सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ४६

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ४५ वायुपुराणम्
अध्यायः ४६
वेदव्यासः
उत्तरार्धम्, अध्यायः ४७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०

          ।।सनत्कुमार उवाच।।
वक्ष्ये शिलाया माहात्म्यं श्रृणु नारद मुक्तिदम्।
यस्या गायन्ति देवाश्च माहात्म्यं मुनिपुङ्गवाः ।। ४६.१ ।।

शिला स्थिता पृथिव्यां सा देवरूपातिपावनी।
विचित्राख्यं शिलातीर्थं त्रिषु लोकेषु विश्रुतम् ।। ४६.२ ।।

तस्याः संस्पर्शनाल्लोकाः सर्वे हरिपुरं ययुः।
शून्ये लोकत्रये जाते शून्या यमपुरी ह्यभूत् ।। ४६.३ ।।

यम इन्द्रादिभिर्गत्वा ऊचे ब्रह्माणमद्भुतम्।
अधिकारं गृहाणाथ यमदण्डं पितामह ।। ४६.४ ।।

यममूचे ततो ब्रह्मा स्वगृहे धारयस्व ताम्।
ब्रह्मोक्तो धर्मराजस्तु गृहे तां समधारयत् ।। ४६.५ ।।

यमोऽधिकारं स्वं चक्रे पापिनां शासनादिकम्।
एवंविधा गुरुतरा शिला जगति विश्रुता ।। ४६.६ ।।

यथा ब्रह्ना यथा विष्णुर्यथा देवो महेश्वरः।
ब्रह्माण्डे च यथा मेरु स्तथेयं देवरूपिणी ।। ४६.७ ।।

गयासुरस्य शिरसि गुरुत्वाद्धारिता यतः ।
अतः पवित्रयोर्योगः पितॄणां मोक्षदायकः ।। ४६.८ ।।

पवित्रयोर्द्वयोर्योगे हयमेध मजोऽकरोत्।
भागार्थमागतान्दृष्ट्वा विष्ण्वादीनब्रवीच्छिला ।। ४६.९ ।।

शिलास्थितिप्रतिज्ञां तु कुर्वन्तु पितृमुक्तये।
तथेत्युक्त्वा शिलायान्ते देवा विष्ण्वादयः स्थिताः ।। ४६.१० ।।

शिलारूपेण मूर्त्त्या च पदरूपेण देवताः।
मूर्त्तामूर्तस्वरूपेण स्थिताः पूर्वप्रतिज्ञया ।। ४६.११ ।।

दैत्यस्य मुण्ड पृष्ठे तु यस्मात्सा संस्थिता शिला।
तस्मात्स मुण्डपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ।। ४६.१२ ।।

आच्छादितः शिलापादः प्रभासेनाद्रिणा यतः।
भासितो भास्करेणेति प्रभासः परिकल्पितः ।। ४६.१३ ।।

प्रभासं हि विनिर्भिद्य शिलाङ्गुष्ठो विनिर्गतः।
अङ्गुष्ठोत्थित ईशोऽपि प्रभासेशः प्रकीर्त्तितः ।। ४६.१४ ।।

शिलाङ्गुष्ठैकतेशो यः सा च प्रेतशिला स्मृता।
पिण्डदानाद्यतस्तस्यां प्रेतत्वान्मुच्यते नरः ।। ४६.१५ ।।

महानदीप्रबासाद्योः सङ्गमे स्नानकृन्नरः।
रामो देव्या सह स्नातो रामतीर्थं ततः स्मृतम् ।। ४६.१६ ।।

प्रार्थितोऽत्र महानद्या राम स्नातो भवेति च।
रामतीर्थं ततो भूत्वा त्रिषु लोकेषु विश्रुतम् ।। ४६.१७ ।।

जन्मान्तरशतं साग्रं यत्कृतं दुष्कृतं मया।
तत्सर्वं विलयं यातु रामतीर्थाभिषेचनात् ।। ४६.१८ ।।

मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः।
रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रयात्यसौ।
तथेत्युक्त्वा स्थितो रामः सीतया भरताग्रजः ।। ४६.१९ ।।

राम राम महाबाहो देवानामभयङ्कर।
त्वां नमस्येऽत्र देवेशं मम नश्यतु पातकम् ।। ४६.२० ।।

मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्यात्सपिण्डकम् ।
प्रेतत्वात्तस्य पितरो विमुक्ताः पितृतां ययुः ।। ४६.२१ ।।

आपस्त्वमसि देवेश ज्योतिषां पतिरेव च।
पाप नाशय मे देव मनोवाक्कायकर्मजम् ।। ४६.२२ ।।

नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत्।
तञ्च शम्भुं नमस्कृत्य कुर्याद्यमबलिं ततः ।। ४६.२३ ।।

रामे वनं गते शैलमागत्य भरतः स्थितः ।
पितृपिण्डादिकं कृत्वा रामं संस्थाप्य तत्र च ।। ४६.२४ ।।

रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः।
भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्।
मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ।। ४६.२५ ।।

स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनात्।
मतङ्गस्य पदे श्राद्धी सर्वांस्तारयते पितॄन् ।। ४६.२६ ।।

रामतीर्थे नरः स्नात्वा रामं सीतां समर्च्य च।
रामेश्वरं प्रणम्याथ न देही जायते पुनः ।। ४६.२७ ।।

शिलाया जघनं भूयः समाक्रान्तं नगेन तु।
धर्मराजेन संप्रोक्तो न गच्छेति नगः स्मृतः ।। ४६.२८ ।।

यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ।
ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्ति हेतवे ।। ४६.२९ ।।

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ।
ताभ्यां बलिं प्रयच्छामि स्यातामेतावहिंसकौ ।। ४६.३० ।।

ऐन्द्रवारुण वायन्ययाम्यनैऋत्यसंस्थिताः।
वायसाः प्रतिगृह्णन्तु भूयो पिण्डं मया स्थितम् ।। ४६.३१ ।।

यमोऽसि यमदूतोऽसि वायसोऽसि महाबल।
सप्तजन्मकृतं पापं बलिं भुक्त्वा विनाशय ।। ४६.३२ ।।

रामे वनं गते शैलमागत्य भरतेन हि।
पितुः पिण्डादिकं कृत्वा रामेशः स्थापितोऽत्र वै ।। ४६.३३ ।।

स्नात्वा नत्वा च रामेशं रामसीता समन्वितम्।
तत्र श्राद्धं सपिण्डञ्च कृत्वा विष्णुपुरं व्रजेत्।
पितृभिः सह धर्मात्मा कुलानाञ्च शतैःसह ।। ४६.३४ ।।

रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः।
भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्।
मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ।। ४६.३५ ।।

वह्निर्द्वौ वरुणौ रुद्राश्चत्वारः पितृमोक्षदाः।
भरताश्रममासाद्य तान्नमेत्पूजयेन्नरः ।। ४६.३६ ।।

पापेभ्यश्चोपपापेभ्यो मुच्यते पितृभिः सह।
यत्र कुत्रापि देवर्षे भरतस्याश्रमे नरः ।
स्नातः श्राद्धादिकं कुर्यात्तत्कल्पेऽपि न हीयते ।। ४६.३७ ।।

गयायां चाक्षयं श्राद्धं जपहोमतपांसि च।
सर्वमानन्त्यमाहुर्वै यद्दत्तं भरताश्रमे ।। ४६.३८ ।।

चतुर्युगस्वरूपेण चतस्रो रविमूर्त्तयः ।
दृष्टाः स्पृष्टाः पूजितास्ताः पितॄणां मुक्तिदायकाः ।। ४६.३९ ।।

मुक्तिर्वांमन इत्येव तारकाख्यो विधिः परः।
संसारार्णवतप्तानां नावावेतौ सुरेश्वरौ।
तारकं ब्रह्म विश्वेषां मृतानां जीवतामिदम् ।। ४६.४० ।।

त्रिविक्रमञ्च ब्रह्माणं यः पश्येत्पुरुषोत्तमम्।
पितृभिः सह धर्मात्मा स याति परमां गतिम् ।। ४६.४१ ।।

शिलाया वामपादेऽपि तथाभ्युद्यन्तको गिरिः ।
स्थापितः पिण्डदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ।। ४६.४२ ।।

नैमिषारण्यपार्श्वे तु ईचे ब्रह्मा सुरैः सह।
मुख्यसंज्ञं हि तत्तीर्थं देवास्तत्र पदे स्थिताः ।। ४६.४३ ।।

त्रिषु तेषु पदेष्वेव तीर्थेषु मुनिसत्तम।
यत्किञ्चिदशुभं कर्म तत्प्रणश्यति नारद ।। ४६.४४ ।।

तन्नैमिषवनं पुण्यं सेवितं पुण्यपूरुषैः।
तत्र व्यासः शुकः पैलः कण्वो वेधाः शिवो हरिः ।। ४६.४५ ।।

तेषां दर्शनमात्रेण मुच्यते पातकैर्नरः।
वामहस्ते शिलायास्तु तथा चोद्यन्तको गिरिः ।। ४६.४६ ।।

