वायुपुराणम्/उत्तरार्धम्/अध्यायः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उत्तरार्धम्, अध्यायः ४ वायुपुराणम्
अध्यायः ५
वेदव्यासः
उत्तरार्धम्, अध्यायः ६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



            ।।ऋषय ऊचुः ।।
देवानां दानवानाञ्च दैत्यानाञ्चैव सर्वशः।
उत्पत्तिं विस्तरेणेह ब्रूहि वैवस्वतेऽन्तरे ।। ५.१ ।।
       ।।सूत उवाच।।
धर्मस्य तावद्वक्ष्यामि निसर्गं तं निबोधत।
अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।। ५.२ ।।
सङ्कल्पा च मुहूर्ता च साध्या विश्वा तथैव च।
धर्मपत्न्यो दशत्वेता दक्षः प्राचेतसो ददौ ।। ५.३ ।।
साध्या पुत्रांस्तु धर्मस्य साध्यान् द्वादश जज्ञिरे।
साध्या नाम महाभागाश्छन्दजा यज्ञभागिनः।
देवेभ्यस्तान् परान् देवान् देवज्ञाः परिचक्षिरे ।। ५.४ ।।
ब्रह्मणो वै मुखात् सृष्टा जया देवाः प्रजेप्सया।
सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ।। ५.५ ।।
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् ।
चित्तिश्चैव विचित्तिश्च आकूतिः कूतिरेव च ।। ५.६ ।।
विज्ञाता चैव विज्ञातो मनो यज्ञश्च ते स्मृताः ।
नामान्येतानि तेषां वै जयानां प्रथितानि च ।। ५.७ ।।
ब्रह्मशापेन ते जाताः पुनः स्वायम्भुवे जिताः।
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्तमे पुनः ।। ५.८ ।।
तामसे हरयो नाम वैकुण्ठा रैवतान्तरे।
साध्याश्च चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः ।। ५.९ ।।
धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः।
पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ।। ५.१० ।।
स्वारोचिषेऽन्तरेऽतीता देवा ये वै महौजसः।
तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेऽन्तरे ।। ५.११ ।।
किञ्चिच्छिष्टे तदा तस्मिन् देवा वै तुषिताऽभ्रुवन्।
इतरेतरं महाभागान् वयं साध्यान् प्रविश्य वै।
मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ।। ५.१२ ।।
एवमुक्त्वातु ते सर्वे चाक्षुषस्यान्तरे मनोः।
तस्माद्द्वादशसम्भूतान् धर्मान् स्वायम्भुवात् पुनः ।। ५.१३ ।।
नरनारायणौ तत्र जज्ञाते पुनरेव हि।
विपश्चिदिन्द्रो यश्चासीत्तथा सत्यो हरिश्च तौ।
स्वारोचिषेऽन्तरे पूर्वमास्तान्तौ तुषितौ सुरौ ।। ५.१४ ।।
तुषितानान्तु साध्यत्वे नामान्येतानि वक्ष्यते।
मनोऽनुमन्ता प्राणश्च नरो यानश्च वीर्यवान् ।। ५.१५ ।।
चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा।
प्रभवोऽथ विभुश्चैव साध्या द्वादश जज्ञिरे ।। ५.१६ ।।
स्वायम्भुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः।
नामान्यासन् पुनस्तानि तुषितानां निबोधत ।। ५.१७ ।।
प्राणोऽपानस्तथोदानः समानो व्यान एव च।
चक्षुः श्रोत्रं तथा प्राणः स्पर्शो बुद्धिर्मनस्तथा ।। ५.१८ ।।
प्राणापानावुदानश्च समानो व्यान एव च।
नामान्येतानि पूर्वन्तु तुषितानां स्मृतानि ह ।। ५.१९ ।।
वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः ।
धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ।। ५.२० ।।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा।
ध्रुवपुत्रो भवो नाम्ना कालो लोकप्रकालनः ।। ५.२१ ।।
सोमस्य भगवान् वर्चा बुधश्च ग्रहबोधनः।
रोहिण्यां तौ समुत्पन्नौ त्रिषु लोकेषु विश्रुतौ ।। ५.२२ ।।
धारोर्मिकलिलाश्चैव त्रयश्चन्द्रमसः सुताः।
आपस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ।। ५.२३ ।।
स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः।
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत।
तस्य शाखो विशखश्च नैगमेयश्च पृष्ठजाः ।। ५.२४ ।।
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ।। ५.२५ ।।
प्रत्यूषस्य विदुः पुत्र ऋषिर्नाम्ना तु देवलः।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।। ५.२६ ।।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी।
योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ।। ५.२७ ।।
प्रभासस्य तु या भार्या वसूनामष्टमस्य ह।
विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ।। ५.२८ ।।
स कर्त्ता सर्वशिल्पानां त्रिदशानाञ्च वर्द्धकिः।
भूषणानाञ्च सर्वेषां कर्त्ता कारयिता च सः ।। ५.२९ ।।
सर्वेषाञ्च विमानानि दैवतानां करोति सः।
मानुषाश्चोपजीवन्ति यस्य शिल्पानि शिल्पिनः ।। ५.३० ।।
विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः।
क्रतुर्दक्षः श्रवः सत्यः कालः कामो धुनिस्तथा ।। ५.३१ ।।
कुरुवान् प्रभवांश्चैव रोचमानश्च ते दश।
धर्मपुत्राः स्मृता ह्येते विश्वायां जज्ञिरे शुभाः ।। ५.३२ ।।
मरुत्वत्यां मरुत्वन्तो भानवो भानुजाः स्मृताः ।
मुहूर्त्ताश्च मुहूर्त्तायां घोषं लम्बा व्यजायत ।। ५.३३ ।।
सङ्कल्पायान्तु संजज्ञे विद्वान् सङ्कल्प एव च।
नागवीथ्यस्तु जाम्याञ्च पथत्रयसमाश्रिताः ।। ५.३४ ।।
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत।
एष सर्गः समाख्यातो विद्वान् धर्मस्य शाश्वतः ।। ५.३५ ।।
मुहूर्त्ताश्चैव तिथ्यश्च पतिभिः सह सुव्रताः।
नामतः संप्रवक्ष्यामि ब्रुवतो मे निबोधत ।। ५.३६ ।।
अहोरात्रविभागश्च नक्षत्राणि समासतः।
मुहूर्त्ताः सर्वनक्षत्रा अहोरात्रविदस्तथा ।। ५.३७ ।।
अहोरात्रकलानान्तु षट्‌शतीत्यधिका स्मृता।
रवेर्गतिविशेषेण सर्वेषु ऋतुमिच्छतः ।। ५.३८ ।।
ततो वेदविदश्चैतां तिथिमिच्छन्ति पर्वसु।
अविशेषेषु कालेषु योज्यः स पितृदानतः ।। ५.३९ ।।
रौद्रः सार्वस्तथा मैत्रः पिण्ड्यवासव एव च।
आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः ।। ५.४० ।।
प्राजापत्यस्तथा ऐन्द्रस्तथेन्द्रो निऋतिस्तथा।
वारुणश्च तथार्यम्णो भागाश्चापि दिनाश्रिताः ।। ५.४१ ।।
एते दिनमुहूर्त्ताश्च दिवाकरविनिर्मिताः।
शङ्कुच्छायानिशेषेण वोदेतव्याः प्रमाणतः ।। ५.४२ ।।
अजास्तथाहिर्बुध्न्यश्च पूषा हि यमदेवताः।
आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ।। ५.४३ ।।
ब्रह्मसौम्यस्तथादित्यो बार्हस्पत्योऽथ वैष्णवः।
सावित्रोऽथ तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः ।। ५.४४ ।।
एकरात्रिमुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च।
इन्दोर्गत्युदया ज्ञेया नालिकाः पादिकास्तथा।
कालावस्थास्विगास्त्वेते मुहूर्ता देवताः स्मृताः ।। ५.४५ ।।
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च।
दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ।। ५.४६ ।।
स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम्।
वैश्वानरं दक्षिणतो निर्द्दिष्टमिह तत्त्वतः ।। ५.४७ ।।
अश्विनी कृत्तिका याम्या नागवीथिरिति स्मृता ।
पुष्योऽश्लेषा पुनर्वसू वीथिरैरावती मता।
तिस्रस्तु वीथयो ह्येता उत्तरे मार्ग उच्यते ।। ५.४८ ।।
पूर्वोत्तरे फाल्गुन्यौ च मघा चैवार्यमी स्मृता ।
हस्तचित्रे तथा स्वाती गोवीथीत्यभिशब्धिता ।। ५.४९ ।।
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी स्मृता।
एतास्तु वीथयस्तिस्रो मध्यमे मार्ग उच्यते ।। ५.५० ।।
मूलञ्चाषाढे द्वे चापि अजवीथ्यभिशब्दिता ।
श्रवणञ्च धनिष्ठा च गार्गी शतभिषक्तथा ।। ५.५१ ।।
वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता।
स्मृता वीथ्यस्तु तिस्रस्ता मार्गे वै दक्षिणे बुधैः ।। ५.५२ ।।
सप्तविंशत्तु याः कन्या दक्षः सोमाय ता ददौ।
सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे चैव कीर्त्तिताः।
तासामपत्यान्यभवन् दीप्तान्यमिततेजसा ।। ५.५३ ।।
यास्तु शेषास्तदा कन्याः प्रतिजग्राह कश्यपः।
चतुर्दश महाभागाः सर्वास्ता लोकमातरः ।। ५.५४ ।।
अदितिर्दितिर्दनुः काला अरिष्टा सुरसा तथा।
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा।
कद्रुर्मुनिश्च धर्मज्ञः प्रजास्तासां निबोधत ।। ५.५५ ।।
चारिष्णवेऽन्तरेऽतीते ये द्वादश पुरोगमाः।
वैकुण्ठानाम ते सात्र्या बभूवुश्चाक्षुषेऽन्तरे ।। ५.५६ ।।
उपस्थितेऽन्तरे ह्यस्मिन् पुनर्वैवस्वतस्य ह।
आराधिता ह्यदित्या ते समेत्याहुः परस्परम् ।। ५.५७ ।।
एतामेव महाभागामदितिं संप्रविश्य वै।
वैवस्वतेऽन्तरे ह्यस्मिन् योगादर्द्धेन चेतसः ।। ५.५८ ।।
गच्छामः पुत्रतामस्यास्तन्नः श्रेयो भविष्यति।
अदित्यास्तु प्रसूतानामादित्यत्वं भविष्यति ।। ५.५९ ।।
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः।
जज्ञिरे द्वादशादित्या मारीचात् कश्यपात्पुनः ।। ५.६०।
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि ।
वैवस्वतेऽन्तरे ह्यस्मिन् नरनारायणौ सुरौ ।। ५.६१ ।।
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते।
यथा सूर्यस्य लोकेऽस्मिन् उदयास्तमयावुभौ।
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः ।। ५.६२ ।।
श्रेष्ठानुश्रविके यस्माच्छक्ताः शब्दादिलक्षणे।
अष्टात्मकेऽणिमाद्ये च तस्मात्ते चज्ञिरे सुराः ।। ५.६३ ।।
इत्येष विष्ये रागः सम्भूत्याः कारणं स्मृतम्।
