वायुपुराणम्/उत्तरार्धम्/अध्यायः ३४
← उत्तरार्धम्, अध्यायः ३३ | वायुपुराणम् अध्यायः ३४ वेदव्यासः |
उत्तरार्धम्, अध्यायः ३५ → |
सूत उवाच।।
सात्वती रूपसम्पन्नं कौशल्या सुषुवे सुतम्।
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ।। ३४.१ ।।
अन्धकञ्च सहाभोजं वृष्णिञ्च यदुनन्दनम्।
तेषां हि सर्गाश्चत्वारः श्रृणुध्वं विस्तरेण वै ।। ३४.२ ।।
भजमानस्य श्रृञ्जय्यां बाह्यश्चोपरि बाह्यकः।
श्रृञ्जयस्य सुते द्वे तु बाह्यकस्ते उदावहत् ।। ३४.३ ।।
तस्य भार्ये भगिन्यौ ते प्रासूतेति सुतान् बहून्।
निमिश्च पणवश्चैव वृष्णिः परपुरञ्जयः ।। ३४.४ ।।
ये बाह्यकार्य्यश्रृञ्जय्यां भजमानाद्विजज्ञिरे।
अयुतायुतसाहस्र शतजिदथ वामकः ।। ३४.५ ।।
बाह्यकार्य्याभगिन्यां ये भजमाना द्विजज्ञिरे।
तेषां देवावृधो राजा चचार परमं तपः ।। ३४.६ ।।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह।
संयोज्यात्मानमेवं सवर्णा सा जलमस्पृशत् ।। ३४.७ ।।
सा चोपस्पर्शनात्तस्य चकार ऋषिमापगा।
कल्याणञ्च नरपतेस्तस्य सा निम्नगोत्तमा ।। ३४.८ ।।
चिन्तयाभिपरीताङ्गा जगामाथ विनिश्चयम्।
नाधिगच्छामि तां नारीं यस्यामेवंविधः सुतः ।। ३४.९ ।।
भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता।
जज्ञे तस्याः स्वयं हस्तो भावस्तस्य यथेरितः ।। ३४.१० ।।
अथ भूत्वा कुमारी तु सावित्री परमं वचः।
चिन्तयामास राजानं तामियेष स पर्थिवः ।। ३४.११ ।।
तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः।
अथ सा नवमे मासि सुषुवे सरितांवरा ।। ३४.१२ ।।
पुत्रं सर्वगुणोपेतं यथा देवावृधेप्सितः।
तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ।। ३४.१३ ।।
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।
यथैव श्रृणुते दूरात् संपश्यति तथान्तिकात् ।। ३४.१४ ।।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः।
येऽमृतत्वमनुप्राप्ता बभ्रुर्देवावृधादपि ।। ३४.१५ ।।
यज्वा दानपतिर्वीरो ब्रह्मण्यः सत्य वाग् बुधः।
कीर्त्तिमांश्च महाभागः सात्त्वतानां महारथः ।। ३४.१६ ।।
तस्यान्ववाये सुमहाभोजयेमार्तिकावलाः।
गान्धारी चैव माद्री च वृष्णेर्भार्य्ये बभूवतुः ।। ३४.१७ ।।
गान्धारी जनयामास सुमित्रं मित्रनन्दनम्।
माद्री युधाजितं पुत्रं सा तु वै देवमीढुषम् ।। ३४.१८ ।।
अनमित्रं सुतञ्चैव तावुभौ पुरुषोत्तमौ।
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ।। ३४.१९ ।।
प्रसेनश्च महाभागः शक्रजिच्च सुतावुभौ।
तस्य शक्रजितः पूर्वः सखा प्राणसमोऽभवत् ।। ३४.२० ।।
स कदाचिन्निशापाये रथेन रथिनांवरः।
तोयकूलादपः स्प्रष्टुमुपस्थातुं ययौ रविम् ।। ३४.२१ ।।
तस्योपतिष्ठतः सूर्यो विवस्वानग्रतः स्थितः।
अस्पष्टमूर्तिर्भगवां स्तेजोमण्डलवान् विभुः ।। ३४.२२ ।।
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषाम्पते ।। ३४.२३ ।।
तेजोमण्डलिनञ्चैव तथैवाप्यग्रतः स्थितम्।
को विशेषो विवस्वंस्ते साक्षादुपगतेन वै ।। ३४.२४ ।।
एतच्छ्रुत्वा स भगवान् मणिरत्नं स्यमन्तकम्।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ।। ३४.२५ ।।
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा।
प्रतिमामथ तां दृष्ट्वा मुहूर्त्तं कृतवांस्तथा ।। ३४.२६ ।।
तमतिप्रस्थितं भूयो विवस्वन्तं स शक्रजित्।
प्रोवाचाग्निसवर्णं त्वं येन लोकान् प्रयास्यति।
तदैव मणिरत्नं तन्मां भवान् दातुमर्हति ।। ३४.२७ ।।
स्यमन्तकं नाम मणिं दत्तवांस्तस्य भास्करः।
स तमाबद्ध्य नगरं प्रविवेश महीपतिः ।। ३४.२८ ।।
तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह।
सभां विस्माययित्वाथ पुरीमन्तःपुरं तथा ।। ३४.२९ ।।
तं प्रसेनिजिते दिव्यं मणिरत्नं स्यमन्तकम्।
ददौ भ्रात्रे नरपतिः प्रेम्णा शक्रजिदुत्तमम् ।। ३४.३० ।।
स्यमन्तको नाम मणिर्यस्य राष्ट्रे स्थितो भेवत् ।
कालवर्षी च पर्जन्यो न च व्याधिभयं तदा ।। ३४.३१ ।।
लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम्।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ।। ३४.३२ ।।
