वायुपुराणम्/उत्तरार्धम्/अध्यायः ४९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


← उत्तरार्धम्, अध्यायः ४८ वायुपुराणम्
अध्यायः ४९
वेदव्यासः
उत्तरार्धम्, अध्यायः ५० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



         ।।सनत्कुमार उवाच।।
आदौ तु पञ्चतीर्थेषु चोत्तरे मानसे विधिः।
आचम्य कुशहस्तेन शिरश्चाभ्युक्ष्य वारिणा ।। ४९.१ ।।

उत्तरं मानसं गच्छेन्मन्त्रेण स्नानमाचरेत्।
उत्तरे मानसे स्नानं करोम्यात्मविशुद्धये ।। ४९.२ ।।

सूर्य्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये।
देवादींस्तर्पयित्वाथ श्राद्धं कुर्यात् सपिण्डकम् ।। ४९.३ ।।

मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम्।
सूर्य्यं नत्वार्च्चयित्वाथ सूर्य्यलोकं नयेत्पितॄन् ।। ४९.४ ।।

नमो भगवते भर्त्रे सोमभौमज्ञरूपिणे।
जीवभार्गवसौरेयराहुकेतुस्वरूपिणे ।। ४९.५ ।।

उत्तरान्मानसान्मौनी व्रजेद्दक्षिणमानसम्।
उदीचीतीर्थमित्युक्तं तत्रौदीच्यं विमुक्तिदम् ।
अत्र स्नातो दिवं याति स्वशरीरेण मानवः ।। ४९.६ ।।

मध्ये कनखलं तीर्थं त्रिषुलोकेषु विश्रुतम्।
स्नातः कनकवद्भाति नरो याति पवित्रताम् ।। ४९.७ ।।

तस्य दक्षिणभागे च तीर्थं दक्षिणमानसम्।
अतः कनखलं लोके ख्यातं तीर्थमनुत्तमम् ।। ४९.८ ।।

दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम्।
स्नात्वा तेषु विधानेन कुय्याच्छ्राद्धं पृथक्पृथक् ।। ४९.९ ।।

दक्षिणे मानसे स्नानं करोम्यात्मविशुद्धये।
सूर्य्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये ।। ४९.१० ।।

ब्रह्महत्यादिपापौघ यातनाया विमुक्तये।
दिवाकर करोमीह स्नानं दक्षिणमानसे ।। ४९.११ ।।

नमामि सूर्य्यं तृप्त्यर्थं पितॄणां तारणाय च।
पुत्रपौत्रधनैश्वर्य्यायायुरारोग्य वृद्धये ।। ४९.१२ ।।

अनेन स्नानपूजादि कृत्वा श्राद्धं सपिण्डकम्।
कृत्वा नत्वा च मौन्यर्कमिमं मन्त्रमुदीरयेत् ।। ४९.१३ ।।

फल्गुतीर्थं व्रजेत्तस्मात् सर्व्वतीर्थोत्तमोत्तमम्।
मुक्तिर्भवति कर्त्तॄणां पितॄणां श्राद्धतः सदा ।। ४९.१४ ।।

ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा।
दक्षिणाग्नौ हुतं तत्र तद्रजः फल्गुतीर्थकम् ।। ४९.१५ ।।

तस्मिन्फलति फल्ग्वा गौः कामधेनुर्जलं मही।
दृष्टेरन्तर्गतं यस्मात्फल्गुतीर्थं न निष्फलम् ।। ४९.१६ ।।

तीर्थानि यानि सर्व्वाणि भुवनेष्वखिलेष्वपि।
तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ।। ४९.१७ ।।

गङ्गा पादोदकं विष्णोः फल्गुर्ह्यादिगदाधरः।
स्वयं हि द्रवरूपेण तस्माद्गङ्गाधिकं विदुः ।। ४९.१८ ।।

अश्वमेधसहस्राणां सहस्रं यः समाचरेत्।
नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ।। ४९.१९ ।।