स पर्वतः समानीतो ह्यगस्त्येन महात्मना।
तत्र ब्रह्मा हरश्चैव तपश्चोग्रञ्च चक्रतुः ।। ४६.४७ ।।

तत्रागस्त्यस्य हि वरं कुण्डं त्रैलोक्यदुर्लभम्।
यत्र मुन्यष्टकं सिद्धं तपस्तप्त्वा शिवं गतम्।
कुण्डे मुन्यष्टकं नत्वा पितॄन्ब्रह्मपुरं नयेत् ।। ४६.४८ ।।

अगस्त्येनाथ देवर्षे ह्युदयाद्रेर्महात्मना।
शिलाया वामहस्तेऽपि स्थापितो गिरिराट् शुभः।
वादित्राद्यैर्दिव्यगीतैराढ्यो वादित्रको गिरिः ।। ४६.४९ ।।

तत्र विद्याधरो नाम गन्धर्वाप्सरसाङ्गणैः।
समेतोऽद्यापि कीतानि दिव्यानि सह गीयते ।। ४६.५० ।।

मोहनश्च सुनीथश्च शैलूजो मोहनोत्तमः।
पर्वतो नारदध्यानी सङ्गीती पुष्पदन्तकः।
हाहा हूहूप्रभृतयो गीतदानं प्रजक्रिरे ।। ४६.५१ ।।

तथा चित्ररथो नाम सर्वगन्धर्वसंवृतः।
गायति मधुराण्येव गीतान्यद्रौ महोत्सवम् ।। ४६.५२ ।।

अतः स पर्वतो देवैः सेव्यतेऽद्यापि नित्यशः।
धर्मजास्तत्र देवेशो हरो भस्माङ्गरागवान् ।। ४६.५३ ।।

पार्वत्या सहितो रुद्रः पर्वते गीतनादिते।
मोदते पूजितोद्येयः पितॄणां परमां गतिम् ।। ४६.५४ ।।

गयायां परमात्मा हि गोपतिर्वा गदाधरः।
हीयते वैष्णवी माया तथा रुद्रार्च्चया मुने ।। ४६.५५ ।।

शिलाया दक्षिणे हस्ते भस्मकूटो गिरिर्धृतः।
धर्म्मराजेन तत्रास्ते ह्यगस्त्यः सह भार्य्यया ।। ४६.५६ ।।

अगस्त्यस्य पदे स्नातः पिण्डदो ब्रह्मलोकगः।
ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् ।। ४६.५७ ।।

लोपामुद्रां तथा भार्य्यां पितॄणां परमां गतिम्।
तत्रागस्त्येश्वरं दृष्ट्वा मुच्यते ब्रह्महत्यया ।। ४६.५८ ।।

अगस्त्यञ्च सभार्य्यञ्च पितॄन्ब्रह्मपुरं नयेत्।
दण्डिनाथ तपस्तेपे सीताद्रेर्दक्षिणे गिरौ ।। ४६.५९ ।।

वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः।
तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी।
कपिलेशो नदीतीरे ह्यमासोमसमागमे ।। ४६.६० ।।

कपिलायां नरः स्नात्वा कपिलेशं समर्च्य च।
कृते श्राद्धे पिण्डदाने पितरो मोक्षमाप्नुयुः ।। ४६.६१ ।।

तत्राग्निधारा गिरिवरादागतोद्यन्तकादनु।
तत्र सारस्वतं कुण्डं सरस्वत्या प्रकल्पितम् ।। ४६.६२ ।।

शुक्रस्तत्र सुतैः सार्द्धं षण्डामर्क्कादिभिः प्रभुः।
तत्र तत्र मुनीन्द्राणां पदेषु मुनिसत्तम।
श्राद्धपिण्डादिकृत्स्नातः पितॄंस्तारयते नरः ।। ४६.६३ ।।

शिलाया वामहस्तेऽपि गृद्रकूटो गिरिर्धृतः।
गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ।। ४६.६४ ।।

अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः।
दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छम्भोः पदं नरः ।। ४६.६५ ।।

तत्र गृध्रे गुहायाञ्च पिण्डदः शिवलोकभाक् ।
तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ।। ४६.६६ ।।

ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत्।
शूरक्षेत्रञ्च तत्रास्ते पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.६७ ।।

आदिपालेन गिरिणा समाक्रान्तं शिलोदरम्।
तत्रास्ते गजरूपेण विघ्रेशो विग्ननाशनः।
तं दृष्ट्वा मुच्यते विघ्नैः पितॄन् ब्रह्मपुरं नयेत् ।। ४६.६८ ।।

नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत्।
मुण्डपृष्ठारविन्द्राद्री दृष्ट्वा पापं विनाशयेत्।
गयानाभौ सुषुम्नायां पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.६९ ।।