कदा चिन्मृगयां यातः प्रसेनस्तेन भूषितः।
स्यमन्तककृते सिंहाद्वधं प्राप्तः सुदारुणम् ।। ३४.३३ ।।
जाम्बवानृक्षराजस्तु तं सिंहं निजघान वै ।
आदाय च मणिं दिव्यं स्वं बिलं प्रविवेश ह ।। ३४.३४ ।।
तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः।
मणौगृध्नुन्तु मन्वानास्तमेव विशशङ्किरे ।। ३४.३५ ।।
मिथ्याभिशस्तिं तेभ्यस्तां बलवानरिसूदनः।
अमृष्यमाणो भगवान् वनं स विचचार ह ।। ३४.३६ ।।
स तु प्रसेनमृगयामचरत्तत्र चाप्यथ।
प्रसेनस्य पदं गृह्य पुरुषै राप्तकारिभिः ।। ३४.३७ ।।
ऋक्षवन्तं गिरिवरं विन्ध्यञ्च नगमुत्तमम्।
अन्वेषणपरिश्रान्तः स ददर्श महामनाः ।। ३४.३८ ।।
साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम्।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ।। ३४.३९ ।।
ऋक्षेण निहतो दृष्टः पादैऋक्षस्य सूचिताम्।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ।। ३४.४० ।।
महत्यतिबिले वाणीं शुश्राव प्रमदेरिताम्।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः।
प्रीतिमत्याथ मणिना मारोदीरित्युदीरिताम् ।। ३४.४१ ।।
।।धात्र्युवाच।।
प्रसेनमवधीत् सिंहः सिंहो जाम्बवता हतः।
सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः ।। ३४.४२ ।।
व्यक्तीकृतञ्च शब्दं तं तूर्णं सोऽपि ययौ बिलम्।
अपश्यच्च विलाभ्याशे प्रसेनमवदारितम्।। ३४.४३ ।।
प्रविश्य चापि भगवास्तदृक्षबिलमञ्जसा।
ददर्श ऋक्षराजानं जाम्बवन्तमुदारधीः ।। ३४.४४ ।।
युयुधे वासुदेवस्तु बिले जाम्बवता सह।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ।। ३४.४५ ।।
प्रविष्टे च बिलं कृष्णे वासुदेव पुरःसराः ।
पुनर्द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ।। ३४.४६ ।।
वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम्।
लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ।। ३४.४७ ।।
भगवत्तेजसा ग्रस्तो जाम्बवान् प्रसभं मणिम्।
सुतां जाम्बवतीमाशु विष्वक्सेनाय दत्तवान् ।। ३४.४८ ।।
मणिं स्यमन्तकं चैव जग्राहात्म विशुद्धये।
अनुनीय ऋक्षराजं निर्ययौ च तदा बिलात् ।। ३४.४९ ।।
एवं स मणिमादाय विशोद्ध्यात्मानमात्मना।
ददौ सत्राजिते तं वै मणिं सात्वतसन्निधौ ।। ३४.५० ।।
कन्यां पुनर्जाम्बवतीमुवाच मधुसूदनः।
तस्मान्मिथ्याभिशापात् स व्यमुच्यत जनार्दनः ।। ३४.५१ ।।
इमां मिथ्याभिशस्तिं यः कृष्णस्येह व्यपोहिताम्।
वेद मिथ्याभिशस्तेः स नाभिशस्यति कर्हिचित् ।। ३४.५२ ।।
दश स्वसृभ्यो भार्य्याभ्यः शत्रजित्तः शतं सुताः।
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्व्वजः।
वीरो व्रतपतिश्चैव ह्यपस्वान्तश्च सुप्रियः ।। ३४.५३ ।।
अथ द्वारवती नाम भङ्गकारस्य सुप्रजा।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ।। ३४.५४ ।।
सत्य भामोत्तमा स्त्रीणां व्रतिनीव दृढव्रता।
तथा तपस्विनी चैव पिता कृष्णस्य तां ददौ ।। ३४.५५ ।।
यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्।
प्रादात्तदाहरद्रत्नं भोजेन शतधन्वना ।। ३४.५६ ।।
तदा हि प्रार्थयामास सत्यभामामनिन्दिताम्।
अक्रूरो रत्नमन्विच्छन् मणिञ्चैव स्यमन्तकम् ।। ३४.५७ ।।
भद्रकारं ततो हत्वा शतधन्वा महाबलः।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ।। ३४.५८ ।।
अक्रूरस्तु तदा रत्नमादाय स नरर्षभः।
समयं कारणं चक्रे बोध्यो नान्यैस्त्वयेत्युत ।। ३४.५९ ।।
वयमभ्युपपत्स्यामः कृष्णेन त्वं प्रधर्षितः।
मम च द्वारकाः सर्वा वशे तिष्टन्त्यसंशयम् ।। ३४.६० ।।
हते पितरि दुःशार्त्ता सत्यभामा यशस्विनी।
प्रययौ रथमारुह्य नगरं वारणावतम् ।। ३४.६१ ।।
सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्तयत् ।। ३४.६२ ।।
पाण्डवानान्तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
तुल्यार्थे चैव भ्रातॄणां नियोजयति सात्यकिम् ।। ३४.६३ ।।
तत स्त्वरितमागम्य द्वारकां मधुसूदनः।
पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ।। ३४.६४ ।।
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना।