ब्रह्मशापेन सम्भूता जयाः स्वायम्भुवे जिताः ।। ५.६४ ।।
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्तमे पुनः।
तामसे हरयो देवा जाताश्चारिष्णवे तु वै।
वैकुण्ठाश्चाक्षुषे साध्या आदित्याः साम्प्रते पुनः ।। ५.६५ ।।
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।। ५.६६ ।।
ततस्त्वष्टा ततो विष्णुरजघन्योऽजघन्यजः।
इत्येते द्वादशादित्याः कश्यपस्य सुताः स्मृताः ।। ५.६७ ।।
सुरभी कश्यपाद्रुद्रानेकादश विजज्ञिरे।
महादेवप्रसादेन तपसा भाविता सती ।। ५.६८ ।।
अङ्गारकं तथा सर्पं निऋतिं सदसस्पतिम्।
अजैकपादहिर्बुघ्न्यमूर्द्ध्वकेतुं ज्वरं तथा ।। ५.६९ ।।
भुवनञ्चेश्वरं मृत्युं कपालञ्चैव विश्रुतम्।
देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान्।
तपसा तेन महता सुरभी तानजीजनत् ।। ५.७० ।।
ततो दुहितरावन्ये सुरभी द्वे व्यजायत।
रोहिणी चैव रुद्राभा गान्धारी च यशस्विनी ।। ५.७१ ।।
रोहिण्यां जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः।
सुरूपा हंसकीला च भद्रा कामदुघा तथा।
सुषुवे कामदुघा तु सुरूपा तनयद्वयम् ।। ५.७२ ।।
हंसकीला नृप मृषीन् भद्रायास्तु व्यजायत।
विश्रुतास्तु महाभागा गन्धर्वा वाजिनः सुताः ।। ५.७३ ।।
उच्चैःश्रवास्तदा जाताः खेचरास्ते मनोजवाः।
श्वेताः श्येनाः पिशङ्गाश्च सारङ्गा हरितार्जुनाः।
रुद्रा देवोपबाह्यास्ते गन्धर्वयोनयो हयाः ।। ५.७४ ।।
भूयो जज्ञे सुरभ्यास्तु श्रीमान् चन्द्राभसुप्रभः।
स्रग्वी ककुझी द्युतिमानमृतालयसम्भवः।
सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः ।। ५.७५ ।।
इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः।
धर्मपुत्राः स्मृताः साध्या विश्वे च वसवस्तथा ।। ५.७६ ।।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः।
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ।। ५.७७ ।।
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ।
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।। ५.७८ ।।
सर्वे देवगणा विप्रास्त्रय स्त्रिंशत्तु छन्दजाः।
एतेषामपि देवानां निरोधोत्पत्तिरुच्यते ।। ५.७९ ।।
यथा सूर्यस्य लोकेऽस्मिन् उदयास्तमयावुभौ।
एते देवनिकायास्ते सम्भवन्ति युगे युगे ।। ५.८० ।।
           ।।ऋषय ऊचुः।।
साध्याश्च वसवो विश्वे रुद्रादित्यास्तथैव च।
अभिजात्या प्रभावैश्च कर्मभिश्चैव विश्रुताः ।। ५.८१ ।।
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः।
अन्तरं ज्ञातुमिच्छामो यश्च यस्माद्विशिष्यते ।। ५.८२ ।।
यश्च यस्मात् प्रभवति यश्च यस्मिन् प्रतिष्ठितः।
ज्यायान्यो मध्यमश्चैव कनीयान् यश्च तेषु वै ।। ५.८३ ।।
प्रधानभूतो यस्तेषां गुणभूतश्च तेषु यः।
कर्मभिश्चाभिजात्या च प्रभावेण च यो महान्।
एतत् प्रभ्रूहि नः सर्वं त्वं हि वेत्थ यथायथम् ।। ५.८४ ।।
        ।।सूत उवाच।।
अत्र वो वर्णयिष्येहमन्तरन्तेषु यत् स्मृतम्।
