वायुपुराणम्/उत्तरार्धम्/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः १४ वायुपुराणम्
अध्यायः १५
वेदव्यासः
उत्तरार्धम्, अध्यायः १६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०

        ।।बृहस्पतिरुवाच।।
सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽन्ययाः।
योगात्मानो महात्मानो विपाप्मानो महौजसः ।। १५.१ ।।

प्रेत्य च स्वर्गलाभाय कामैश्वर्यं सुविस्तरम् ।
येषां चाप्यनुगृह्णन्ति मोक्षप्राप्तिक्रमेण तु ।। १५.२ ।।

तानि वक्ष्याम्यहं सौम्याः सरांसि सरितस्तथा।
तीर्थानि चैव पुण्यानि देशाञ्जैलांस्तथाश्रमान् ।। १५.३ ।।

पुण्यो यस्त्रिषु लोकेष्वमरकण्टकपर्वतः।
पर्वतः प्रवरः पुण्यः सिद्धचारणसेवितः ।। १५.४ ।।

यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च।
तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ।। १५.५ ।।

यत्र मृत्योर्गतिर्नास्ति तथैवासुररक्षसाम्।
न भयं चैव वाऽलक्ष्मीर्यावद्भूमिर्धरिष्यति ।। १५.६ ।।

तेजसा यशसा चैव भ्राजते स नगोत्तमः।
श्रृङ्गमाल्यवतो नित्यं वह्निः संवर्तको यथा ।। १५.७ ।।

मृदवश्च सुगन्धाश्च हेमाभाः प्रियदर्शनाः ।
शान्ताः कुशा इति ख्याताः पिबन्दक्षिणनर्मदाम् ।। १५.८ ।।

दृष्टवान् स्वर्गसोपानं भगवानङ्गिराः पुरा।
अग्निहोत्रे महातेजाः प्रस्तरार्थकुशोत्तमान् ।। १५.९ ।।

तेषु दर्भेषु यः पिण्डानमरकण्टकपर्वते।
दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ।। १५.१० ।।

तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्द्धनम् ।
अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ।। १५.११ ।।

तत्र ज्वालारसः पुण्यो दृश्यतेऽद्यापि सर्वशः।
सशल्यानां च सत्त्वानां विशल्यकरणी नदी ।। १५.१२ ।।

प्राग्दक्षिणा तु सावर्त्ता वापी सा पर्वतोत्तमे।
कलिङ्गदेशपार्श्वार्द्धे पितॄणां प्रीतिवर्द्धनम् ।। १५.१३ ।।

सिद्धक्षेत्रमृषिश्रेष्टा यदुक्तं परमं भुवि।
सम्मतो देवदैत्यानां श्लोकमप्युशना जगौ ।। १५.१४ ।।

धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम्।
पितॄन्सन्तर्पयिष्यन्ति श्राद्धे पितृपरायणाः ।। १५.१५ ।।

अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः।
सकृदेवार्चितास्तत्र स्वर्गममरकण्टके ।। १५.१६ ।।

महेन्द्रपर्वते रम्ये पुण्यं शक्रनिषेवितम्।
तत्रारुह्य भवेत् प्रीतिः श्राद्धं चैव महत्फलम् ।। १५.१७ ।।

बिल्वाधःशिखरे युक्ता दिव्यं चक्षुः प्रवर्त्तते।
अदृश्यं चैव भूतानां देववच्चरते महीम् ।। १५.१८ ।।

सप्तगोदावरे चैव गोकर्णे च तपोवने।
अश्वमेधफलं तत्र स्नात्वा च लभतेनरः ।। १५.१९ ।।

धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः।
रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ।। १५.२० ।।

गोकर्णे वर्णितं विप्रैर्नस्तिकानां निदर्शनम्।
अब्राह्मणस्य सावित्री पठतः सम्प्रणश्यति ।। १५.२१ ।।

देवर्षिभवने श्रृङ्गे सिद्धचारणसेविते।
आरुह्य तं तु नियमात्ततो यान्ति त्रिविष्टपम् ।। १५.२२ ।।

दिव्यैश्वन्दनवृक्षैश्च पादपैरुपशोभितम्।
आपः स्वादनसम्पृक्ता वहन्ति सततंयतः ।। १५.२३ ।।

नदी प्रवर्त्तते ताभ्यस्ताम्रपर्णीति नामतः।
योषेव समहाखेदा दक्षिणं याति सागरम् ।। १५.२४ ।।

