सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ४२

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ४१ वायुपुराणम्
अध्यायः ४२
वेदव्यासः
उत्तरार्धम्, अध्यायः ४३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



         ।।शौनकादिऋषय ऊचुः।।
सूत सूत महाभाग त्वया भगवता सता।
व्यासप्रसादाधिगतशास्त्रसम्बोधनेन च ।। ४२.१ ।।
अष्टादशपुराणानि सेतिहासानि चानघ।
उपक्रमोपसंहार विधिनोक्तानि कृत्स्नशः ।। ४२.२ ।।
चतुर्दशसहस्रं च मात्स्यं प्रोक्तमतिस्फुटम्।
तत्संख्यकं भविष्यञ्च प्रोक्तं पञ्चशताधिकम् ।। ४२.३ ।।
मार्कण्डेयं महारम्यं प्रोक्तं नवसहस्रकम्।
कथितं ब्रह्मवैवर्त्तमष्टादशसहस्रकम् ।। ४२.४ ।।
शतोत्तरञ्च ब्रह्माण्डं सूर्यसंख्यासहस्रकम् ।
अथ भागवतं दिव्यमष्टादशसहस्रकम् ।। ४२.५ ।।
सहस्राणि दशैवोक्तं पुराणं ब्रह्मनामकम्।
अयुतश्लोकघटितं पुराणं वामनाभिधम् ।। ४२.६ ।।
तथैवायुत संख्यातं षट्शताधिकमादिकम्।
त्रयोविंशतिसाहस्रमनिलं तद्गतं शुभम् ।। ४२.७ ।।
त्रयोविंशतिसाहस्रं नारदीयमुदाहृतम् ।
एकोनविंशसाहस्रं वैनतेयमुदाहृतम् ।। ४२.८ ।।
सहस्रपञ्चपञ्चाशत्प्रोक्तं पाद्मं सुविस्तरम्।
सप्तदशसहस्रन्तु कूर्मं प्रोक्तं मनोहरम् ।। ४२.९ ।।
चतुर्विंशति साहस्रं सौकरं परमाद्भुतम्।
एकाशीतिसहस्राणि स्कान्दमुक्तं सुविस्तृतम् ।। ४२.१० ।।
एवमष्टादशोक्तानि पुराणानि बृहन्ति च।
पुराणेष्वेषु बहवो धर्मास्ते विनिरूपिताः ।। ४२.११ ।।
रागिणाञ्च विरागाणां यतीनां ब्रह्मचारिणाम्
गृहस्थानां वनस्थानां स्त्रीशूद्राणां विशेषतः ।। ४२.१२ ।।
ब्राह्मणक्षत्रियविशां ये च सङ्करजातयः।
गङ्गाद्या या महानद्यो यज्ञव्रततपांसि च ।। ४२.१३ ।।
अनेकविधदानानि यमाश्च नियमैः सह।
योगधर्मा बहुविधाः सांख्या भागवतास्तथा ।। ४२.१४ ।।
भक्तिमार्गा ज्ञानमार्गा वैराग्यानिलनीरजाः।
उपासनविधिश्चोक्तः कर्मसंशुद्धिचेतसाम् ।। ४२.१५ ।।
ब्राह्मं शैवं वैष्णवं च सौरं शाक्तं तथार्हतम्।
षड्दर्शनानि चोक्तानि स्वभावनियतानि च ।। ४२.१६ ।।
एतदन्यच्च विविधं पुराणेषु निरुपितम्।
अतः परं किमप्यस्ति न वा बोद्धव्यमुत्तमम् ।। ४२.१७ ।।
न ज्ञायेत यदि व्यासो गोपयेदथ वा भवान् ।
अत्र नः संशयं छिन्धि पूर्णः पौराणिको यतः ।। ४२.१८ ।।
          सूत उवाच।।
श्रृणु शौनक वक्ष्यामि प्रश्रमेनं सुदुर्लभम्।
अतिगोप्यतरं दिव्यमनाख्येयं प्रचक्षते ।। ४२.१९ ।।
पराशरसुतो व्यासः कृत्वा पौराणिकीं कथाम्।
सर्ववेदार्थघटितां चिन्तयामास चेतसि ।। ४२.२० ।।
वर्णाश्रमवतां धर्मो मया सम्यगुदाहृतः।
मुक्तिमार्गा बहुविधा उक्ता वेदाविरोधतः ।। ४२.२१ ।।
जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये।
निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ।। ४२.२२ ।।
