मव्रतायास्तु कन्या धर्म्मव्रता सती।
सर्व्व लक्षणसम्पन्ना लक्ष्मीरिव गुणाधिका ।। ४५.३ ।।

तस्यां ये तु गुणा ह्यासंस्ते तिष्ठन्ति जगत्र्त्रये।
धर्म्मो धर्म्मव्रतायास्तु त्रिषु लोकेषु मार्गयन् ।। ४५.४ ।।

नानु रूपं वरं लेभे धर्म्मोऽथ वरसिद्धये।
तपः कुरु वरार्थं त्वं तथेत्युक्त्वा वनं ययौ ।। ४५.५ ।।

कन्या सा च तपस्तेपे सर्व्वेषां दुष्करञ्च यत्।
वायुभक्षा श्वेतकल्पे युगानामयुतं पुरा ।। ४५.६ ।।

ब्रह्मणो मानसः पुत्रो मरीचिर्नाम विश्रुतः ।
पर्य्यटन्पृथिवीं सर्व्वां कन्यारत्नं ददर्श सः ।। ४५.७ ।।

रूपयौवनसम्पन्नां परमे तपसि स्थिताम्।
पप्रच्छाथ मरीचिस्तां का त्वं कस्यापि तद्वद ।। ४५.८ ।।

रूपेणानेन मां भीरु विमोहयसि सुव्रते ।
ब्रह्मात्मजोऽहं विख्यातो मरीचिर्व्वेदपारगः ।। ४५.९ ।।

मरीचेर्व्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम्।
अहं धर्म्मव्रता नाम धर्म्मपुत्री तपोऽन्विता ।। ४५.१० ।।

पतिव्रतार्थं विप्रेन्द्र चरामि परमं तपः।
धर्म्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्व्व्कम् ।। ४५.११ ।।

पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते।
पतिव्रतेच्छया पृथ्वीं विचरामि ह्यहर्निशम् ।। ४५.१२ ।।

त्वञ्चेत्पतिव्रता जाता भजे त्वां भज मां वरम्।
लोके न त्वादृशी कन्या मम तुल्यो न ते वरः ।। ४५.१३ ।।

धर्म्मव्रते धर्म्मपत्नी तस्मात्त्वं भव मेऽधुना।
धर्म्मव्रता मुनिं प्राह धर्म्मं याचय सुव्रत ।। ४५.१४ ।।

तच्छ्रुत्वा धर्म्ममगमन्मुनिं धर्मो ददर्श ह।
तेजःपुञ्जं वरं नत्वा आसनार्घ्यादिनार्च्चयत् ।। ४५.१५ ।।

किमर्तमागतः पृष्टो मरीचिर्धर्म्ममब्रवीत्।
कन्यार्थं भ्रमता पृथ्वी दृष्टा ते कन्यका वरा ।
मह्यं कन्याञ्च तां देहि श्रेयस्तव भविष्यति ।। ४५.१६ ।।

अर्घ्यादिना समभ्यर्च्य धर्म्मं प्रोचे तथेति तम्।
धर्म्मव्रतां समानीय दत्तवांस्तां मरीचये ।। ४५.१७ ।।

वरं च दत्तवांस्तस्मै तद्वाक्यं यत्तथा कृतम्।
अग्निहोत्रेण सहितां स्वाश्रमं तां द्विजोऽनयत् ।। ४५.१८ ।।

रेमे मुनिस्तया सार्द्धं यथा विष्णुः श्रिया सह।
पार्व्वत्या च यथा शम्भुः सरस्वत्या यथा ह्यजः ।। ४५.१९ ।।

जज्ञे पुत्रशतं तस्यां मरीचेर्विष्णुनोपमम्।
मरीचिः फलपुष्पार्थं वनं गत्वा समागतः ।। ४५.२० ।।

श्रान्तः कदाचित्तां पत्नीमुवाचेति पतिव्रताम्।
भुक्त्वा तु शयनस्थस्य पादसंवाहनं कुरु ।। ४५.२१ ।।

धर्म्मव्रता तथेत्युक्त्वा शयनस्थस्य सा मुनेः।
पादसंवाहनं चक्रे घृते नाभ्यज्य तत्परा ।। ४५.२२ ।।

निद्रायमाणेऽथ मुनौ ब्रह्मा तं देशमागतः।
इत्येष दृष्ट्वा ब्रह्माणं मनसार्च्चयितुं प्रभुम् ।। ४५.२३ ।।