नद्यास्तस्यास्तु या आपो मूर्च्छमाना महोदधौ।
शङ्खा भवन्ति मुक्ताश्च जायन्ते शङ्खमुक्तिकाः ।। १५.२५ ।।

उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम्।
आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ।। १५.२६ ।।

चन्दनेभ्यः प्रयुक्तानां शङ्खानां मौक्तिकस्य च।
पाप कर्तॄनपि पितॄंश्तारयन्ति यथा श्रुतिः ।। १५.२७ ।।

चन्द्रतीर्थे कुमार्य्यान्तु कावेर्य्यां प्रभवेऽक्षये।
श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ।। १५.२८ ।।

एकस्था यत्र दृश्यन्ते वृक्षा ह्योशिरपर्वते।
पालाशाः खादिरा बिल्वा प्लक्षाश्वत्थविकङ्कताः ।। १५.२९ ।।

एतद्धि मण्डलं सिद्धं यज्ञीयं द्विजसत्तमाः।
अस्मिन् मुक्त्वा जनोऽङ्गानि क्षिप्रं यात्यमरावतीम् ।। १५.३० ।।

कर्माणि स्वप्रयुक्तानि सिध्यन्ति प्रभवात्यये ।
दुष्प्रसक्तानि पितृषु प्रयुक्तानि भवन्त्युत ।। १५.३१ ।।

पितॄणां दुहिता पुण्या नर्मदा सरितां वरा।
तत्र श्राद्धानि दत्तानि अक्षयाणि भवन्त्युत ।। १५.३२ ।।

माठरस्य वने पुण्ये सिद्धचारणसेविते।
अन्तर्द्धानं न गच्छन्ति सत्तास्तस्मिन्महागिरौ ।। १५.३३ ।।

विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनम्।
पापधारां न पश्यन्ति धारां पश्यन्ति साधवः ।। १५.३४ ।।

तस्यां न दृश्यते पापं केषाञ्चित् पापकर्मणाम्।
स्पष्टा भवति सा धारा प्रायशः शुभकर्मणाम् ।। १५.३५ ।।

कौशलायां मतङ्गस्य वापी पापनिषूदनी।
स्नातास्तस्यां दिवं यान्ति कामचारविहङ्गमाः ।। १५.३६ ।।

कुमारकोशलातीर्थे पर्वते पालपञ्जरे।
पाण्डु कूले समुद्रान्ते पण्डारकवने तथा ।। १५.३७ ।।

विमले च विपापे च सत्कृत्य प्रभवेऽभये।
भीवृक्षे गृध्रकूटे च जम्बूमार्गे च नित्यशः ।। १५.३८ ।।

असितस्य गुरोः पुण्ये योगाचार्यस्य धीमतः।
तत्रापि श्राद्धमानन्त्यमसितायाञ्च नित्यशः ।। १५.३९ ।।

पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम्।
महोदधौ प्रभासे च तस्मादेवं विनिर्द्दिशेत् ।। १५.४० ।।

देविकायां वृषो नाम कूपः सिद्धनिषेवितः।
समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः ।। १५.४१ ।।

योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतैः।
दद्याच्छ्राद्धन्तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ।। १५.४२ ।।

अक्षयं सार्वकामीयं श्राद्धं प्रीणाति वै पितॄन्।
जातवेदः शिला तत्र साक्षादग्नेः सनातनी ।। १५.४३ ।।

यस्त्वाग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते।
अग्निः शान्तः पुनर्जातस्तस्मिन्दत्तं तदक्षयम् ।। १५.४४ ।।

दशाश्वमदिके तीर्थे तीर्थे पञ्चाश्वमेधिके।
यथोद्दिष्टं फलं तेषां क्रतूनां नात्र संशयः ।। १५.४५ ।।

ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम्।
श्राद्धं तत्र तदाक्षय्यं दत्त्वा स्वर्गे च मोदते ।। १५.४६ ।।

श्राद्धं कुम्भे विमुच्यन्ति ज्ञेयं पापनिषूदनम्।
श्राद्धं तत्राक्षयं प्रोक्तं जप्यहोमतपांसि च ।। १५.४७ ।।

अझतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन्।
दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम्।
पृथिव्यामक्षयं दत्तं निरुजा यत्र पाण्डवाः ।। १५.४८ ।।

