सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ४४

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ४३ वायुपुराणम्
अध्यायः ४४
वेदव्यासः
उत्तरार्धम्, अध्यायः ४५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



      नारद उवाच।।
गयासुरः कथं जातः किंप्रभावः किमात्मकः ।
तपस्तप्तं कथं तेन कथं देहपवित्रता ।। ४४.१ ।।

        सनत्कुमार उवाच।।
विष्णोर्नाभ्यम्बुजाज्जातो ब्रह्मा लोकपितामहः।
प्रजाः ससर्ज संप्रोक्तः पूर्व्वं देवेन विष्णुना ।। ४४.२ ।।

आसुरेणैव भावेन ह्यसुरानसृजत्पुरा।
सौमनस्येन भावेन देवान्सुमनसोऽसृजत् ।। ४४.३ ।।

गयासुरोऽसुराणाञ्च महाबलपराक्रमः।
योजनानां सपादञ्च शतं तस्योच्छ्रयः स्मृतः ।। ४४.४ ।।

स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः।
कोलाहलगिरिवरे तपस्तेपे सुदारुणम् ।। ४४.५ ।।

बहुवर्षसहस्राणि निरुच्छ्वासं स्थिरोऽभवत्।
तत्तपस्तापिता देवाः संक्षोभं परमं गताः ।। ४४.६ ।।

ब्रह्मलोकं गता देवाः प्रोचुस्तेऽथ पितामहम्।
गयासुराद्रक्ष देव ब्रह्मा देवांस्ततोऽब्रवीत् ।। ४४.७ ।।

व्रजामः शङ्करं देवा ब्रह्माद्याश्च गताः शिवम्।
कैलासे चाब्रुवन्नत्वा रक्ष देव महासुरात् ।। ४४.८ ।।

ब्रह्माद्यानब्रवीच्छम्भुर्व्रजामः शरणं हरिम्।
क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति।
ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ।। ४४.९ ।।

         देवा ऊचुः ।।

ॐ नमो विष्णवो भर्त्रे सर्व्वेषां प्रभविष्णवे।
रोचिष्णवे जिष्णवे च राक्षसादिग्रसिष्णवे ।। ४४.१० ।।

धरिष्णवेऽखिलस्यास्य योगिनां पारयिष्णवे ।
वर्द्धिष्णवे ह्यनन्ताय नमो भ्राज्ष्णिवे नमः ।। ४४.११ ।।

            सनत्कुमार उवाच।।
एवं स्तुतो वासुदेवः सुराणां दर्शनं ददौ।
किमर्थमागता देवा विष्णुनोक्तास्तमब्रुवन् ।। ४४.१२ ।।

गयासुरभयाद्देव रक्षास्मानब्रवीद्धरिम्।
ब्रह्माद्या यान्तु तं दैत्यमागमिष्याम्यहं ततः ।। ४४.१३ ।।

केशवे गरुडारूढो वरं दातुं गयासुरे।
सर्व्वे स्वं स्वं समास्थाय ययुर्वाहनमुत्तमम् ।। ४४.१४ ।।

ऊचुस्तं वासुदेवाद्याः किमर्थं तप्यते त्वया।
सन्तुष्टाः स्वागताः सर्वे वरं ब्रूहि गयासुर ।। ४४.१५ ।।

        गयासुर उवाच।।
यदितुष्टाः स्थ मे देवा ब्रह्मविष्णुमहेश्वराः।
सर्व्वदेवद्विजातिभ्यो यज्ञतीर्थशिलोच्चयात् ।। ४४.१६ ।।

देवेभ्योऽतिपवित्रोऽहमृषिभ्योऽपि शिवाव्ययात्।
मन्त्रेभ्यो देवदेवेभ्यो योगिभ्यश्चापि सर्व्वशः ।। ४४.१७ ।।

न्यासिभ्यश्चापि कर्म्मिभ्यो धर्म्मिभ्यश्च तथा पुनः।
ज्ञातिभ्योऽतिपवित्रेभ्यः पवित्रः स्यां सदा सुराः ।। ४४.१८ ।।

पवित्रमस्तु तं देवा दैत्यमुक्त्वा ययुर्दिवम्।
दैत्यं दृष्ट्वा च स्पृष्ट्वा च सर्व्वे हरिपुरं ययुः ।। ४४.१९ ।।

शून्यं लोकत्रयं जातं शून्या यमपुरी ह्यभूत्।
यम इन्द्रादिभिः सार्द्धं ब्रह्मलोकं ततोऽगमत् ।। ४४.२० ।।