स्यमन्तकमहं मार्गे तस्य प्रहर हे प्रभो ।। ३४.६५ ।।
तदारोह रथं शीघ्रं भोजं हत्वा महाबलम्।
स्यमन्तको महाबाहो तदास्माकं भविष्यति ।। ३४.६६ ।।
ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः।
शतधन्वा न चाक्रूरमवैक्षत् सर्वतो दिशि ।। ३४.६७ ।।
अनष्टाश्वावरोहन्तु कृत्वा भोजजनार्दनौ।
शक्तोऽपि साध्याद्वार्द्धक्यान्नाक्रूरोऽभ्युपपद्यत ।। ३४.६८ ।।
अपयाने ततो बुद्धिं भूयश्चक्रे भयान्वितः।
योजनानां शतं साग्रं यया च प्रत्यपद्यत ।। ३४.६९ ।।
विज्ञातहृदया नाम शतयोजनगामिनी।
भोजस्य वढवादित्यो यया कृष्णमयोधयत् ।। ३४.७० ।।
प्रवृद्धवेगा वडवा त्वध्वनां शतयोजनम्।
दृष्टा रथगतिस्तस्य शतधन्वानमर्द्दयत् ।। ३४.७१ ।।
ततस्तस्य हयास्ते तु श्रमात् खेदाच्च वै द्विजाः।
खमुत्पेतू रथप्राणाः कृष्णो राममथाब्रवीत् ।। ३४.७२ ।।
तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयाः।
पद्य्भां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ।। ३४.७३ ।।
पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः।
मिथिलाधिपतिं तं वै जघान परमास्त्रवित् ।। ३४.७४ ।।
स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम्।
निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ।। ३४.७५ ।।
नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः।
धिक्छब्दमसकृत् पूर्व्वं प्रत्युवाच जनार्द्दनम् ।। ३४.७६ ।।
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्।
कृत्यं न मे द्रारकया न त्वया न च वृष्णिभिः ।। ३४.७७ ।।
प्रविवेश ततो रामो मिथिलामरिमर्द्दनः।
सर्व्वकामैरुपहृतैर्मैथिलेनैव पूजितः ।। ३४.७८ ।।
एतस्मिन्नेव काले तु बभ्रुर्मतिमतांवरः।
नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान् ।। ३४.७९ ।।
दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह।
स्यमन्तककृते राजा गाधिपुत्रो महायशाः ।। ३४.८० ।।
अर्थान् रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
षष्टिवर्षगते काले यज्ञेषु विन्ययोजयत् ।। ३४.८१ ।।
अक्रूरयज्ञ इत्येते ख्यातास्तस्य महात्मनः।
बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिनः ।। ३४.८२ ।।
अथ दुर्य्योधनो राजा गत्वाऽथ मिथिलां प्रभुः।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ।। ३४.८३।
प्रसाद्य तु ततो विप्रा वृष्ण्यन्धकमहारथैः।
आनीतो द्वारकामेव कृष्णेन च महात्मना ।। ३४.८४ ।।
अक्रूरमन्धकैः सार्द्धमुपायात् पुरुषर्षभः।
युद्धे हत्वा तु शत्रुग्नं सह बन्धुमता बली ।। ३४.८५ ।।
श्वफल्कतनयायान्तु नरायां नरसत्तमौ।
भङ्गकारस्य तनयो विश्रुतौ सुमहाबलौ ।। ३४.८६ ।।
जज्ञातेऽन्धकमुख्यस्य शत्रुघ्नो बन्धुमांश्च तौ।
वधार्थं भङ्गकारस्य कृष्णो न प्रीतिमान् भवेत् ।। ३४.८७ ।।
ज्ञाति भेदभयाद्भीतः समुपेक्षितवांस्तथा।
अपयाते तथाक्रूरे नावर्षत्पाकशासनः ।। ३४.८८ ।।
अनावृष्ट्या हतं राष्ट्रमभवत्तद्वघोद्यतम्।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ।। ३४.८९ ।।
पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ।। ३४.९० ।।
कन्याञ्च वासुदेवाय स्वसारं शीलसम्मताम्।
अक्रूरः प्रददौ श्रीमान् प्रीत्यर्थं यदुपुङ्गवः ।। ३४.९१ ।।
अत विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्।
सभामध्ये तदा प्राह तमक्रूरं जनार्दनः ।। ३४.९२ ।।
यच्च रत्नं मणिवरं तव हस्तगतं प्रभो।
तत्प्रयच्छस्व मानार्ह विमतिञ्चात्र मा कृथाः ।। ३४.९३ ।।
षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम।
सुसंरूढः सकृत् प्राप्तस्तत्कालाश्रित्य स महान् ।। ३४.९४ ।।
ततः कृष्णस्य वचनात् सर्व्वसात्वतसंसदि।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ।। ३४.९५ ।।
तत आर्ज्जवसंप्राप्तबभ्रुहस्तादरिन्दमः।
ददौ प्रहृष्टमनसा तं मणिं बभ्रवे पुनः ।। ३४.९६ ।।
स कृष्णहस्तात् संप्राप्य मणिरत्नं स्यमन्तकम्।
आबद्ध्य गान्दिनीपुत्रो विरराजांशुमानिव ।। ३४.९७ ।।
इमां मिथ्याभिशस्तिं यो विशुद्धामपि चोत्तमाम् ।
वेद मिथ्याभि शस्तिं स न व्रजेच्च कथञ्चन ।। ३४.९८ ।।
अनिमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।। ३४.९९ ।।
सत्यवाक् सत्यसम्पन्नः सत्यकस्तस्य चात्मजः।
सात्यकिर्युयुधानस्य तस्य भूतिः सुतोऽभवत् ।। ३४.१०० ।।
भूतेर्युगन्धरः पुत्र इति भौत्याः प्रकीर्त्तिताः।
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च यः ।। ३४.१०१ ।।
श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्त्तते।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ।। ३४.१०२ ।।
कदाचित् काशिराजस्य विभोस्तु द्विजसत्तमाः।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ।। ३४.१०३ ।।
स तत्र वासयामास श्वफल्कं परमार्चितम्।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ।। ३४.१०४ ।।
श्वफल्कः काशिराजस्य सुतां भार्यामनिन्दिताम्।
गान्दिनीं नाम गां सा हि ददौ विप्राय नित्यशः ।। ३४.१०५ ।।
सा मातुरुदरस्था वै बहुवर्ष शतान् किल।
वसति स्म न वै जज्ञे सर्भस्थान्तां पिताब्रवीत् ।। ३४.१०६ ।।
जायस्व शीघ्रं भद्रन्ते किमर्थं चापि तिष्ठसि।
प्रोवाच चैनं गर्भ स्था सा कन्या गौर्दिने दिने ।। ३४.१०७ ।।
यदि दत्ता तदा स्यां हि यदि स्यामीहतां पितः।
तथेत्युवाच तां तस्याः पिता काममपूपुरत् ।। ३४.१०८ ।।
दाता यज्वा च शूरश्च श्रुतवानतिथिप्रियः।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्को भूरिदक्षिणः ।। ३४.१०९ ।।
उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः।
गिरिरक्षस्तता यक्षः शत्रुघ्नो वारिमर्द्दनः ।। ३४.११० ।।
धर्मभृच्च श्रृष्टचयो वर्गमोचस्तथापरः।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ।। ३४.१११ ।।
अक्रूरादुग्रसेन्यान्तु सुतौ द्वौ कुलनन्दिनौ।
देवश्चानुपदेवश्च जज्ञाते देवसंमितौ ।। ३४.११२ ।।
चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ।। ३४.११३ ।।
अरिष्टनेमिरश्वश्च सुवर्मा वर्मचर्मभृत् ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ।। ३४.११४ ।।
सत्यकात् काशिदुहिता लेभे सा चतुरः सुतान्।
ककुदं भजमानञ्च शमीकबलबर्हिषौ ।। ३४.११५ ।।
ककुदस्य सुतो वृष्टिर्वृष्टेस्तु तनयोऽभवत्।
कपोतरोमा तस्याथ रेवतोऽभवदात्मजः ।। ३४.११६ ।।
तस्यासीत्तुम्बुरुसखा विद्वान् पुत्रोऽभवत्किल।
ख्यायते यस्य नाम्ना स चन्दनोदकदुन्दुभिः ।। ३४.११७ ।।
तस्माच्चाभिजितः पुत्र उत्पन्नस्तु पुनर्वसुः।
अश्वमेधन्तु पुत्रार्थे आजहार नरोत्तमः ।। ३४.११८ ।।
तस्य मध्येऽतिरात्रस्य सदोमध्यात्समुत्थितम्।
ततस्तु विद्वान् धर्मज्ञो दाता यज्वा पुनर्वसुः ।। ३४.११९ ।।
तस्यापि पुत्रमिथुनं बाहुबाणाजितः किल।
आहुकश्चाहुकी चैव ख्यातौ मतिमतांवरौ ।। ३४.१२० ।।
इमांश्चोदाहरन्त्यत्र श्लोकान् प्रति तमाहुकम्।
सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ।। ३४.१२१ ।।
रथानां मेघघोषाणां सहस्राणि दशैव तु।
नासत्यवादी त्वासीत्तु नायज्वा नासहस्रदः ।। ३४.१२२ ।।
नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत्।
आहुकस्य धृतिः पुत्र इत्येवमनु शुश्रुमः ।। ३४.१२३ ।।
श्वेतेन परिचारेण किशोरप्रतिमान् हयान्।
अशीतियुक्तनियुतान्याहुकप्रतिमोऽव्रजत् ।। ३४.१२४ ।।
पूर्वस्यान्दिशि नागानां भोजस्य प्रतिरेजिरे।
रूप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः ।। ३४.१२५ ।।
तावन्त्येव सहस्राणि उत्तरस्यान्तथा दिशि।
भूमिपालस्य भोजस्य उत्तिष्ठेत् किङ्किणी किल ।। ३४.१२६ ।।
आहुकश्चाहुकान्धाय स्वसारं त्वाहुकीन्ददौ।
आहुकान्धस्य दुहिता द्वौ पुत्रौ सम्बभूवतुः ।। ३४.१२७ ।।
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ।। ३४.१२८ ।।
देवानामपि देवश्च सुदेवो देवरञ्जिता।
तेषां स्वसारः सप्तासन् वसुदेवाय संददौ ।। ३४.१२९ ।।
वृकदेवोपदेवा च तथान्या देवरक्षिता।
श्रीदेवा शान्तिदेवा च महादेवा तथापरा ।। ३४.१३० ।।
सप्तमी देवकी तासां सुनामा चारुदर्शना।
नवोग्रसेनस्य सुताः कंसस्तेषान्तु पूर्वजः ।। ३४.१३१ ।।
न्यग्रोधश्च सुनामा च कद्वशंकुश्च भूमयः।
सूतनू राष्ट्रपालश्च युद्धतुष्टः सुपुष्टिमान् ।। ३४.१३२ ।।
