वायुपुराणम्/उत्तरार्धम्/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः २९ वायुपुराणम्
अध्यायः ३०
वेदव्यासः
उत्तरार्धम्, अध्यायः ३१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०

           सूत उवाच।।
एते पुत्रा महात्मानः पञ्चैवासन् महाबलाः।
स्वर्भानुतनया विप्राः प्रभायां जज्ञिरे नृपाः ।। ३०.१ ।।

नहुषः प्रथमस्तेषां पुत्रधर्म्मा ततः स्मृतः।
धर्म्मवृद्धात्मजश्चैव सुतहोत्रो महायशाः ।। ३०.२ ।।

सुतहोत्रस्य दायादास्त्रयः परमधार्म्मिकाः।
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।। ३०.३ ।।

पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः।
ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।। ३०.४ ।।

एतस्य वंशे सम्भूता विचित्रैः कर्म्मभिर्द्विजाः।
शलात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ।। ३०.५ ।।

शौनकाश्चार्ष्टिषेणाश्च क्षात्रोपेता द्विजातयः।
काशस्य काशयो राष्टः पुत्रो दीर्घतपास्तथा ।। ३०.६ ।।

धर्म्मश्च दीर्घतपसो विद्वान् धन्वन्तरिस्ततः।
तपसा सुमहातेजा जातो वृद्धस्य धीमतः।
अथैनमृषयः प्रोचुः सूतं वाक्यमिमं पुनः ।। ३०.७ ।।

       ऋषय ऊचुः ।।

कथं धन्वन्तरिर्द्देवो मानुषेष्विह जज्ञिवान्।
एतद्वेदितुमिच्छामस्ततो ब्रूहि प्रियं तथा ।। ३०.८ ।।

           सूत उवाच।।
धन्वन्तरेः सम्भवोऽयं श्रूयतामिह वै द्विजाः।
स सम्भूतः समुद्रान्ते मथ्यमानेऽमृते पुरा ।। ३०.९ ।।

उत्पन्नः सकलात् पूर्व्वं सर्व्वतश्च श्रियावृतः।
सर्व्वसंसिद्धकायं तं दृष्ट्वा विष्टम्भितः स्थितः।
अजस्त्वमिति होवाच तस्मादजस्तु सः स्मृतः ।। ३०.१० ।।

अजः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो।
विधत्स्व भागं स्थानञ्च मम लोके सुरोत्तम ।। ३०.११ ।।

एवमुक्तः सुदृष्ट्वा तु तथा प्रोवाच स प्रभुः ।
कृतो यज्ञविभागस्तु यज्ञियौर्हे सुरैस्तथा ।। ३०.१२ ।।

वेदेषु विधियुक्तञ्च विधिहोत्रं महर्षिभिः।
न शक्यमिह होमो वै तुल्यं कर्त्तुं कदाचन ।। ३०.१३ ।।

अर्वाक्सुतोऽसि हे देव नाममन्त्रोऽसि वै प्रभो।
द्वितीयायान्तु सम्भूत्यां लोके ख्यातिङ्गमिष्यसि ।। ३०.१४ ।।

अणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति।
तेनैव च शरीरेण देवत्वं प्राप्स्यसि प्रभो।
चारुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ।। ३०.१५ ।।

अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि।
अवश्यम्भावी ह्यर्थोऽयं प्राग्दिष्टस्त्वब्जयोनिना ।। ३०.१६ ।।

द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः।
तस्मात् तस्मै वरं दत्त्वा विष्णुरन्तर्दघे ततः ।। ३०.१७ ।।

द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट्।
पुत्रकाम स्तपस्तेपे नृपो दीर्घतपास्तथा ।। ३०.१८ ।।

अजं देवन्तु पुत्रार्थे ह्यारिराधयिषुर्नृपः।
वरेण च्छन्दयामास प्रीतो धन्वन्तरिर्नृपम् ।। ३०.१९ ।।

        नृप उवाच।।
भगवन् यदि तुष्टस्त्वं पुत्रो मे धृतिमान् भव।
तथेति समनुज्ञाय तत्रैवान्तरधीयत ।। ३०.२० ।।

