सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः २७

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः २६ वायुपुराणम्
अध्यायः २७
वेदव्यासः
उत्तरार्धम्, अध्यायः २८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


          ।।सूत उवाच।।
अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोधत।
योऽसौ निवेशयामास पुरन्देवपुरोपमम् ।। २७.१ ।।

जयन्तमितिविख्यातं गौतमस्याश्रमाभितः।
यस्यान्ववाये यज्ञे वै जनकादृषिसत्तमात् ।। २७.२ ।।

नेमिर्नाम सुधर्मात्मा सर्वसत्वनमस्कृतः।
आसीत् पुत्रो महाप्राज्ञ इक्ष्वाकोर्भूरितेजसः ।। २७.३ ।।

स शापेन वसिष्ठस्य विदेहः समपद्यत।
तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ।। २७.४ ।।

अरण्यां मथ्यमानायां प्रादुर्भूतो महायशाः।
नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ।। २७.५ ।।

मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत्।
राजासौ जनको नाम जनकाच्चाप्युदावसुः ।। २७.६ ।।

उदावसोः सुधर्मात्मा जनितो नन्दिवर्द्धनः।
नन्दिवर्द्धनतः शूरः सुकेतुर्नाम धार्मिकः ।। २७.७ ।।

सुकेतोरपि धर्मात्मा देवरातो महाबलः।
देवरातस्य धर्मात्मा बृहदुच्छ इति श्रुतिः ।। २७.८ ।।

बृहदुच्छस्य तनयो महावीर्यः प्रतापवान् ।
महावीर्यस्य धृतिमान् सुधृतिस्तस्य चात्मजः ।। २७.९ ।।

सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः।
धृष्टकेतु सुतश्चापि हर्यश्वो नाम विश्रुतः ।। २७.१० ।।

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतित्वकः।
प्रतित्वकस्य धर्मात्मा राजा कीर्त्तिरथः सुतः ।। २७.११ ।।

पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः ।
देवमीढस्य विबुधो विबुधस्य सुतो धृतिः ।। २७.१२ ।।

महाधृतिसुतो राजा कीर्त्तिराजः प्रतापवान् ।
कीर्त्ति राजात्मजो विद्वान् महारोमेति विश्रुतः ।। २७.१३ ।।

महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत।
स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवनृपः ।। २७.१४ ।।

ह्रस्वरोमात्मजो विद्वान् सीरध्वज इति श्रुतिः।
उद्भिन्ना कृषता येन सीता राज्ञा यशस्विनी।
रामस्य महिषी साध्वी सुव्रतातिपतिव्रता ।। २७.१५ ।।

        शांशपायन उवाच।।
कथं सीता समुत्पन्ना कृष्यमाणा यशस्विनी।
किमर्थञ्चाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह ।। २७.१६ ।।

           सूत उवाच।।
अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः।
विधिना सुप्रयुक्तेन तस्मात्सा तु समुत्थिता ।। २७.१७ ।।

सीरध्वजात्तु जातस्तु भानुमान्नाम मैथिलः।
भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः ।। २७.१८ ।।

तस्य भानुमतः पुत्रः प्रद्युम्नश्च प्रतापवान्।
मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ।। २७.१९ ।।

ऊर्जवहात् सुतद्वाजः शकुनिस्तस्य चात्मजः।
स्वागतः शकुनेः पुत्रः सुवर्च्चास्तत्सुतः स्मृतः ।। २७.२० ।।

श्रुतो यस्तस्य दायादः सुश्रुतस्तस्य चात्मजः।
सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ।। २७.२१ ।।

विजयस्य ऋतः पुत्र ऋतस्य सुनयः स्मृतः।
सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ।। २७.२२ ।।

धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः।
तस्मिन् सन्तिष्टते वंशो जनकानां महात्मनाम्।
इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ।। २७.२३ ।।

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतमनुवंशकीर्त्तनं नाम सप्तविंशोऽध्यायः ।। २७ ।।

      वायूमहापुराणम् -
       उत्तरार्द्धम् - २८
       ।।सूत उवाच ।।

पिता सोमस्य वैविप्रा जज्ञेऽत्रिर्भगवानृषिः।
सोऽति तस्थौ सर्वलोकान्भगवान्त्स्वेन तेजसा ।। २८.१ ।।

