वायुपुराणम्/उत्तरार्धम्/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः ५ वायुपुराणम्
अध्यायः ६
वेदव्यासः
उत्तरार्धम्, अध्यायः ७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



            ।।ऋषय उचुः ।।

एतच्छ्रुत्वा वचस्तस्य नैमिषेयास्तपस्विनः।
पप्रच्छुऋषयः श्रेष्ठं वचनस्य यथाक्रमम् ।। ६.१ ।।

सप्तस्विह कथं देवा जाता मन्वन्तरेष्विह।
इन्द्रविष्णुप्रधानास्ते आदित्यास्तु महौजसः।
एतत् प्रब्रूहि नः सर्वं विस्तराद्रोमहर्षण ।। ६.२ ।।

एव मुक्तस्तदा सूतो विनयी ब्रह्मवादिभिः।
उवाच वदतां श्रेष्ठो यथा पृष्टो महर्षिभिः ।। ६.३ ।।

          ।।सूत उवाच।।
व्रह्मणो वै मुखात् सृष्टा यथा देवाः प्रजेप्सया।
सर्व मन्त्रशरीरास्ते स्मृता मन्वतरेष्विह ।। ६.४ ।।

दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम्।
आकूतः प्रथमस्तेषां ततस्त्वाकूतिरेव च ।। ६.५ ।।

वित्तिश्चैव सुवित्तिश्च आकूतिः कूतिरेव च।
अधीष्टस्तु ततो ज्ञेयः अधीतिश्चैव तत्त्वतः।
विज्ञातिश्चैव विज्ञातो मानवो ये च द्वादश ।। ६.६ ।।

ज्ञेयो द्वादशपुत्रश्च यश्चाब्देन समाजयेत्।
तं दृष्ट्वा चाब्रवीद्ब्रह्मा जया देवानसूयत ।। ६.७ ।।

दारा ग्रिहोत्रसंयोगे मिथ्यामारभतेति च।
एवमुक्त्वा तु तं व्रह्मा तत्रैवान्तरधीयत ।। ६.८ ।।

ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः।
सत्यस्येह तु कर्माणि वाङ्मनः कर्मजानि तु ।। ६.९ ।।

य एवाप्यवतिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु।
क्षयातिशययुक्तन्तु ते दृष्ट्वा कर्मणां फलम् ।। ६.१० ।।

जुगुप्सन्तः प्रसूतिञ्च निस्तन्द्रा निर्ममाभवन्।
अजस्रं कांक्षमाणास्ते विरक्ता दोषदर्शिनः ।। ६.११ ।।

अर्थं धर्मञ्च कामञ्च हित्वा ते वै व्यवस्थिताः।
पौरुषं ज्ञानमास्थाय तेजः संक्षिप्य चास्थिताः ।। ६.१२ ।।

तेषाञ्च तमभिप्रायं ज्ञात्वा ब्रह्मा चुकोप ह।
तानब्रवीत्तदा ब्रह्मा निरुत्साहात् सुरानथ ।। ६.१३ ।।

प्रजार्थमिह यूयं वै प्रजास्रष्टाऽस्मि नान्यथा।
प्रसूयध्वं जयघ्वञ्चेत्युक्तवानस्मि यत् पुरा ।। ६.१४ ।।

यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः।
जुगुप्समानाः स्वं जन्म सन्ततिं नाभि नन्दथ ।। ६.१५ ।।

कर्मणाञ्च कृतो न्यासो ह्यमृतत्त्वाभिकांक्षया।
तस्माद्यूयमनादृत्य सप्तकृत्वस्तु यास्यथ ।। ६.१६ ।।

ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन्।
क्षमास्माकं महादेव यदज्ञानात् कृतं विभो ।। ६.१७ ।।

प्रणिपत्य सानुनयं ब्रह्मा तानब्रवीत् पुनः।
लोके मयाननुज्ञातः कः स्वातन्त्र्यमिहार्हसि ।। ६.१८ ।।

मया परिगतं सर्वं कथमच्छन्दतो मम।
प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वाऽशुभम् ।। ६.१९ ।।