योगेश्वरैः सदा जुष्टं सर्वपापबहिष्कृतैः।
दद्याच्छ्राद्धन्तु यस्तस्मिस्तस्य वक्ष्यामि यत्फलम् ।। १५.४९ ।।

अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा।
अस्मिँल्लोके वशी यः स्यात्प्रेत्य स्वर्गे स मोदते ।। १५.५० ।।

प्रायशः प्रवरः पुण्यः शिवो नाम ह्रदस्तथा।
तत्र व्याससरः पुण्यं दिव्यं ब्रह्मसरस्तथा ।। १५.५१ ।।

उज्जन्तः पर्वतः पुण्यो वसिष्ठस्य महात्मनः।
ऋग्यजुःसामशिरसः कापोतः पुष्पसाह्वयः।
आख्यातः पञ्चमो वेदः सृष्ट्वा ह्येतेषु ब्रह्मणा ।। १५.५२ ।।

गत्वैतान् मुच्यते पापाद्द्विजो वह्निः सनातनः ।।

श्राद्धञ्चानन्त्यमेतेषु जप्य होमतपांसि च ।। १५.५३ ।।

पुण्डरीके महातीर्थे पुण्डरीकसमं फलम्।
ब्रह्मतीर्थे महातीर्थे अश्वमेधफलं लभेत् ।। १५.५४ ।।

सिन्धुसागरसम्भेदे तदा पञ्चनदेऽक्षयम् ।
कीरकात्मा ततः पुण्यो मण्डवायां च पर्वते ।। १५.५५ ।।

देयं सप्तह्रदे श्राद्धं मानसे च विशेषतः।
महाकूटे च वन्दे च गिरौ त्रिरौ त्रिककुदे तथा ।। १५.५६ ।।

सन्ध्यायां च महावेद्यां दृश्यते महदद्भुतम्।
अश्रद्दधानान्नाभ्येति साभ्येति च धृतव्रतान् ।। १५.५७ ।।

जातवेदः शिला तत्र साक्षादग्नेः सनातनी।
श्राद्धानि चाग्निकार्यं च तत्र कुर्यात् सदाक्षयम् ।। १५.५८ ।।

संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः।
तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिना ।। १५.५९ ।।

कृतात्मा वाऽकृतात्मा वा यत्र विज्ञायते नरः।
स्वर्ग्यमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम्।
वैराण्युत्सृज्य तस्मिस्तु दिवं सप्तर्षयो गताः ।। १५.६० ।।

अद्यापि तानि दृश्यन्ते वैराण्येव गतानि तु।
स्नात्वा स्वर्गमवाप्नोति तस्मिस्तीर्थोत्तमे नरः ।। १५.६१ ।।

ख्यातमायतनं तत्र नन्दिसिद्ध निषेवितम्।
नन्दीश्वरस्य या मूर्त्तिर्दुराजारैर्न दृश्यते ।। १५.६२ ।।

दृश्यन्ते काञ्चना यूपाः सञ्चिष्ये भास्करोदये।
कृत्वा प्रदक्षिणं ते तु गच्छन्त्यन्तर्हिता दिवम् ।। १५.६३ ।।

सर्वतश्च कुरुक्षेत्रं सुतीर्थञ्च विशेषतः।
पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः।
कीर्त्त्यते च तिलान्दत्त्वा पितॄणां वै सदाऽक्षयम् ।। १५.६४ ।।

ओजसे चाक्षयं श्राद्धं धर्मराजनिवेशने।
श्राद्धं दत्तममावस्यां विधिना च यथाक्रमम् ।। १५.६५ ।।

पुनः सन्निहितानां वै कुरुक्षेत्रे विशेषतः।
अर्चयेद्वा पितॄंस्तत्र सत्पुत्रस्त्वनृणो भवेत् ।। १५.६६ ।।

विनशने सरस्वत्यां प्लक्षप्रश्रवणे तथा।
व्यासतीर्थे सरस्वत्यां ब्रह्मक्षेत्रे विशेषतः ।। १५.६७ ।।

देयमोङ्कारपठनैः श्राद्धमक्षयमिच्छता।
सर्वतश्चैव गङ्ग्यां मैनाके च नगोत्तमे ।। १५.६८ ।।

यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते ।
अत्युष्णाश्चातिशीताश्च आपस्तत्र निदर्शनम् ।। १५.६९ ।।