कर्मणा मनसा वाचा शुभान्येव समाचरन्।
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ।। २८.२ ।।

सुदुश्चरं नाम तपो येन तप्तं महत्पुरा।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ।। २८.३ ।।

तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहम्।
सोमत्वन्तनुरापेदे महाबुद्धिः स वै द्विजः ।। २८.४ ।।

ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः।
सोमः सुस्राव नेत्राभ्यां दश वा द्योतयन् दिशः ।। २८.५ ।।

तं गर्भं विधिनादिष्टा दश देव्यो दधुस्तदा।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ।। २८.६ ।।

स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः।
यथावभासयंल्लोकाञ्झीतांशुः सर्वभावनः ।। २८.७ ।।

यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः।
ततः स ताभिः शीतांशुर्निपपात वसुन्धराम् ।। २८.८ ।।

पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः।
रथमारोपयामास लोकानां हितकाम्यया ।। २८.९ ।।

स हि देवमयो विप्रा धर्म्मार्थी सत्यसङ्गरः।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् ।। २८.१० ।।

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि।
तुष्टुवुर्ब्रह्मणः पुत्राः मानसाः सप्त विश्रुताः ।। २८.११ ।।

तत्रैवाङ्गिरसस्तस्य भृगोश्चैवात्मजस्तथा।
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ।। २८.१२ ।।

ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः।
आप्यायमानं लोकांस्त्रीन् भावयामास सर्व्वशः ।। २८.१३ ।।

समेन रथमुख्येन सागरान्तां वसुन्धराम्।
त्रिःसप्तकृत्वो विपुल श्चकाराभिप्रदक्षिणम् ।। २८.१४ ।।

तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत।
ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत ।। २८.१५ ।।

ताभिर्धार्यत्ययं लोकान् प्रजाश्चापि चतुर्विधाः।
पोष्टा हि भगवान् सोमो जगतो हि द्विजोत्तमाः ।। २८.१६ ।।

स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्म्मभिः।
तपस्तेपे महाभागः पझानां दशतीर्दश ।। २८.१७ ।।

हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्।
विभुस्तासाम्भवेत्सोमः प्रख्यातः स्वेन कर्म्मणा ।। २८.१८ ।।

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः।
बीजौषधिषु विप्राणामपाञ्च द्विजसत्तमाः ।। २८.१९ ।।

सोऽभिषिक्तो महातेजा महाराज्येन राजराट् ।
लोकानां भावयामास स्वभावात्तपतां वरः ।। २८.२० ।।

सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ।। २८.२१ ।।

स तत्प्राप्य महद्राजयं सोमः सोमवतां प्रभुः।
समाजज्ञे राजसूयं सहस्रशतदक्षिणम् ।। २८.२२ ।।

हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्।
सदस्यस्तत्र भगवान् हरिर्नारायणः प्रभुः ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ।। २८.२३ ।।

दक्षिणामददत्सोमस्त्रील्लोँकानिति नः श्रुतम्।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ।। २८.२४ ।।

तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभावसुः।
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ।। २८.२५ ।।

प्राप्यावभृथमव्यग्रः सर्व्वदेवर्षिपूजितः।
अतिराजातिराजेन्द्रो दशधातापयद्दिशः ।। २८.२६ ।।

तदा तत् प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम्।
स विभ्रममतिर्विप्रा विनये विनयो हतः ।। २८.२७ ।।

बृहस्पतेः स वै भार्यान्तारां नाम यशस्विनीम्।
जहार सहसा सर्व्वानवमत्याङ्गिरःसुतान् ।। २८.२८ ।।

स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह।
नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ।। २८.२९ ।।

उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो द्विजाः।
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ।। २८.३० ।।

तेन स्नेहेन भगवान् रुद्रस्तस्य बृहस्पतेः।
पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवन्धनुः ।। २८.३१ ।।

तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं महात्मना।
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ।। २८.३२ ।।

तत्र तद्युद्धमभवत् प्रत्यक्षन्तारकामयम्।
देवानां दानवानाञ्च लोकक्षयकरं महत् ।। २८.३३ ।।

तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः।
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ।। २८.३४ ।।

ततो निवार्योशनसं रुद्रं ज्येष्ठञ्च शङ्करम्।
ददावाङ्गिरसे तारां स्वयमेव पितामहः ।। २८.३५ ।।

अन्तर्वत्नीं च तां दृष्ट्वा तारान्ताराधिपाननाम्।
गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ।। २८.३६ ।।

मदीयायां तनौ योनौ गर्भो धार्यः कथञ्चन।
अथो नावसृजत्तन्तु कुमारं दस्युहन्तमम् ।। २८.३७ ।।

ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम्।
जातमात्रोऽथ भगवान् देवानामाक्षिपद्वपुः ।। २८.३८ ।।

ततः संशयमापन्नास्तारामकथयन् सुराः।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।। २८.३९ ।।

ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा ।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।। २८.४० ।।

सन्निवार्य तदा ब्रह्मा तारां चन्द्रस्य संशयः।
यदत्र तथ्यन्तद्‌ब्रूहि तारे कस्य सुतस्त्वयम् ।। २८.४१ ।।

सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम्।
सोमस्येति महात्मानं कुमारन्दस्युहन्तमम् ।। २८.४२ ।।

ततः स तमुपाघाय सोमो दाता प्रजापतिः।
बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।। २८.४३ ।।

प्रतिपूर्व्वञ्च गमने समभ्युत्तिष्ठते बुधैः।
उत्पादयामास तदा पुत्रं वै राजपुत्रिका ।। २८.४४ ।।

तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः ।
उर्वश्यां जज्ञिरे तस्य पुत्राः षट् सुमहौजसः ।। २८.४५ ।।

प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा ।
ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ।। २८.४६ ।।

तस्य तत्पापशमनं चकारात्रिर्महायशाः।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्व्वशः ।। २८.४७ ।।

एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः।
वंशन्तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ।। २८.४८ ।।

धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम्।
सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ।। २८.४९ ।।

इति श्रीमहापुराणे वायुप्रोक्ते शोमोत्पत्तिर्नामाष्टाविंशोऽध्यायः ।। २८ ।। *
      वायूमहापुराणम् -
        उत्तरार्द्धम् - २९
        सूत उवाच ।।

सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ।। २९.१ ।।

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः।
आहर्त्ता चाग्निहोत्रस्य यज्वनाञ्च ददौ महीम् ।। २९.२ ।।

सत्यवाक् कर्म्मबुद्धिश्च कान्तः संवृतमैथुनः।
अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ।। २९.३ ।।

तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम्।
उर्वशी वरयामास हित्वा मानं यशस्विनी ।। २९.४ ।।

तया सहावसद्राजा दशवर्षाणि चाष्ट च।
सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ।। २९.५ ।।

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे।
अलकायां विशालायां नन्दने च वनोत्तमे ।। २९.६ ।।

गन्धमादनपादेषु मेरुश्रृङ्गे नगोत्तमे।
उत्तरांश्च कुरून् प्राप्य कलापग्राममेव च ।। २९.७ ।।

एतेषु वनसुख्येषु सुरैराचरितेषु च।
उर्वश्या सहितो राजा रेमे परमया मुदा ।। २९.८ ।।

          ऋषय ऊचुः।।
गन्धर्वा चोर्वशी देवी राजानं मानुषं कथम्।
देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत ।। २९.९ ।।

      सूत उवाच।।
ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता।
ऐलं तु तं वरारोहा समयेन व्यवस्थिता ।। २९.१० ।।

आत्मनः शापमोक्षार्थं नियमं सा चकार तु ।
अनग्नदर्शनञ्चैव अकामात सह मैथुनम् ।। २९.११ ।।

द्वौ मेषौ शयनाभ्याशे स तावद् व्यवतिष्ठते।
घृतमात्रं तथाहारः कालमेकन्तु पार्थिव ।। २९.१२ ।।

यद्येष समयो राजन् यावत्कालञ्च ते दृढम्।
तावत्कालन्तु वत्स्यामि एष नः समयः कृतः ।। २९.१३ ।।