यद्ब्रह्मविष्णुरुद्राणां श्रृणुध्वं मे विवक्षतः ।। ५.८५ ।।
राजसी तामसी चैव सात्त्विकी चैव ताः स्मृताः ।
तन्वः स्वयम्भुवः प्रोक्ताः काले काले भवन्ति याः ।। ५.८६ ।।
एतासामन्तरं वक्तुं नैव शक्यं द्विजोत्तमाः।
गुणवृद्धिनिबन्धत्वाद् द्विधानुग्रहबन्धतः ।। ५.८७ ।।
प्रवृत्तिञ्च निवृत्तिञ्च गुणवृद्धिमिह द्विजाः।
यथाशक्ति प्रवक्ष्यामि तनूनां तन्निबोधत ।। ५.८८ ।।
एका तु कुरुते तासां राजसी सर्वतः प्रजाः।
एका चैवार्णवस्था तु सानुगृह्णाति सात्त्विकी।
एका सा क्षिपते काले तामसी ग्रसते प्रजाः ।। ५.८९ ।।
रजसा तु समुद्रिक्तो ब्रह्मा सम्भवते यदा।
पुरुषाख्या तदा तस्य सात्त्विकी विनिवर्त्तते ।। ५.९० ।।
यदा भवति कालात्मा उद्रेकात्तमसस्तु सः।
ब्रह्माख्या सा तदा त्वस्य राजसी विनिवर्त्तते ।। ५.९१ ।।
सत्त्वोद्रेकात्तु पुरुषो यदा भवति स प्रभुः।
कालाख्या सा तदा तस्य पुनर्नभवतीति वै ।। ५.९२ ।।
क्रमात्तस्य निवर्त्तन्ते रूपं नाम च कर्म च।
त्रैलोक्ये वर्त्तमानस्य सर्वानुग्रहनिग्रहैः ।। ५.९३ ।।
यदा भवति ब्रह्मा च तदा चान्तरमुच्यते।
यदा च पुरुषो ब्रह्मा न चैव पुरुषस्तु सः ।। ५.९४ ।।
मणिर्विभजते वर्णान् विचित्रान् स्फटिके यथा।
वैमल्यादाश्रयवशात्तद्वर्णः स्यात्तदञ्जनः ।। ५.९५ ।।
तदा गुणवशात्तस्य स्वयम्भोरनुरञ्जनम्।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्घनम् ।। ५.९६ ।।
एको भूत्वा यथा मेघः पृथक्त्वेनावतिष्ठते।
रूपतो वर्णतश्चैव तथा गुणवशात्तु सः ।। ५.९७ ।।
भवत्येको द्विधा चैव त्रिधा मूर्तिविनाशनात्।
एको ब्रह्मान्तकृच्चैव पुरुषश्चेति ते त्रयः ।। ५.९८ ।।
एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयम्भुवः।
ब्राह्मी च पौरुषी चैव अन्तकारी च ते त्रयः ।। ५.९९ ।।
तत्र या राजसी तस्य तनुः सा वै प्रजाकरी।
या तामसी तु कालाख्या प्रजाक्षयकरी तु सा।
सात्त्विकी पौरुषी या तु सानुग्रहकरी स्मृता ।। ५.१०० ।।
राजस्या ब्रह्मणोंऽशेन मरीचिः कश्यपोऽभवत्।
तामसी चान्तकृद्या तु तदंशेनाभवद्भवः ।। ५.१०१ ।।
सात्त्विकी पौरुषी या सा तस्याः शोचिष्णुरुच्यते।
त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवस्तु स्वयम्भुवः ।। ५.१०२ ।।
नानाप्रयोजनार्थां हि कालोऽवस्थां करोति यः।
ब्रह्मत्वेन प्रजाः सृष्ठ्वा विष्णुत्वेनानुगृह्य च।
वैष्णव्यानुगृहीता स्ता रौद्यानुग्रसते पुनः ।। ५.१०३ ।।
एकः स्वयम्भुवः कालस्त्रिभिस्त्रीन् वै करोति सः।
सृजते चानुगृह्णाति प्रजाः संहरते तथा ।। ५.१०४ ।।
इत्येताः कथिता स्तिस्रस्तनवस्तु स्वयम्भुवः।
प्रजापत्या च रौद्री च वैष्णवी चैव ताः स्मृताः ।। ५.१०५ ।।
एका तनुः स्मृता वेदे धर्मशास्त्रे पुरातने।
साङ्ख्ययोगपरे वीरैः पृथक्त्वैकत्वदर्शिभिः।
अभिजातप्रभावज्ञैऋषिभिस्तत्त्वदर्शिभिः ।। ५.१०६ ।।
एकत्वे च पृथक्त्वे च तासु भिन्नाः प्रजास्त्विह ।
इदं परमिदं नेति ब्रुवतो भिन्नदर्शनाः ।। ५.१०७ ।।
ब्रह्माणं कारणं केचित् केचित् प्राहुः प्रजापतिम्।