यमस्य भगिनी पुण्या मार्त्तण्डदुहिता तथा।
तत्राक्षयं तदा श्राद्धं पितृभिः पूर्वकीर्त्तितम् ।। १५.७० ।।

ब्रह्मानुगह्रदे स्नात्वा सद्यो भवति ब्राह्मणः।
तस्मिन् हि श्राद्धमानन्त्यं जपहोमतपांसि च ।। १५.७१ ।।

स्थाणुभूतश्चरंस्तत्र वसिष्ठो वै महातपाः।
अद्यापि यत्र दृश्यन्ते पादपा मणिचर्च्चिताः ।। १५.७२ ।।

तुला तु दृश्यते यत्र धर्माधर्मप्रदर्शिनी।
यया वै तुलितं विप्रैस्तीर्थानां फलमुत्तमम् ।। १५.७३ ।।

पितॄणां दुहिता योगा गन्धकालीति विश्रुता।
चतुर्थो ब्रह्मणश्चांशः पराशरकुलोद्वहः ।। १५.७४ ।।

व्यस्य त्वेकं चतुर्द्धा तु वेदं धीमान् महामुनिः।
महायोगं महात्मानं यो व्यासं जनयिष्यति ।। १५.७५ ।।

अच्छोदकं नाम सरो यत्राच्छोदा समुच्छ्रिता ।
मत्स्ययोनौ पुनर्जाता नियोगाद्वारणेन तु ।। १५.७६ ।।

तस्या यत्राश्रमः पुण्यः पुण्यकृद्भिर्निषेवितः।
सकृद्दत्तं तु वै श्राद्धमक्षयं समुदाहृतम्।
तस्यां योग समाधाने दत्तं युगपदुद्भवेत् ।। १५.७७ ।।

कुबेरतुङ्गे व्यामोच्चे व्यासतीर्थे तथैव च।
पुण्यः स ब्राह्मणो दद्याछ्राद्धमानन्त्यमक्षयम् ।। १५.७८ ।।

सिद्धैस्तु सेविता नित्यं दृश्यते नाकृतात्मभिः।
अनिवर्त्तनं तु नन्दायां वेद्यां प्रागुत्तरे दिशि ।। १५.७९ ।।

सिद्धक्षेत्रं तु वै जुष्टं यत्प्राप्य न निवर्त्तते।
महालये पदं न्यस्तं महादेवेन धीमता ।। १५.८० ।।

देव्यालये तपस्तप्त्वा एकपादेन ईश्वरः।
नीहारश्च युगं दिव्यमुमातुङ्गे स्थितं जलम् ।। १५.८१ ।।

उमा तुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये।
काद्रवत्यां च शाण्डिल्यां गुहायां वामनस्य च ।। १५.८२ ।।

गत्वा चैतानि पूतः स्याच्छ्राद्धमक्षयमेव च।
जपो होमस्तथा ध्यानं यत्किचित्सुकृतं भवेत् ।। १५.८३ ।।

ब्रह्मचर्यं यजन्ते वै गुरुभक्ताः शतं समाः ।
एवमादीनि सद्यस्तां स्नात्वा प्राप्नोति सत्फल्म् ।। १५.८४ ।।

कुमारधारा तत्रैव दृष्टा पापप्रणाशनी।
यानासनं च तत्रैव सद्यः स्याद्यत् प्रदृश्यते ।। १५.८५ ।।

शैलकीर्त्तिपुराभ्याशे कामानाप्नोति पुष्कलान्।
अदृश्यः सर्वभूतानां देववच्चरते महीम् ।। १५.८५ ।।

काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम्।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ।। १५.८६ ।।

काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम्।
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ।। १५.८७ ।।

अक्षयं तु भवेच्छ्राद्धं शालग्रामसमन्ततः।
दृष्ट्या न दृश्यते तत्र प्रत्यक्षमकृतात्मना ।। १५.८८ ।।

प्रत्यादेशो ह्यशिष्टानां शिष्टानां च निवेशनम् ।
तत्र चैव ह्रदे पुण्ये दिव्यो वै नागराड् यतः ।। १५.८९ ।।

पिण्डं गृह्णाति हिसतां न गृह्णात्यसतां हि सः।
अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते ।। १५.९० ।।

प्रत्यक्षं दृश्यते धर्मस्तीर्थयोरनयोर्द्वयोः।
देवदारुवने चापि चारयेस्तं निदर्शनम् ।। १५.९१ ।।