तस्यास्तं समयं सर्वं स राजा पर्यपालयत्।
एवं सा चावसत् तस्मिन् पुरूरवसि भामिनी ।। २९.१४ ।।

वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता।
उर्वशी मानुषं प्राप्ता गन्धर्व्वा श्चिन्तयान्विताः ।। २९.१५ ।।

         गन्धर्व्वा ऊचुः।
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना।
आगच्छेत्तु पुनर्द्देवानुर्वशी स्वर्गभूषणा ।। २९.१६ ।।

ततो विश्वावसुर्नाम तत्राह वदतां वरः।
तया तु समयस्तत्र क्रियमाणो मतोऽनघः ।। २९.१७ ।।

समयन्युत्क्रमात् सा वै राजानं त्यक्ष्यते यथा।
तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ।। २९.१८ ।।

सहसा योगमेष्यामि युष्माकं कार्यसिद्धये।
एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ।। २९.१९ ।।

स निशायामथागम्य मेषमेकं जहार वै।
मातृवद्वर्त्तते सा तु मेषयोश्चारुहासिनी ।। २९.२० ।।

गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी।
राजानमब्रवीत्सा तु पुत्रो मे ह्रियतेति वै ।। २९.२१ ।।

एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः ।
नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ।। २९.२२ ।।

ततो भूयस्तु गन्धर्व्वा द्वितीयं मेषमाददुः।
द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ।। २९.२३ ।।

पुत्रौ मम हृतौ राजन्ननाथाया इव प्रभो।
एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ।। २९.२४ ।।

मेषाबभ्यां पदवीं राजन् गन्धर्व्वैर्व्युत्थितामथ।
उत्पादिता तु महती माया तद्भवनं महत् ।। २९.२५ ।।

प्रकाशितन्तु सहसा ततो नग्नमवेक्ष्य सा।
नग्नं दृष्ट्वा तिरोऽभूत्सा अप्सरा कामरूपिणी ।। २९.२६ ।।

तिरोभूतान्तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ।
मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताभवन् ।। २९.२७ ।।

उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतः प्रभुः।
अपश्यंस्तां तु वै राजा विललाप सुदुःखितः ।। २९.२८ ।।

चचार पृथिवीं चैव मार्गमाणस्ततस्ततः।
अथापश्यच्च तां राजा कुरुक्षेत्रे महाबलः ।। २९.२९ ।।

प्लक्षतीर्थे पुष्करिण्यां विगाढेनाम्बुनाप्लुताम्।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ।। २९.३० ।।

अपश्यत्सा ततः सुभ्रू राजानमविदूरतः।
उर्वशी ताः सखीः प्राह अयं स पुरुषोत्तमः ।। २९.३१ ।।

यस्मिन्नहमवात्सं हि दर्शयामास तं नृपम् ।
तत आविर्बभूवुस्ताः पञ्चचूडाप्सरास्तु ताः ।। २९.३२ ।।

दृष्ट्वा तु राजा तां प्रीतः प्रलापान् कुरुते बहून्।
आयाहि तिष्ठ मनसा घोरे वचसि तिष्ठ हे ।। २९.३३ ।।

एवमादीनि सूक्ष्माणि परस्परमभाषत।
उर्व्वशी त्वब्रवीच्चैलं सगर्भाहं त्वया प्रभो ।। २९.३४ ।।

संवत्सरात् कुमारस्ते भविता नव संशयः।
निशामेकान्तु वै राजा ह्यवसत्तु तया सह ।। २९.३५ ।।

सम्प्रहृष्टो जगामाथ स्वपुरन्तु महायशाः।
गते संवत्सरे राजा उर्व्वशीं पुनरागमत् ।। २९.३६ ।।

उषित्वा तु तया सार्द्धमेकरात्रं महामनाः।
कामार्त्तश्चा ब्रवीद्दीनो भव नित्यं ममेति वै ।। २९.३७ ।।

उर्व्वश्यथाब्रवीच्चैलं गन्धर्वास्ते वरं ददुः।
तं वृणीष्व महाराज ब्रूहि चैतांस्त्वमेव हि ।। २९.३८ ।।