ब्रह्माणमूचिरे देवा गयासुरविलोपिताः।
त्वया दत्तोऽधिकारो वै गृहाण त्वं पितामह ।। ४४.२१ ।।

ब्रह्माब्रवीत्ततो देवान्व्रजामो विष्णुमव्ययम्।
ब्रह्मादयोऽब्रुवन्विष्णुं त्वया दत्तवरेऽसुरे ।। ४४.२२ ।।

तद्दर्शनाद्ययुः स्वर्गं शून्यं लोक त्रयं ह्यभूत्।
देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत् ।। ४४.२३ ।।

गत्वासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम्।
विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ।। ४४.२४ ।।

गयासुरोऽब्रवीद्दृष्ट्वा ब्रह्माणं त्रिदशैः सहः।
संपूज्योत्थाय विधिवत्प्रण्तः श्रद्धयान्वितः ।। ४४.२५ ।।

         ।।गयासुर उवाच।।
अद्य मे सफलं जन्म अद्य मे सफलं तपः।
यदागतोऽतिथिर्ब्रह्मा सर्व्वं प्राप्तं मयाद्य वै ।। ४४.२६ ।।

योगिन्योगाङ्गवित्सर्व्वलोकस्वामिन्पितर्गुरो।
यदर्थमा गतो ब्रह्मन्स्तत्कार्य्यं करवाण्यहम् ।। ४४.२७ ।।

       ।।ब्रह्मोवाच।।
पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया।
यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ।। ४४.२८ ।।

त्वया देहे पवित्रत्वं प्राप्तं विष्णुप्रसादतः।
अतः पवित्रं देहं त्वं यज्ञार्थं देहिमेऽसुर ।। ४४.२९ ।।

       ।।गयासुर उवाच।।
धन्योऽहं देव देवेश यद्देहं प्रार्थ्यते त्वया।
पितृवंशः कृतार्थो मे देहे यागं करोषि चेत् ।। ४४.३० ।।

त्वयैवोत्पादितो देहः पवित्रस्तु त्वया कृतः।
सर्व्वेषामुपकाराय यागोऽवश्यं भवत्विति ।। ४४.३१ ।।

इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः।
नैऋतीं दिशमाश्रित्य तदा कोलाहले गिरौ ।। ४४.३२ ।।

शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा तु दक्षिणे।
ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ।। ४४.३३ ।।

अग्निशर्माणम्मृतं शौनकं याञ्जलिं मृदुम्।
कुमुथिं वेद कौण्डिल्यं हारीतं काश्यपं कृपम् ।। ४४.३४ ।।

गर्गं कौशिकवासिष्ठौ मुनिं भार्गवमव्ययम्।
वृद्धं पाराशरं कण्वं माण्डव्यं श्रुतिकेवलम् ।। ४४.३५ ।।

श्वेतं सुतालं दमनं सुहोत्रं कङ्कमेव च।
लौकाक्षिञ्च महाबाहुं जैगीषव्यं तथैव च ।। ४४.३६ ।।

दधिपञ्चमुखं विप्रमृषभं कर्कमेव च।
कात्यायनं गोभिलञ्च मुनिमुग्रमगाव्रतम् ।। ४४.३७ ।।

सुपालकं गौतमञ्च तथा वेदशिरोव्रतम्।
जटामालिनमव्यग्रं चाटुहासञ्च दारुणम् ।। ४४.३८ ।।

आत्रेयं चाप्यङ्गिरसमौपमन्युं महा व्रतम्।
गोकर्णञ्च गुहावासं शिखण्डिनमुमाव्रतम् ।। ४४.३९ ।।

एतानन्यांश्च विप्रेन्द्रान्वेधा लोकपितामहः ।
परिकल्प्याकरोद्यागं गयासुरशरीरके ।। ४४.४० ।।

अग्निशर्मापि पञ्चाग्नीन्मुखादेतानथासृजत्।
दक्षिणाग्निं गार्हपत्याहवनीयौ तपोऽव्ययः ।। ४४.४१ ।।

सत्यावसथ्यौ देवर्षे येषु यज्ञाः प्रतिष्ठिताः।
यज्ञस्य च प्रतिष्ठार्थं विप्रेभ्यो दक्षिणां ददौ ।। ४४.४२ ।।

हुत्वा पूर्णाहुतिं ब्रह्ना स्नात्वा चावभृथेन तु।
यज्ञयूपं सुरैः सार्द्धं समानीय व्यरोपयत् ।। ४४.४३ ।।