तेषां स्वसारः पञ्चैव कर्मधर्मवती तथा।
शताङ्क्रू राष्ट्रापाला च कङ्वा चैव वराङ्गना ।। ३४.१३३ ।।
उग्रसेनो महापत्यो विख्यातः कुकुरोद्भवः।
कुकुराणामिमं वंशं धारयन्नमितौजसाम्।
आत्मनो विपुलं वंशं प्रजावांश्च भवेन्नरः ।। ३४.१३४ ।।
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः।
राज्याधिदेवः शूरश्च विदुरश्च सुतोऽभवत् ।। ३४.१३५ ।।
तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ।
वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।। ३४.१३६ ।।
शमी च गदवर्मा च निदातः शक्रशक्रजित्।
शमिपुत्रः प्रतिक्षिप्तः प्रतिक्षिप्तस्य चात्मजः ।। ३४.१३७ ।।
स्वयम्भोजः स्वयम्भोजाद्धृदिकः सम्बभूव ह।
हृदिकस्य सुतास्त्वासन् दश भीमपराक्रमाः ।। ३४.१३८ ।।
कृतवर्मा कृतस्तेषां शतधन्वा तु मध्यमः।
देवार्हश्च वनार्हश्च भिषग् द्वैतरथश्च यः ।। ३४.१३९ ।।
सुदान्तश्च धियान्तश्च नकवान् कनकोद्भवः।
देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः ।। ३४.१४० ।।
असमौजाः सुतस्तस्य सुमहौजाश्च विश्रुतः।
अजावपुत्राय ततः प्रददावसमौजसे।
सुदंष्ट्रञ्च सुरूपञ्च कृष्ण इत्यन्धकाः स्मृताः ।। ३४. १४१ ।।
अन्धकानामिमं वंशं कीर्त्तयानस्तु नित्यशः।
आत्मानो विपुलं वंशं लभते नात्र संशयः ।। ३४.१४२ ।।
अस्मक्यां जनयामास शूरो वै देवमानुषिम्।
माष्यान्तु जनयामास शूरो वै देवमीढुषम् ।। ३४.१४३ ।।
भाष्यान्तु जज्ञिरे शूराद्भोजायां पुरुषा दश।
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।। ३४.१४४ ।।
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि।
आनकानाञ्च संह्रादः सुमहानभवद्दिवि ।। ३४.१४५ ।।
पपात पुष्पवर्षञ्च शूरस्य भवने महत्।
मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।। ३४.१४६ ।।
यस्यासीत् पुरुषाग्र्यस्य कीर्त्तिश्चन्द्रमसो यथा।
देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ।। ३४.१४७ ।।
अनादृष्टिकडश्चैव नन्दनश्चैव भृञ्जिनः।
श्यामः शमीको गण्डूषः चतस्रस्तु वराङ्गनाः ।। ३४.१४८ ।।
पृथा च श्रुतवेदा च श्रुतकीर्त्तिः श्रुतश्रवाः।
राजाधिदेवी च तथा पञ्चैता वीरमातरः ।। ३४.१४९ ।।
पृथां दुहितरं चक्रे कुन्ति स्तां पाण्डुरावहत्।
अनपत्याय वृद्धाय कुन्तिभोजाय तां ददौ ।। ३४.१५० ।।
तस्मात् कुन्तीति विख्याता कुन्तीभोजात्मजा पृथा।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ।। ३४.१५१ ।।
पृथा जज्ञे ततः पुत्रान् त्रीनग्निसमतेजसः।
लोकेऽप्रतिरथान् वीरान् शक्रतुल्यपराक्रमान् ।। ३४.१५२ ।।
धर्माद्युधिष्ठिरं पुत्रं मारुताच्च वृकोदरम्।
ईन्द्राद्धनञ्जयञ्चैव पृथा पुत्रानजीजनत् ।। ३४.१५३ ।।
माद्रवत्यान्तु जनितावाश्विनाविति विश्रुतम्।
नकुलः सहदेवश्च रूपसत्त्वगुणान्वितौ ।। ३४.१५४ ।।
जज्ञे च श्रुतदेवायां तनयो वृद्धशर्मणः।
करूषाधिपतिर्वीरो दन्तवक्रो महाबलः ।। ३४.१५५ ।।
कैकेयां श्रुतकीर्त्यान्तु जज्ञे सन्तर्दनः पुनः।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ।। ३४.१५६ ।।
विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ।। ३४.१५७ ।।
दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः।
यः पुरासीद्दशग्रीवः संबभूवारिमर्दनः ।। ३४.१५८ ।।
यदुश्रवानुजस्तस्य रुजकन्योऽनुजस्तथा।
पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ।। ३४.१५९ ।।
पौरवी रोहिणी चैव मदिरा चापरा तथा।
तथैव भद्रा वैशाखी देवकी सप्तमी तथा ।। ३४.१६० ।।
सुगन्धिर्वनराजी च द्वे चान्ये परिचारिके।।
रोहिणी पौरवी चैव वाल्मीकस्यात्मजाभवत् ।। ३४.१६१ ।।
ज्येष्ठा पत्नी महाभागा दयितानकदुन्दुभेः ।
ज्येष्ठं लेभे सुतं रामं सारणं निशवं तथा ।। ३४.१६२ ।।
दुर्द्दमं दमनं शुभ्रं पिण्डारककुशीतकौ।
चित्रां नाम कुमारीञ्च रोहिण्यष्टौ व्यजायत ।। ३४.१६३ ।।
पौत्रौ रामस्य जज्ञाते विज्ञातौ निशितोत्सुकौ।
पार्श्वी च पार्श्वनन्दी च शिशुः सत्यधृतिस्तथा ।। ३४.१६४ ।।
मन्दबाह्योऽथ रामाणगिरिकौ गिर एव च।
शुक्लगुल्मेति गुल्मश्च दरिद्रान्तक एव च ।। ३४.१६५ ।।
