सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ३२

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ३१ वायुपुराणम्
अध्यायः ३२
वेदव्यासः
उत्तरार्धम्, अध्यायः ३३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


           ।।सूर्य उवाच।।
यदोर्वंशं प्रवक्ष्यामि श्रेष्ठस्योत्तमतेझसः।
विस्तरेणानुपूर्व्येण गदतो मे निबोधत ।। ३२.१ ।।

यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः।
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलो जितो लघुः ।। ३२.२ ।।

सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः।
सतजित्सुता विख्या तास्त्रयः परमधार्मिकाः ।। ३२.३ ।।

हैहयश्च हयश्चैव राजा वेणुहयश्च यः।
हैहयस्य तु दायादो धर्म्मतत्त्व इति श्रुतिः ।। ३२.४ ।।

धर्म्मतन्त्रस्तु कीर्त्तिस्तु संज्ञेयस्तस्य चात्मजः।
संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ।। ३२.५ ।।

आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्।
वाराणस्यधिपो राजा कथितः पूर्व एव हि ।। ३२.६ ।।

भद्रश्रेण्यस्य दायादो दुर्मदो नाम पार्थिवः।
दुर्मदस्य ततो धीमान् कन्को नाम विश्रुतः ।। ३२.७ ।।

कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः।
कृत वीर्यः कार्तवीर्यः कृतवर्मा तथैव च ।। ३२.८ ।।

कृतो जातश्चतुर्थोऽभूत्कृतविर्यात्ततोऽर्जुनः।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ।। ३२.९ ।।

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम्।
दत्तमाराधयामास कार्त्तवीर्योऽत्रिसम्भवम् ।। ३२.१० ।।

तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः।
पूर्व्वं बाहुसहस्रन्तु स वव्रे प्रथमं वरम् ।। ३२.११ ।।

अधर्म्मे दीयमानस्य सद्भिस्तस्मान्निवारणम्।
धर्म्मेण पृथिवीञ्जित्वा धर्म्मेणैवानुपालनम् ।। ३२.१२ ।।

संग्रामांस्तु बहून् जित्त्वा हत्वा चारीन् सहस्रशः।
संग्रामे युद्धयमानस्य वधः स्यादधिकाद्रणे ।। ३२.१३ ।।

तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना ।
सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ।। ३२.१४ ।।

तस्य बाहुसहस्रन्तु युद्ध्यतः किल धीमतः।
यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ।। ३२.१५ ।।

दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु।
निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः ।। ३२.१६ ।।

सर्वे यज्ञा महाबाहोस्तस्यासन् भूरितेजसः।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ।। ३२.१७ ।।

सर्वे देवैर्म्माहाभागैर्विमानस्थैरलंकृताः।
गन्धर्व्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ।। ३२.१८ ।।

तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा।
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ।। ३२.१९ ।।

न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ।। ३२.२० ।।

द्वीपेषु सप्तसु स वै खड्गी वरशरासनी।
रथी राजाप्यनुचरोऽन्योऽगाच्चैवानुदृश्यते ।। ३२.२१ ।।

अनष्टद्रव्यश्चैवासीन्न शोको न च विभ्रमः।
प्रभावेण महाराज्ञः प्रजा धर्म्मेण रक्षतः ।। ३२.२२ ।।

पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः।
सप्त सप्त वारान् सम्राट् चक्रवर्त्ती बभूव ह ।। ३२.२३ ।।

स एव पशुपालोऽभूत् क्षेत्रपालस्तथैव च।
स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत् ।। ३२.२४ ।।

स वै बाहुसहस्रेण ज्याघातकठिनेन च ।
भाति रश्मिसहस्रेण शारदेनेव भास्करः ।। ३२.२५ ।।

स हि नागसहस्रेण माहिष्मत्यां नराधिपः।
कर्कोटकसभाञ्जित्वा पुरीं तत्र न्यवेशयत् ।। ३२.२६ ।।

स वै वेगे समुद्रस्य प्रावृट्कालाम्बुजेक्षणः ।
क्रीडन्निव सुखोद्विग्नः प्रावृट्कालञ्चकार ह ।। ३२.२७ ।।

लुलिता क्रीडता तेन हेमस्रग्दाममालिनी।
ऊर्म्मिभ्रूकुटिसन्नादा शङ्किताभ्येति नर्मदा ।। ३२.२८ ।।

