वायुपुराणम्/उत्तरार्धम्/अध्यायः ९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


← उत्तरार्धम्, अध्यायः ८ वायुपुराणम्
अध्यायः ९
वेदव्यासः
उत्तरार्धम्, अध्यायः १० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


             ।।सूत उवाच।।
एवं प्रजासु सृष्टासु कश्यपे न महात्मना।
प्रतिष्ठितासु सर्वासु स्थावरासु चरासु च ।। ९.१ ।।

अभिषिच्याधिपत्येषु तेषां मुख्यः प्रजापतिः।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ।। ९.२ ।।

द्विजातीनां वीरुधाञ्च नक्षत्राणां ग्रहैः सह।
यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत ।। ९.३ ।।

बृहस्पतिं तु विश्वेषां ददावङ्गिरसां पतिम्।
भृगूणामधिपञ्चैव काव्यं राज्येऽभ्यषेचयत् ।। ९.४ ।।

आदित्यानां पुनर्विष्णुं वसूनामथ पावकम् ।
प्रजापतीनां दक्षञ्च मरुतामथ वासवम् ।। ९.५ ।।

दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम्।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ।। ९.६ ।।

विप्रचित्तिञ्च राजानं दानवानामथादिशत्।
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम्।
यक्षाणां राक्षसानाञ्च पार्थिवानां धनस्य च ।। ९.७ ।।

वैवस्वतं पितॄणाञ्च यमं राज्येऽभ्यषेचयत्।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।। ९.८ ।।

शैलानां हिमवन्तञ्च नदीनामथ सागरम्।
गन्धर्वाणामधिपतिं चक्रे चित्ररथं तदा ।। ९.९ ।।

उच्चैःश्रवसमश्वानां राजानञ्चाभ्यषेचयत्।
मृगाणामथ शार्दूलं गोवृषञ्च चतुष्पदाम् ।। ९.१० ।।

पक्षिणामथ सर्वेषां गरुडं पततां वरम्।
गन्धानां मातुलञ्चैव भूतानामशरीरिणाम् ।। ९.११ ।।

शब्दाकाशबलानाञ्च वायुं बलवतां वरम्।
सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् ।। ९.१२ ।।

सरीसृपाणां सर्पाणां नागानाञ्चैव तक्षकम्।
सागराणां नदीनाञ्च मेघानां व्रषितस्य च।
आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ।। ९.१३ ।।

सर्वाप्सरोगणानाञ्च कामदेवं तथैव च।
ऋतूनामथ मासानामार्त्तवानां तथैव च ।। ९.१४ ।।

पक्षाणाञ्च विपक्षाणां मुहूर्त्तानाञ्च पर्वणाम्।
कलाकाष्ठाप्रमाणानां गते रयनयोस्तथा।
गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।। ९.१५ ।।

प्रजापतिर्वै रजसः पूर्वस्यान्दिशि विश्रुतम्।
पुत्रं नाम्ना सुधामानं राजानं सोऽभ्यषेचयत् ।। ९.१६ ।।

पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।। ९.१७ ।।

मनुष्याणामधिपतिं चक्रे चैव सुतं मनुम्।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ।। ९.१८ ।।

स्वायम्भुवेऽन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः।
नृपा ह्येतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ।। ९.१९ ।।

मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः।
एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः।
अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः ।। ९.२० ।।

राजसूयेऽभिषिक्तश्च पृथुरेभिर्नरोत्तमैः।
वेददृष्टेन विधिना कृतो राजा प्रतापवान् ।। ९.२१ ।।

एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् ।
पुनरेव महाभागः प्रजानां पतिरीश्वरः ।। ९.२२ ।।

कश्यपो गोत्रकामस्तु चचार परमं तपः ।
पुत्रौ गोत्रकरौ मह्यं भवेतामित्यचिन्तयत् ।। ९.२३ ।।

