वायुपुराणम्/उत्तरार्धम्/अध्यायः १७
← उत्तरार्धम्, अध्यायः १६ | वायुपुराणम् अध्यायः १७ वेदव्यासः |
उत्तरार्धम्, अध्यायः १८ → |
।।ऋषय ऊचुः।।
अहो धीमंस्त्वया सूत श्राद्धकल्पस्तु कीर्तितः।
श्रुतो नः श्राद्धकल्पो वै ऋषिभिः परिकीर्तितः ।। १७.१ ।।
अतीव विस्तरो यस्य विशेषेण प्रकीर्तितः।
वद शेषं महाप्राज्ञ ऋषेस्तस्य यथामतम् ।। १७.२ ।।
।।सूत उवाच।।
कीर्तयिष्यामि ते विप्रा ऋषेस्तस्य मतन्तु तत्।
श्राद्धं प्रति महाभागास्तन्मे श्रृणुत विस्तरात् ।। १७.३ ।।
उक्तं श्राद्धं मया पूर्वं विधिश्च श्राद्धकर्म्मणि।
परिशिष्टं प्रवक्ष्यामि ब्राह्मणानां यथाक्रमम् ।। १७.४ ।।
न मीमांस्याः सदा विप्राः पवित्रं ह्येतदुत्तमम्।
दैवे पित्र्ये च सततं श्रूयते वै परीक्षणम् ।। १७.५ ।।
यस्मिन् दोषाः प्रदृश्येरन् सद्भिर्वा वर्जितस्तु यः।
जानीयाद्वापि संवासाद्वर्ज्जयेत्तं प्रयत्नतः ।। १७.६ ।।
अविज्ञातं द्विजं श्राद्धे परीक्षेत सदा बुधः ।
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ।। १७.७ ।।
तस्मादतिथिमायान्तमभिगच्छेत् कृताञ्जलिः।
पूजयेच्चापि पाद्येन पादाभ्यञ्जनभोजनैः ।। १७.८ ।।
उर्वीं सागरपर्यन्तां देवा योगेश्वरास्तथा।
नाना रूपैश्चरन्त्येते प्रजा धर्म्मेण पालयन् ।। १७.९ ।।
अर्चयित्वा ततो दद्याद्विप्रायातिथये नरः।
व्यञ्जनानि च भक्ष्याणि फलं तेषां तथैव च ।। १७.१० ।।
आग्निष्टोमं तु पयसा प्राप्नुयाद्वै तथाश्रुतम्।
सर्पिषा तु शुभं चक्षुः षोडशाहफलं लभेत्।
मधुना त्वतिरात्रस्य फलं च समवाप्नुयात् ।। १७.११ ।।
तत्प्राप्नुयाच्छ्रद्दधानो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान्।
सर्वार्थदः सर्वविप्रातिथौ यः फलं भुङ्क्ते सर्वमेधस्य नित्यम् ।। १७.१२ ।।
यस्तु श्राद्धेऽतिथिं प्राप्य दैवे वाप्यवमन्यते।
तं वै देवा विश्वयन्ति होता यद्वत् परां वसुम् ।। १७.१३ ।।
देवाश्च पितरश्चैव वह्निश्चैव हि तान् द्विजान् ।
आविश्य भुञ्जते तद्वै लोकानुग्रहकारणात् ।। १७.१४ ।।
अपूजिता दहन्त्येते दद्युः कामांश्च पूजिताः।
सर्वस्वेनापि तस्माद्वै पूजयेदतिथीन् सदा ।। १७.१५ ।।
वानप्रस्थो गृहस्थश्च गृहमभ्यागतोऽथवा।
बालाः खिन्ना यतिश्चैव जानीयादतिथीन् सदा ।। १७.१६ ।।
अभ्यागतो याचकः स्यादतिथिः स्यादयाचकः।
अतिथेरतिथिः श्रेष्ठः सोऽतिथिर्योग उच्यते ।। १७.१७ ।।
न घोरो नापि सङ्कीर्णो नाविद्यो न विशेषवित्।
न च सन्तो न समृद्धो न सेवी नाचरोऽतिथिः ।। १७.१८ ।।
पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते।
तस्मै सत्कृत्य दातव्यं यज्ञस्य फलमिच्छता ।। १७.१९ ।।
आरुह्य भृगुतुङ्गोषु गत्वा पुण्यां सरस्वतीम्।
आपगां तु नदी पुण्यां गङ्गा देवी महानदी ।। १७.२० ।।
हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूजिताः ।
सरस्तीर्थाभिसंवेद्या नदी नववहास्तथा ।। १७.२१ ।।
गत्वैतान् मुच्यते पापैः स्वर्गे नित्यं महीयते।
दशरात्रमशौचन्तु प्रोक्तं वै मृतसूतके ।। १७.२२ ।।
ब्राह्मणस्य विशेषेण क्षत्रिये द्वादश स्मृतम्।
अर्द्धं मासन्तु वैश्यस्य मासाच्छूद्रस्तु शुध्यति ।। १७.२३ ।।