पुरा स तामनुसरन्नवगाढो महार्णवम्।
चकारोद्धृत्त्य वेलान्तं स कालः प्रावृणोद्वनम् ।। ३२.२९ ।।

तस्य बाहु सहस्रेण क्षोभ्यमाणे महादधौ।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ।। ३२.३० ।।

चूर्णीकृतमहावीचिलीनमीनमहाविषाः।
पतिता विद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ।। ३२.३१ ।।

चकार क्षोभयन्राजा दोःसहस्रेण सागरम्।
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ।। ३२.३२ ।।

मन्दरक्षोभणकृता ह्यमृतोदकशङ्कि ताः।
सहसोत्पादिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।। ३२.३३ ।।

नतनिश्चलमूर्द्धानो बभूवुश्च महोरगाः।
सायाह्ने कदलीषण्डा निर्वातस्तिमिता इव ।। ३२.३४ ।।

स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चभिः शतैः।
लङ्कायां मोहयित्वा तु सबलं रावणं बलात्।
निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध तम् ।। ३२.३५ ।।

ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत्।
मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ।। ३२.३६ ।।

तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः।
युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव ।। ३२.३७ ।।

अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिनत्।
मृधे सहस्रं बाहूनां हेमतालवनं यथा ।। ३२.३८ ।।

तृषितेन कदाचित्स भिक्षितश्चित्रभानुना।
सप्त द्वीपांश्चित्रभानोः प्रादाद्भिक्षां विशाम्पतिः ।। ३२.३९ ।।

पुराणि घोषान् ग्रामांश्च पत्तनानि च सर्व्वशः।।
जज्वाल तस्य बाणेषु चित्रभानुर्दिधक्षया ।। ३२.४० ।।

स तस्य पुरुषेन्द्रस्य प्रभावेण महायशाः।
ददाह कार्तवीर्यस्य शैलांश्चापि वनानि च ।। ३२.४१ ।।

स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै।
ददोह सवनद्वीपांश्चित्रभानुः सहैहयः ।। ३२.४२ ।।

संलेभे वरुणः पुत्रं पुरा भास्विनमुत्तमम्।
वसिष्ठनामा स मुनिः ख्यातश्चापः श्रितः श्रुतः ।। ३२.४३ ।।

तत्रापदस्तदा क्रोधादर्जुनं शप्तवान्विभुः।
यस्मान्न वर्जितमिदं वनं ते मम हैहय ।। ३२.४४ ।।

तस्मात् ते दुष्करं कर्म्म कृतमन्यो हनिष्यति।
अर्जुनो नाम कौन्तेयो न च राजा भविष्यति ।। ३२.४५ ।।

अर्जुन त्वां महावीर्यो रामः प्रहरतां वरः।
छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बलीं ।। ३२.४६ ।।

तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः।
तस्य रामस्तदा ह्यासीन्मृत्युशापेन धीमतः ।। ३२.४७ ।।

राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा।
तस्य पुत्रशतं ह्यासीत् पञ्च तत्र महारथाः ।। ३२.४८ ।।

कृतास्त्रा बलिनः शूरा धर्म्मात्मानो यशस्वनः ।
शूरश्च शूरसेनश्च वृष्ट्याद्यं वृष एव च ।। ३२.४९ ।।

जयध्वजश्च वै पुत्रा अवन्तिषु विशांपतेः।
जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ।। ३२.५० ।।

तस्य पुत्रशतं ह्येव तालजङ्घा इति श्रुतम्।
तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ।। ३२.५१ ।।

वीरहोत्रा ह्यसङ्ख्याता भोजाश्चावर्तयस्तथा।
तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ।। ३२.५२ ।।

वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः।
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ।। ३२.५३ ।।

अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह।
प्रभावेण महाराजः प्रजास्ताः पर्य्यपालयत् ।। ३२.५४ ।।

न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः।
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः ।। ३२.५५ ।।

वित्तवान् भवत्यत्रैव धर्म्मश्चास्य विवर्द्धते।
यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ।। ३२.५६ ।।

इति श्रीमहापुराणे वायुप्रोक्ते कार्त्तवीर्य्यार्जुनोत्पत्तिविवरणं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।