अक्षरं परमं ब्रह्म परमात्मा परं पदम्।
यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ।। ४२.२३ ।।
आचरन्ति महाप्राज्ञा धारणाञ्च पृथग्विधाम्।
आसनं प्राणरोधश्च प्रत्याहारश्च धारणा ।। ४२.२४ ।।
ध्यानं समाधिरेतानि यमैश्च नियमैः सह।
अष्टाङ्गानि यदर्थञ्च चरन्ति मुनिपुङ्गवाः ।। ४२.२५ ।।
यदर्थं कर्म कुर्वन्ति वेदाज्ञामात्रतत्पराः।
परार्पणधिया सम्यग् निष्कामाः कलिलोज्झिताः ।। ४२.२६ ।।
यज्ज्ञप्तये निराकर्त्तुं पापाचरणमात्मनः।
गङ्गादितीर्थचर्याणि निषेवन्ते शुचिव्रताः ।। ४२.२७ ।।
तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम्।
नित्यं सर्वगतं स्थाणु कूटस्थं कूटविर्जितम् ।। ४२.२८ ।।
सर्वेन्द्रियचराभासं प्राकृतेन्द्रियवर्जितम्।
दिक्कालाद्यनवच्छिन्नं नित्यं चिन्मात्रमव्ययम् ।। ४२.२९ ।।
अध्यास्तं सर्पवद्यत्र विश्वमेतत्प्रकाशते।
विश्वस्मिन्नपि चान्वेति निर्विकारश्च रज्जुवत् ।। ४२.३० ।।
सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्।
तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ।। ४२.३१ ।।
सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः।
यस्माद्भवन्ति ब्रह्माण्ड कोटयो न भवन्ति च ।। ४२.३२ ।।
यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ।
भवेतां या परा शक्तिर्यदाधारतया स्थिता ।। ४२.३३ ।।
यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्।
यदज्ञानाज्जगद्भाति यस्मिन् ज्ञाते जगन्न हि ।। ४२.३४ ।।
असत्यं यज्जडं दुःखमवस्त्विति निरूपितम्।
विपरीतमतो यद्वै सच्चिदानन्दमूर्त्तिकम् ।। ४२.३५ ।।
जीवे जाग्रति विश्वाख्यं स्वप्ने यत्तैजसं स्मृतम् ।
सुषुप्तौ प्राज्ञसंज्ञं तत्सर्वावस्थासु संस्मृतम् ।। ४२.३६ ।।
यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमस्ति च।
त्वक् त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ।। ४२.३७ ।।
बुद्धिर्ज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्।
यन्नेशिरि समभ्येतुं ज्ञातुं च परमार्थतः ।। ४२.३८ ।।
रज्जावहिर्मरौ वारि नीलिमा गगने यथा।
असद्विश्वमिदं भाति यस्मिन्नज्ञानकल्पितम् ।। ४२.३९ ।।
घटावच्छिन्न एवायं महाकाशो विभिद्यते।
कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसंज्ञिकम् ।। ४२.४० ।।
मायया चित्रकारिण्या विचित्रगुणशीलया ।
ब्रह्माण्डं चित्रमतुलं यस्मिन् भित्ताविवार्पितम् ।। ४२.४१ ।।
धावतोऽन्यानतिक्रान्तं वदतो वागगोचरम् ।
वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ।। ४२.४२ ।।
अक्षरान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।
इत्येवं श्रूयते वेदे बहुधापि विचारिते ।। ४२.४३ ।।