लोके यदस्ति किञ्चिद्वै सत्त्वासत्त्वव्यवस्थितम्।
बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिसन्धयेत् ।। ६.२० ।।

भूतानां तर्कितं यच्च यच्चाप्येषां विधारितम्।
तथा विचारितं यच्च तत्सर्वं विदितं मम ।। ६.२१ ।।

मया स्थितमिदं सर्वं जगत् स्थावरजङ्गमम्।
आशामयेन तत्त्वेन कथं छेत्तुमिहोत्सहे ।। ६.२२ ।।

यस्माच्चाहं विवृत्तो वै सर्गार्थमिह नान्यथा।
इह कर्माण्यनारभ्य को मे छन्दाद्विमोक्ष्यते ।। ६.२३ ।।

परिभाष्य ततो देवान् जयान् वै नष्टचेतसः।
अब्रवीत्स पुनस्तान् वै धृतान् दण्डे प्रजापतिः ।। ६.२४ ।।

यस्मान्ममाभिसन्धाय सन्न्यासो वः कृतः पुरा।
यस्मात्स विफलोऽयन्नो ह्यपारस्त्वेष यः कृतः।
भविताऽतः सुखोदर्को देवा भावेषु जायताम् ।। ६.२५ ।।

आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः।
मन्वन्तरेषु संमूढाः षट्‌सु सर्वे गमिष्यथ ।। ६.२६ ।।

वैवस्वतान्तेषु सुरास्तथा स्वायम्भुवादिषु।
तान् ज्ञात्वा ब्रह्मणा तत्र श्लोको गीतः पुरातनः ।। ६.२७ ।।

त्रयीं विद्यां ब्रह्मचर्यं प्रसूतिं श्राद्धमेव च ।
यज्ञञ्चैव तु दानञ्च एषामेव तु कुर्वताम्।
स हि स्म विरजा भूत्वा वसतेऽन्यप्रशंसया ।। ६.२८ ।।

स एवं स्लोकं दृष्ट्वा तु जया देवानथाब्रवीत्।
वैवस्वतेऽन्तरेऽतीते मत्समीपमिहेष्यथ ।। ६.२९ ।।

ततो यूयं मया सार्द्धं सिद्धिं प्राप्स्यथ शाश्वतीम्।
एवमुक्त्वा तु तान् ब्रह्मा तत्रैवान्तरधीयत ।। ६.३० ।।

ततो देवास्तिरोभूते ईश्वरे ह्यकुतोभयम्।
प्रपन्ना अणिमाद्यैश्च युक्ता योगबलान्विताः ।। ६.३१ ।।

ततस्तेषान्तु यास्तन्वस्ताऽभवन् द्वादश ह्रदाः।
जया इति समाख्याता जाता श्चोदधिसन्निभाः ।। ६.३२ ।।

ततः स्वायम्भुवे तस्मिन् सर्गेते जज्ञिरे सुराः।
अजितायां रुचेः पुत्रा अजिता द्वादशात्मकः ।। ६.३३ ।।

विधिश्च मुनयश्चैव क्षेमो नन्दोऽव्ययस्तथा।
प्राणोऽपानः सुधामा च क्रतुशक्तिव्यवस्थिताः ।
इत्येते मानसाः सर्वे अजिता द्वादश स्मृताः ।। ६.३४ ।।

ते च यज्ञे सुरैः सार्द्धं यज्ञभाजस्तदा स्मृताः।
स्वायम्भुवेऽन्तरे पूर्वे ततः स्वारोचिषे पुनः।
तुषितायां समुत्पन्नाः पुनः पुत्राः स्वरोचिषः ।। ६.३५ ।।

तुषिता नाम ते ह्यासन् प्राणाख्या यात्रिकाः सुराः।
पुनस्ते तुषिता देवा उत्तमे त्वन्तरे स्वयम् ।। ६.३६ ।।

उत्तमस्य तु ते पुत्राः सत्यायां जज्ञिरे शुभाः।
ततः सत्याः स्मृता देवा उत्तमे चान्तरे तदा ।। ६.३७ ।।