तस्य प्रध्यायमानस्य कश्यपस्य महात्मनः।
ब्रह्मणोंऽशौ सुतौ पश्चात् प्रादुर्भूतौ महौजसौ ।। ९.२४ ।।

वत्सारश्चासितश्चैव तावुभौ ब्रह्मवादिनौ।
वत्सारान्निध्रुवो जज्ञे रैभ्यश्च स महायशाः ।। ९.२५ ।।

रैभ्यस्य रैभ्या विज्ञेया निध्रुवस्य निबोधत।
च्यवनस्य सुकन्यायां सुमेधाः समपद्यत ।। ९.२६ ।।

निध्रुवस्य तु या पत्नी माता वै कुण्डपायिनाम्।
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।। ९.२७ ।।

शाण्डिल्यानां वचः श्रुत्वा देवलः सुमहायशाः।
निध्रुवाः शाण्डिल्या रैभ्यास्त्रयः पश्चात्तु कश्यपाः ।। ९.२८ ।।

वरप्रभृतयो देवा देवलस्य प्रजास्त्विमाः।
चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रजाः।
अथावशिष्टे तस्मिस्तु द्वापरे सम्प्रवर्तते ।। ९.२९ ।।

मानसस्य चरिष्यन्तस्तस्य पुत्रो दमः किल।
मानसस्तस्य दायादस्तृणबिन्दुरिति श्रुतः ।। ९.३० ।।

त्रेतायुगमुखे राजा तृतीये सम्बभूव ह।
तस्य कन्या त्विडविडा रूपेणाप्रतिमाभवत्।
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ।। ९.३१ ।।

ऋषिरिडविडायान्तु विश्रवाः समपद्यत।
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धनाः ।। ९.३२ ।।

बृहस्पतेर्बृहत्कीर्त्तिर्देवाचार्यस्य कीर्त्तितः ।
कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् ।। ९.३३ ।।

पुष्पोत्ककटाञ्च वाकाञ्च सुते माल्यवतः स्थितौ।
कैकसीं मालिनः कन्यां तासान्तु श्रृणुत प्रजाः ।। ९.३४ ।।

ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी।
दिव्येन विधिना युक्तमार्षेणैव श्रुतेन च।
राक्षसेन च रूपेण आसुरेण बलेन च ।। ९.३५ ।।

त्रिपादं सुमहाकायं स्थूलशीर्षं महातनुम्।
अष्टदंष्ट्रं हरिच्छ्मश्रुं शङ्कुकर्णं विलोहितम् ।। ९.३६ ।।

ह्रस्व बाहुं प्रबाहुञ्च पिङ्गलं सुविभीषणम्।
वैवर्तज्ञानसम्पन्नं सम्बुद्धं ज्ञानसम्पदा ।। ९.३७ ।।

एवंविधं सुतं दृष्ट्वा विश्वरूपधरं तथा।
पिता दृष्ट्वाब्रवीत्तत्र कुबेरोऽयमिति स्वयम् ।। ९.३८ ।।

कुत्सायां क्वितिशब्दोऽयं शरीरं बेरमुच्यते ।
कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ।। ९.३९ ।।

यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव।
तस्माद्वैश्रवणो नाम नाम्ना लोके भविष्यति ।। ९.४० ।।

ऋद्ध्यां कुबेरोऽजनयद्विश्रुतं नलकूबरम्।
रावणं कुम्भकर्णञ्च कन्यां शूर्पणखान्तथा।
विभीषणं चतुर्थांस्तान्कैकस्यजनयेत्सुतान् ।। ९.४१ ।।

शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः।
चतुष्पाद्विंशतिबुजो महाकायो महा बलः ।। ९.४२ ।।

जात्याञ्जननिभो दंष्ट्रो लोहितग्रीव एव च।
राजसेनो जययुक्तो रूपेण च बलेन च ।। ९.४३ ।।

