वायुपुराणम्/उत्तरार्धम्/अध्यायः १८
← उत्तरार्धम्, अध्यायः १७ | वायुपुराणम् अध्यायः १८ वेदव्यासः |
उत्तरार्धम्, अध्यायः १९ → |
बृहस्पतिरुवाच।।
अतः परं प्रवक्ष्यामि दानानि च फलानि च।
तारणं सर्व्वभूतानां स्वर्गमार्गं सुखावहम् ।। १८.१ ।।
लोके श्रेष्ठतमं स्वर्ग्यमात्मन् श्चापि यत् प्रियम्।
सर्व्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ।। १८.२ ।।
जाम्बूनदमयं दिव्यं विमानं सूर्य्यसन्निभम्।
दिव्याप्सरोभिः सङ्कीर्णमन्नदो लभते फलम् ।। १८.३ ।।
आच्छादनन्तु यो दद्यादाहतं श्राद्धकर्म्मणि।
आयुः प्रकाममैश्वर्य्यं रूपञ्च लभते सुतम् ।। १८.४ ।।
उपवीतन्तु यो दद्याच्छ्राद्धकालेषु धर्मवित् ।
पानञ्च सर्वविप्राणां ब्रह्मदानस्य यत् फलम् ।। १८.५ ।।
कृतं विप्रेषु यो दद्याछ्राद्धकाले कमण्डलुम्।
मधुक्षीरस्रवा धेनुर्दातारमुपतिष्ठति ।। १८.६ ।।
चक्राविद्धं तु यो दद्याच्छ्राद्धकाले कमण्डलुम्।
धेनुं स लभते दिव्यां पयोदां काम्यदोहिनीम् ।। १८.७ ।।
पूर्णसय्यां तु यो दद्यात् पुष्पमालाविभूषिताम्।
प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ।। १८.८ ।।
भवनं रत्नसम्पूर्णं सशय्यासनभोजनम्।
श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे स मोदते ।। १८.९ ।।
मुक्ता वैढूर्य्यवासांसि रत्नानि विविधानि च।
वाहनानि च दिव्यानि अयुतान्यर्ब्बुदानि च ।। १८.१० ।।
सुमहज्ज्वलनप्रख्यं रत्नकामसमन्वितम् ।
सूर्य्यचन्द्र प्रभं दिव्यं विमानं लभतेऽक्षयम् ।। १८.११ ।।
अप्सरोभिः परिवृतं कामगं तु मनोजवम्।
वसते स विमानाग्रे स्तूयमानः समन्ततः ।। १८.१२ ।।
दिव्यैर्गन्धैः प्रसिञ्चन्ति पुष्पवृष्टिभिरेव च।
गन्धर्वाप्सरसस्तत्र गायन्ते वादयन्ति च ।। १८.१३ ।।
कन्या युवतयो मुख्याः सहिताश्चाप्सरोगणैः।
सुस्वरैस्तं विबुध्यन्ते सततं हि मनोरमैः ।। १८.१४ ।।
अश्वदानसहस्रेण रथदानशतेन च।
दन्तिनां च सहस्रेण योगिन्या वसते नरः ।। १८.१५ ।।
दद्यात् पितृभ्यो योगिभ्यो यस्तूज्ज्वलनमम्भसि।
अथ निष्कसहस्राणां फलं प्राप्नोति मानवः ।। १८.१६ ।।
जीवितस्य प्रदानाद्धि नान्यद्दानं विशिष्यते।
तस्मात् सर्वप्रयत्नेन देयं प्राणाभिरक्षणम् ।। १८.१७ ।।
अहिंसा सर्व्वदेवेभ्यः पवित्रा सर्व्वदायिनी।
दानं हि जीवितस्याहुः प्राणिनां परमं बुधाः ।। १८.१८ ।।
लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत्।
रसास्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ।। १८.१९ ।।
पात्रं वै तैजसं दद्यान्मनोज्ञं श्राद्धभोजने।
पात्रं भवति कामानां रूपस्य च धनस्य च ।। १८.२० ।।
राजतं काञ्चनं वापि दद्याच्छ्राद्धे तु कर्म्मणि।
दत्त्वा तु लभते दाता प्रकामं धर्म्ममेव च ।। १८.२१ ।।
