सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ४१

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ४० वायुपुराणम्
अध्यायः ४१
वेदव्यासः
उत्तरार्धम्, अध्यायः ४२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


            ।।ऋषय ऊचुः।।
सूत सुमहदाख्यानं भवता परिकीर्तितम्।
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ।। ४१.१ ।।

पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम्।
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ।। ४१.२ ।।

अत्यद्भुतानि कर्म्माणि विधिमान्धर्म्मनिश्चयः।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ।। ४१.३ ।।

तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा।
मनःकर्मसुखं सौते प्रीणात्याभूतसम्भवम् ।। ४१.४ ।।

एवमाराध्य ते सूतं सत्कृत्य च महर्षयः ।
पप्रच्छुः सत्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ।। ४१.५ ।।

कथं सूत महाप्राज्ञ पुनं सर्गः प्रपत्स्यते।
बन्धेषु सम्प्रलीनेषु गुणसाम्ये तमोमये ।। ४१.६ ।।

विकारेष्वविसृष्टोषु ह्यव्यक्ते चात्मनि स्थिते।
अप्रवृत्तौ ब्रह्मणस्तु महासायुज्यगैस्तदा ।
कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ।। ४१.७ ।।

एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः ।
व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् ।। ४१.८ ।।

अहं वौ वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते।
पूर्ववत्स तु विज्ञेयः समासात्तं निबोधत ।। ४१.९ ।।

दृष्टं चैवानुमेयञ्च तर्कं वक्ष्यामि युक्तितः।
तस्माद्वाचो निवर्त्तन्ते ह्यप्राप्य मनसा सह ।। ४१.१० ।।

अव्यक्तवत् परोक्षत्वाद्घ्रहणं तद्दुरासदम्।
विकारैः प्रतिसंदृष्टे गुणसाम्ये निवर्त्तते ।। ४१.११ ।।

प्रधानं पुरुषाणाञ्च साधर्म्म्येणैव तिष्ठति।
धर्म्माधर्म्मौ प्रलीयेते अव्यक्तौ प्राणिनां सदा ।। ४१.१२ ।।

सत्त्वमात्रात्मको धर्म्मो गुणसत्त्वे प्रतिष्ठितः।
तमोमात्रात्मकोऽधर्म्मो गुणे तमसि तिष्ठति ।। ४१.१३ ।।

अविभागवतावेतौ गुणसाम्यस्थितावुभौ।
सर्वकार्य्ये बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ।। ४१.१४ ।।

अबुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान् गुणान्।
एवं तानभिमानेन प्रपत्स्येत पुरस्तदा ।। ४१.१५ ।।

यदा प्रवर्त्तितव्यन्तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः।
भोज्यभोक्तृत्वसम्बन्धं प्रपत्स्येते युतावुभौ ।। ४१.१६ ।।

तस्माच्छरणमव्यक्तं साम्ये स्थित्वा गुणात्मकान्।
क्षेत्रज्ञाधिष्ठितं तच्च वैषम्यं भजते तु तत् ।। ४१.१७ ।।

ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः।
क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ।। ४१.१८ ।।

महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम्।
क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रपत्स्यते ।। ४१.१९ ।।

ब्रह्माण्डे प्रथमः सोऽथ भविता चेश्वरः पुनः।
ततो ज्ञेयस्य कृत्स्नस्य सर्वभूतपतिः शिवः ।। ४१.२० ।।

ईश्वरः सर्व्वमुक्तानां ब्रह्मा ब्रह्ममयो महान्।
आदि देवः प्रधानस्यानुग्रहाय प्रवक्ष्यते ।। ४१.२१ ।।

अनाद्यौ स्वयमुत्पन्नावुभौ सूक्ष्मौ तु तौ स्मृतौ ।
अनादिसंयोगयुतौ सर्वक्षेत्रज्ञमेव च ।। ४१.२२ ।।

अबुद्धि पूर्वकं युक्तौ मशकौ तु वरौ तदा।
अप्रत्ययमनाद्यं च स्थितावुदकमप्स्यशः ।। ४१.२३ ।।