वृणे नित्यं हि सालोक्यं गन्धर्वाणां महात्मनाम्।
तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ।। २९.३९ ।।

स्थालीमग्नेः पूरयित्वा गन्धर्व्वाश्च तमब्रुवन्।
अनेन इष्ट्वा लोकन्तं प्राप्स्यसि त्वं नराधिप ।। २९.४० ।।

तमादाय कुमारन्तु नगरायोपचक्रमे।
निःक्षिप्य तमरण्याञ्च स पुत्रन्तु गृहं ययौ ।। २९.४१ ।।

पुनरादाय दृश्याग्निमश्वत्थं तत्र दृष्टवान्।
समीपतस्तु तं दृष्ट्वा ह्यश्वत्थं तत्र विस्मितः ।। २९.४२ ।।

गन्धर्व्वेभ्यस्तथाख्यातुमग्निना गां गतस्तु सः ।
श्रुत्वा तमर्थमशिलमरणिं तु समादिशत् ।। २९.४३ ।।

अश्वत्थादरणिं कृत्वा मथित्वाग्निं यथाविधि।
तेनेष्ट्वा तु सलोकं नः प्राप्स्यसि त्वं नराधिप।
मथित्वाग्निं त्रिधा कृत्वा ह्ययजत्स नराधिपः ।। २९.४४ ।।

इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम्।
वासाय च स गन्धर्व्वस्त्रेतायां स महारथः।
एकोऽग्निः पूर्वमासीद्वै ऐलस्त्रींस्तानकल्पयत् ।। २९.४५ ।।

एवंप्रभावो राजासीदैलस्तु द्विजसत्तमाः।
देशे पुण्यतमे चैव महर्षिभिरलंकृते ।। २९.४६ ।।

राज्यं स कारयामास प्रयागे पृथिवी पतिः।
उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ।। २९.४७ ।।

तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः।
गन्धर्व्वलोके विदिता आयुर्द्धीमानमावसुः ।। २९.४८ ।।

विश्वायुश्च शतायुश्च गतायुश्चोर्वशीसुताः।
अमावसोस्तु वै जातो भीमो राजाथ विश्वजित् ।। २९.४९ ।।

श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ।। २९.५० ।।

सुहोत्रस्याभज्जह्नुः केशिकागर्भसम्भवः।
प्रतिगत्य ततो गङ्गा विततो यज्ञकर्म्मणि ।। २९.५१ ।।

प्लावयामास तं देशं भाविनोऽर्थस्य दर्शनात्।
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ।। २९.५२ ।।

सौहोत्रिर्वरदः क्रुद्धो गङ्गां संरक्तलोचनः।
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ।। २९.५३ ।।

एतत्ते विफलं सर्व्वं पीतमम्भः करोम्यहम्।
राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा सुरर्षयः ।। २९.५४ ।।

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम्।
यौवनाश्वस्य पौत्रीन्तु कावेरीञ्जह्नुरावहत् ।। २९.५५ ।।

युवनाश्वस्य शापेन गङ्गा येन विनिर्ममे ।
कावेरीं सरितां श्रेष्ठां जह्नुभार्य्यामनिन्दिताम् ।। २९.५६ ।।

जह्नुश्च दयितं पुत्रं सुहोत्रं नाम धार्मिकम्।
कावेर्य्यां जनयामास अजकस्तस्य चात्मजः ।। २९.५७ ।।

अजकस्य तु दायादो बलाकाश्वो महायशाः।
बभूवुश्च गयः शीलः कुशस्तस्यात्मजः स्मृतः ।। २९.५८ ।।

कुशपुत्रा बभूवुश्च चत्वारो वेदवर्चसः।
कुशाश्वः कुशनाभश्च अमूर्त्तारयशोवसुः ।। २९.५९ ।।

कुशस्तम्बस्तपस्तेपे पुत्रार्थी राजसत्तमः।
पूर्णे वर्षसहस्रे वै शतक्रतुमपश्यत ।। २९.६० ।।

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ।। २९.६१ ।।

पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ।। २९.६२ ।।

पौरुकुत्साभवद्भार्या गाधिस्तस्यामजायत।
पूर्व्वं कन्यां महाभागां नाम्ना सत्यवतीं शुभाम्।
तां गाधिपुत्रः काव्याय ऋचीकाय ददौ प्रभुः ।। २९.६३ ।।