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा।
काशिराजो महाराजः सर्व्वरोगप्रणाशनः ।। ३०.२१ ।।

आयुर्वेदं भरद्वाजश्चकार सभिषक्क्रियम्।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ।। ३०.२२ ।।

धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः।
अथ केतुमतः पुत्रो विभो भीमरथो नृपः।
दिवोदास इति ख्यातो वाराणस्यधिपोऽभवत् ।। ३०.२३ ।।

एतस्मिन्नेव काले तु पुरीं वाराणसीं पुरा।
शून्यां विवेशयामास क्षेणको नाम राक्षसः ।। ३०.२४ ।।

शप्ता हि सा पुरी पूर्व्वं निकुम्भेन महात्मना।
शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ।। ३०.२५ ।।

तस्यान्तु शप्तमात्रायां दिवोदासः प्रजेश्वरः।
विषयान्ते पुरीं रम्यां गोमत्यां सन्न्यवेशयत् ।। ३०.२६ ।।

          ऋष ऊचुः।।
वाराणसीं किमर्थन्तां निकुम्भः शप्तवान् पुरा।
निकुम्भश्चापि धर्म्मात्मा सिद्धक्षेत्रं शशाप यः ।। ३०.२७ ।।

             सूत उवाच।।
दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः।
वसते स महातेजाः स्फीतायां वै नराधिपः ।। ३०.२८ ।।

एतस्मिन्नेव काले तु कृतदारो महेश्वरः।
देव्याः स प्रियकामस्तु वसानश्च सुरान्तिके ।। ३०.२९ ।।

देवाज्ञया पारिषदा विश्वरूपास्तपोधनाः।
पूर्वोक्तै रूपविशेषस्तोषयन्ति महेश्वरीम् ।। ३०.३० ।।

हृष्यति तैर्महादेवो मेना नैव तु हृष्यति।
जुगुप्सते सा नित्यञ्च देवं देवीं तथैव च ।। ३०.३१ ।।

मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः।
दरिद्रः सर्व एवेह अक्लिष्टं लडतेऽनघे ।। ३०.३२ ।।

मात्रा तथोक्ता वचसा स्त्रीस्वबावान्नचाक्षमत्।
स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत् ।। ३०.३३ ।।

विषण्णवदना देवी महादेवमभाषत।
नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ।। ३०.३४ ।।

तथोक्तस्तु महादेवः सर्वांल्लोकानवेक्ष्य ह।
वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः।
वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ।। ३०.३५ ।।

दिवो दासेन तां ज्ञात्वा निविष्टान्नगरीं भवः।
पार्श्वास्थं स समाहूय गणेशं क्षेमकं ब्रवीत् ।। ३०.३६ ।।

गणेश्वर पुरीङ्गत्वा सून्यां वाराणसीं कुरु।
मृदुना चाब्युपायेन अतिवीर्यः स पार्थिवः ।। ३०.३७ ।।

ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं पुरा ।
स्वप्ने सन्दर्शयामास मङ्कनं नाम नापितम् ।। ३०.३८ ।।

श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ।
मद्रूपां प्रतिमां कृत्वा नगर्य्यन्ते निवेशय ।। ३०.३९ ।।

तथा स्वप्ने यथा दृष्टं सर्वं कारितवान् द्विजाः।
नगरीद्वार्यनुज्ञाप्य राजानन्तु यथाविधि ।। ३०.४० ।।

पूजा तु महती चैव नित्यमेव प्रयुज्यते।
गन्धैर्धूपैश्च माल्यैश्च प्रेक्षणीयैस्तथैव च ।। ३०.४१ ।।

अन्नप्रदानयुक्तैश्च अत्यद्भुतमिवाभवत्।
एवं सम्पूज्यते तत्र नित्यमेव गणेश्वरः ।। ३०.४२ ।।

ततो वरसहस्राणि नगराणां प्रयच्छति ।
पुत्रान् हिरण्यमायूंषि सर्व्वकामांस्तथैव च ।। ३०.४३ ।।

राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता।
पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ।। ३०.४४ ।।

पूजान्तु विपुलां कृत्वा देवी पुत्रानयाचत।
पुनः पुनरथागम्य बहुशः पुत्रकारणात् ।। ३०.४५ ।।

