वायुपुराणम्/उत्तरार्धम्/अध्यायः १६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


← उत्तरार्धम्, अध्यायः १५ वायुपुराणम्
अध्यायः १६
वेदव्यासः
उत्तरार्धम्, अध्यायः १७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


          ।।बृहस्पतिरुवाच।।
अतः परं प्रवक्ष्यामि दानानि च फलानि च।
श्राद्धकर्म्माणि मेध्यानि वर्जनीयानि यानि च ।। १६.१ ।।

हिमप्रपतने कुर्य्यादाहरेद्वा हिमन्ततः।
अग्निहोत्रमतः पुण्यं परमं हि ततः स्मृतम् ।। १६.२ ।।

नक्तन्तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात्।
सर्व्वस्वेनापि कर्त्तव्यं क्षिप्रं वै राहुदर्शने ।। १६.३ ।।

उपरागे न कुर्य्याद्यः पङ्के गौरिव सीदति।
कुर्वाणस्तूद्धरेत्पापान्मग्नान्नौरिव सागरे ।। १६.४ ।।

विश्वदेवञ्च सौम्यञ्च बहुमांसपरं हविः ।
विषाणं वर्जयेत्खाड्गमसूयानाशनाय वै ।। १६.५ ।।

त्वष्टा वै वार्य्यमाणस्तु देवेशेन महात्मना।
पिबञ्छचीपतेः सोमं पृथिव्यामपतत्पुरा ।। १६.६ ।।

श्यामाकास्तु तथोत्पन्नाः पित्रर्थमपि पूजिताः।
विप्रुषस्तस्य नासाभ्यामसक्ताभ्यां तथैव च ।। १६.७ ।।

श्लेष्माणः शीतला हृद्या मधुराश्च तथेक्षवः।
श्यामाकैरिक्षुभिश्चैव पितॄणां सार्व्वकामिकम्।
कुर्य्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ।। १६.८ ।।

श्यामाका हस्तिनामा च पटोलं बृहतीफलम्।
अगस्त्यस्य शिखा तीव्रा कषायाः सर्व्व एव च ।। १६.९ ।।

एवमातीनि चान्यानि स्वादूनि मधुराणि च ।
नागरं चात्र वै देयं दीर्घमूलकमेव च ।। १६.१० ।।

वंशीकरीराः सुरसाः सर्ज्जकं भूस्तृणानि च।
वर्जनीयानि वक्ष्यामि श्राद्धकर्म्मणि नित्यशः ।। १६.११ ।।

लशुनं गृञ्जनञ्चैव पलाण्डुः पिण्डमूलकम्।
करम्भाद्यानि चान्यानि हीनानि रसगन्धतः ।। १६.१२ ।।

श्राद्धकर्म्मणि वर्ज्यानि कारणञ्चात्र वक्ष्यते।
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ।। १६.१३ ।।

व्रणेभ्यो विस्फुरन्तो वै पतिता रक्तबिन्दवः।
तत एतानि वर्ज्यानि श्राद्धकर्म्मणि नित्यशः ।। १६.१४ ।।

अथ वेदोक्तनिर्यासान् लवणान्यूषरणानि च।
श्राद्ध कर्म्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ।। १६.१५ ।।

दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम्।
न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ।। १६.१६ ।।

आविकं मार्गमौष्ट्रं च सर्व्वमेकशफं च यत्।
माहिषञ्चामरञ्चैव पयो वर्ज्यं विजानता ।। १६.१७ ।।

अतः परं प्रवक्ष्यामि वर्ज्यान् देशान् प्रयत्नतः।
न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ।। १६.१८ ।।

वन्यमूलफलाहारैः श्राद्धं कुर्य्यात्तु श्रद्धया।
राष्ट्रमिष्टमवाप्नोति स्वर्गं मोक्षं यशस्करम् ।। १६.१९ ।।

अनिष्ट शब्दसङ्कीर्णं जन्तुव्याप्तमथापि वा।
पूतिगन्धां तथा भूमिं श्राद्धकर्म्मणि वर्जयेत् ।। १६.२० ।।

नद्यः सागरपर्य्यन्ता द्वारं दक्षिणपूर्व्वतः ।
त्रिशङ्कुं वर्जयेद् देशं सर्व्वं द्वादशयोजनम् ।। १६.२१ ।।

उत्तरेण महानद्या दक्षिणेन च कैकटात्।
देशस्त्रैशङ्कवो नाम वर्जितः श्राद्धकर्म्मणि ।। १६.२२ ।।

कारङ्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च।
प्रनष्टाश्रमधर्म्माश्च वर्ज्या देशाः प्रयत्नतः ।। १६.२३ ।।

नग्नादयो न पश्येयुः श्राद्धमेव व्ययस्थितम्।
गच्छन्ति तैस्तैर्दृष्टानि न पितॄन्न पितामहान् ।। १६.२४ ।।

        ।।शंयुरुवाच।।
नग्नादीन् भगवन् सम्यङ्ममाद्य परिपृच्छतः।
कथय द्विजमुख्याग्र विस्तरेण यथातथम् ।। १६.२५ ।।

