वायुपुराणम्/उत्तरार्धम्/अध्यायः ४८

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः ४७ वायुपुराणम्
अध्यायः ४८
वेदव्यासः
उत्तरार्धम्, अध्यायः ४९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


       ।।सनत्कुमार उवाच।।
गयायात्रां प्रवक्ष्यामि श्रृणु नारद मुक्तिदाम्।
निष्कृतिः श्राद्धकर्तॄणां ब्रह्मणा गीयते पुरा ।। ४८.१ ।।

उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः।
विधाय कार्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम् ।। ४८.२ ।।

ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ।। ४८.३ ।।

प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः।
अहङ्कारविमुक्तो यः स तीर्थफलमश्नुते ।। ४८.४ ।।

यस्य हस्तौ च पादौ च मनश्चापि सुसंयतम्।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ४८.५ ।।

ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी ।
तत्र तोयं समुत्पाट्य स्नातव्यं निर्मले जले ।। ४८.६ ।।

देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा यथाविधिः ।
स्ववेदशाखागदितमर्घ्यावाहनवर्जितम् ।। ४८.७ ।।

अपरेऽह्नि शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वते ।
ब्रह्मकुण्डे ततः स्नात्वा देवादींस्तर्पयेत्सुधीः ।। ४८.८ ।।

कुर्य्याच्छ्राद्धं सपिण्डानां प्रयतः प्रेतपर्वते।
प्राचीनावीतिना भाव्यं दक्षिणाभिमुखः सुधीः ।। ४८.९ ।।

कव्यबालोऽनलः सोमो यमश्चैवार्य्यमा तथा।
अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ।। ४८.१० ।।

आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह।
मदीयाः पितरो ये च कुले जाताः सनाभयः ।। ४८.११ ।।

तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम्।
ते सर्वे तृप्तिमायान्तु श्राद्देनानेन शाश्वतीम् ।। ४८.१२ ।।

आचम्योक्ताव च पञ्चाङ्गं प्राणायामं प्रयत्नतः।
पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे ।। ४८.१३ ।।

एवञ्च विधिवच्छ्राद्धं कृत्वा पूर्वं यताक्रमम्।
पितॄनावाह्य चाभ्यर्च्य मन्त्रैः पिण्डप्रदो भवेत् ।। ४८.१४ ।।

तीर्थे प्रेतशिलादौ च चरुणा सघृतेन वा ।
प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक्पृथक्।
तैर्मन्त्रैरथ संपूज्य पञ्चगव्यैश्च देवताम् ।। ४८.१५ ।।

यावत्तिला मनुष्यैश्च गृहीता पितृकर्मसु।
गच्छन्ति तावदसुराः सिंहत्रस्ता यथा मृगाः ।। ४८.१६ ।।

अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि ।
मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ।। ४८.१७ ।।

वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्।
पाद्यपूर्वं समारभ्य दक्षिणाग्रकुशैः क्रमात्।
पित्रादीनां समास्तीर्य शेषं गृह्योक्तमाचरेत् ।। ४८.१८ ।।

दद्युः श्राद्धं सपिण्डानां तेषां दक्षिणभागतः।
कुशानास्तीर्यं विधिना सकृद्दत्वा तिलोदकम् ।। ४८.१९ ।।

गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन यत्नतः।
सक्तुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम्।
सम्बन्धिनस्तिलाद्भिश्च कुशेष्वावाहयेत्ततः ।। ४८.२० ।।

आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।। ४८.२१ ।।

अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम्।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ।। ४८.२२ ।।

पिता पितामह श्चैव तथैव प्रपितामहः।
माता पितामही चैव तथैव प्रपितामही ।। ४८.२३ ।।

मातामहस्तत्पिता च प्रमातामहकादयः।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.२४ ।।

मुष्टिमात्रप्रमाणञ्च ह्यार्द्रामलकमात्रकम्।
शमीफत्रप्रमाणं वा पिण्डं दद्याद्गयाशिरे।
उद्धरेत्सप्तगोत्राणि कुलानि शतमुद्धरेत् ।। ४८.२५ ।।

पितुर्मातुः स्वभार्याया भगिन्या दुहितुस्तथा।
पितृष्वसुर्मातृष्वसुः सप्त गोत्राः प्रकीर्त्तिताः ।। ४८.२६ ।।

चतुर्विंशतिविंशश्च षोडश द्वादशैव हि।
रुद्रादिवसवश्चैव कुलान्येकोत्तरं शतम् ।। ४८.२७ ।।

नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः।
न कारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ।। ४८.२८ ।।

पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम्।
दक्षिणा चान्नसङ्कल्पं तीर्थश्राद्धेष्वयंविधिः ।। ४८.२९ ।।

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते।
आवाहयिष्ये तान्सर्वान्दर्भपृष्ठे तिलोदकैः ।। ४८.३० ।।

बन्धुवर्गकुले ये च गतिर्येषां न विद्यते।
आवाहयिष्ये तान्त्सर्वान् दर्भपृष्ठे तिलोदकैः ।। ४८.३१ ।।