पादसंवाहनं कुर्य्यां किं पूज्योऽयं जगद्गुरुः।
इत्याकुला समुत्तस्थौ मत्वा सा तं गुरोर्गुरुम् ।। ४५.२४ ।।

अर्घ्यपाद्यादिकं दत्त्वा ब्रह्माणं समपूजयत्।
सत्कृतायान्तु शय्यायां विश्राममकरोदजः ।। ४५.२५ ।।

एतस्मिन्नन्तरे भर्त्ता समुत्तस्थौ च तल्पतः।
धर्म्मव्रतामपश्यन्स विप्रः क्रुद्धः शशाप ताम् ।। ४५.२६ ।।

पादसंवाहनं त्यक्त्वायस्मादाज्ञां विहाय मे ।
गतान्यत्र ततः पापाच्छापदग्धा शिला भव ।। ४५.२७ ।।

भर्त्रा धर्म्मव्रता शप्ता मरीचिं प्राह सा रुषा।
शयाने त्वयि संप्राप्ते ब्रह्मा त्वज्जनको गुरुः ।। ४५.२८ ।।

त्वयोत्थाय हि कर्त्तव्यं स्वगुरोः पूजनं सदा।
मया तु धर्म्मचारिण्या तव कार्य्ये कृते मुने ।। ४५.२९ ।।

अदोषाहं यतः शप्ता तस्माच्छापं ददामि ते।
त्वञ्च शापं महादेवाद्भर्त्तः प्राप्स्यस्यसंशयम् ।। ४५.३० ।।

व्याकुलं तं पतिं दृष्ट्वा व्याकुलागात्प्रजापतिम्।
नत्वा शयानं ब्रह्माणमग्निं प्रज्वाल्य चेन्धनैः ।। ४५.३१ ।।

गार्हपत्ये स्थिता चक्रे तपः परमदुष्करम्।
तथा शप्तो मरीचिश्च तपस्तेपे सुदारुणम् ।। ४५.३२ ।।

पतिव्रतायास्तपसा मरीचेस्तपसा यथा।
इन्द्रादयश्च सन्तप्ता गतास्ते शरणं हरिम् ।। ४५.३३ ।।

ऊचुः क्षीराम्बूदौ सुप्तं सन्तप्तास्तपसा हरे।
पतिव्रतायाश्च मुनेस्त्रैलोक्यं रक्ष केशव ।। ४५.३४ ।।

इन्द्रादीनां वचः श्रुत्वा विष्णुर्धर्म्मव्रतां ययौ।
एतस्मिन्नेव काले तु प्रबुद्धो भगवानजः।
ऊचुर्धर्म्मर्वतां देवा अग्निस्थां तां सकेशवाः ।। ४५.३५ ।।

अग्निमध्ये तपः कर्त्तुं कस्य शक्तिः पतिव्रते।
त्वया कृतं तत्परमं सर्व्वलोकभयङ्करम् ।। ४५.३६ ।।

वरं वरय धर्म्मज्ञे अस्मत्तो यदभीप्सितम्।
विष्ण्वादीनां वचः श्रुत्वा देवान्धर्म्मव्रताब्रवीत् ।। ४५.३७
भर्तृशापमशक्ताहं निवर्त्तयितुमोजसा।
दत्तो मरीचिना शापो मह्यं स ह्यपगच्छतु ।। ४५.३८ ।।

धर्म्मव्रतावचः श्रुत्वा प्रोचुरेतां सुराः पुनः ।
धर्म्मव्रते धर्म्मपुत्रि शापोऽयं परमर्षिणा ।। ४५.३९ ।।

दत्तस्ते न निराकर्त्तुं शक्यो देवद्विजातिभिः।
तस्मादन्यं वरं ब्रूहि यतो धर्म्मस्य संस्थितिः ।। ४५.४० ।।

भवेद्वै त्रिषु लोकेषु वेदोक्तस्य शुभव्रते।
देवानां वचनं श्रुत्वा देवान्धर्म्मव्रताब्रवीत् ।। ४५.४१ ।।

भर्त्तुः शापान्मोचयितुं न शक्ताश्च यदामराः।
मह्यं वरं प्रयच्छध्वमेवंविधमनुत्तमम् ।। ४५.४२ ।।

शिलाहं हि भविष्यामि ब्रह्माण्डे पावनी शुभा।
नदीनदसरस्तीर्थदेवादिभ्योऽतिपावनी ।। ४५.४३ ।।

ऋष्यादिभ्यो मुनुभ्यश्च मुख्यदेवेभ्य एव च।
त्रैलोक्ये यानि लिङ्गानि व्यक्ताव्यक्तात्मकान्यपि।
तानि तिष्ठन्तु मद्देहे तीर्थरूपेण सर्व्वदा ।। ४५.४४ ।।