अक्षरस्यात्मनश्चापि स्वात्मरूपतया स्थितम्।
परमानन्दसन्दोहरूपमानन्द विग्रहम् ।। ४२.४४ ।।
लीलाविलासरसिकं बल्लवीयूथमध्यगम्।
शिखिपिच्छकिरीटेन बास्वद्रत्नचितेन च ।। ४२.४५ ।।
उल्लसद्विद्युदाटोपकुण्डलाभ्यां विराजितम्।
कर्णोपान्तचरन्नेत्रखञ्जरीटमनोहरम् ।। ४२.४६ ।।
कुञ्जकुञ्जप्रियावृन्दविलासरतिलम्पटम्।
पीताम्बरधरं दिव्यं चन्दनालेपमण्डितम् ।। ४२.४७ ।।
अधरामृत संसिक्तवेणुनादेन वल्लवीः।
मोहयन्तञ्चिदानन्दमनङ्गमदभञ्जनम् ।। ४२.४८ ।।
कोटिकामकलापूर्णं कोटिचन्द्रांशुनिर्मलम्।
त्रिरेखकम्ठविलसद्रत्नगुञ्जामृगा कुलम् ।। ४२.४९ ।।
यमुनापुलिने तुङ्गे तमालवनकानने।
कदम्बचम्पकाशोकपारिजातमनोहरे ।। ४२.५० ।।
शिखिपारावतशुकपिककोलाहलाकुले।
निरोधार्थं गवामेव धावमानमितस्ततः ।। ४२.५१ ।।
राधाविलासरसिकं कृष्णाख्यं पुरुषं परम्।
श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ।। ४२.५२ ।।
एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते।
गोलोकसंज्ञिके कृष्णो दीव्यतीति श्रुतं मया ।। ४२.५३ ।।
नातः परतरं किञ्चिन्निगमागमयोरपि।
तथापि निगमो वक्ति ह्यक्षरात् परतः परः ।। ४२.५४ ।।
गोलोकवासी भगवानक्षरात्पर उच्यते।
तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ।। ४२.५५ ।।
उद्दिष्टो वेद वचनैर्विशेषो ज्ञायते कथम्।
श्रुतेर्वार्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ।। ४२.५६ ।।
श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः।
विचारयामास चिरं न प्रपेदे यथातथम् ।। ४२.५७ ।।
          सूत उवाच।।
विचारयन्नपि मुनिर्नाप वेदार्थनिश्चयम्।
वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ।। ४२.५८ ।।
तथापि महतीमार्त्तिं सतां हृदयतापिनीम्।
पुनर्विचारयामास कं व्रजामि करोमि किम् ।। ४२.५९ ।।
पश्यामि न जगत्यस्मिन्सर्वज्ञं सर्वदर्शनम्।
अज्ञात्वाऽन्यतमं लोके सन्देहविनिवर्त्तकम् ।। ४२.६० ।।
मेरोः कुहरिणीं गत्वा चचार परमं तपः।
यत्र कार्त्तस्वरक्फूर्जज्ज्योत्स्नाजालैर्निरन्तरम् ।। ४२.६१ ।।
सदा प्रबाधते विष्वक्तमःस्तोमं दृशन्तुदम्।
चकास्ते यत्र परमं कान्तारमतिसुन्दरम् ।। ४२.६२ ।।
नानाद्रुमलत ---त्पक्षिनिनादितम्।
क्षुत्पिपासाभयक्रोधतापग्लानिविवर्जितम् ।। ४२.६३ ।।
जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः ।
जातरूपशिलानद्धतटसञ्चारपाक्ष ।। ४२.६४ ।।
युक्तमम्भोज पवनैः सेव्यमानं समन्ततः।
शिवैरध्यासितम्भावैर्हिंस्रैः सत्त्वैः समुज्झितम् ।। ४२.६५ ।।
निर्जनं दिव्यलतिकाप्रियखण्डवराजितम्।
शूकैः पारावतै र्हृद्यैरुन्मदन्मत्तकोकिलम् ।। ४२.६६ ।।
उत्पतत्पद्मरजसां पटलामोददिङ्‌मुखम्।
तत्रापि काञ्चिनी दिव्या गुहा परमशोभना ।। ४२.६७ ।।
तां प्रविश्य जिता हारो जितचित्तो जितासनः।