सत्यबुद्धिर्दृढतनू राक्षसैरेव रावणः ।
निसर्गाद्दारुणः क्रूरो रावणाद्रावणस्तु सः ।। ९.४४ ।।

हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि।
चतुर्युगानि राजात्र त्रयोदश स राक्षसः ।। ९.४५ ।।

ताः पञ्चकोट्यो वर्षाणामाख्याताः सङ्ख्यया द्विजैः।
नियुतान्येकषष्टिश्च सङ्ख्याविद्भिरुदाहृता ।। ९.४६ ।।

षष्टिशतसहस्राणि वर्षाणान्तु स रावणः ।
देवतानां ऋषीणाञ्च घोरं कृत्वा प्रजागरम् ।। ९.४७ ।।

त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात्।
रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ।। ९.४८ ।।

महोदयः प्रहस्तश्च महापांशुखरस्तथा।
पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ।। ९.४९ ।।

त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः।
कन्या ह्यसलिका चैव वाकायाः प्रसवाः स्मृताः ।। ९.५० ।।

इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश।
दारुणाबिजनाः सर्वे देवैरपि दुरासदाः ।। ९.५१ ।।

सर्वे लब्धवराश्चैव पुत्रपौत्रसमन्विताः।
यक्षाणाञ्चैव सर्वेषां पौलस्त्या ये च राक्षसाः ।। ९.५२ ।।

आगस्त्यवैश्वामित्राणां क्रूराणां ब्रह्मरक्षसाम्।
वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ।। ९.५३ ।।

तेषामैडविडो राजा पौलस्त्यः सव्यपिङ्गलः।
इतरे वै यज्ञमुखास्तेन रक्षोगणास्त्रयः ।। ९.५४ ।।

यातु धाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः ।
निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ।। ९.५५ ।।

पौलस्त्या नैऋताश्चैव आगत्स्याः कौशिकास्तथा।
इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ।। ९.५६ ।।

तेषां रूपं प्रवक्ष्यामि स्वभावेन व्यवस्थितम्।
वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ।। ९.५७ ।।

अष्टदंष्ट्रा शङ्कुकर्णा ऊर्द्ध्वरोमाण एव च।
आकर्णदारितास्याश्च मुञ्जधूमोर्द्ध्वमूर्द्धजाः ।। ९.५८ ।।

स्थूलशीर्षाः सिताभाश्च ह्रस्वकाश्च प्रवाहुकाः।
ताम्रास्या लम्बजिह्वौष्ठा लम्बभूस्थूलनासिकाः ।। ९.५९ ।।

नीलाङ्गा लोहितग्रीवा गम्भीराक्षा विबीषणाः ।
महाघोरस्वराश्चैव विकटा बद्धपिण्डिकाः ।। ९.६० ।।

स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः।
दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः ।। ९.६१ ।।

सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः।
विचित्र वस्त्राभरणाश्चित्रस्रगनुलेपनाः ।। ९.६२ ।।

अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः।
इत्येतद्रूपसाधर्म्यं राक्षसानां बुधैः स्मृतम्।
न समस्तबलं बुद्धं यतो मायाकृतं हि तत् ।। ९.६३ ।।

पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ।
भूताः पिशाचाः सर्पाश्च भ्रमरा हस्तिनस्तथा ।। ९.६४ ।।

वानराः किन्नराश्चैव यमकिम्पुरुषास्तथा।
येऽन्ये चैव परिक्रान्ता मायाक्रोधवशानुगाः ।। ९.६५ ।।

अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे।
न तस्य पुत्रः पौत्रो वा तेजः संक्षिप्य वा स्थितः ।। ९.६६।
अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः।
तस्य पत्न्यश्च सुन्दर्यो दशैवासन्पतिव्रताः ।। ९.६७ ।।

भद्राश्वस्य धृताच्यां वै दशाप्सरसि सूनवः।
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ।। ९.६८ ।।