केचिच्छिवं परत्वेन प्राहुर्विष्णुं तथाऽपरे।
अविज्ञानेन संसक्ताः सक्ता रत्यादिचेतसा ।। ५.१०८ ।।
तत्त्वं कालञ्च देशञ्च कार्याण्यावेक्ष्य तत्त्वतः।
कारणञ्च स्मृता ह्येता नानार्थेष्विह देवताः ।। ५.१०९ ।।
एकं निन्दति यस्तेषां सर्वानेन स निन्दति।
एकं प्रशसमानस्तु सर्वानेव प्रशंसति।
एकं यो वेत्ति पुरुषं तमाहुर्ब्रह्मवादिनम् ।। ५.११० ।।
अद्वेषस्तु सदा कार्यो देवतासु विजानता।
न शक्यमीश्वरं ज्ञातुमैश्वर्येण व्यवस्थितम् ।। ५.१११ ।।
एकात्मा स त्रिधा भूत्वा संमोहयति यः प्रजाः।
एतेषाञ्च त्रयाणान्तु विचरन्त्यन्तरं जनाः ।। ५.११२ ।।
जिज्ञासन्तः परीक्षन्तः सक्ता रूपाविचेतसः।
इदं परमिदं नेति वदन्ति भिन्नदर्शिनः ।। ५.११३ ।।
यातुधानान् विशन्त्येताः पिशाचांश्चैव तान्नरान् ।
एकत्वेन पृथक्त्वेन स्वयम्भूर्व्यवतिष्ठते ।। ५.११४ ।।
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन् प्रजाः।
तेष्वेकं यजते यस्तु स तदा यजते त्रयम् ।। ५.११५ ।।
तस्माद्देवास्त्रयो ह्येते नैरन्तर्ये व्यवस्थिताः।
तस्मात् पृथक्त्वमेकत्वसङ्ख्या सङ्ख्यागतागतम्।
एकत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ।। ५.११६ ।।
यस्मात् सृष्ट्वानुगृह्णीते ग्रसते चैव ते प्रजाः ।
गुणात्मकत्वात्र्त्रैकाल्ये तस्मादेकः स उच्यते ।। ५.११७ ।।
रुद्रं ब्रह्‌माणमिन्द्रञ्च लोक पालान् ऋषीन् दनून्।
देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ।। ५.११८ ।।
प्राजापत्या तनुर्या च तनुर्या चैव वैष्णवी।
मन्वन्तरे च कल्पे च आवर्त्तन्ते पुनः पुनः ।। ५.११९ ।।
तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च ।
जायन्ते तत्समाश्चैव तानपीह निबोधत ।। ५.१२० ।।
राजस्या ब्राह्मणोंऽशेन मरीचिः कश्यपोऽभवत्।
तामस्यास्तस्य चांशेन कालात्मा रुद्र उच्यते ।
सात्त्विक्याः पुरुषांशेन यज्ञे विष्णुरभूत्तदा ।। ५.१२१ ।।
त्रिषु कालेषु तस्यैता ब्रह्मणस्तनवोंऽशजाः।
कालो भूत्वा पुनश्चासौ रुद्रः संहरते प्रजाः ।। ५.१२२ ।।
सम्प्राप्ते चैव कल्पान्ते सप्तरश्मिर्द्दिवाकरः।
भूत्वा संवर्त्तकादित्यो लोकांस्त्रीन् स तदादहत् ।। ५.१२३ ।।
विष्णुः प्रजानुगृह्णाति नामरुपविपर्यये ।
तस्यान्तस्यामवस्थायां तत्तदुत्पत्तिकारणम् ।। ५.१२४ ।।
सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः।
तस्यांशेन विजज्ञे स इह स्वायम्भुवेऽन्तरे।
आकूत्यां मनसो देव उत्पन्नः प्रथमे विभुः ।. ५.१२५ ।।
ततः पुनः स वै देवो प्राप्ते स्वारोचिषेऽन्तरे।
तुषितायां समुत्पन्नो ह्यतीतस्तुषितैः सह ।। ५.१२६ ।।
औत्तमे चान्तरे चैव तुषितस्तु विदुः स वै।
वशवर्त्तिभिरुत्पन्नो वशवर्त्ती हरिः पुनः ।। ५.१२७ ।।
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः।
तामसस्यान्तरे चापि सम्प्राप्ते पुनरेव हि।
भार्यायां हरिभिः सार्द्धं हरिरेव बभूव ह ।। ५.१२८ ।।
चारिष्णवेऽन्तरे चापि हरिर्दवः पुनस्तु सः।