प्रवृत्ते पूर्वतः पूर्वं पुनः सर्गे प्रपत्स्यते।
अज्ञागुणैः प्रवर्त्तन्ते रजःसत्त्वतमात्मकम् ।। ४१.२४ ।।

प्रवृत्तिकाले रजसाभिपन्नमहत्त्वभूतादिविशेष्यताञ्च।
विशेषतां चेन्द्रियताञ्च यान्ति गुणावसाने पतिभिर्मनुष्याः ।। ४१.२५ ।।

सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम्।
रजःसत्त्वतमा व्यक्ता विधर्म्माणः परस्परम् ।। ४१.२६ ।।

आद्यन्ते संप्रपत्स्यन्ते क्षेत्रतज्ज्ञास्तु सर्वशः।
संसिद्धकार्य्यकरणा उत्पद्यन्तेऽभिमानिनः ।। ४१.२७ ।।

सर्वे सत्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च।
प्रसूते या च सुवहाः साधिकाश्चाप्यसाधिका ।। ४१.२८ ।।

संसरन्तस्तु ते सर्वे स्तानप्रकरणैः सह।
कार्य्याणि प्रतिपत्स्यन्ते उत्पद्यन्ते पुनः पुनः ।। ४१.२९ ।।

गुणमात्रात्मकाश्चैव धर्म्माधर्म्मौ परस्परम्।
आरप्सन्तीह चान्योन्यं वरेणानुग्रहेण च ।। ४१.३० ।।

सर्वे तुल्याः प्रसृष्टार्थं सर्ग्गदौ यान्ति विक्रियाम्।
गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ।। ४१.३१ ।।

गुणास्ते यानि सर्वाणि प्राक् दृष्टेः प्रतिपेदिरे।
तान्येव प्रतिपद्यन्ते सृष्टमानाः पुनः पुनः ।। ४१.३२ ।।

हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ।। ४१.३३ ।।

महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु।
विप्रयोगाश्च भूतानां युणोभ्यः संप्रवर्त्तते ।। ४१.३४ ।।

इत्येष वो मया ख्यातः पुनः सर्गः समासतः।
समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ।। ४१.३५ ।।

अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात्।
प्रधान पुरुषाभ्यान्तु जायते च महेश्वरः ।। ४१.३६ ।।

स पुनः सम्भावयिता जायते ब्रह्मसंज्ञितः।
सृजते स पुनर्लोकानभिमानगुणात्मकान् ।। ४१.३७ ।।

अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः।
युगपत् सम्प्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च।
भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते ।। ४१.३८ ।।

विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम्।
कीर्त्तितं वो यथा पूर्वं तथैवाभ्युपधार्य्यताम् ।। ४१.३९ ।।

एतच्छ्रुत्वा नैमिषेयास्तदानीं लोकोत्पत्तिं संस्थितिं च व्ययञ्च।
तस्मिन् सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ।। ४१.४० ।।

यथा यूयं विधिवद्देवतादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः।
त्यक्त्वा देहानायुषोऽन्ते कृतार्थान्पुण्याँल्लोकान्प्राप्य यथेष्टं चरिष्यथ ।। ४१.४१ ।।

एते ते नैमिषेया वै इष्ट्वा सृष्ट्वा च वै तदा।
जग्मुश्चावभृधस्नाताः स्वर्गं सर्वे तु सत्रिणः ।। ४१.४२ ।।

विप्रास्तथा यूयमपि चेष्ट्वा बहुविधैर्मखैः ।
आयुषोऽन्ते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ।। ४१.४३ ।।

प्रक्रिया प्रथमे पादे कथावस्तुपरिग्रहः।
अनुषङ्ग उपोद्वात उपसंहार एव च ।। ४१.४४ ।।

एवमेतच्चतुष्पादं पुराणं लोकसम्मतम्।
उवाच भगवान् साक्षाद्वायुर्लोकहिते रतः ।। ४१.४५ ।।