वेला खला च सप्तैता या च गोचपला स्मृता ।
तथा मानरसा चैव रत्नकृटा च ता दश ।। ९.६९ ।।

आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः।
भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।। ९.७० ।।

स्वर्भानुना हते सूर्ये पतमानो दिवो महीम्।
तमोऽभिभूते लोकेऽस्मिन् प्रभा येन प्रवर्त्तिता ।। ९.७१ ।।

स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः।
ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।। ९.७२ ।।

अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रिघनश्चैव सुरैर्यश्च प्रवर्त्तितः ।। ९.७३ ।।

स तास्वजनयत् पुत्रानात्मतुल्याननामकान्।
दश तास्वेव महता तपसा भावितप्रभा ।। ९.७४ ।।

स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ।
तेषां विख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ।। ९.७५ ।।

दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः ।
यवीयसी सुता तस्या मबला ब्रह्मवादिनी।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ।। ९.७६ ।।

अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम्।
दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ।। ९.७७ ।।

तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि।
श्यामाश्च मुद्गलाश्चैव बलारकगविष्ठिराः।
एते नृणान्तु चत्वारः स्मृताः पक्षा महौजसाम् ।। ९.७८ ।।

कश्यपान्नारदश्चैव पर्वतोऽरुन्धती तथा।
जज्ञिरे च त्वरुन्धत्यास्तान्निबोधत सत्तमाः ।। ९.७९ ।।

नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत्।
ऊर्द्ध्वरेता महातेजा वृक्षशापात्तु नारदः ।। ९.८० ।।

पुरा देवासुरे तस्मिन्संग्राम तारकामये।
अनावृष्ट्या हते लोके व्यग्रे शक्रे सुरैः सह।
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः ।। ९.८१ ।।

अत्रौषधं मूलफलमोषधीश्च प्रवर्त्तयन् ।
तास्तेन जीवयामास कारुण्यादोषधेन तु ।। ९.८२ ।।

अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयद्द्विजाः।
सागरञ्जनयच्छक्तेरदृश्यन्ती पराशरम् ।। ९.८३ ।।

काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम्।
द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ।। ९.८४ ।।

उत्पद्यन्ते च पीवर्यां षडिमे शुकसूनवः।
भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरश्च पञ्चमः ।। ९.८५ ।।

कन्या कीर्तिमती चैव योगमाता दृढव्रता।
जननी ब्रह्मदत्तस्य पत्नी सत्त्वगुहस्य च ।। ९.८६ ।।

श्वेताः कृष्णाश्च गौराश्च श्यामा धूम्राः समूलिकाः।
ऊष्मपा दारकाश्चैव नीलाश्चैव पराशराः।
पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ।। ९.८७ ।।

अत ऊर्द्ध्वं निबोधध्वमिन्द्रप्रतिमसम्भवम्।
वसिष्ठस्य कपिञ्जल्यां घृताच्यां समपद्यत।
कुशीतियः समाख्यात इन्द्रप्रतिम उच्यते ।। ९.८८ ।।

पृथोः सुतायाः सम्भूतः पुत्रस्तस्या भवद्वसुः।
उपमन्युः सुतस्तस्य यस्येमे उपमन्यवः ।। ९.८९ ।।

मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः।
एकार्षेयास्तथैवान्ये वसिष्ठा नाम विश्रुताः।
एते पक्षा वसिष्ठानां स्मृता एकादशेव तु ।। ९.९० ।।

इत्येते ब्रह्मणः पुत्रा मानसा ह्यष्ट विश्रुताः।
भ्रातरः सुमहाभागा तेषां वंशाः प्रतिष्ठिताः ।। ९.९१ ।।

त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसङ्कुलान् ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः।
यैर्व्याप्ता पृथिवी सर्वा सूर्य्यस्येव गभस्तिभिः ।। ९.९२ ।।

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिवंशानुकीर्त्तनं नाम नवमोऽध्यायः ।। ९ ।। *