तस्यां पुत्रस्तु वै भर्त्ता भार्गवो भृगुनन्दनः।
पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ।। २९.६४ ।।

तथा चाहूय सुधृतिऋचीको भार्गवस्तदा।
उपयोज्यश्चरुरयं त्वया मात्रा च तेशुभे ।। २९.६५ ।।

तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः।
अजेयः क्षत्रियैर्युद्धे क्षत्रियर्षभसूदनः ।। २९.६६ ।।

तवापि पुत्रं कल्याणि धृतिन्तं तपोधनम्।
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।। २९.६७ ।।

एवमुक्त्वा तु तां भार्य्यामृचीको भृगुनन्दनः।
तपस्याभिरतो नित्यमरण्यं प्रविवेश ह ।। २९.६८ ।।

गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्।
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ।। २९.६९ ।।

चरुद्वयं गृहीत्वा तु ऋषेः सत्यवती सदा।
भर्त्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ।। २९.७० ।।

माता तु तस्यै दैवेन दुहित्रे स्वं चरुं ददौ ।
तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ।। २९.७१ ।।

अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम्।
धारयामास दीप्तेन वपुषा घोरदर्शना ।। २९.७२ ।।

तमृचीकस्ततो दृष्ट्वा योगेनाप्यनुमृश्य च।
तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्य्यां वरवर्णिनीम् ।। २९.७३ ।।

मातुः सिद्ध्यति ते भद्रे चरुव्यत्यासहेतुना।
जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ।। २९.७४ ।।

माता जनिष्यते वापि तथाभूतं तपोधनम् ।
विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ।। २९.७५ ।।

एवमुक्ता महाभागा भर्त्रा सत्यवती तदा।
प्रसादयामास पतिं सुतो मे नेदृशो भवेत्।
ब्राह्मणापसदस्त्वन्य इत्युक्तो मुनिरब्रवीत् ।। २९.७६ ।।

नैष सङ्कल्पितः कामो मया भद्रे तथा त्वया ।
उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात् ।। २९.७७ ।।

पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम्।
इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ।। २९.७८ ।।

शमात्मकमृजुं भर्त्तः पुत्रं मे दातुमर्हसि।
काममेवंविधः पुत्रो मम स्यात्तु वद प्रभो ।। २९.७९ ।।

मय्यन्यथा न शक्यं वै कर्तुमेव द्विजोत्तम।
ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ।। २९.८० ।।

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ।। २९.८१ ।।

तस्मात् सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतन्दान्तं जमदग्निः शमात्मकम् ।। २९.८२ ।।

भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा।
यमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ।। २९.८३ ।।

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः।
प्राप्य ब्रह्मर्षिसहितो (सविता) जगाम ब्रह्मणावृतः ।। २९.८४ ।।

सा हि सत्यवती पुण्या सत्यव्रतपरायणा।
कौशिकीति समाख्याता प्रवृत्तेयं महानदी ।। २९.८५ ।।

परिस्रुता महाभागा कौशिकी सरितां वरा।
इक्ष्वाकुवंशे त्वभवत्सुवेणुर्नाम पार्थिवः ।। २९.८६ ।।

तस्य कन्या महाभागा कामली नाम रेणुका।
रेणु कायान्तु कामल्यां तपोधृतिसमन्वितः।
आर्चीको जनयामास जमदग्निः सुदारुणम् ।। २९.८७ ।।

सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्।
रामं क्षत्रिय हन्तारं प्रदीप्तमिव पावकम् ।। २९.८८ ।।

और्व्वस्यैवमृचीकस्य सत्यवत्यां महामनाः।
जमदग्निस्ततो वीर्य्याज्जज्ञे ब्रह्मविदां वरः।
मध्यमश्च शुनःशेफः शुनःपुच्छः कनिष्ठकः ।। २९.८९ ।।

विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः ।। २९.९० ।।

विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवन्मुनिः।
हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियुतः सवै।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ।। २९.९१ ।।