अभजन् यज्ञभाजस्ते तृतीये द्वापरान्तरे।
ते तु सत्याः पुनर्द्देवाः सम्प्राप्ते तामसेऽन्तरे ।। ६.३८ ।।

हर्षा ये तमसः पुत्रा जज्ञिरे द्वादशैव तु ।
हरयो नाम ते देवा यज्ञभाजस्तथाऽभवन् ।। ६.३९ ।।

ततस्ते हरयो देवाः प्राप्ते चारिष्णवेऽन्तरे।
वैकुण्ठायां ततस्ते वै चरिष्णोर्जज्ञिरे सुराः।
वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मनोः ।। ६.४० ।।

ततस्ते वै पुनर्द्देवा वैकुण्ठाः प्राप्य चाक्षुषम्।
साध्यायां द्वादश सुता जज्ञिरे धर्मसूनवः ।। ६.४१ ।।

ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेऽन्तरे ।
उपस्थिते मनोः सर्गे पुनर्वैवस्वतस्य ह ।। ६.४२ ।।

आद्ये त्रेतायुगमुखे प्राप्ते वैवस्वतस्य तु ।
अंशेन साध्यास्तेऽदित्यां मारीचात् कश्यपात् पुनः ।। ६.४३ ।।

जज्ञिरे द्वादशादित्या वर्त्तमानेऽन्तरे पुनः।
यदा त्वेते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः ।। ६.४४ ।।

ततः स्वायम्भुवे साध्या जज्ञिरे द्वादशामराः।
एवमाद्या जयास्ते वै शापात्समभवंस्तदा ।। ६.४५ ।।

य इमां सप्तसम्भूतिं देवानां देवशासनात् ।
पठेद्यः श्रद्धया युक्तः प्रत्वायं न गच्छति ।। ६.४६ ।।

इत्येते भूतयः सप्त जयानां सप्तलक्षणाः।
परिक्रान्ता मया चाद्य किम्भूयः श्रोतुमिच्छथ ।। ६.४७ ।।

          ।।ऋष ऊचुः ।।

दैत्यानां दानवानाञ्च गन्धर्वोरगरक्षसाम्।
सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम्।
उत्पत्तिं निधनञ्चैव विस्तरात् कथयस्व नः ।। ६.४८ ।।

एवमुक्तस्तदा सूत उवाच ऋषिसत्तमान् ।
दितेः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।। ६.४९ ।।

कश्यपस्यात्मजौ तौ वै सर्वेभ्यः पूर्वजौ स्मृतौ।
सूत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिके ।। ६.५० ।।

हिरण्यकशिपुर्नाम प्रथमं ऋत्विगासनम्।
दित्या गर्भाद्विनिःसृत्य तत्रासीनोच्चसंसदि।
हिरण्यकशिपुस्तस्मात् कर्मणा तेन स स्मृतः ।। ६.५१ ।।

           ।।ऋषय ऊचुः ।।

हिरण्यकशिपोर्नाम जन्म चैव महात्मनः।
प्रभाव़ञ्चैव दैत्यस्य विस्तराद्ब्रूहि नः प्रभो ।। ६.५२ ।।

       ।।सूत उवाच।।
कश्यपस्याश्वमेधोऽभूत् पुण्यो वै पुष्करे पुरा।
ऋषिभिर्द्देवताभिश्च गन्धर्वै रुपशोभितः ।। ६.५३ ।।

उत्कृष्टेनैव विधिना आख्यानादौ यथाविधि।
आसनान्युपक्लृप्तानि काञ्चनानि तु पञ्च वै ।। ६.५४ ।।

कुशपूतानि त्रीण्यत्र कूर्चफलकमेव च।
मुख्यार्त्विजश्च चत्वारस्तेषान्तान्युपकल्पयेत् ।। ६.५५ ।।

शुभं तत्रासनं यत्तु होतुरर्थे प्रकल्पितम्।
हिरण्मयं तथा दिव्यं दिव्यास्तरणसंस्तृतम् ।। ६.५६ ।।