कुमार्यश्चापि पञ्चाद्या नामतस्ता निबोधत।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ।। ३४.१६६ ।।
तथा शतबला चैव सारणस्य सुतास्त्विमाः।
भद्राश्वो भद्रगुप्तिश्च भद्रविघ्नस्तथैव च ।। ३४.१६७ ।।
भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च।
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वश्च भद्रजः ।। ३४.१६८ ।।
दुर्म्मदश्चाभिभूतश्च रोहिण्याः कुलजाः स्मृताः ।
नन्दोपनन्तदौ मित्रश्च कुक्षिमित्रस्तथाचलः ।। ३४.१६९ ।।
चित्रोप चित्रे कन्ये च स्थितः पुष्टिरथापरः।
मदिरायाः सुता ह्येते सुदेवोऽथ विजज्ञिरे ।। ३४.१७० ।।
उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ।। ३४.१७१ ।।
वैशाख्यां समदाच्छौरिः पुत्रं कौशिकमुत्तमम्।
देवक्यां जज्ञिरे शौरिः सुषेणः कीर्तिमानपि ।। ३४.१७२ ।।
तदयो भद्रसेनश्च यजुदायश्च पञ्चमः।
षष्ठो भद्रविदेकश्च कंसः सर्वाञ्जघान तान् ।। ३४.१७३ ।।
अथ तस्यामवस्थायामायुष्मान् संबभूव ह।
लोक नाथः पुनर्विष्णुः पूर्वकृष्णः प्रजापतिः ।। ३४.१७४ ।।
अनुजाताऽभवत् कृष्णा सुभद्रा भद्रभाषिणी।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ।। ३४.१७५ ।।
सुभद्रायां रथी पार्थादभिमन्युरजायत।
वसुदेवस्य भार्यासु महाभागासु सप्तसु।
ये पुत्रा जज्ञिरेशूरा नामतस्तान्निबोधत ।। ३४.१७६ ।।
अतोऽस्य सह देवायां शूरो जज्ञेऽभयासखः।
शार्ङ्गदेवाजनत्तम्बुं शौरी जज्ञे कुलोद्वहम् ।। ३४.१७७ ।।
उपसङ्गं वसुञ्चापि तनयौ देवरक्षितौ।
एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।। ३४.१७८ ।।
विजयं रोजनञ्चैव वर्द्धमानं तथैव च।
एतान् सर्व्वान् महाभागानुपदेवा व्यजायत ।। ३४.१७९ ।।
स्वगाहवं महात्मानं वृक देवी त्वजायत ।
आगाही च स्वसा चैव सुरूपा शिशिरायिणी ।। ३४.१८० ।।
सप्तमं देवकीपुत्रं सुनासा सुषुवे भुवम्।
गवेषणं महाभागं सङ्ग्रामे चित्र योधिनम् ।। ३४.१८१ ।।
श्राद्धदेवं पुरा येन वने विरचिता द्विजाः।
शैब्यायामददच्छौरिः पुत्रं कौशिकमव्ययम् ।। ३४.१८२ ।।
सुगन्धी वनराजी च शौरेरास्तां परिग्रहः।
पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ हि तौ।
तयो राजाऽभवत् पुण्ड्रः कपिलस्तु वनं ययो ।। ३४.१८३ ।।
तस्यां समभवद्वीरो वसुदेवात्मजो बली।
राजा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ।। ३४.१८४ ।।
विख्यातो देवरातस्य महाभागः सुतोऽभवत्।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ।। ३४.१८५ ।।
अस्मक्यां लभते पुत्रमनादृष्टिं यशस्विनम्।
निवर्त्तः शक्रशत्रुघ्नं श्राद्धदेवं महाबलम् ।। ३४.१८६ ।।
अजायत श्राद्धदेवो निषधादिर्यतः श्रुतः।
एकलव्यो महावीर्यो निषादैः परिवर्द्धितः ।। ३४.१८७ ।।
गण्डूषायानपत्याय कृष्णस्तुष्टोऽददत् सुतौ।
चारुदेष्णञ्च साम्बञ्च कृतास्त्रौ शस्तलक्षणौ ।। ३४.१८८ ।।
तन्तिजस्तन्तिमालश्च स्वपुत्रौ कनकस्य तु।
वस्तावनेस्त्वपुत्राय वसुदेवः प्रतापवान्।
सौतिर्ददौ सुतं वीरं शौरिं कौशिकमेव च ।। ३४.१८९ ।।
तपाश्च कोधनुश्चैव विरजाः श्यामसृञ्जिमौ।
अनपत्योऽभवच्छ्यामः श्यामकस्तु वनं ययौ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्नुयात् ।। ३४.१९० ।।
य इदं जन्म कृष्णस्य पठते नियतव्रतः।
श्रावयेद्ब्राह्मणञ्चापि सुमहत्सुखमाप्नुयात् ।। ३४.१९१ ।।
देवदेवो महातेजाः पूर्व्वं कृष्णः प्रजापतिः ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ।। ३४.१९२ ।।
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः।
चतुर्बाहुः स विज्ञेयो दिव्यरूपः श्रियान्वितः ।। ३४.१९३ ।।
प्रकाशो भगवान् योगी कृष्णो मानुषमागतः।
अव्यक्तोऽव्यक्तलिङ्गस्थः स एव भगवान् प्रभुः ।। ३४.१९४ ।।
नारायणो यतश्चक्रे प्रभवं चाव्ययो हि सः।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ।। ३४.१९५ ।।
योऽसृजच्चादिपुरुषं पुरा चक्रे प्रजापतिम्।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः।
देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ।। ३४.१९६ ।।
प्रसादजं यस्य विभोरदित्याः पुत्रकारणम्।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।। ३४.१९७ ।।