शिलाया वामपादे तु स्थापितः प्रेतपर्वतः।
धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ।। ४६.७० ।।

पादेन दूरे निक्षिप्तः शिलायाः पादभारतः।
गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ।। ४६.७१ ।।

प्रेतकुण्डञ्च तत्रास्ते देवास्तत्र पदे स्थिताः।
तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ।। ४६.७२ ।।

पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते।
श्राद्धादिकारिणां नॄणां तीर्थे पितृविमुक्तये।
प्रेता धानुष्करूपेण करग्रहणकारकाः ।। ४६.७३ ।।

पादाङ्कितां मुण्डपृष्ठां महादेवनिवासिनीम्।
तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ।। ४६.७४ ।।

गयाशिरसि पुण्ये च सर्वपापैर्विवर्जिते।
ग्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ।। ४६.७५ ।।

कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्।
च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ।। ४६.७६ ।।

वैकुण्ठो लोहदण्डश्च गृध्रकूटश्च शोणकः।
अत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् ।। ४६.७७ ।।

क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत्।
तस्य पादाङ्कितो यस्मात्क्रौञ्चपादस्ततः स्मृतः ।। ४६.७८ ।।

स्नातो जलाशये तत्र नयेत्स्वर्गं स्वकं कुलम्।
बलिः काकशिलायाञ्च काकेभ्य ऋणमोक्षदः ।। ४६.७९ ।।

मुण्डपृष्ठस्य सानौ हि लोमशो लोमहर्षणः।
द्वावेतौ परमं तप्त्वा तपःसिद्धिं परां गतौ ।। ४६.८० ।।

आहूतास्तु सरिच्छ्रेष्ठा लोमशेन महानदी।
शरावती वेत्रवती चन्द्रभागा सरस्वती ।। ४६.८१ ।।

कावेरी सिन्धुरीरा च चन्दना च सरिद्वरा।
वासिष्ठी सरयूर्गङ्गा यमुना गण्डकीन्दिरा ।। ४६.८२ ।।

महावैतरणी नाम्ना निक्षरा च दिवौकसः ।
सावव्यलकनन्दा च ह्युदीची कन्काह्वया ।। ४६.८३ ।।

कौशिकी ब्रह्मदा ज्येष्ठा सर्वस्याघविमोचिनी।
कृष्णवल्वा चर्म्मवती द्वे नद्यौ मुक्तिदायिके ।। ४६.८४ ।।

आहूते सरितां श्रेष्ठे लोमह्रर्षेण साहसात् ।
तपसस्तु प्रभावेण नर्म्मदा मुनिपुङ्गव।
तासु सर्वासु यः स्नात्वा पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.८५ ।।

ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः।
परं ब्रह्म स यातीह विमुक्तो योनिसङ्कटात् ।। ४६.८६ ।।

निक्षरायां पुष्करिण्यां स्नातः श्राद्धादिकं नरः।
कुर्य्यात्क्रौञ्चपदे दिव्ये नियमाद्वासरत्रयम्।
सर्वान्पितॄन्नयेत्स्वर्गं पञ्चपापिन एव च ।। ४६.८७ ।।

जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः।
आत्मनोऽप्यथवान्येषां सव्येनापि तिलैर्विना।
जीवतां दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ।। ४६.८८ ।।

यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्दन।
यदुद्दिश्य त्वया देयस्तस्मिन्पिण्डो मृते प्रभो ।। ४६.८९ ।।

एष पिण्डो मया दत्तस्तव हस्ते जनार्दन।
अन्तकाले गते मह्यं त्वया देयो गयाशिरे ।। ४६.९० ।।

जनार्दन नमस्तुभ्यं नमस्ते पितृमोक्षद।
पितृपते नमस्तेऽस्तु नमस्ते पितृरूपिणे ।। ४६.९१ ।।

गयायां पितृरूपेण स्वयमेव जनार्दनः।
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ।। ४६.९२ ।।

नमस्ते पुण्डरीकाक्ष ऋणत्रयविमोचक।
लक्ष्मीकान्त नमस्तेऽस्तु पितॄणां मोक्षदो भव ।। ४६.९३ ।।

वामजानु सुसंपात्य नत्वा भीमो जनार्दनम्।
श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्ब्रह्मलोकभाक्।
पितृभिः सह धर्मात्मा कुलानाञ्च शतेन च ।। ४६.९४ ।।

शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः।
लक्ष्मीशो विभुधैः सार्द्धं तस्माद्देवमयी शिला ।। ४६.९५ ।।

इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम षट्चत्वारिंशोऽध्याय- ।। ४६ ।।*