अन्तर्वत्नी दितिश्चैव पत्नीत्वं स्मुपागता।
दश वर्षसहस्राणि गर्भस्तस्या अवर्तत ।। ६.५७ ।।

स तु गर्भाद्विनिःसृत्य मातुर्वै उदरात्तदा।
उपक्लृप्तासनं यत्तु होतुरर्थे हिरण्मयम्।
निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ।। ६.५८ ।।

आक्यानपञ्चमान् वेदान् महर्षिः काश्यपो यथा।
तं दृष्ट्वा मुनयस्तस्य नामाकुर्वंस्तु तद्विधम् ।। ६.५९ ।।

हिरण्यकशिपुस्तस्मात् कर्मणा तेन विश्रुतः।
हिरण्याक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा।
राहोः सा जननी देवी विप्रचित्तेः परिग्रहात् ।। ६.६० ।।

हिरण्यकशिपुर्द्दैत्यश्चचार परमं तपः।
शतं वर्षसहस्राणां निराहारो ह्यधःशिराः ।। ६.६१ ।।

तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु।
सर्वामरत्वं विप्रेभ्यः सर्वभूतेभ्य एव च।
योगाद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ।। ६.६२ ।।

दानवाश्चासुराश्चैव देवाः समा भवन्तु वै।
मारुतेर्यन्महैश्वर्यमेष मे दीयतां वरः ।। ६.६३ ।।

एवमुक्तोऽथ ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम्।
दत्त्वा तस्मै वरान् दिव्यान् तत्रैवान्तरधीयत।
हिरण्यकशिपुर्दैत्यः श्लोकैर्गीतः पुरातनैः ।। ६.६४ ।।

राजा हिरण्यकशिपुर्यां यामाशां निषेवते।
तस्यास्तस्या दिशो देवा नमश्चक्रुर्महर्षिभिः ।। ६.६५ ।।

एवंप्रभावो दैत्येन्द्रो हिरण्यकशिपु र्द्विजाः।
तस्यासीन्नरसिंहः स विष्णुर्मृत्युः पुरा किल।
नखैस्तु तेन निर्भिन्नस्ततः शुद्धा नखाः स्मृताः ।। ६.६६ ।।

हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहा बलाः।
उत्कुरः शकुनिश्चैव कालनाभस्तथैव च ।। ६.६७ ।।

महानाभश्च विक्रान्तो भूतसन्तापनस्तथा।
हिरण्याक्षसुताः ह्येते देवैरपि दुरासदाः ।। ६.६८ ।।

तेषां पुत्राश्च पौत्राश्च बाडेयः सगणः स्मृतः।
शतन्तानि सहस्राणि निहतास्तारकामये ।। ६.६९ ।।

हिरण्यकशिपोः पुत्राश्चत्वारस्तु महाबलाः।
प्रह्लादः पूर्वजस्तेषामनुह्लादस्तथैव च।
संह्रादश्च ह्रदश्चैव ह्रदपुत्रान्निबोधत ।। ६.७० ।।

ह्रादो निसुन्दश्च तता ह्रदपुत्रौ बभूवतुः।
सुन्दोपसुन्दौ विक्रान्तौ निसुन्दतन यावुभौ ।। ६.७१ ।।

ब्रह्मघ्नस्तु महावीर्यो मूकस्तु ह्रददायिनः।
मारीचः सुन्दपुत्रस्तु ताडकामुपपद्यते ।। ६.७२ ।।

ताडका निहता साऽथ राघवेण बलीयसा।
मूको विनिहतश्चापि किराते सव्यसाचिना ।। ६.७३ ।।

उत्पन्ना महता चैव तपसा भाविताः स्वयम्।
तिस्रः कोट्यस्तु तेषां वै मणिवर्त्तनिवासिनाम्।
अवध्या देवतानां वै निहताः सव्यसाचिना ।। ६.७४ ।।