तीर्थान्यपि च सर्व्वाणि नक्षत्रप्रमुखास्तथा।
तिष्ठन्तु देवाः सकला देव्यश्च मुनयस्तथा ।। ४५.४५ ।।

ब्रह्मा विष्णुश्च रुद्रश्च लक्षयित्वा पदं मयि।
पञ्चाग्नयः कुमाराद्या बहुरुपेण संस्थिताः ।। ४५.४६ ।।

मूर्त्तामूर्त्तस्वरूपेण पदरूपेण देवताः।
शिलायां क्रोशमात्रेण मूर्त्तिरूपाः स्थिता भुवि ।। ४५.४७ ।।

तां दृष्ट्वा सर्व्वलोकश्च महापातकनाशिनीम्।
पूतो धर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ।। ४५.४८ ।।

शिलास्थितेषु तीर्थषु स्नात्वा कृत्वाथ तर्पणम्।
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ।। ४५.४९ ।।

गदाधरो दृश्यतीर्थं सर्व्वतीर्थोत्तमोत्तमम्।
स्थास्यन्ति च मरिष्यन्ति यान्तु ब्रह्मपुरीं नराः।
वाराणसी प्रयागश्च पुरुषोत्तमसंज्ञकम् ।। ४५.५० ।।

गङ्गासागरसंज्ञञ्च नित्यं तिष्ठतु फल्गुनि।
गदाधराधिष्ठितं तत्सर्व्वतीर्थोत्तमोत्तमम्।
मुक्तिर्भवेत् पितॄणां च मृतानां श्राद्धतः सदा ।। ४५.५१ ।।

जरायुजाण्डजा वापि स्वेदजा वापि चोद्भिदः।
त्यक्त्वा देहं शिलायान्ते यान्तु विष्णुस्वरूपताम् ।। ४५.५२ ।।

यथार्च्चिते हरौ सर्व्वे यज्ञाः पूर्णा भवन्ति हि।
तथा श्राद्धं तर्पणञ्च स्नानं चाक्षयमस्त्विह ।। ४५.५३ ।।

मम देहे सुरेशानां ये जपन्ति श्रुतादिकम्।
अचिरेणापि ते सिद्धाः सिद्धिभाजो भवन्तु वै ।। ४५.५४ ।।

पितॄणां कुलसाहस्रमात्मना सहितं नरः।
श्राद्धादिना समुद्धृत्य विष्णुलोकं नयेद्‌ध्रुवम् ।। ४५.५५ ।।

यावत्यो हि सरिच्छ्रेष्ठा गङ्गाद्याश्च ह्रदाः शुभाः।
समुद्राद्याः सरोमुख्या मानसाद्याः सुरेश्वराः।
नृणां श्राद्धं विदधतो मुक्तये निवसन्तु मे ।। ४५.५६ ।।

शरीरेण समायान्तु क्वचिन्नो यान्तु देवताः।
एको विष्णुस्त्रिधामूर्त्तिर्यावत्सङ्कीर्त्यते बुधैः ।। ४५.५७ ।।

तावच्छिलायां सर्व्वाणि तीर्थानि सह दैवतैः।
सदा तिष्ठन्तु मुनयो गन्धर्व्वाणां गणाश्च ये ।। ४५.५८ ।।

सर्व्वदेवस्वरूपा च नामेयं देवरूपिणी।
यावत्तिष्ठति ब्रह्माण्डं तावत्तिष्ठतु वै शिला।
मम देहेऽश्मरूपे च ये जपन्ति तपन्ति च ।। ४५.५९ ।।

जुहोत्यग्नौ च तेषां वै तदक्षय्योपतिष्ठताम् ।
अक्षयन्तु भवेच्छ्राद्धं जपहोमतपांसि च।
शिलापर्व्वतरूपेण मयि तिष्ठतु सर्व्वदा ।। ४५.६० ।।

पतिव्रतावचः श्रुत्वा देवाः प्रोचुः पतिव्रताम्।
त्वया यत्प्रार्थितं सर्व्वं तद्भविष्यत्यसंशयम् ।। ४५.६१ ।।

गयासुरस्य शिरसि भविष्यसि यदा स्थिरा।
तदा पादादिरूपेण स्थास्यामस्त्वयि सुस्थिराः।
वरं शिलायै दत्त्वैवं तत्रैवान्तर्द्दधुः सुराः ।। ४५.६२ ।।

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।। *