धेनुं श्राद्धे तु यो दद्यात् वृष्टि कुम्भोपदोहनाम्।
गावस्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ।। १८.२२ ।।
शिशिरेषु तथा त्वग्निं बहुकाष्ठं तथैव च।
इन्धनानि तु यो दद्याद्द्विजेभ्यः शिशि रागमे ।। १८.२३ ।।
नित्यं जयति संग्रामे श्रिया युक्तश्चदीप्यते।
सुरभीणि च माल्यानि गन्धवन्ति तथैव च ।। १८.२४ ।।
पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत्।
गन्धवाहा महानद्यः सुखानि विविधानि च ।। १८.२५ ।।
दातारमुपतिष्ठन्ति युवत्यश्च मनोरमाः।
शयनासनानि रम्याणि भूमयो वाहनानि च ।। १८.२६ ।।
श्राद्धेऽप्येतानि यो दद्यादश्वमेधफलं लभेत्।
श्राद्धकालेनिवेद्यं च दर्शश्राद्ध उपस्थिते ।। १८.२७ ।।
विप्राणां गुणयुक्तानां स्मृतिं मेधां च विन्दति।
सर्पिष्पूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ।। १८.२८ ।।
कुम्भदोहनधेनूनां बह्वीनां च फलं लभेत्।
अस्मिस्तु मोदते लोके स्यन्दनैश्च सुवाहनैः ।। १८.२९ ।।
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकस्य यत्फलम्।
रम्यमावसथं दत्त्वा राजसूयफलं लभेत् ।। १८.३० ।।
वनं पुष्पफलोपेतं दत्त्वा सौरभमश्नुते।
कूपारामतडागानि क्षेत्रघोषगृहाणि च ।। १८.३१ ।।
दत्त्वैतान् मोदते स्वर्गे नित्यमाचन्द्रतारकम्।
आस्तीर्णशयनं दत्त्वा श्राद्धे रत्नविभूषितम् ।। १८.३२ ।।
पितरस्तस्य तुष्यन्ति स्वर्गं चानन्त्यमश्नुते।
राजभिः पूज्यते चापि धनधान्यैश्च वर्द्धते ।। १८.३३ ।।
ऊर्णाकौशेयवस्त्राणि तथा प्रवरकम्बलौ।
अजिनं काञ्चनं पट्टं प्रवेणी मृगलोमकम् ।। १८.३४ ।।
दानान्यतानि विप्रेभ्यो भोजयित्वा यथाविधि।
प्राप्नोति श्रद्दधानस्तु वाजपेयशतं फलम् ।। १८.३५ ।।
बह्वयो नार्य्यः सुरूपास्तु पुत्रा भृत्याश्च किङ्कराः।
वशे तिष्ठन्ति भूतानि अस्मिँल्लोके त्वनामयम् ।। १८.३६ ।।
कौशेयं क्षौमकार्पासं दुकूलसहितं तथा।
श्राद्धेष्वेतानि यो दद्यात् कामानाप्नोति पुष्कलान् ।। १८.३७ ।।
अलक्ष्मीं विनुदत्याशु तमः सूर्य्योदये यथा।
भ्राजते स विमानाग्रे नक्षत्रेष्विव चन्द्रमाः ।। १८.३८ ।।
वासो हि सर्वदैवत्यं सर्वदेवैस्त्वभिष्टुतम्।
वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ।। १८.३९ ।।
तस्माद्वस्त्राणि देयानि श्राद्धकाले विशेषतः।
तानि सर्वाण्यवाप्नाप्नोति यज्ञवेदतपांसि च ।। १८.४० ।।
नित्यं श्राद्धेषु यो दद्यात् प्रयतस्तत्परायणः ।
सर्वान् कामानवाप्नोति सर्वं राज्यं तथैव च ।। १८.४१ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते।
भक्ष्यान् धानाः करम्भांश्च पिष्टकान् घृतशर्कराः ।। १८.४२ ।।
कृशरान्मधु कर्कञ्च पयः पायसमेव च।
स्निग्धांश्च पूपान् यो दद्यादग्निष्टोमस्य यत् फलम् ।। १८.४३ ।।