सस्मार वेदांश्चतुरस्तदेकाग्रमना मुनिः ।। ४२.६८ ।।
त्रयी जगाम शरदां शतस्य स्मरतोऽस्य हि ।
प्रादुरासंस्ततो वेदाश्चत्वारश्चारुदर्शनाः ।। ४२.६९ ।।
स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः।
कुशमुष्टिकराम्भोजा मृगत्वङ्मण्डितांसकाः ।। ४२.७० ।।
स्वरैः षोडशभिः क्लृप्त वदनाः प्रणवान्तराः।
कचवर्गोद्भवैर्वर्णैः पञ्चावयवपाणयः ।। ४२.७१ ।।
पवर्गदक्षचरणा वामपादास्तवर्गतः।
आतरन्त्यन्तवर्णाश्च येषां कुक्षिद्वयात्मकौ ।। ४२.७२ ।।
नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः।
अग्निदक्षांशरुचिरा धराग्रीवा भृतासकाः ।। ४२.७३ ।।
अन्तस्थसन्धिसंस्थाना वैखरीवाग्विजृम्भिताः।
अपश्यन्मथुरामेषां हृदयाम्भोजकल्पिताम् ।। ४२.७४ ।।
हरेर्भगवतः साक्षादाविर्भावस्थली हि सा।
काशीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ।। ४२.७५ ।।
लिङ्गदेशे ततः काञ्चीमवन्तीं नाभिमण्डले ।
[]कण्ठस्थां द्वारकामेषां प्रयागं प्राणगं तथा ।। ४२.७६ ।।
सव्यापसव्ययोस्तेषां गड्गाऽपि यमुना नदी ।
मध्ये सरस्वती साक्षाद्गयाक्षेत्रं तथानने ।। ४२.७७ ।।
हनुग्रीवामध्यगतं प्रभासक्षेत्रमुत्तमम्।
बदर्य्याश्रममेतेषां ब्रह्मरन्ध्रे ददर्श ह ।। ४२.७८ ।।
पौण्ड्रवर्धननेपालपीठं नयनयोर्युगे।
पीठं पूर्णगिरिंनाम ललाटे समदृश्यत ।। ४२.७९ ।।
कण्ठे च मथुरापीठं काञ्चीपीठं कटिस्थितम्।
जालन्धरं तथा पीठं स्तनदेशेष्वदृश्यत ।। ४२.८० ।।
भृगुपीठं कर्णदेशे ह्ययोध्यां नासिकापुटे।
ब्रह्मरन्ध्रे स्थितं ब्राह्यं शैवं सीमन्तसीमनि ।। ४२.८१ ।।
शाक्तं जिह्वाग्र धिषणं वैष्णवं हृदयाम्बुजे।
सौरं चक्षुःप्रदेशस्थं बौद्धञ्छायासु सङ्गतम् ।। ४२.८२ ।।
सौत्रामणिं कण्ठदेशे पशुबन्धमथोरसि।
वाजपेयं कटितटे ह्यग्निहोत्रं तथानने ।। ४२.८३ ।।
अश्वमेधं कटितटे नरमेधमथोदरे।
राजसूयं शिरोदेशे आवसथ्यं तथाऽधरे ।। ४२.८४ ।।
ऊर्द्ध्वोष्ठे दक्षिणाग्निञ्च गार्हपत्यं मुखान्तरे।
हव्यं श्रुतौ मन्त्रभेदांस्तथा रोमस्ववस्थितान्।
भृत्यैरिव महाराजं पुराणैर्न्यायमिश्रितैः ।। ४२.८५ ।।
संहिताभिश्च तन्त्रैश्च पृथक्पृथगुपासितान्।
कर्म ज्ञानोपासनाभिर्जनानुग्रहकारकान् ।। ४२.८६ ।।
दृष्ट्वा सुविस्मितमना मुनिः कृष्णो बभूव तान् ।
ब्रह्मतेजोमयान्दिव्यांस्तपतोऽर्कानिवच्युतान्।
ज्लतोऽग्नी निवोदर्कान्कोटीन्दुसमदर्शनान् ।। ४२.८७ ।।
ववन्दे सहसोत्थाय दण्डवत्पतितो मुनिः।
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहमितीरयन् ।। ४२.८८ ।।
अद्य मे सफलं जन्म अद्य मे सफलं मनः।
अद्य मे सफलञ्चायुर्यद्भवन्तोऽक्षिगोचराः ।। ४२.८९ ।।
अलौकिकंलौकिकञ्च यत् किञ्चिदपि विद्यते।
न तद्वोऽविदितं वेद्यं भूत भव्यं भवच्च यत् ।। ४२.९० ।।