वैकुण्ठायामसौ जज्ञे ह्याभूतरजसैः सह।
वैकुण्ठः स पुनर्द्देवः सम्प्राप्ते चाक्षुषेऽन्तरे ।। ५.१२९ ।।
धर्मो नारायणः साध्यः साध्यैः सह सुरैरभूत् ।
स तु नारायणः साध्यः प्राप्ते वैवस्वतेऽन्तरे ।। ५.१३० ।।
मारीचात् कश्यपाद्विष्णुरदित्यां सम्बमूव ह।
त्रिस्त्रिः क्रमैरिमान् लोकान् जित्वा विष्णुरुरुक्रमम् ।। ५.१३१ ।।
प्रत्यपादयदिन्द्राय देवेभ्यश्चैव स प्रभुः।
इत्येतासतनवस्तस्य व्यतीताः सप्त सप्तसु।
मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः ।। ५.१३२ ।।
तस्माद्विष्टमिदं सर्वं वामनेनेह जायता।
तस्मात्स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ।। ५.१३३ ।।
इत्येते ब्रह्मणश्चैव वामनस्य महात्मनः।
एकत्वञ्च पृथक्त्वञ्च विशिष्टत्वञ्च कीर्त्तितम् ।। ५.१३४ ।।
देवतानामिहांशेन जायन्ते यास्तु देवताः।
तासान्तास्तेजसा बुद्ध्या श्रुतेन च बलेन च।
जायन्ते तत्समाश्चैव ता वै तेषामनुग्रहात् ।। ५.१३५ ।।
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।
तत्तदेवावगच्छघ्वं विष्णोस्तेजोंऽशसम्भवम् ।। ५.१३६ ।।
स एवं जायतेंऽशेन केचिदिच्छन्ति मानवाः।
ततोऽपरे ब्रुवन्तीममन्योन्यांशेन जायते ।। ५.१३७ ।।
एवं विवदमानास्ते दृष्ट्वा तान्वै ब्रुवन्ति ह।
यस्मान्न विद्यते भेदो मनसश्चेतसश्च ह।
तस्मादनुग्रहास्तेषां क्षेत्रज्ञास्ते भवन्त्युत ।। ५.१३८ ।।
एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः।
भूत्वा यस्माच्च बहुधा भवन्येकः पुनस्तु सः ।। ५.१३९ ।।
तस्मात्सुमनसो भेदाज्जायन्ते तेजसश्च ह।
मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः।
सर्गादौ सकृदुत्पन्नास्तिष्ठन्तीह प्रशंसया ।। ५.१४० ।।
प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः।
जायन्ते मोहयन्तोऽन्यानीश्वरा योगमायया ।। ५.१४१ ।।
ऐश्वर्येण चरन्तस्ते मोहयन्ति ह्यनीश्वराः।
तस्माद्दोषप्रचारेषु युक्तायुक्तं न विद्यते ।। ५.१४२ ।।
भूतापवादिनो दुष्टा मध्यस्था भूतभाविनः।
भूतापवादिनः शक्तास्त्रयो वेदाः प्रवादिनाम् ।। ५.१४३ ।।
दृढपूर्वश्रुतत्वाच्च प्रवादाच्चैव लौकिकात्।
चतुर्भिः कारणैरेभिर्यथातत्त्वं न विन्दति ।। ५.१४४ ।।
पूर्वमर्थान्तरे न्यस्ताः कालान्तरगता अपि।
तेनान्यत् सन्तमप्यर्थं द्वेषान्न प्रतिपद्यते ।। ५.१४५ ।।
दर्शानां द्रव्यभूतो यो गुणभूतस्तु तेषु यः।
कर्मणां मनसां कर्त्ता अभिजात्या च यो महान्।
श्रुतज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्त्यते ।। ५.१४६ ।।
अशक्तरुष्टो जानाति देवताः प्रविभागशः।
इमौ चोदाहरन्त्यत्र श्लोकौ योगेश्वरं प्रति ।। ५.१४७ ।।
आत्मनः प्रतिरूपाणि परेषाञ्च सहस्रशः।
कुर्याद्योगबलम्प्राप्य तैश्च सर्वैः सहाचरेत् ।। ५.१४८ ।।
प्राप्नुयाद्विषयाश्चैव तथैवोग्रतपश्चरन् ।
संहरेच्च पुनः सर्वान् सूर्यतेजो गुणानिव ।। ५.१४९ ।।
इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नाम पञ्चमोऽध्यायः ।। ५ ।। *