उदक्या सर्ववर्णानां त्रिरात्रेण तु शुद्धयति।
उदक्यां सूतिकाञ्चैव श्वानमन्त्यावसायिनम् ।। १७.२४ ।।
नग्नादीन् मृतहारांश्च स्पृष्ट्वाऽशौचं विधीयते।
स्नात्वा सचैलो मृद्भिस्तु द्वादशभिस्तु शुध्यति ।। १७.२५ ।।
एतदेव भवेच्छौचं मैथुने नवभिस्तथा।
मृदा प्रक्षाल्य हस्तौ तु कुर्याच्छौचविधिन्नरः ।। १७.२६ ।।
प्रक्षाल्य चाद्भिर्हस्तौ च स्नात्वा चैव मृदा पुनः।
मृदं गुह्ये ततो द्विस्तु पुनरेव मृदं बुधः ।। १७.२७ ।।
एवं शौच विधिर्दृष्टः सर्ववर्णेषु नित्यदा।
परिदद्यान्मृदस्तिस्रो हस्तपादावसेचनम् ।। १७.२८ ।।
आरण्यं शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम्।
मृदस्तिस्रः पादयोस्तु हस्तयोस्तिस्र एव च ।। १७.२९ ।।
मृदः पञ्चदशामेध्ये हस्तादीनां विभागशः।
अनिर्णिक्ते मृदं दद्यान्मृदन्ते त्वद्भिरेव तु ।। १७.३० ।।
कण्ठं शिरो वा प्रावृत्य रथ्या पादगतस्तु वा।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।। १७.३१ ।।
प्रक्षाल्य पात्रं निःक्षिप्य आचम्याभ्युक्षणं पुनः।
द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं पुनः ।। १७.३२ ।।
पुष्पादीनां तृणानाञ्च प्रोक्षणं हविषान्तथा।
पराहृतानां द्रव्याणां निधायाभ्युक्षणं तथा ।। १७.३३ ।।
प्रोक्षितन्तु हरेत् किञ्चि च्छ्राद्धे दैव तथा पुनः।
उत्तरेण हरेद्वेद्यां दक्षिणेन विसर्जयेत् ।। १७.३४ ।।
विच्छिन्नं स्याद्विपर्यासे दैवे पित्र्ये तथैव च।
दक्षिणेन तु हस्तेन दक्षिणां वेदिमालिखेत् ।। १७.३५ ।।
कराभ्यामेव देवानां पितॄणां विकरं शुभम्।
क्षुभितस्वप्नयोश्चैव तथा मूत्रपुरीषयोः ।। १७.३६ ।।
निष्ठीविते यथा व्यक्ते भुक्त्वा विपरिधाय च।
उच्छिष्टस्य च संस्पर्शे तथा पादावसेचने ।। १७.३७ ।।
उत्सृष्टस्य सुमम्भाषे ह्यशुचिं प्रयतस्य च।
सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ।। १७.३८ ।।
विना यज्ञोपवीतेन मोहात्तु यद्युपस्पृषेत्।
औष्ठस्य दन्तसंस्पर्शे दर्शने चान्त्यवासिनाम् ।। १७.३९ ।।
जिङ्वया चैव संस्पृश्य दन्तासक्तं तथैव च।
सशब्दमङ्गुलीभिश्च प्रणतश्चावलो कयन् ।। १७.४० ।।
यश्चाधर्मे स्थितो मोहादायान्तोऽप्यशुचिर्भवेत्।
उपविश्य शुचौ देशे प्रणतः प्रागुदङ्मुखः ।। १७.४१ ।।
पादौ प्रक्षाल्य हस्तौ तु अन्तर्जानुरुप स्पृशेत्।
प्रसन्नास्त्रिः पिबेच्चापः प्रयतः सुसमाहितः ।। १७.४२ ।।
द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः।
खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ।। १७.४३ ।।
अभ्युक्षणं तथा तस्य यद्यमीमांसितं भवेत्।
एवमाचमनं तस्य वेदा यज्ञास्तपांसि च ।। १७.४४ ।।
दानानि ब्रह्मचर्यञ्च भवन्ति सफलास्तथा।
क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः ।। १७.४५ ।।
भवन्ति च वृथा तस्य क्रिया ह्येता न संशयः।
वाग्भावशुद्धनिर्णिक्तमदुष्टं वाप्यनिन्दितम् ।। १७.४६ ।।
मेध्यान्येतानि ज्ञेयानि दुष्टमेभ्यो विपर्ययः।
न वक्तव्यः सदा विप्रः क्षुधितो नास्ति किञ्चन ।। १७.४७ ।।
तस्मै सत्कृत्य यो दद्यादयूपो यज्ञ उच्यते।
अप्लुष्टान्नं श्रृतान्नन्तु कृशवृत्तिमयाचकम् ।। १७.४८ ।।
एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत् ।
यो ददात्यान्तिमभ्येश्च स ब्रह्मघ्नो दुरात्मवान् ।। १७.४९ ।।
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात्।
विषमं भोजयेद्विप्रानेकपंक्त्या च यो नरः ।। १७.५० ।।
नियुक्तो वाऽनियुक्तो वा पंक्त्या हरति दुष्कृतम्।
पापेन गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ।। १७.५१ ।।
यतिस्तु सर्व्वविप्राणां सर्व्वेषामग्र्य उत्सवे।
इतिहासपञ्चमान् वेदान् यः पठेत्तु द्विजोत्तमः ।। १७.५२ ।।
अनन्तरं यथायोग्यं नियोक्तव्यो विजानता।
त्रिवेदोऽनन्तरस्तस्य द्विवेदस्तदनन्तरः ।। १७.५३ ।।
एकवेदस्तथा पश्चान्न्यायाध्यायी ततः परम्।
पावनायैव पंक्त्या वै तान् प्रवक्ष्ये निबोधत ।। १७.५४ ।।
य एते पूर्व्वनिर्द्दिष्टाः सर्व्वे ते ह्यनुपूर्व्वशः।
षडङ्गी विनयी योगी सर्व्वतन्त्रस्तथैव च ।। १७.५५ ।।
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः ।
अष्टादशानां विद्यानामेकस्मिन् पारगोऽपि यः ।। १७.५६ ।।
यथावद्वर्त्तमानश्च सर्वे ते पङ्क्तिपावनाः।
त्रिणाचिकेतास्त्रैविद्यो यश्च धर्म्मान् पठेद्द्विजः ।। १७.५७ ।।
बार्हस्पत्ये तथा शास्त्रे पारं यश्च द्विजो गतः।
सर्व ते पावना विप्राः पङ्क्तीनां समुदाहृताः ।। १७.५८ ।।
आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः।
पितरस्तस्य तं मासं तस्य रेतसि शेरते ।। १७.५९ ।।
श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो निषेवते।
पितरस्तस्य तं मासं रेतःस्था नात्र संशयः ।। १७.६० ।।
तस्मादतिथये देयं भोजयेद्ब्रह्मचारिणम्।
ध्याननिष्ठाय दातव्यं सानुक्रोशाय धार्मिकम् ।। १७.६१ ।।
यतिं वा वालखिल्यान् वा भोजयेच्छ्राद्धकर्म्मणि।
वानप्रस्थोपकुर्व्वाणः पूजामात्रेण तोषितः ।। १७.६२ ।।
गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः।
वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः ।। १७.६३ ।।
यतीनां पूजने चापि साक्षाद्ब्रह्मा तु पूजितः।
आश्रमाः पावनाः पञ्च उपधाभिरनाश्रमाः ।। १७.६४ ।।
चत्वार आश्रमाः पूज्याः श्राद्धे दैवे तथैव च।
चतुराश्रमबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ।। १७.६५ ।।
स तिष्ठेद्वा बुभुक्षुस्तु चतुराश्रमबाह्यतः।
अयति र्मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ।। १७.६६ ।।
वृथामुण्डाश्च जटिलाः सर्वे कार्प्पटिकास्तथा।
निर्घृणान् भिन्नवृत्तांश्च सर्वभक्षान् विवर्जयेत् ।। १७.६७ ।।
कारुकादीननाचारान् सर्ववेदबहिष्कृतान्।
गायनान् देववृत्तांश्च हव्यकव्येषु वर्जयेत् ।। १७.६८ ।।
द्विजेष्वपि कृतं नित्यं श्राद्धकर्म्मणि वर्जयेत् ।। १७.६९ ।।
एतेषु वर्त्तते यश्च कृत्स्ववर्णं स गच्छति।
योऽश्नाति सह शूद्रेण सर्वे ते पङ्क्तिदूषकाः ।। १७.७० ।।
व्यापादनं शक्तिनिबर्हणं कृषिर्वाणिज्यकार्य्यं पशुपालनं च।
शुश्रूषणं वाप्यगुरो रहो वा कार्य्यं नैतद्विद्यते ब्राह्मणस्य ।। १७.७१ ।।
ये तु विप्राः स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा।
मिथ्यासङ्कल्पिनः सर्वे दुर्वृत्ता वा द्विजातयः ।। १७.७२ ।।