न प्रवृत्तिफला यूयं दर्शयन्तोऽपि तान्सदा।
यदृच्छाकरसङ्कोचविधानायेह रागिणाम् ।। ४२.९१ ।।
प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा निधीतरौ।
न मृषारागविषयौ तत्सङ्कोचविधिक्षयौ ।। ४२.९२ ।।
अतो लोकहितैर्नूनं परमार्थनिरूपणे।
स्वोक्ताः स्वर्गादिविषयाः नश्वरा इति निन्दिताः ।। ४२.९३ ।।
अधिकारिविभेदेन कर्मज्ञानोपदेशतः।
त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्त्तिभिः ।। ४२.९४ ।।
अतोऽहं प्रष्टुमिच्छमि भवन्तश्चेत्कृपालवः ।
कर्मणां फलमादिष्टं सर्गः कामैकचेतसाम् ।। ४२.९५ ।।
ईशार्पितधियां पुंसां कृतस्यापि च कर्मणः।
चित्तशुद्धिस्ततो ज्ञानं मोक्षश्च तदनन्तरम् ।। ४२.९६ ।।
मोक्षो ब्रह्मैक्यमित्येवं सच्चिदानन्दमेव यत्।
सर्वं समाप्यते तस्मिञ्ज्ञाते यद्धि कृताकृतम् ।। ४२.९७ ।।
यन्निःसङ्गं चिदाकाशं ज्ञानरूपमसंवृतम्।
निरीहमचलं शुद्धमगुणं व्यापकं स्मृतम् ।। ४२.९८ ।।
विकारेषु विनश्यत्सु निर्विकारं न नश्यति।
यथान्धतमसा व्याप्तलोकस्य रविरोजसा ।। ४२.९९ ।।
लोहस्येव मणिस्तद्वदरणिश्चानले यथा।
यदाभासेन सा सत्तां प्रतिपद्य विजृम्भते ।। ४२.१०० ।।
जीवेश्वरादिरूपेण विश्वाकारेण चाप्यहो।
तस्यामपि प्रलीनायां कूटस्थञ्च यदेकलम् ।। ४२.१०१ ।।
भवद्भिरेवं निर्णीतं तत्तथैव न संशयः।
तथापि मम जिज्ञासा वर्त्तते केवलं हृदि ।। ४२.१०२ ।।
अतोऽपि परमं किञ्चिद्वर्त्तते किल वा न वा।
तद्वदन्तु महाभागा भवन्तस्तत्त्वदर्शनाः ।। ४२.१०३ ।।
यच्छ्रवः फलमेवेह जनुषो मे कृतार्थता।
एवं ब्रुवन्तमनघं व्यासं सत्यवतीसुतम्।
साधु साध्विति सङ्कीर्त्य प्रत्यूचु र्निगमा वचः ।। ४२.१०४ ।।
         वेदा ऊचुः ।।
साधु साधु महाप्राज्ञा विष्णुरात्मा शरीरिणाम्।
अजोऽपि जन्म सम्पद्य लोकानुग्रहमीहसे ।। ४२.१०५ ।।
अन्यथा ते न घटते संसारकर्म्मबन्दनम्।
अस्पृष्टो मायया देव्या कदाचिज्ज्ञानगूहया ।। ४२.१०६ ।।
बिभर्षि स्वेच्छया रूपं स्वेच्छयैव निगूहसे।
अस्मत्सम्मत एवार्थो भवता सम्प्रदर्शितः ।। ४२.१०७ ।।
पुराणेष्वितिहासेषु सूत्रेष्वपि च नैकधा।
अक्षरं ब्रह्म परमं सर्वकारणकारणम् ।। ४२.१०८ ।।
तस्यात्मनोऽप्यात्म भावतया पुष्पस्य गन्धवत्।
रसवद्वा स्थितं रूपमवेहि परमं हि तत् ।। ४२.१०९ ।।
अनुभूतं तदस्माभिर्जाते प्राकृतिके लये।
अक्षरात्परतस्तस्माद्यत्परं केवलो रसः ।
न च तत्र वयं शक्ताः शब्दातीते तदात्मकाः ।। ४२.११० ।।
इति श्रीमहापुराणे वायुप्रोक्ते व्याससंशयापनोदनं नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।

टिप्पणी

  1. श्रीरजनीशमहोदयकृतेन कुण्डली और सात शरीर व्याख्यानमालायां अपि विशुद्धिचक्रे चेतना देहबन्धनतः मुक्तिं प्राप्य अन्येषां चेतनायां प्रविशतुं शक्यते, अयं कथनमस्ति