फल्गुतीर्थे विष्णुजले करोमि स्नानमादृतः।
पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये ।। ४९.२० ।।

फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत्।
सपिण्डकं स्वसूत्रोक्तं नमेदथ पितामहम् ।। ४९.२१ ।।

नमः शिवाय देवाय ईशाय पुरुषाय वै।
अघोरवामदेवाय सद्योजाताय शम्भवे ।। ४९.२२ ।।

फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्।
आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ।। ४९.२३ ।।

नत्वा गदाधरं देवं मन्त्रेणानेन पूजयेत् ।
ओं नमो वासुदेवाय नमः सङ्कर्षणाय च ।। ४९.२४ ।।

प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे ।
पञ्चतीर्थे नरः स्नात्वा ब्रह्मलोकं नयेत्पितॄन् ।। ४९.२५ ।।

अमृतैः पञ्चभिः स्नानं पुष्पवस्त्राद्यलंकृतम्।
न कुर्य्याद्यो गदापाणेस्तस्य श्राद्धमसार्थकम् ।। ४९.२६ ।।

नागकूटाद्गृध्रकूटाद्युपादुत्तरमानसात्।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थन्तदुच्यते ।। ४९.२७ ।।

मुण्डपृष्ठनगाधस्तात्फल्गुतीर्थमनुत्तमम्।
अत्र श्राद्धादिना सर्व्वे पितरो मोक्षमाप्नुयुः ।। ४९.२८ ।।

प्रथमेऽह्नि विधिः प्रोक्तो द्वितीये दिवसे व्रजेत्।
धर्म्मारण्यं तत्र धर्म्मो यस्माद्यज्ञमकारयत् ।। ४९.२९ ।।

गमनाद्ब्रह्मलोकाप्तिर्भवत्येव हि नारद।
मतङ्ग वाप्यां यः स्नात्वा तर्पणं श्राद्धमाचरेत् ।। ४९.३० ।।

गत्वा नत्वा मतङ्गेशमिमं मन्त्रमुदीरयेत्।
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ।। ४९.३१ ।।

मयागत्यमतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता।
पूर्व्वं हि ब्रह्मतीर्थं च कूपे श्राद्धादि कारयेत् ।। ४९.३२ ।।

तत्कूपयूपयोर्म्मध्ये सर्व्वांस्तारयते पितॄन्।
धर्म्मं धर्म्मेश्वरं नत्वा महाबोधितरुं नमेत् ।। ४९.३३ ।।

नमस्तेऽश्वत्थराजाय ब्रह्मविष्णुशिवात्मने।
बोधिद्रमाय कर्तॄणां पितॄणां तारणाय च ।। ४९.३४ ।।

येऽस्मत्कुले मातृवंशे बान्धवा दुर्गतिं गताः।
त्वद्दर्शनात्स्पर्शनाच्च स्वर्गतिं यान्तु शाश्वतीम् ।। ४९.३५ ।।

ऋणत्रयं मया दत्तं गयामागत्य वृक्षराट्।
त्वत्प्रसादान्महापापाद्विमुक्तोऽहं भवार्णवात् ।। ४९.३६ ।।

तृतीये ब्रह्मसरसि स्नात्वा श्राद्धं सपिण्डकम्।
कृत्वा सर्व्वप्रमाणेन मन्त्रेण विधिवत्सुतः ।। ४९.३७ ।।

स्नानं करोमि तीर्थेऽस्मिन् ऋणत्रयविमुक्तये।
तत्कूपयूपयोर्मध्ये ब्रह्मलोकं नयेत्पितॄन् ।। ४९.३८ ।।

यागं कृत्वोत्थियो यूपो ब्रह्मणा यूप इत्यसौ।
कृत्वा ब्रह्मसरःश्राद्धं सर्व्वांस्तारयते पितॄन् ।। ४९.३९ ।।

यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्।
ब्रह्माणं च नमस्कृत्य ब्रह्मलोकं नयेत्पितॄन् ।। ४९.४० ।।

नमोऽस्तु ब्रह्मणेऽजाय जगज्जन्मादिरूपिणे ।
भक्तानाञ्च पितॄणाञ्च तारकाय नमो नमः ।। ४९.४१ ।।

गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः।
तेषां सेचनमात्रेण पितरो मोक्षगामिनः ।। ४९.४२ ।।

आम्रं ब्रह्मसरोद्भूतं ब्रह्मदेवमयं तरुम्।
विष्णुरूपं प्रसिञ्चामि पितॄणां मुक्तिहेतवे ।। ४९.४३ ।।

एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददामि।
आम्रश्च तृप्ता एका क्रियाद्व्यर्थकरी प्रसिद्धा ।। ४९.४४ ।।

ततो यम बलिं दद्यान्मन्त्रेणानेन संयतः।
यमराजधर्म्मराजौ निश्चलार्थं व्यवस्थितौ ।। ४९.४५ ।।

ताभ्यां बलिं प्रयच्छामि पुतॄणां मुक्तिहेतवे।
ततः श्वानबलिं दद्यान्मन्त्रेणानेन नारद ।। ४९.४६ ।।

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ।
ताभ्यां बलिं प्रयच्छामि रक्षेतां पथि सर्व्वादा ।। ४९.४७ ।।

ततः काकबलिं दद्यान्मन्त्रेणानेन नारद।
ऐन्द्रवारुणवायव्ययाम्या वै नैऋतास्तथा ।। ४९.४८ ।।

वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं समर्पितम्।
फल्गुतीर्थे चतुर्थेऽह्नि स्नानादिकमथाचरेत् ।। ४९.४९ ।।

गयाशिरस्यथ श्राद्धं पादे कुर्य्यात्सपिण्डकम्।
साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रितं कृतम् ।। ४९.५० ।।

नागाज्जनार्द्दनाद्ब्रह्मयूपाच्चोत्तरमानसात्।
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ।। ४९.५१ ।।

पितामहं समासाद्य यावदुत्तरमानसम्।
फल्गुतीर्थन्तु विज्ञेयं देवानामपि दुर्लभम् ।। ४९.५२ ।।

क्रौञ्चपादात्फल्गुतीर्थं यावत्साक्षाद्गयाशिरः।
मुखं गयासुरस्यैतत्तस्माच्छ्राद्धमिहाक्षयम् ।। ४९.५३ ।।

मुण्डपृष्ठान्नगाधस्तात्साक्षात्तत्फल्गुतीर्थ कम्।
आद्यो गदाधरो देवो व्यक्ताव्यक्तात्मना स्थितः ।। ४९.५४ ।।

विष्ण्वादिपदरूपेण पितॄणां मुक्तिहेतवे।
एतद्विष्णुपदं दिव्यं दर्शनात्पापनाशनम् ।। ४९.५५ ।।

स्पर्शनात्पूजनाद्वापि पितॄणां दत्तमक्षयम्।
श्राद्धं सपिण्डकं कृत्वा कुलसाहस्रमात्मना ।। ४९.५६ ।।

नयेद्विप्णुपदं दिव्यमनन्तं शिवमव्ययम्।
श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः ।। ४९.५७ ।।

सहात्मना शिवपुरं तथा ब्रह्मपदे नरः।
ब्रह्मलोकं कुलशतं समुद्धृत्य नयेत्पितॄन् ।। ४९.५८ ।।

कश्यपस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन्।
दक्षिणाग्निपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.५९ ।।

गार्हपत्यपदे श्राद्धी वाजपेयफलं लभेत्।
श्राद्धं कृत्वाहवनीये अश्वमेधफलं लभेत् ।। ४९.६० ।।

श्राद्धं कृत्वा सभ्यपदे ज्योतिष्टोमफलं लभेत् ।
आवसथ्यपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.६१ ।।