विधूतानि तु पापानि दृश्यन्ते सुकृतात्मना ।
भागीरथ्यां प्रयागे च नित्यमक्षय्यमुच्यते ।। १५.९२ ।।

कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले।
वाराणस्यां नगर्यां तु देयं श्राद्धं तु यत्नतः ।। १५.९३ ।।

तस्यां योगेश्वरो नित्यं तत्तस्यां दत्तमक्षयम्।
दत्त्वा चैतेषु पूतः स्याच्छ्राद्धमानन्त्यमेव च ।। १५.९४ ।।

तपो होमस्तथा ध्यानं यत् किञ्चित्सुकृतं भवेत्।
लौहित्ये वैतरण्यां वै स्वर्णवेद्यां तथैव च ।। १५.९५ ।।

सकृदेव समुद्रान्ते दृश्यते पुण्यकर्मभिः।
गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा ।। १५.९६ ।।

गयायां गृध्रकूटे च श्राद्धं दत्तं महाफलम्।
हिमञ्च पतते तत्र समन्तात् पञ्चयोजनम् ।। १५.९७ ।।

भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् ।
मतङ्गस्य पदं तत्र दृश्यते मांस चक्षुषा ।। १५.९८ ।।

ख्यापितं धर्म्मसर्व्वस्वं लोकस्यास्य निदर्शनम्।
एवं पञ्चवनं पुण्यं पुण्यकृद्भिर्निषेवितम्।
यस्मिन्पाण्डुविशालेति तीर्थं सद्यो निदर्शनम् ।। १५.९९ ।।

तुलामानैस्तथा चापैः शास्त्रैश्च विविधैस्तथा।
उन्मज्जन्ति तथा लग्ने ये वै पापकृतो जनाः ।। १५.१०० ।।

तृतीयायां तथा पादे निःस्वरे पावमण्डले।
महाह्रदे वै कौशिक्यां दत्तं श्राद्धं महाफलम् ।। १५.१०१ ।।

मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता।
बहून्दवेयुगांस्तप्त्वा तपस्तीव्रं सुदुश्चरम् ।। १५.१०२ ।।

अल्पेनाप्यत्र कालेन नरो धर्म्मपरायणः।
पाप्मानमुत्सृजत्याशु जीर्णत्वचमिवोरगः ।। १५.१०३ ।।

सिद्धानां प्रीतिजननैः पापा नाञ्च भयङ्करैः।
लेलिहानैर्महाभोगै रक्षितन्तु दिवानिशम् ।। १५.१०४ ।।

नाम्ना कनकनन्दीति तीर्थं त्रैलोक्यविश्रुतम्।
उदीच्यां मुण्डपृष्ठस्य देवर्षि गणसेवितम्।
तत्र स्रात्वा दिवं यान्ति कामचारा विहङ्गमाः ।। १५.१०५ ।।

दत्तं चापि तथा श्राद्धमक्षयं समुदाहृतम्।
ऋणैस्त्रिभिस्तदा स्नात्वा निक्षिणोति नरोत्तमः ।। १५.१०६ ।।

तीरे तु सरसस्तत्र देवस्यायतनं महत्।
आरुह्य तज्जपंस्तत्र सिद्धो याति दिवं ततः ।। १५.१०७ ।।

उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ।
तत्र गत्वा पुरश्रेष्ठं दृश्यते महदद्भुतम् ।। १५.१०८ ।।

तस्मिन्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम्।
कामान् स लभते दिव्यान् मोक्षोपायं च नित्यशः ।। १५.१०९ ।।

मानसे सरसि श्रेष्ठे दृश्यते महदद्भुतम्।
दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते ।। १५.११० ।।

गङ्गा त्रिपथगा देवी सोमपादाच्च्युता भुवि।
आकाशे दृश्यते तत्र तोरणं सूर्य्यसन्निभम् ।। १५.१११ ।।

जाम्बूनदमयं दिव्यं स्वर्गद्वारमिवायतम्।
यतः प्रवर्त्तते भूयः पूर्व्वसागरमन्तिमम् ।। १५.११२ ।।

पावनी सर्व्वभूतानां धर्मज्ञानां विशेषतः।
चन्द्रभागा च सिन्धुश्च उभौ मानससन्निभौ।
सागरं पश्चिमं याति दिव्यसिन्धुर्नदीवरः ।। १५.११३ ।।