अनुह्लादसुतो वायुः शिनीवाली तथैव च ।
तेषान्तु शतसाहस्रो गणो हालाहलः स्मृतः ।। ६.७५ ।।

वैरोचनस्तु प्राह्लादिः पञ्च तस्यात्मजाः स्मृताः।
गवेष्ठी कालनेमिश्च जम्भो बाष्कल एव च।
शम्भुस्तु अनुजस्तेषां स्मृताः प्राह्लादिसूनवः ।। ६.७६ ।।

यथाप्रधानं वक्ष्यामि तेषां पुत्रान् दुरासदान्।
शुम्भश्चैव निशुम्भश्च विष्वक्सेनो महौजसः ।। ६.७७ ।।

गवेष्ठिनः सुता ह्येते जम्भस्य शतदुन्दुभिः।
तथा दक्षश्च खण्डश्च त्रयस्तु जम्भसूनवः ।। ६.७८ ।।

विरोधश्च मनुश्चैव वृक्षायुः कुशलीमुखः।
बाष्कलस्य सुता ह्येते कालनेमिसुतान् श्रृणु ।। ६.७९ ।।

ब्रह्मजित् क्षत्रजिच्चैव देवान्तकनरान्तकौ ।
कालनेमिसुता ह्येते शम्भोस्तु श्रृणुत प्रजाः ।। ६.८० ।।

धनुको ह्यसिलोमा च नाबलश्च सगोमुखः।
गवाक्षश्चैव गोमांश्च शम्भोः पुत्राः प्रकीर्त्तिताः ।। ६.८१ ।।

विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान्।
बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ।। ६.८२ ।।

तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः।
सहस्रबाहुर्ज्येष्ठस्तु बाणो द्रविणसम्मतः।
कुम्भनाभो गर्द्दभाक्षः कुशिरित्येवमादयः ।। ६.८३ ।।

शकुनी पूतना चैव कन्ये द्वे तु बलेः सुते।
बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।। ६.८४ ।।

बलिर्यो नामविख्यातो गणो विक्रान्तपौरुषः।
बाणस्य चन्द्र मनसो लौहित्यमुपपद्यते ।। ६.८५ ।।

दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम्।
स कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ।
वरेण च्छन्दयामास सा च वव्रे वरं ततः ।। ६.८६ ।।

स तु तस्यै वरं प्रादात् प्रार्थितं भगवन् प्रभुः।
किमिच्छसि मयि शुभ्रे मारीचस्तामभाषत ।। ६.८७ ।।

मारीचं कश्यपं तुष्टं भर्तारं प्राञ्जलिस्तथा।
हतपुत्रास्मि भगवान् आदित्यैस्तव सूनुभिः ।। ६.८८ ।।

शक्रहन्तारमिच्छेयं पुत्रं दीर्घतपोऽन्वितम्।
अहं तपश्चरिष्यामि गर्भ माधातुमर्हसि ।। ६.८९ ।।

तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तथा।
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ।। ६.९० ।।

एवं भवतु भद्रन्ते शुचिर्भव तपोधने।
जनयिष्यसि सत्पुत्रं शक्रहन्तारमाहवे ।। ६.९१ ।।

पूर्णं वर्षशतं तावत् शुचिर्यदि भविष्यसि ।
पुत्रं त्रिलोकप्रचरमथत्वं जनयिष्यसि ।। ६.९२ ।।

एवमुक्त्वा महातेजास्तया समवसत् प्रभुः ।
तामालिङ्ग्य त्रिभुवनं जगाम भगवानृषिः ।। ६.९३ ।।

गते भर्त्तरि सा देवी दितिः परमहर्षिता।
कुशलं वनमासाद्य तपस्तेपे सुदारुणम् ।। ६.९४ ।।

तपस्तस्यान्तु कुर्वन्त्यां परिचर्याञ्चकार ह।
सहस्राक्षः सुरश्रेष्ठः परया गुणसम्पदा ।। ६.९५ ।।

अग्निं समित्कुशं काष्ठं फलं मूलं तथैव च।
न्यवेदयत् सहस्राक्षो यच्चान्यदपि किञ्चन ।। ६.९६ ।।

गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा।
शक्रः सर्वेषु (लोकेषु) कालेषु दितिं परिचचार ह ।
एवमाराधिता शक्रमुवाचाथ दितिस्तथा ।। ६.९७ ।।

        ।।दितिरुवाच।।
प्रीता तेऽहं सुरश्रेष्ठ दशवर्षाणि पुत्रक।
अवशिष्टानि भद्रान्ते भ्रातरं द्रक्ष्यसे ततः ।। ६.९८ ।।

जयलिप्सां समाधास्ये लब्ध्वाहं तादृशं सुतम्।
त्रैलोक्यविजयं पूत्र प्राप्स्यामि सह तेन वै ।। ६.९९ ।।

एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे ।
निद्रयापहृता देवी जान्वोः कृत्वा शिरस्तदा ।। ६.१०० ।।

दृष्ट्वा तामशुचिं शक्रः पादयोर्गतमूर्द्धजाम् ।
तस्यास्तदन्तरं लब्ध्वा जहास च मुमोद च ।। ६.१०१ ।।

तस्याः शरीरं विवृतं विवेशाथ पुरन्दरः।
प्रविश्य चामितं दृष्ट्वा गर्भमिन्द्रो महौजसम्।
अभिनत्स प्रधानन्तु कुलिशेन महायशाः ।। ६.१०२ ।।

भिद्यमानस्तदा गर्भो वज्रेण शतपर्वणा।
रुरोद सस्वरं भीमं वेपमानः पुनः पुनः ।
मारोदीरिति तं गर्भं शक्रः पुनरभाषत ।। ६.१०३ ।।

तं गर्भं सप्तधाभूतं ह्येकैकं सप्तधा पुनः।
कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यत ।। ६.१०४ ।।

न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ।
निष्पपातोदराद्वज्री मातुर्वचनगौरवात्।
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।। ६.१०५ ।।

अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा।
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे।
भिन्नवान् गर्भमेतन्ते बहुधा क्षन्तुमर्हसि ।। ६.१०६ ।।

तस्मिस्तु विफले गर्भे दितिः परमदुःखिता।
सहस्राक्षं ततो वाक्यं मातुर्नयनमब्रवीत् ।। ६.१०७ ।।

ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः।
नापराधोऽस्ति देवेश ऋषिपुत्र महाबल ।। ६.१०८ ।।

शत्रोर्वधे न दोषोऽस्ति तेन त्वां न शपामि भोः।
प्रियन्तु कर्त्तुमिच्छामि श्रेयो गर्भस्य मे कुरु ।। ६.१०९ ।।

भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि।
वातस्कन्धानिमान् सप्त चरन्तु मम पुत्रकाः।
मरुतश्चेति विख्याता गणास्ते सप्त सप्तकाः ।। ६.११० ।।

पृथिव्यां प्रथमस्कन्धो द्वितीयश्चैव भास्करे।
सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ।। ६.१११ ।।

ग्रहेषु पञ्चमश्चैव षष्ठः सप्तर्षिमण्डले।
ध्रुवे तु सप्तमश्चैव वातस्कन्धः परस्तु सः ।। ६.११२ ।।

तान्येते विचरन्त्वद्य काले काले ममात्मजाः।
वातस्कन्धानिमान् भूत्वा चरन्तु मम पुत्रकाः ।। ६.११३ ।।

पृथिव्यां प्रथमस्कन्धो अमेध्येभ्यो य आवहः।
चरन्तु मम पुत्रास्ते प्रथमश्चरताङ्गणः ।। ६.११४ ।।

द्वितीयश्चापि मेध्येभ्य आसूर्यात् प्रवहस्तु यः।
वातस्कन्धं द्वितीयन्तु द्वितीयश्चरताङ्गणः ।। ६.११५ ।।

सूर्योर्द्ध्वन्तु ततः सोमादुद्वहो यस्तु वै स्मृतः।
वातस्कन्धन्तु तं प्राहुस्तृतीयश्चरताङ्गणः ।। ६.११६ ।।