मिथ्यातत्त्वविदो वर्ज्ज्यास्तथा दम्भविषूचकाः।
उपपातकसंयुक्ताः पातकैश्च विशेषतः ।। १७.७३ ।।
वेदे नियोगदातारो लोभमोहफलार्थिनः।
ब्रह्मविक्रयिणश्चैव श्राद्धकर्म्मणि वर्जिताः ।। १७.७४ ।।
न नियोगोऽस्ति वेदानां यो नियुङ्क्ते स पापकृत्।
भोक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ।। १७.७५ ।।
भृतोऽध्यापयते यस्तु भृतकाध्यापितस्तु यः ।
नार्हतस्तावपि श्राद्धं ब्रह्मणः क्रियविक्रयी ।। १७.७६ ।।
क्रयविक्रयिणौ चैव जीवितार्थं विगर्हितौ।
वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ।। १७.७७ ।।
प्राहुर्वेदान् वेदविदो वेदान् यश्चोपजीवति।।
उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च ।। १७.७८ ।।
वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरे।
नार्हतस्तावपि श्राद्धं द्विजो यश्चैव नास्तिकः ।। १७.७९ ।।
आत्मार्थं यः पचेदन्नं न देवातिथिकारकः।
नार्हतस्तावपि श्राद्धं पतितौ ब्रह्मराक्षसौ ।। १७.८० ।।
स्त्रियो नक्तंपरा येषां परदाररताश्च ये।
अर्थकाम रताश्चैव न तान् श्राद्धेषु भोजयेत् ।। १७.८१ ।।
वर्णाश्रमाणां धर्म्मेषु विरुद्धाः श्राद्धकर्म्मणि।
स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ।। १७.८२ ।।
यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः।
न तदश्नन्ति पितरो यश्च वामं समश्नुते ।। १७.८३ ।।
स्त्रीशूद्रायानुपेताय श्राद्धोच्छिष्टं न दापयेत्।
यो दद्या द्रागमोहात्तु न तद्गच्छेत्पितॄन्सदा ।। १७.८४ ।।
तस्मान्न देयमुच्छिष्टमन्नाद्यं श्राद्धकर्म्मणि।
अन्यत्र दधिसर्पिर्भ्यां शिष्ये पुत्राय नान्यथा ।। १७.८५ ।।
अनुच्छिष्टन्तु दातव्यमन्नाद्यं वै विशेषतः।
पुष्पमूलफलैर्वापि तुष्टिं गच्छन्ति चान्नतः ।। १७.८६ ।।
यावन्त्यन्नानि पूतानि यावदुष्णं न मुञ्चति।
तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ।। १७.८७ ।।
दानं प्रतिग्रहो होमो भोजनं बलिरेव च।
साङ्गुष्ठेन तथा कार्य्यं नासुरेभ्यो यथा भवेत् ।। १७.८८ ।।
एतान्येव च सर्व्वाणि दानादीनि विशेषतः।
अन्तर्जान्वविशेषेण तद्वदाचमनं भवेत् ।। १७.८९ ।।
मुण्डाञ्जटिलकाषायान् श्राद्धकालेऽपि वर्ज्जयेत्।
शिखिभ्यो वा त्रिदणिडभ्यः श्राद्धं यत्नात् प्रदापयेत् ।। १७.९० ।।
ये तु व्रते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा।
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ।। १७.९१ ।।
सर्व्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं वै निरन्तरम् ।
तस्मात् पश्यन्ति ते सर्वे यत्किञ्चिज्जगतीगतम् ।। १७.९२ ।।
व्यक्ताव्यक्तं वशीकृत्य सर्व्वस्यापि च यत्परम्।
सदसच्चेति यैर्दृष्टं सदसच्च महात्मनाम् ।। १७.९३ ।।
सर्व्वज्ञानानि दृष्टानि मोक्षादीनि महात्मनाम्।
तस्मात्तेषु सदासक्तः प्राप्नोत्यनुत्तमं शुभम् ।। १७.९४ ।।
ऋचो हि यो वेद स वेद वेदान् यजूंषि यो वेद स वेद यज्ञम्।
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्व्वम् ।। १७.९५ ।।
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे ब्राह्मणपरीक्षा नाम सप्तदशोऽध्यायः ।। १७ ।। *