नैमिषे सत्रमासाद्य मुनिभ्यो मुनिसत्तमाः ।
तत्प्रसादादसंदिग्धं भूतोत्पत्तिलयानि च ।। ४१.४६ ।।

प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम्।
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ।। ४१.४७ ।।

इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम्।
श्रृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ।। ४१.४८ ।।

स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः।
ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ।। ४१.४९ ।।

तेषां कीर्त्तिमतां कीर्त्तिं प्रजेशानां महात्मनाम्।
प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ।। ४१.५० ।।

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मतम्।
कृष्णद्वैपायनेनोक्तं पुराणं ब्रह्मवादिना ।। ४१.५१ ।।

मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम्।
देवतानामृषीणाञ्च भूरिद्रविणतेजसाम्।
स सर्वैर्मुच्यते पापैः पुण्यञ्च महदाप्नुयात् ।। ४१.५२ ।।

यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ।। ४१.५३ ।।

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः।
अक्षयं सार्वकामीयं पितॄंस्तच्चोपतिष्ठति ।। ४१.५४ ।।

यस्मात्पुरा ह्यनन्तीदं पुराणं तेन चोच्यते।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।। ४१.५५ ।।

तथैव त्रिषु वर्णेषु ये मनुष्याः प्रधानतः।
इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् ।। ४१.५६ ।।

यावन्त्यस्य शरीरेषु रोमकूपाणि सर्वशः।
तावत्कोटि सहस्राणि वर्षाणां दिवि मोदते।
ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ।। ४१.५७ ।।

सर्व्वपापहरं पुण्यं पवित्रञ्च यशस्वि च।
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ।। ४१.५८ ।।

तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः।
बृहस्पतिस्तु प्रेवाच सवित्रे तदनन्तरम् ।। ४१.५९ ।।

सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः।
इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ।। ४१.६० ।।

सारस्वतस्त्रिधाम्ने च त्रिधामा च शरद्वते।
शरद्वतस्त्रिविष्टाय सोऽन्तरिक्षाय दत्तवान् ।। ४१.६१ ।।

वर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च।
त्रय्यारुणो धनञ्जये स च प्रादात्कृतञ्जये ।। ४१.६२ ।।

कृत ञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ।
गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ।। ४१.६३ ।।

निर्यन्तरस्तु प्रोवाच तथा वाजश्रवाय च।
स ददौ सोमशूष्माय स ददौ तृणबिन्दवे ।। ४१.६४ ।।

तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये।
शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ।। ४१.६५ ।।

पराशराज्जातुकर्णस्तस्माद्द्वैपायनः प्रभुः।
द्वैपायनात्पुनश्चापि मया प्राप्तं द्विजोत्तमाः ।। ४१.६६ ।।

        शांशपायन उवाच ।।

मया वै तत्पुनः प्रोक्तं पुत्रायामितबुद्धये।
इत्येव वाचा ब्रह्मादिगुरुणा समुदाहृता ।। ४१.६७ ।।

नमस्कार्य्यश्च गुरवः प्रयत्नेन मनीषिभिः।
धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ।। ४१.६८ ।।

पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा।
नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ।। ४१.६९ ।।

नाश्रद्दधानाविदुषे नापुत्राय कथञ्चन।
नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ।। ४१.७० ।।

अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमन्तर्गतञ्च ।
वह्निं वक्रं चन्द्र सूर्य्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुम् ।। ४१.७१ ।।

वायो वेदांश्चान्तरिक्षं शरीरं क्षितिं पादौ तारका रोमकूपान् ।
सर्वाणि चाङ्गानि तथैव तानि विद्यास्सर्वा यस्य पुच्छं वदन्ति ।। ४१.७२ ।।

तं देवदेवं जननं जनानां सर्व्वेषु लोकेषु प्रतिष्ठितञ्च।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ।। ४१.७३ ।।

इति श्रीमहापुराणे वायुप्रोक्ते सृष्टिवर्णनं नाम एकचत्वारिंशोऽध्यायः ।। ४१ ।। *