एवमुक्तो महातेजा बृहस्पतिरुवाच तम्।
सर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम् ।। १६.२६ ।।

परित्यजति यो मोहात्ते वै नग्ना द्विजोत्तमाः।
प्रलीयते नरो यः स्यान्निरालम्बश्च यो वृषः ।। १६.२७ ।।

वृषं यश्च परित्यज्य मोक्षमन्यत्र मार्गति ।
वृषो वेदसमस्तस्मिन् यो वै सम्यङ्न पश्यति ।। १६.२८ ।।

ब्राह्मणाः क्षत्रिया वैश्या वृषलाश्चैव सर्व्वशः।
पुरा देवासुरे युद्धे निर्जितैरसुरैस्तदा ।। १६.२९ ।।

पाषण्डवैकृतस्थाने नैषा सृष्टिः स्वयम्भुवा।
द्विश्राद्धकश्च निर्ग्रन्थाः शाक्या पुष्टिकलंशकाः ।। १६.३० ।।

ये धर्म्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः।
वृथाजटी वृथामुद्री वृथानग्नश्च यो द्विजः ।। १६.३१ ।।

वृथाव्रती वृथा जापी ते वै नग्नादयो जनाः।
कुलन्धमा निषादाश्च तथा पुष्टिविनाशकाः ।। १६.३२ ।।

कृतकर्म्माक्षितास्त्वेते कुपथाः परिकीर्त्तिताः।
एभिर्निर्वृत्तं दृष्टं वा श्राद्धं गच्छन्ति मानवाः ।। १६.३३ ।।

ब्रह्मघ्नश्च कृतघ्नश्च नास्तिका गुरुतल्पगाः।
दस्यवश्च नृशंसाश्च दर्शनेनैव वर्जिताः ।। १६.३४ ।।

ये चान्ये पाप कर्म्माणः सर्व्वांस्तान् परिवर्जयेत्।
देवदेवर्षिनिन्दायां रतांश्चैव विशेषतः ।। १६.३५ ।।

असुरान् यातुधानांश्च दृष्टमेभिर्व्रजन्त्युत।
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ।। १६.३६ ।।

वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ।।

          ।।पितर ऊचुः ।।

वेदाः कृतयुगे पूज्यास्त्रेतायां तु सुरास्तथा ।। १६.३७ ।।

युद्धानि द्वापरे नित्यं पाषण्डाश्च कलौ युगे।
अपमानापवित्रश्च कुक्कुटो ग्रामसूकरः ।। १६.३८ ।।

श्वा चैव दर्शनादेव हन्ति श्राद्धं न संशयः।
शावसूतकसंस्पृष्टो दीर्घरोगिभिरेव च ।। १६.३९ ।।

मलिनैः पतितैश्चैव न द्रष्टव्यं कथञ्चन।
अन्नं पश्येयुरेते वै नैतत्स्याद्धव्यकव्ययोः ।। १६.४० ।।

तत्संस्पृष्टं प्रधानार्थं संस्कारश्वापदो भवेत्।
हविषां संहतानां तु पूर्व्वमेव विवर्जितम्।
मृत्संयुक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ।। १६.४१ ।।

सिद्धार्थकैः कृष्णतिलैः कार्य्यं वाप्यवकीरणम्।
गुरुसूर्य्याग्निवस्तूनां दर्शनं वापि यत्नतः ।। १६.४२ ।।

आसनारूढमानेषु पादोपहतमेव च।
अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ।। १६.४३ ।।

असितं परिदुष्टं च तथैवाग्रावलेहितम्।
शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम् ।। १६.४४ ।।

पिण्याकमथितं चैव तथा तिलयवादिषु।
सिद्धाक्षताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ।। १६.४५ ।।

वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि।
सन्ति वेदविरोधेन केचिद्विज्ञानमानिनः ।। १६.४६ ।।

अजज्ञपतयो नाम ते श्राद्धस्य यथा रजः।
दधि शाकं तथाऽभक्ष्याः शुक्तं चैव विवर्जितम् ।। १६.४७ ।।

वार्ताकुं वर्जयेद्दद्यात्सर्वानभिषवानपि।
सैन्धवं लवणं यच्च तथा मानससम्भवम् ।। १६.४८ ।।

पवित्रं परमं ह्येतत् प्रत्यक्षमपि वर्त्तते।
अग्नौ निक्षिप्य बध्नीयाद्धस्तौ प्रक्षिप्य यत्नतः ।। १६.४९ ।।

गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम्।
द्रव्याणां प्रोक्षणं कार्य्यं तथैवावपनं पुनः ।। १६.५० ।।

निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम्।
अरिष्टतुमुले बिल्वं त्विङ्गुदश्वदनान्यपि ।। १६.५१ ।।

विदलानाञ्च सर्व्वेषां धर्मवच्छौचमिष्यते।
तथा दन्तास्थिदारूणां श्रृङ्गाणाञ्चावलेखनम् ।। १६.५२ ।।

सर्वेषां मृन्मयानान्तु पुनर्दाह उदाहृतः।
मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ।। १६.५३ ।।