न प्रयच्छति पुत्रांस्तु निकुम्भः कारणेन तु।
राजा यदि तत् क्रुध्येत ततः किञ्चित् प्रवर्त्तते ।। ३०.४६ ।।

अथ दीर्घेण कालेन क्रोधो राजानमाविशत्।
भूतं त्विदं महाद्वारि नगराणां प्रयच्छति ।। ३०.४७ ।।

प्रीत्या वरांश्च शतशो न किञ्चित्तु प्रवर्त्तते।
मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ।। ३०.४८ ।।

तत्रार्च्चितश्च बहुशो देव्या मे तत्र कारणात् ।
न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ।। ३०.४९ ।।

अतो नार्हति पूजान्तु मत्सकाशात् कथञ्चन।
तस्मात्तु नाशयिष्यामि तस्य स्थानं दुरात्मनः ।। ३०.५० ।।

एवं तु सविनिश्चित्य दुरात्मा राज किल्बिषी।
स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ।। ३०.५१ ।।

भग्नमायतनं दृष्ट्वा राजानमगमत् प्रभुः।
यस्मादृतेऽपराधं मे त्वया स्थानं विना शितम् ।। ३०.५२ ।।

अकस्मात् तु पुरी शून्या भवित्री ते नराधिप।
ततस्तेन तु शापेन शून्या वाराणसी तथा ।। ३०.५३ ।।

शप्तां पुरीं निकुम्भस्तु महादेवमथानयत्।
शून्यां पुरीं महादेवो निर्म्ममे परमात्मना ।। ३०.५४ ।।

तुल्यां देवविभूत्यास्तु देव्याश्चैव महात्मनः।
रमते तत्र वै देवी रममाणे महेश्वरः ।। ३०.५५ ।।

न रतिं तत्र वै देवी लभते गृहविस्मयात्।
देव्याः क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ।। ३०.५६ ।।

नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम्।
प्रहस्यैनामथोवाच अविमुक्तं हि मे गृहम् ।। ३०.५७ ।।

नाहं देवि गमिष्यामि गच्छस्वेह रमाम्यहम्।
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ।। ३०.५८ ।।

एवं वाराणसी शप्ता अविमुक्तं च कीर्त्तितम्।
यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः।
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ।। ३०.५९ ।।

अन्तर्द्धानं कलौ याति तत्पुरन्तु महात्मनः।
अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ।। ३०.६० ।।

एवं वाराणसी शप्ता निवेशं पुनरागता।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ।। ३०.६१ ।।

हत्वा निवेशयामास दिवोदासो नराधिपः।
भद्रश्रेण्यस्य राज्यन्तु हृतन्तेन बलीयसा ।। ३०.६२ ।।

भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम नामतः।
दिवोदासेन बालेति घृणया स विवर्जितः ।। ३०.६३ ।।

दिवोदासादॄषद्वत्यां वीरो जज्ञे प्रतर्द्दनः।
तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ।। ३०.६४ ।।

वैरस्यान्तं महाराज्ञा तदा तेन विधत्सता।
प्रतर्द्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतः ।। ३०.६५ ।।

वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ।
अलर्कं प्रति राजर्षिर्गीतश्लोकौ पुरातनौ ।। ३०.६६ ।।

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
युवा रूपेण सम्पन्नो ह्यलर्कः काशिसत्तमः ।। ३०.६७ ।।

लोपामुद्रा प्रसादेन परमायुरवाप्तवान् ।। ३०.६८ ।।

शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम्।
रम्यामावासयामास पुरीं वाराणसीं नृपः ।। ३०.६९ ।।

सन्नतेरपि दायादः सुनीथो नाम धार्मिकः।
सुनीथस्य तु दायादः सुकेतुर्नाम धार्म्मिकः ।। ३०.७० ।।

सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतिः।
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।। ३०.७१ ।।

सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः।
सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः ।। ३०.७२ ।।

सुकुमारस्य पुत्रस्तु धृष्टकेतुः स धार्म्मिकः।
धुष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।। ३०.७३ ।।

वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः।
गार्ग्यस्य गर्गभूमिस्तु वात्स्यो वत्सस्य धीमतः ।। ३०.७४ ।।

ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्म्मिकाः।
विक्रान्ता बलवन्तश्च सिंहतुल्यपराक्रमाः ।। ३०.७५ ।।

इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत।
रजेः पुत्रशतान्यासन् पञ्च वीर्यवतो भुवि।
राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ।। ३०.७६ ।।

तदा दैवासुरे युद्धे समुत्पन्ने सुदारुणे।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ।। ३०.७७ ।।

आवयोर्भगवान् युद्धे विजेता को भविष्यति।
ब्रूहि नः सर्व्वलोकेश श्रोतुमिच्छामहे वयम् ।। ३०.७८ ।।

       ब्रह्मोवाच।।
येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः।
योत्स्यते ते विजेष्यन्ति त्रील्लोँकान्नात्र संशयः ।। ३०.७९ ।।

रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः।
यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ।। ३०.८० ।।

तद्देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम्।
अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ।। ३०.८१ ।।

ते हृष्टमनसः शर्वे राजानं देवदानवाः।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ।। ३०.८२ ।।

       रजिरुवाच।।
अहञ्जेष्यामि नो युद्धे देवान् शक्रपुरोगमान्।
इन्द्रो भवामि धर्मात्मा ततो योत्स्यामि संयुगे ।। ३०.८३ ।।

         दानवा ऊचुः।।
अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे।
अस्मिस्तु समये राजंस्तिष्ठेथादेव नोऽदितेः ।। ३०.८४ ।।

स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः।
भविष्यसीन्द्रो जित्वेति देवैरपि निमन्त्रितः ।। ३०.८५ ।।

जघान दानवान् सर्व्वान् समक्षं वज्रपाणिनः।
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ।। ३०.८६ ।।

निहत्य दानवान् सर्व्वान् व्याजहार रजिः प्रभुः।
तं तथा तु रझिं तत्र देवैस्सह शतक्रतुः ।। ३०.८७ ।।

रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः।
ईन्द्रोऽसि राजन् देवानां सर्वेषान्नात्र संशयः।
यस्याहमिन्द्रपुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ।। ३०.८८ ।।

स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया।
तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ।। ३०.८९ ।।

तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ।
दायाद्यमिन्द्रादाजह्रुराचारं तनया रजेः ।। ३०.९० ।।

तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः।
समक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।। ३०.९१ ।।

ततः काले बहुतिथे सतीते महाबलः।
हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ।। ३०.९२ ।।

बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे।
ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः ।। ३०.९३ ।।

ब्रह्मन् कृशोऽयं विमना हृतराज्यो हृताशनः।
हतौजा दुर्बलो मूढो रजिपुत्रैः प्रसीद मे ।। ३०.९४ ।।

        बृहस्पतिरुवाच।।
यद्येवं चोदितः शक्र त्वया स्यां पूर्व्वमेव हि।
नाभविष्यत् त्वत्प्रियार्थं नाकर्त्तव्यं ममानघ ।। ३०.९५ ।।

प्रयतिष्यामि देवेन्द्र तद्धितार्थं महाद्युते।
यथा भागञ्च राज्यञ्च अचिरात् प्रतिपत्स्यसे ।। ३०.९६ ।।

तथा शक्र गमिष्यामि माभूत्ते विक्लवं मनः।
ततः कर्म्म चकारास्य तेजःसंवर्द्धनं महत् ।। ३०.९७ ।।

तेषाञ्च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः।
ते यदा ससुता मूढा रागोत्पन्न विधर्म्मिणः ।। ३०.९८ ।।

ब्रह्मद्विषश्च संवृत्ता हतवीर्य्यपराक्रमाः।
ततो लेभे सुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ।। ३०.९९ ।।

हत्वा रजिसुतान् सर्वान्कामक्रोधपरायणान्।
य इदं पावनं स्थानं प्रतिष्ठानं शतक्रतोः।
श्रृणुयाद्वा रजेर्वापि न स दौरात्म्यमाप्नुयात् ।। ३०.१०० ।।

इति श्रीमहापुराणे वायुप्रोक्ते रजियुद्धं नाम त्रिंशोऽध्यायः ।। ३० ।। *