ययातिवंशजस्याथ वसुदेवस्य धीमतः।
कुलं पुण्यं यतः कर्म भेजे नारायणः प्रभुः ।। ३४.१९८ ।।
सागराः समकम्पन्त चेलुश्च धरणीधराः।
जज्वलुश्चाग्निहोत्राणि जायमाने जनार्दने ।। ३४.१९९ ।।
शिवाश्च प्रववुर्वाताः प्रशान्तिमभवद्रजः।
ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्दने ।। ३४.२०० ।।
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी।
मुहूर्त्तो विजयो नाम यत्र जातो जनार्दनः ।। ३४.२०१ ।।
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः।
जायते स्मैव भगवान् नयनैर्मोहयन् प्रजाः ।। ३४.२०२ ।।
आकाशात् पुष्पवृष्टीश्च ववर्ष त्रिदशेश्वरः।
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम्।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ।। ३४.२०३ ।।
वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम्।
श्रीवत्सलक्षणं दृष्ट्वा दिवि दिव्यैः सुलक्षणैः।
उवाच वसुदेवः स्वं रूपं संहर वै प्रभो ।। ३४.२०४ ।।
भीतोऽहं कंसतस्तात एतदेव ब्रवीम्यहम्।
मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।। ३४.२०५ ।।
वसुदेववचः श्रुत्वा रूपं स हृतवान् प्रभुः।
अनुज्ञातः पिता त्वेनं नन्दगोपगृहं गतः।
उग्रसेनमते तिष्ठन् यशोदायै तदा ददौ ।। ३४.२०६ ।।
तुल्यकालन्तु गर्भिण्यौ यशोदा देवकी तथा।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ।। ३४.२०७ ।।
यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलप्रभुः।
तामेव रजनीं कन्यां यशोदापि व्यजायत ।। ३४.२०८ ।।
तं जातं रक्षमाणस्तु वसुदेवो महायशाः।
प्रादात् पुत्रं यशोदायै कन्यान्तु जगृहे स्वयम् ।। ३४.२०९ ।।
दत्त्वैनं नन्दगोपस्य रक्षमामिति चाब्रवीत्।
सुतस्ते सर्व्वकल्याणो यादवानां भविष्यति।
अयं स गर्भो देवक्या अस्मत्क्लेशान् हनिष्यति ।। ३४.२१० ।।
उग्रसेनात्मजायाञ्च कन्यामानकदुन्दुभेः।
निवेदयामास तदा कन्येति शुभलक्षणा ।। ३४.२११ ।।
स्वासायां तनयं कंसो जातं नैवावधारयत्।
अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ।। ३४.२१२ ।।
हता वै या यदा कन्या जपत्येष वृथामतिः।
कन्या सा ववृधे तत्र वृष्णिसद्मनि पूजिता ।। ३४.२१३ ।।
पुत्रवत्परिपाल्यन्तो देवा देवान् यथा तदा ।
तामेव विधिनोत्पन्नामाहुः कन्यां प्रजापतिम् ।। ३४.२१४ ।।
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह।
तां वै सर्वे सुमनसः पूजयिष्यन्ति यादवाः।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ।। ३४.२१५ ।।
ऋषय ऊचुः ।।
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः।
जघान पुत्रान् बालान् वै तन्नो व्याख्यातुमर्हसि ।। ३४.२१६ ।।
सूत उवाच।।
श्रृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः।
जाताञ्जाताञ्चिशून् सर्व्वान् निष्पिपेष वृथामतिः ।। ३४.२१७ ।।
भयाद्यथा महाबाहुर्जातः कृष्णो विवासितः।
तथा च गोषु गोविन्दः संवृद्ध- पुरुषोत्तमः ।। ३४.२१८ ।।
उक्तं हि किल देवक्या वसुदेवस्य धीमतः ।
सारथ्यं कृतवान् कंसो युवराजस्तदाऽभवत् ।। ३४.२१९ ।।
ततोऽन्तरिक्षे वागासीद्दिव्या भूतस्य कस्यचित्।
कंसो यया सदा भीतः पुष्कला लोकसाक्षिणी ।। ३४.२२० ।।
यामेतां वहसे कंस रथेन परकारणात्।
अस्या यः सप्तमो गर्भः स ते मृत्युर्भविष्यति ।। ३४.२२१ ।।
तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः।
निष्क्रम्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ।। ३४.२२२ ।।
तमुवाच महाबाहुर्वसुदेवः प्रतापवान्।
उग्रसेनात्मजं कंसं सौहृदात्प्रणयेन च ।। ३४.२२३ ।।
नस्त्रियं क्षत्रियो जातु हन्तुमर्हति कश्चन।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ।। ३४.२२४ ।।
योऽस्याः सम्भवते गर्भः सप्तमः पृथिवी पते।
तमहन्ते प्रयच्छामि तत्र कुर्य्या यथाक्रमम् ।। ३४.२२५ ।।
त्वं त्विदानीं यथेष्टत्वं वर्तेथा भूरिदक्षिण।
सर्वानस्यास्तु वै गर्भान् सत्यं नेष्यामि ते वशम् ।। ३४.२२६ ।।
एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति।
एवमुक्तोऽनुनीतः स जग्राह तनयांस्तदा ।। ३४.२२७ ।।