पर्व्वतो हिमवान्नाम नानाधातुविभूषितः।
योजनानां सहस्राणि आयतोऽशीतिरुच्यते ।। १५.११४ ।।

सिद्धचारणसङ्कीर्णः सिद्धचारणसेवितः।
तत्र पुष्करिणी रम्या सुषुम्ना नाम विश्रुता ।। १५.११५ ।।

दशवर्षसहस्राणि तत्र जातस्तु जीवति।
श्राद्धं भवति चानन्त्यं तस्यां दत्तं महोदयम्।
तारयेच्च यदा श्राद्धं दशपूर्व्वान्दशापरान् ।। १५.११६ ।।

सर्व्वं पुण्यं हिमवतो गङ्गा पुण्या च सर्व्वतः।
समुद्रगाः समुद्राश्च सर्व्वे पुण्याः समन्ततः ।। १५.११७ ।।

एवमादिषु सर्व्वेषु श्राद्धं निर्वर्त्तयेद्बुधः ।
पूतो भवति स्नात्वा नु दत्त्वा दत्त्वा तथैव च ।। १५.११८ ।।

शैलसानुषु तुङ्गेषु कन्दरेषु गुहासु च।
उपह्वरनितम्बेषु तथा प्रस्रवणेषु च ।। १५.११९ ।।

पुलिनेष्वापगानां च तथैव प्रभवे युगे।
महोदधौ गवां गोष्ठे सङ्गमेषु वनेषु च ।। १५.१२० ।।

असंसृष्टोपलिप्तासु हृद्यासु सुरभीषु च।
गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।। १५.१२१ ।।

कुर्य्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि।
प्रदक्षिणं दिशं गत्वा सर्व्वकामचिकीर्षवः ।। १५.१२२ ।।

एवमेतेषु सर्व्वेषु श्राद्धं कुर्य्यादतन्द्रितः।
एवमेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् ।। १५.१२३ ।।

त्रैवर्ण्ये विहिते स्थाने धर्म्मवर्णाश्रमे तथा।
कोपस्थानस्य संत्यागात्प्राप्यते पितृपूजनम् ।। १५.१२४ ।।

तीर्थान्यनुसरन् धीरः श्रद्दधानो जितेन्द्रियः।
कृतपापश्च शुद्ध्येत किं पुनः शुभकर्म्मकृत् ।। १५.१२५ ।।

तिर्यग्योनिं न गच्छेच्च कुदेशे न च जायते।
स्वर्गी भवति वै विप्रो मोक्षोपायं च विन्दति ।। १५.१२६ ।।

अश्रद्दधानाः पाप्मानो नास्तिकाः स्थितसंशयाः।
हेतुद्रष्टा च पञ्चैते न तीर्थफलमश्र्नुते ।। १५.१२७ ।।

गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् ।
ध्यानं तीर्थपरं तस्माद्ब्रह्मतीर्थं सनातनम् ।। १५.१२८ ।।

उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम्।
उपवासनिबद्धा हि प्राणैरिह पुनः पुनः ।। १५.१२९ ।।

प्राणापानौ समौ कृत्वा विषयाणीन्द्रियाणि च ।
बुद्धिं मनसि संयम्य सर्व्वेषां तु निवर्त्तनम् ।। १५.१३० ।।

प्रत्याहारं पुनर्विद्धि मोक्षोपायमसंशयम्।
इन्द्रियाणां मनो घोरं बुद्ध्यादीनां प्रवर्त्तनम् ।। १५.१३१ ।।

अनाहारात्क्षयं याति विद्यादनशनं तपः।
निग्रहाद्बुद्धिमनसो रम्या बुद्धिस्तु जायते ।। १५.१३२ ।।

क्षीणेषु सर्व्वपापेषु क्षीणेष्वेवेन्द्रियेषु च।
परिनिर्वाति शुद्धात्मा यथा वह्निर्निरिन्धनः ।। १५.१३३ ।।

कारणेभ्यो गुणेभ्योऽथ व्यक्ताव्यक्तस्य कृत्स्नशः।
वियोजयति क्षेत्रज्ञं तेभ्यो योगेन योगवित् ।। १५.१३४ ।।

तस्य नास्ति गतिस्थानं व्यक्ताव्यक्तं न संशयः।
आसन्नः सदसन्नैव नैव किञ्चित् स्थित इति ।। १५.१३५ ।।

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तीर्थयात्रा नाम पञ्चदशोऽध्यायः ।। १५ ।। *