सोमादूर्द्ध्वं तथर्क्षेभ्यश्चतुर्थः सुवहस्तु यः।
चतुर्थो मम पुत्राणां गणस्तु चरतां विभो ।। ६.११७ ।।

यक्षेभ्यश्च तथैवोर्द्ध्वमाग्रहाद्विवहस्तु यः।
पञ्चमं पञ्चमः सौम्यः स्कन्धस्तु चरताङ्गणः ।। ६.११८ ।।

ऊर्द्ध्वं ग्रहादृषिभ्यस्तु षष्ठो यो वै पराहतः ।
चरन्तु मम पुत्रास्तु तत्र षष्ठे गणे तु ये ।। ६.११९ ।।

सप्तर्षयस्तथैवोर्द्ध्वमाध्रुवात् सप्तमस्तु यः।
वात स्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ।। ६.१२० ।।

एतत् सर्वं चरन्त्वेते काले काले ममात्मजाः।
तत्र तेन च नाम्ना वै भवन्तु मरुतस्त्विमे ।। ६.१२१ ।।

ततस्तेषान्तु नामानि मातापुत्रौ प्रचक्रतुः।
तत्कृते कर्मभिश्चैव मरुतो वै पृथक् पृथक् ।। ६.१२२ ।।

सत्त्वज्योतिस्तथादित्यः सत्यज्योतिस्तथाऽपरः।
तिर्यग्ज्योतिश्च सज्योतिर्ज्ज्योतिष्मानपरस्तथा ।। ६.१२३ ।।

प्रथमस्तु गणः प्रोक्तो द्वितीयं मे निबोधत।
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ।। ६.१२४ ।।

सत्मित्रोऽभिमित्रश्च हरिमित्रस्तथाऽपरः।
गण एष द्वितीयस्तु तृतीयं मे निबोधत ।। ६.१२५ ।।

कृतः सत्यो * * * * ध्रुवो धर्त्ता विधारयः ।
ध्वान्तश्चैव धुनिश्चैव ह्युग्रो भीमस्तथैव च।
अभियुः सक्षिपश्चैवमाह्वयश्च गणः स्मृतः ।। ६.१२६ ।।

ईदृकू चैव तथान्यादृक् यादृक् च प्रतिकृत्तथा।
(?) समितिश्चैव संरम्भश्च तथा गणः ।। ६.१२७ ।।

ईदृक् च पुरुषश्चैव अन्यादृक्षाच्च चेतसः।
समितासमितदृक्षाच्च प्रतिदृक्षाच्च वै गुणाः ।। ६.१२८ ।।

एते ह्येको नपञ्चाशन्मरुतो नामतः स्मृताः।
प्रसंख्यातास्तथा ताभ्यां दित्या चन्द्रेण चैव हि ।। ६.१२९ ।।

श्रुत्वा तेषान्तु नामानि दितिरिन्द्रमुवाच ह।
वात स्कन्धं चरन्त्वेते मम पुत्राश्च पुत्रक।
विचरन्तु च भद्रन्ते देवैः सह ममात्मजाः ।। ६.१३० ।।

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः।
उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा ।। ६.१३१ ।।

सर्वमेतद्यथोक्तन्ते भविष्यति न संशयः।
देवभूता महात्मानः कुमारा देवसंमताः।
देवैः सह भविष्यन्ति यज्ञ भाजस्तथात्मजाः ।। ६.१३२ ।।

तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजामराः।
विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तपस्विनः ।। ६.१३३ ।।

एवं तौ निश्चयं ज्ञात्वा मातापुत्रौ तपोधनौ।
जग्मतुस्त्रिदिवं हृष्टौ शक्रोऽपि त्रिदिवं गतः ।। ६.१३४ ।।

मरुतां हि शुभं जन्म श्रृणुयाद्यः पठेत वा।
नावृष्टिभयमाप्नोति बह्वायुश्च भवेत्ततः ।। ६.१३५ ।।

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नाम षष्ठोऽध्यायः ।। ६ ।। *