श्राद्धं कृत्वा शक्रपदे इन्द्रलोकं नयेत्पितॄन्।
अगस्त्यस्य पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.६२ ।।

क्रौञ्चमातङ्गयोः श्राद्धी ब्रह्मलोकं नयेत्पितॄन्।
श्राद्धी सूर्य्यपदे पञ्च पापिनोऽर्क्कपुरं नयेत् ।। ४९.६३ ।।

कार्तिकेयपदे श्राद्धी शिवलोकं नयेत्पितॄन्।
गणेशस्य पदे श्राद्धी रुद्रलोकं नयेत्पितॄन् ।। ४९.६४ ।।

गजकर्णतर्पणकृन्निर्मलं स्वर्नयेत्पितॄन्।
अन्येषाञ्च पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.६५ ।।

सर्व्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम्।
ब्रह्मणश्च पदं चापि श्रेष्ठं तत्र प्रकीर्त्तितम् ।। ४९.६६ ।।

प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतम्।
श्रेयस्करं भवेत्तत्र श्राद्धकर्त्तुश्च नारद ।। ४९.६७ ।।

कश्यपस्य पदे दिव्ये भारद्वाजो मुनिः पुरा।
श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ।। ४९.६८ ।।

शुक्लकृष्णौ ततो हस्तौ पदमुद्भिद्य निर्गतौ।
दृष्ट्वा हस्तद्वयं तत्र मुनिः संशयमागतः ।। ४९.६९ ।।

ततः स्वमातरं शान्तां पप्रच्छ स महामुनिः।
कश्यपस्य पदे दिव्ये शुक्ले कृष्णेऽथ वा करे ।। ४९.७० ।।

पिण्डो देयो मया मातर्जानासि पितरं वद।।
        ।।शान्तोवाच।।
भारद्वाज महाप्राज्ञ देहि कृष्णाय पिण्डकम् ।। ४९.७१ ।।

भारद्वाजस्ततः पिण्डं दातुं कृष्णाय चोद्यतः।
श्वेतोऽदृश्योऽब्रवीत्तत्र पुत्रस्त्वं हि ममौरसः ।। ४९.७२ ।।

कृष्णोऽब्रवीन्मम क्षेत्रं ततो मे देहि पिण्डकम्।
स्वैरिण्यथाब्रवीद्दातुं क्षेत्रिणे बीजिने ततः ।। ४९.७३ ।।

भारद्वाजस्ततः पिण्डं कश्यपस्य पदे ददौ ।
हंसयुक्तविमानेन ब्रह्मलोकमुभौ गतौ ।। ४९.७४ ।।

रामो रुद्रपदे श्राद्धे पिण्डदानाय चोद्यतः।
पिता दशरथः स्वर्गात्प्रसार्य्य करमागतः ।। ४९.७५ ।।

नादात्पिण्डं करे रामो ददौ रुद्रपदे ततः।
शास्त्रार्थातिक्रमाद्भीतं रामं दशरथोऽब्रवीत् ।। ४९.७६ ।।

तारितोऽहं त्वया पुत्र रुद्रलोकमवाप्नुयाम्।
हस्ते पिण्डप्रदानेन स्वर्गतिर्न हि मे भवेत् ।। ४९.७७ ।।

त्वञ्च राज्यं चिरं कृत्वा पालयित्वा द्विजान्प्रजाः।
यज्ञान्सदक्षिणान्कृत्वा विष्णुलोकं व्रजिष्यसि ।। ४९.७८ ।।

पुर्य्ययोध्याजनैः सार्द्धं कृमिकीटादिभिः सह।
इत्युक्त्वासौ दशरथो रुद्रलोकं परं ययौ ।। ४९.७९ ।।

भीष्मो विष्णुपदे श्रेष्ठे आहूय पितरं स्वकम्।
श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ।। ४९.८० ।।