दधि गव्यमसंसृष्टं भक्ष्या नानाविधास्तथा।
तदन्नं शोचति श्राद्धे वर्षासु च मघासु च ।। १८.४४ ।।
घृतेन भोजयेद्विप्रान् घृतं भूमौ समुत्सृजेत्।
गयायां हस्तिनश्चैव दत्त्वा श्राद्धे न शोचति ।। १८.४५ ।।
ओदनं पायसं सर्पिर्मधुमूलफलानि च।
भक्ष्यांश्च विविधान्दत्त्वा प्रेत्य चेह च मोदते ।। १८.४६ ।।
शर्कराक्षीरसंयुक्तं पृथुकं नित्यमक्षयम्।
यश्च संवत्सरं प्रीत्या कृसरैर्मसुरेण च ।। १८.४७ ।।
सक्तुलाजास्तथा पूपाः कुल्माषव्यञ्जनैस्तथा।
सार्पेःस्निग्धानि हृद्यानि दध्ना सक्तूंस्तु भोजयेत्।
श्राद्धेष्वेतानि यो दद्यात् पझानि लभते निधिम् ।। १८.४८ ।।
नवसस्यानि यो दद्याच्छ्राद्धे सत्कृत्य यत्नतः।
सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ।। १८.४९ ।।
भक्ष्यभोज्यानि चोष्याणि पेयलेह्यवराणि च।
सर्वश्रेष्ठानि यो दद्यात् सर्व्वश्रेष्ठो भवेन्नरः ।। १८.५० ।।
वैश्वदेवं च सौम्यं च खाड्गमांसं परं हविः।
विषाणं वर्ज्जयेत् खाड्गमसूयां नाशयामहे ।। १८.५१ ।।
भोजनेऽग्रासनं दद्यादतिथिभ्यः कृताञ्जलिः ।
सर्वयज्ञक्रियाणां स फलं प्राप्नोत्यनुत्तमम् ।। १८.५२ ।।
क्षिप्रमत्युष्ण मक्लिष्टं दद्याच्चान्नं बुभुक्षते।
वयञ्जनं च तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ।। १८.५३ ।।
तरुणादित्यसङ्काशं विमानं हंसवाहनम्।
अन्नदो लभते तिस्रः कल्पकोटीस्तथैव च ।। १८.५४ ।।
अन्नदानात्परं दानं विद्यते नेह किञ्चन।
अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ।। १८.५५ ।।
जीवदानात् परं दानं न किञ्चिदिह विद्यते।
अन्नैर्जीवति त्रैलोक्यमन्नस्यैव हि तत्फलम् ।। १८.५६ ।।
अन्ने लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् ।
अन्नं प्रजापतिः साक्षात्तेन सर्व्वमिदं ततम्।
तस्मादन्नसमं दानं न भूतं न भविष्यति ।। १८.५७ ।।
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा।
क्षिप्रं प्राप्नोति तत् सर्वं पितृभक्तो हि मानवः ।। १८.५८ ।।
प्रतिश्रयं सदा दद्यादतिथिभ्यः कृताञ्जलिः।
देवास्ते संप्रतीक्षन्ते दिव्यातिथ्यैः सहस्रशः ।। १८.५९ ।।
सर्वाण्येतानि यो दद्यात् पृथिव्यामेकराड् भवेत्।
त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भवेत् ।। १८.६० ।।
दानानि परमो धर्म्मः सद्भिः सत्कृत्य पूजितः।
त्रैलोक्यस्याधिपत्यं हि दानादेव व्यवस्थितम् ।। १८.६१ ।।
राजा तु लभते राज्यमधनश्चोत्तमं धनम्।
क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः।
यान् कामान् मनसाऽर्थेत तांस्तस्य पितरो विदुः ।। १८.६२ ।।
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे दानफलं नामाष्टादशोऽध्यायः ।। १८ ।। *