वसुदेवश्च तां भार्य्यामवाप्य मुदितोऽभवत्।
कंसश्चास्यावधीत् पुत्रान् पापकर्म्मा वृथामतिः ।। ३४.२२८ ।।
ऋषय ऊचुः ।।
क एष वसुदेवश्च देवकी च यशस्विनी।
नन्दगोपस्तु कस्त्वेष यशोदा च महायशाः।
यो विष्णुं जनयामास या चैनं चाभ्यवर्द्धयत् ।। ३४.२२९ ।।
सूत ऊवाच।।
पुरुषाः कश्यपस्यासन्नादित्यास्तु स्त्रियास्तथा।
अथ कामान् महाबाहुर्देवक्याः समवर्द्धयत् ।। ३४.२३० ।।
अचरत् स महीं देवः प्रविष्टो मानुषीं तनुम्।
मोहयन् सर्वभूतानि योगात्मा योगमायया ।। ३४.२३१ ।।
नष्टे धर्म्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम्।
कर्तुं धर्म्मव्यवस्थानमसुराणां प्रणाशनम् ।। ३४.२३२ ।।
आहृता रुक्मिणी कन्या सत्या नग्नजितस्तदा।
सात्राजिती सत्यभामा जाम्बवत्यपि रोहिणी ।। ३४.२३३ ।।
शैब्या सुदेवी माद्री च सुशीला नाम चापरा।
कालिन्दी मित्रविन्दा च लक्ष्मणा जालवासिनी ।। ३४.२३४ ।।
एवमादीनि देवानां सहस्राणि च षोडश।
चतुर्द्दश तु ये प्रोक्ता गणाश्चाप्सरसां दिवि ।
विचिन्त्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः ।। ३४.२३५ ।।
पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु।
एताः पत्न्यो महाभागा विंष्वक्सेनस्य विश्रुताः ।। ३४.२३६ ।।
प्रद्युम्नश्चारुदेष्णश्च सुदेष्णः शरभस्तथा।
चारुश्च चारुभद्रश्च भद्रचारुस्तथाऽपरः ।। ३४.२३७ ।।
चारुविन्ध्यश्च रुक्मिण्यां कन्या चारुमती तथा।
सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रयस्तथा ।। ३४.२३८ ।।
जरान्धकस्ताम्रवक्षा भौमरिश्च जरन्धमः।
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।। ३४.२३९ ।।
भानुर्भौमरिका चैव ताम्रपर्णी जरन्धमा।
सत्यभामासुतानेताञ्जाम्बवत्याः प्रजाः श्रृणु ।। ३४.२४० ।।
भद्रश्च भद्रगुप्तश्च भद्रविन्द्रस्तथैव च।
सप्तबाहुश्च विख्यातः कन्या भद्रावती तथा।
सम्बोधनी च विख्याता ज्ञेया जाम्बवतीसुताः ।। ३४.२४१ ।।
संग्रामजिच्च शतजित् त न च सहस्रजित्।
एते पुत्राः सुदेव्याश्च विष्वक्सेनस्य कीर्त्तिताः ।। ३४.२४२ ।।
वृको वृकाश्वो वृकजिद्वृजिनी च सुराङ्गना।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजास्त्विह ।। ३४.२४३ ।।
एवमादीनि पुत्राणां सह स्राणि निबोधत।
प्रयुतन्तु समाख्यातं वासुदेवस्य ये सुताः ।। ३४.२४४ ।।
अयुतानि तथाष्टौ च शूरा रणविशारदाः।
जनार्दनस्य वंशो वः कीर्त्तितोऽयं यथातथम् ।। ३४.२४५ ।।
बृहती नर्तकोन्नेयी सुनये सङ्गता तथा ।
कन्या सा बृहदुच्छस्य शौनेयस्य महात्मनः ।। ३४.२४६ ।।
तस्याः पुत्रास्तु विख्याता स्त्रयः समितिशोभनाः ।
अङ्गदः कुमुदः श्वेतः कन्या श्वेता तथैव च ।। ३४.२४७ ।।
अवगाहश्च चित्रश्च शूरश्चित्रवरश्च यः।
चित्रसेनः सुतश्चास्य कन्या चित्रवती तथा ।। ३४.२४८ ।।
तुम्बश्च तुम्बबाणश्च जनस्तम्बश्च तावुभौ।
उपाङ्गस्य स्मृतौ द्वौ तु वज्रारः क्षिप्र एव च ।। ३४.२४९ ।।
भूरीन्द्रसेनो भूरिश्च गवेषस्य सुतावुभौ ।
युधिष्ठिरस्य कन्या तु सुतनुर्नाम विश्रुता ।। ३४.२५० ।।
तस्यामश्वसुतो जज्ञे वज्रो नाम महायशाः।
वज्रस्य प्रतिबाहुस्तु सुचारुस्तस्य चात्मजः ।। ३४.२५१ ।।
काश्मा सुपार्श्वं तनयं जज्ञे साम्बा तरस्विनम्।
तिस्रः कोट्यस्तु पुत्राणां यादवानां महात्मनाम् ।। ३४.२५२ ।।
षष्टिंशतसहस्राणि वीर्य्यवन्तो महाबलाः।
देवांशाः सर्व्व एवेह उत्पन्नास्ते महौजसः ।। ३४.२५३ ।।
दैवासुरे हता ये च असुरा वै महातपाः।
इहोत्पन्ना मनुष्येषु बाधन्ते सर्व्वमानवान् ।
तेषामुत्सादनार्थन्तु उत्पन्ना यादवे कुले ।। ३४.२५४ ।।
कुलानि दश चैकञ्च यादवानां महात्मनाम्।
सर्व्वमककुलं यद्वद्वर्त्तते वैष्णवे कुले ।। ३४.२५५ ।।
विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिभिस्तस्य बद्ध्यन्ते सर्वमानुषाः ।। ३४.२५६ ।।
इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः।
कीर्त्तिता कीर्त्तनाच्चैव कीर्त्तिसिद्धिमभीप्सिताम् ।। ३४.२५७ ।।
इति श्रीमहापुराणे वायुप्रोक्ते विष्णुवंशानुकीर्त्तनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।। *