पितुर्विनिर्गतौ हस्तौ गयाशिरसि शन्तनोः।
नादात्पिण्डं करो भीष्मो ददौ विष्णुपदे ततः ।। ४९.८१ ।।

शन्तनुः प्राह सन्तुष्टः शास्त्रार्थे निश्चलो भवान्।
त्रिकालदृष्टिर्भवत् चान्ते विष्णुश्च ते गतिः ।। ४९.८२ ।।

स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः।
कनकेशञ्च केदारं नारसिंहं च वामनम् ।। ४९.८३ ।।

उदङ्मार्गे समभ्यर्च्च्य पितॄन्सर्व्वांश्च तारयेत्।
गयाशिरसि यः पिण्डान्येषां नाम्ना तु निर्वपेत् ।। ४९.८४ ।।

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः।
गयाशिरसि यः पिण्डं शमीपत्रप्रमाणतः ।। ४९.८५ ।।

कन्दमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन्।
पदानि यत्र दृश्यन्ते विष्ण्वादीनां तदग्रतः ।। ४९.८६ ।।

श्राद्धं कृत्वा सपिण्डञ्च तेषां लोकान्नयेत्पितॄन्।
सर्व्वत्र मुण्डपृष्ठाद्रिः पदैरेभिः सुलक्षितः ।। ४९.८७ ।।

प्रयान्ति पितरः सर्व्वे ब्रह्मलोकमनामयम्।
हेत्यसुरस्य यच्छीर्षं गदया तद्द्विधाकृतम् ।। ४९.८८ ।।

ततः प्रक्षालिता यस्मात्तीर्थं तच्च विमुक्तये।
गदालोलमिति ख्यातं सर्व्वेषामुत्तमोत्तमम् ।। ४९.८९ ।।

गदालोले महातीर्थे गदाप्रक्षालनाद्धरेः।
स्नानं करोमि सिद्ध्यर्थमक्षयं पदमाप्नुयाम् ।। ४९.९० ।।

पञ्चमेऽह्नि गदालोले स्नात्वा कुर्य्यात्सपिण्डकम्।
श्राद्धं पितॄन्ब्रह्मलोकं नयेदात्मानमेव च ।। ४९.९१ ।।

ब्रह्मप्रकल्पितान्विप्रान् हव्यकव्यादिनार्च्चयेत्।
तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सह देवताः ।। ४९.९२ ।।

कृते श्राद्धेऽक्षयवटे अन्नेनैव प्रयत्नतः।
पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम् ।। ४९.९३ ।।

वटवृक्षसमीपे तु शाकेनाप्युदकेन वा।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।। ४९.९४ ।।

देयं दानं षोडशकं गयातीर्थपुरोधसे।
वस्त्रं गन्धादिभिः पुत्रैः सम्यक्संपूज्य यत्नतः ।। ४९.९५ ।।

गयातीर्थवटे चैव पितॄणां दत्तमक्षयम् ।
दृष्ट्वा नत्वा च संपूज्य वटेशं सुसमाहितः ।। ४९.९६ ।।

पितॄन्नयेद्ब्रह्मलोकमक्षयन्तु सनातनम्।
गयायां धर्म्मपृष्ठे च सरसि ब्रह्मणस्त था ।। ४९.९७ ।।

गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम्।
एकार्णवे वटस्याग्रे यः शेते योगनिद्रया ।। ४९.९८ ।।

बालरूपधरस्तस्मै नमस्ते योगशायिने।
संसारवृक्षशस्त्रायाशेषपापहराय च ।। ४९.९९ ।।

अक्षयब्रह्मदात्रे च नमोऽक्षयवटाय वै।
कलौ माहेश्वरा लोका येन तस्माद्गदाधरः।
लिङ्गरूपोऽभवत्तञ्च वन्दे श्रीप्रपितामहम् ।। ४९.१०० ।।

इति श्रीवायुपुराणे वायुप्रोक्ते गयामाहात्म्यं नामोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।। *