विश्वामित्रस्य पुत्राणां शुनः शेफोऽग्रजः स्मृतः।
मधुच्छन्दो नयश्चैव कृतदेवौ ध्रुवाष्टकौ ।। २९.९२ ।।

कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै।
तेषां गोत्राणि बहुधा कौशिकानां महात्मनाम् ।। २९.९३ ।।

पार्थिवा देवराताश्च याज्ञवल्क्या समर्षणाः ।
उदुम्बरा उदुम्लानास्तारका यममुञ्चताः ।। २९.९४ ।।

लोहिण्यो रेणवश्चैव तथा कारीषवः स्मृताः।
बभ्रवः पाणिनश्चैव ध्यावजप्यास्तथैव च ।। २९.९५ ।।

शालावत्या हिरण्याक्षाः स्यङ्कृता गालवाः स्मृताः ।
देवला यामदूताश्च शालङ्कायनबाष्कलाः ।। २९.९६ ।।

ददाति बादराश्चान्ये विश्वामित्रस्य धीमतः।
ऋष्यन्तरविवाङ्यास्ते बहवः शौशिकाः स्मृताः ।। २९.९७ ।।

कौशिकासोश्रुमाश्चैव तथान्ये सैधवायनाः।
पौरोरवस्य पुण्यस्य ब्रह्मर्षेः कौशिकस्य तु ।। २९.९८ ।।

दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः।
अष्टकस्य सुतो यो हि प्रोक्तो जह्नुगणोमया ।। २९.९९ ।।

        ऋषय ऊचुः ।।

किं लक्षणेन धर्मेण तपसेह श्रुतेन वा।
ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ।। २९.१०० ।।

येन योनाभिधा नेन ब्राह्मण्यं क्षत्रिया गताः ।
विशेषं ज्ञातुमिच्छामि तपसा दानतस्तथा ।। २९.१०१ ।।

एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत्।
अन्यायोपगतैर्द्रव्यैराहृत्य यजने धिया।
धर्माभिकांक्षी यजते न धर्मफलमश्नुते ।। २९.१०२ ।।

धर्म्मं चैतं समाख्याय पापात्मा पुरुषाधमः।
ददाति दानं विप्रेभ्यो लोकानां दम्भकारणात् ।। २९.१०३ ।।

जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः।
रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ।। २९.१०४ ।।

तेन दत्तानि दानानि अफलानि भवन्त्युत।
तस्य धर्म्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ।। २९.१०५ ।।

एवं लब्ध्वा धनं मोहाद्ददतो यजतश्च ह।
सक्लिष्टकर्मणो दानं न तिष्ठति दुरात्मनः ।। २९.१०६ ।।

न्यायागतानां द्रव्याणां तीर्थे सम्प्रतिपादनम्।
कामाननभिसन्धाय यजते च ददाति च ।। २९.१०७ ।।

स दानफलमाप्नोति तच्च दानं सुखोदयम्।
दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ।। २९.१०८ ।।

तपसा तु सुतप्तेन लोकान् विष्टभ्य तिष्ठति ।
विष्टभ्य स तु तेजस्वी लोकेष्वानन्त्यमश्नुते ।। २९.१०९ ।।

दानाच्छ्रेयांस्तथा यज्ञो यज्ञाच्छ्रेयस्तथा तपः।
संन्यासस्तपसः श्रेयांस्तस्माज्ज्ञानं गुरुः स्मृतम् ।। २९.११० ।।

श्रृयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः।
विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः ।। २९.१११ ।।

कपेश्च पुरुकुत्सश्च सत्यश्चानृहवानृथुः
आर्ष्टिषेणोऽमीढश्च भागान्योन्यस्तथैव च ।। २९.११२ ।।

कक्षीवश्चैव शिजयस्तथान्ये च महारथाः।
रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ।। २९.११३ ।।

क्षात्रोपेताः स्मृता ह्येते तपसा ऋषिताङ्गताः ।
एते राजर्षयः सर्व्वे सिद्धिं सुमहतीङ्गताः।
अत ऊर्द्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ।। २९.११४ ।।

इति श्रीमहापुराणे वायुप्रोक्ते चन्द्रवंशकीर्तनं नामोनत्रिशोऽध्यायः ।। २९ ।। *