ब्रह्मणः सहसा श्रेष्ठे सरस्येवाश्रितं शुभम्।
चलितश्चकितो ब्रह्मा धर्म्मराजमभाषत ।। ४४.४४ ।।

जाता गृहे तव शिला समानीयाविचारयन्।
दैत्यस्य शीघ्रं शिरसि तां धारय ममाज्ञया ।। ४४.४५ ।।

निश्चलार्थं यमः श्रुत्वा धारयन्मस्तके शिलाम्।
शिलायां धारितायान्तु सशिलश्चासुरोऽचलत् ।। ४४.४६ ।।

देवानूचेऽथ रुद्रादीञ्छिलायां निश्चलाः किल।
तिष्ठन्तु देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः ।। ४४.४७ ।।

देवाः पादैर्लक्षयित्वा तथापि चलितोऽसुरः।
ब्रह्माथ व्याकुलो विष्णुं गतः क्षीराब्धिशायिनम्।
तुष्टाव प्रणतो भूत्वा नत्वा चादृत्य तं प्रभुम् ।। ४४.४८ ।।

        ।.ब्रह्मोवाच।।
ब्रह्माण्डस्य पते नाथ नमामि जगतां पतिम्।
कतिं कीर्त्तिमतां नॄणां बुक्तिमुक्तिप्रदायकम् ।। ४४.४९ ।।

विष्वक्सेनोऽब्रवीद्विष्णुं देव त्वां स्तौति पद्मजः।
हरिराहानय त्वं तं विष्णूक्तः स तमानयत्।
अजमूचे हरिः कस्मादागतोऽसि वदस्व तत् ।। ४४.५० ।।

       ।।ब्रह्मोवाच।।
देवदेव कृते योगे प्रचचाल गयासुरः।
शिलायां देवरूपिण्यां न्यस्तायां तस्य मस्तके ।। ४४.५१ ।।

रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत्।
इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ।। ४४.५२ ।।

ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः ।
मूर्त्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान्हरिः ।। ४४.५३ ।।

आनीय मूर्त्तिं ब्रह्मापि शिलायां समधारयत्।
तथापि चलितं वीक्ष्य पुनर्देवमथाह्वयत् ।। ४४.५४ ।।

आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत्।
जनार्द्दनाभिधानेन पुण्डरीकेति नामतः।
शिलायांनिश्चलार्थं हि स्वयमादिगदाधरः ।। ४४.५५ ।।

निश्चलार्थं पञ्चधासीच्छिलायां प्रपितापहः।
पितामहोऽथ फल्ग्वीशः केदारः कनकेश्वरः ।। ४४.५६ ।।

ब्रह्मा स्थितः स्वयं तत्र गजरूपी विनायकः।
गयादित्यश्चोत्तरार्को दक्षिणार्कस्त्रिधा रविः ।। ४४.५७ ।।

लक्ष्मीः सीताभिधानेन गौरी च मङ्गलाह्वया।
गायत्री चैव सावित्री त्रिसन्ध्या च सरस्वती ।। ४४.५८ ।।

इन्द्रो बृहस्पतिः पूषा वसवोऽष्टौ महाबलाः।
विश्वेदेवाश्चाश्विनेयौ मारुतो विश्वनायकः।
सयक्षोरगगन्धर्व्वास्तस्थुर्देवाः स्वशाक्तिभिः ।। ४४.५९ ।।

आद्यया गदया चासौ यस्माद्दैत्यः स्थिरीकृतः।
स्थित इत्येव हरिणा तस्मादादिगदाधरः ।। ४४.६० ।।

ऊचे गयासुरो देवान्किमर्थं वञ्चितो ह्यहम्।
यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया।
विष्णोर्वचनमात्रेण किं न स्यां निश्चलो ह्यहम् ।। ४४.६१ ।।

यत्सुरैः पीडितोऽत्यर्थं गदया हरिणा तथा।
पीडितो यद्यहं देवाः प्रसन्नाः सन्तु सर्वदा ।। ४४.६२ ।।

गदाधरादयस्तुष्टाः प्रोचुः सार्द्धं गयासुरम्।
वरं ब्रूहि प्रसन्नाः स्मो देवानूचे गयासुरः ।। ४४.६३ ।।

यावत्पृथ्वी पर्वताश्च यावच्चन्द्रार्कतारकाः।
तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः।
अन्ये च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै ।। ४४.६४ ।।

पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।
तन्मध्ये सर्वतीर्थानि प्रयच्छन्तु हितं नृणाम् ।। ४४.६५ ।।