इत्येतैर्मन्त्रैः सजलैस्तिलैर्दर्भेषु ध्यानवान्।
आवाह्याभ्यर्च्य तेभ्यश्च पिण्डान्दद्याद्यथाक्रमम् ।। ४८.३२ ।।

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.३३ ।।

मातामहकुले ये च गतिर्येषां न विद्यते।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.३४ ।।

बन्धुवर्गकुले ये च गतिर्येषां न विद्यते।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.३५ ।।

अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.३६ ।।

अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे।
विद्युच्चोरहता ये च तेभ्यः पिण्डं ददाम्यहम् ।। ४८.३७ ।।

दावदाहे मृता ये च सिंहव्याग्रहताश्च ये।
दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेभ्यः पिण्डं ददाम्यहम् ।। ४८.३८ ।।

उद्बन्धनमृता ये च विषशस्त्रहताश्च ये।
आत्मापघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ।। ४८.३९ ।।

अरण्ये वर्त्मनि वने क्षुधया तृषया हताः।
भूतप्रेतपिशाचाद्यैस्तेभ्यः पिण्डं ददाम्यहम् ।। ४८.४० ।।

रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः।
तेषामुद्धरणार्ताय इमं पिण्डं ददाम्यहम् ।। ४८.४१ ।।

असिपत्रवने घोरे कुम्भीपाकेषु ये गताः।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.४२ ।।

अनेकयातनासंस्थाः प्रेतलोकञ्च ये गताः।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.४३ ।।

अनेकयातनासंस्था ये नीता यमकिङ्करैः।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.४४ ।।

नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.४५ ।।

पशुयोनि गता येच पक्षिकीटसरीसृपाः।
अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ।। ४८.४६ ।।

जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्म्मणा।
मानुष्यं दुर्ल्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ।। ४८.४७ ।।

दिव्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः।
मृता असंस्कृता ये च तेब्यः पिण्डं ददाम्यहम् ।। ४८.४८ ।।

ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम।
ते सर्व्वे तृप्तिमायान्तु पिण्डेनानेन सर्व्वदा ।। ४८.४९ ।।

येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.५० ।।

पितृवंशे मृता ये च मातृवंशे च ये मृताः।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ।। ४८.५१ ।।

ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः।
क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ।। ४८.५२ ।।

विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम।
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.५३ ।।

आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः।
कुलद्वये ये मम दासभूता भृत्या स्तथैवाश्रितसेवकाश्च ।। ४८.५४ ।।

मित्राणि शिष्याः पशवश्च वृक्षा दृष्टा ह्यदृष्टाश्च कृतोपकाराः।
जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ।। ४८.५५ ।।

एतैश्च सर्व्वमन्त्रैस्तु स्त्रीलिङ्गान्तं समूह्य च।
पिण्डान्दद्याद्यथापूर्व्वं स्त्रीणां मात्रादिकक्रमात् ।। ४८.५६ ।।

स्वगोत्रे परगोत्रे वा दम्पत्योः पिण्डपातनम्।
अपृथङ् निष्फलं श्राद्धं पिण्डञ्चोदकतर्पणम् ।। ४८.५७ ।।

पिण्डपात्रे तिलान्क्षिप्त्वा पूरयित्वा शुभोदकैः।
परिषिच्य त्रिधा सर्वान् प्रणिपत्य समापयेत् ।। ४८.५८ ।।

पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् ।
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा।
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।। ४८.५९ ।।

आगतोऽस्मि गयां देव पितृकार्य्ये गदाधर।
त्वमेव साक्षी भगवन्ननृणोऽहमृणत्रयात् ।। ४८.६० ।।

सर्व्वस्थानेषु चैवं स्यात् पिण्डदानन्तु नारद।
प्रेतपर्व्वतमारभ्य कुर्य्यात्तीर्थेषु च क्रमात् ।। ४८.६१ ।।

तिलमिश्रांस्ततः सक्तून्निःक्षिपेत्प्रेतपर्व्वते।
अपसव्येन देवर्षे दक्षिणाभिमुखेन च ।। ४८.६२ ।।

ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम।
ते सर्व्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः ।। ४८.६३ ।।

आब्रह्मस्तम्बपर्य्यन्तं यत्किञ्चित्सचराचरम्।
मया दत्तेन तोयेन तृप्तिमायान्तु सर्व्वशः ।। ४८.६४ ।।

प्रेतत्वाच्च विमुक्ताः स्युः पितरस्तस्य नारद।
प्रेतत्वं तस्य माहात्म्यात्कुले चापि न जायते ।। ४८.६५ ।।

नाम्ना प्रेतशिला ख्याता गयाशिरसि मुक्तये।
तीर्थमन्त्रादिरूपेण स्थित श्चादिगदाधरः ।। ४८.६६ ।।

इति श्रीवायुपुराणे वायुप्रोक्ते गयामाहात्म्यं नामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।। *