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
स्याच्छौचं सर्ववालानामाविकानाञ्च सर्वशः ।। १६.५४ ।।

 आवि कानाञ्च सर्व्वेषां मृद्भिरद्भिर्विधीयते।
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं पुनः ।। १६.५५ ।।

तथा कार्प्पासिकानाञ्च भस्मना समुदाहृतम्।
फलपुष्प शलाकानां प्लावनञ्चाद्भिरिष्यते ।। १६.५६ ।।

संमार्जनं प्रोक्षणञ्च भूमेश्चैवोपलेपनम्।
निष्क्रम्य बाह्यतो ग्रामाद्वायुपूता वसुन्धरा ।। १६.५७ ।।

धनुष्मत्पक्षिणाञ्चैव मृद्भिः शौचं विधीयते।
एवमेष समुद्दिष्टः शौचानां विधिरुत्तमः।
अतः परं प्रवक्ष्यामि तन्मे निगदतः श्रृणु ।। १६.५८ ।।

प्रातर्गृहात्पश्चिमदक्षिणेन इषुक्षेपञ्चाक्षमात्रं पदञ्च।
कुर्य्यात्पुरीषं शिरोवगुण्ठ्य न च स्पृशेत्तत्र शिरः करेण ।। १६.५९ ।।

शुष्कैस्तृणैर्वा काष्ठैर्वा पत्रैर्वेणुदलेन वा।
मृण्मयैर्भाजनैर्वापि तिरोधाय वसुन्धराम् ।। १६.६० ।।

उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः।
दिवा उदङ्मुखः कुर्य्याद्रात्रौ वै दक्षिणामुखः ।। १६.६१ ।।

दक्षिणेन च हस्तेन गृह्णीयाद्वै कमण्डलुम्।
शौचञ्च वामहस्तेन गुदे तिस्रस्तु मृत्तिकाः ।। १६.६२ ।।

दश चापि पुनर्दद्याद्वामहस्तक्रमेण तु ।
द्वाभ्यां वापि पुनर्दद्याद्धस्तानां पञ्च मृत्तिकाः ।। १६.६३ ।।

मृदा प्रक्षाल्य पादौ च आचम्य च यथाविधि।
आपस्त्याज्यास्त्रयश्चैव सूर्य्याग्निपवनाम्भसाम् ।। १६.६४ ।।

कुर्य्यात् सन्निहितं नित्यं प्राज्ञस्तीर्थे कमण्डलुम्।
असत्कार्यं कार्यमेतैर्यथावत्पादधावनम् ।। १६.६५ ।।

आचमनं द्वितीयेन देवकार्यं ततः परम्।
उपवास स्त्रिरात्रन्तु दुष्टहस्ते ह्युदाहृतः ।। १६.६६ ।।

विप्रकृष्टेन कृच्छ्रेण प्रायश्चित्तमुदाहृतम्।
स्पृष्ट्वा श्वानं श्वपाकं वा तप्तकृच्छ्रं समाचरेत् ।। १६.६७ ।।

मानुषास्थीनि संस्पृश्य उपोष्यं शुद्धिकारणम् ।
त्रिरात्रमुक्तं सस्नेहमेकरात्रमतोऽन्यथा ।। १६.६८ ।।

कारस्कराः पुलिन्दाश्च तथान्धशबरादय।
पीत्वा चापोभूतिलये गत्वा चैव युगन्धराम् ।। १६.६९ ।।

सिन्धोरुत्तरपर्य्यन्तं तथा दिव्यन्तरे शतम्।
पापदेशाश्च ये केचित्पापरध्युषिता जनैः ।। १६.७० ।।

शिष्टैश्च वर्जिता ये च ब्राह्मणैर्वेदपारगैः।
गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते ।। १६.७१ ।।

मनोव्यक्तिरथाग्निश्च काले चैवोपलेपनम्।
विख्यापनञ्च शौचानां नित्यमज्ञानमेव च ।। १६.७२ ।।

अतोन्यथा तु यः कुर्य्यान्मोहाच्छौचस्य सङ्करम्।
पिशाचान् यातुधानांश्च फलं गच्छत्यसंशयम् ।। १६.७३ ।।

शौचमश्रद्दधानश्च म्लेच्छजातिषु जायते।
अयज्ञाश्चैव पापो वा तिर्य्यग्योनिगतोऽपि वा ।। १६.७४ ।।

शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः।
शुचिकामा हि देवा वै देवैरेतदुदाहृतम् ।। १६.७५ ।।

बीभत्समशुचिञ्चैव वर्जयन्ति सुराः सदा।
त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मणः ।। १६.७६ ।।

ब्रह्मण्यायातिथेयाय शौचयुक्ताय धीमते।
पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः ।। १६.७७ ।।

तैस्तैः प्रीताः प्रयच्छन्ति पितरो योगवर्द्धनाः।
मनसा कांक्षितान् कामांस्त्रैलोक्यप्रभवानिति ।। १६.७८ ।।

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम षोडशोऽध्यायः ।। १६ ।। *