स्नानादितर्पणं कृत्वा पिण्डदानात्फलाधिकम्।
महात्मा वै सहस्रञ्च कुलानां चोद्धरेन्नरः ।। ४४.६६ ।।

व्यक्ताव्यक्तस्वरूपेण यूयं तिष्ठत सर्वदा।
गदाधरः स्वयं लोकाद्भूयात्सर्वाघनाशनात् ।। ४४.६७ ।।

श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते।
ब्रह्महत्यादिकं पापं विनश्यतु च सेविनाम् ।। ४४.६८ ।।

नैमिषं पुष्करं गङ्गा प्रयागश्चाविमुक्तिकम्।
एतान्यन्यानि तीर्थानि दिवि भुव्यन्तरिक्षतः।
समायान्तु सदा नॄणां प्रयच्छन्तु हितं सुराः ।। ४४.६९ ।।

किं बहूक्त्या सुरगणा युष्मास्वेकापि देवता।
चेन्न तिष्ठेदहं चापि समयः प्रतिपाल्यताम् ।। ४४.७० ।।

गयासुरवचः श्रुत्वा प्रोचुर्विष्ण्वादयःसुराः।
त्वया यत्प्रार्थितं सर्व्वं तद्भविष्यत्यसंशयम् ।। ४४.७१ ।।

अस्मत्पादानर्च्चयित्वा यास्यन्ति परमां गतिम्।
देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ।। ४४.७२ ।।

स्थितेषु चैव देवेषु ब्राह्मणेभ्यो ददावजः।
ग्रामांश्च पञ्चपञ्चाशत्पञ्चक्रोशीं गयां तथा।
गृहान्कृत्वा ददौ दिव्यान्सर्व्वोपस्करसंयुतान् ।। ४४.७३ ।।

कामधेनुं कल्पवृक्षं पारिजातादिकांस्तरून्।
महानदीं क्षीरवहां घृतकुल्यास्तथैव च ।। ४४.७४ ।।

मधुश्रवां मधुकुल्यां दध्याद्याढ्यसरांसि च।
सुवर्णदीर्घिकां चैव बहूनन्नादिपर्व्वतान् ।। ४४.७५ ।।

भक्ष्यभोज्यफलादींश्च सर्व्वं ब्रह्मा सृजन्ददौ।
न याचयध्वं विप्रेन्द्रा अन्यानुक्त्वा ददावजः ।। ४४.७६ ।।

दत्त्वा ययौ ब्रह्मलोकं नत्वा ह्यादिगदाधरम् ।
धर्म्मारण्ये तत्र धर्म्मं याजयित्वा ययाचिरे ।। ४४.७७ ।।

धर्म्मयागे च लोभाद्वै प्रतिगृह्य धनादिकम्।
ततो ब्रह्मा समागत्य ब्राह्मणांस्ताञ्छशाप ह ।। ४४.७८ ।।

कृतवन्तो यतो लोभं मद्दत्तेष्वखिलेष्वपि।
तस्मादृणाधिका यूयं भविष्यन्ति सदा द्विजः ।। ४४.७९ ।।

युष्माकं स्याद्वारिवहा नदी पाषाणपर्व्वताः।
नद्यादयो वारिवहा मृन्मयाश्च यथा गृहाः ।। ४४.८० ।।

कामधेनुः कल्पवृक्षो मल्लोकमुपतिष्ठताम्।
एवं शप्ता ब्रह्मणा ते प्रार्थयन्तोऽब्रुवन्नजम् ।। ४४.८१ ।।

त्वया यद्दत्तमखिलं तत्सर्वं शापतो गतम्।
जीवनार्थं प्रसादं नो भगवान्कर्त्तुमर्हसि ।। ४४.८२ ।।

तच्छ्रुत्वा ब्राह्मणान्ब्रह्मा प्रोवाचेदं दयान्वितः।
तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ।। ४४.८३ ।।

लोकाः पुण्या गयायां ये श्राद्धिनो ब्रह्मलोकगाः।
युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ।। ४४.८४ ।।

आक्रान्तं दैत्यजठरं धर्म्मेण विरजाद्रिणा।
नाभिकूपसमीपे तु देवी या विरजा स्थिता।
तत्र पिण्डादिकं कृत्वा त्रिःसप्तकुलमुद्धरेत् ।। ४४.८५ ।।

महेन्द्रगिरिणा तस्य कृतौ पादौ सुनिश्चलौ।
iतत्र पिण्डादिकृत्सप्त कुलान्युद्धरते नरः ।। ४४.८६ ।।

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।। * ।। *