वायुपुराणम्/उत्तरार्धम्/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search


← उत्तरार्धम्, अध्यायः १० वायुपुराणम्
अध्यायः ११
वेदव्यासः
उत्तरार्धम्, अध्यायः १२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


             ।।सूत उवाच।।
सप्त मेधावतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्त्तयः।
तेषां लोकविसर्गन्तु कीर्त्तयिष्ये निबोधत ।। ११.१ ।।

या वै दुहितरस्तेषां दोहित्राश्चैव ये स्मृताः।
धर्ममूर्त्तिधरास्तेषां ये त्रयः परमा गणाः ।। ११.२ ।।

नामानि लोकसर्गञ्च तेषां वक्ष्ये समासतः।
लोका विरजसो नाम्ना यत्र तिष्ठन्ति भास्वराः ।। ११.३ ।।

अमूर्त्तयः पितृगणाः पुत्रास्ते वै प्रजापतेः।
विरजस्य द्विजाः श्रेष्ठा वैराजा इति विश्रुताः ।
एष वै प्रथमः कल्पो वैराजानां प्रकीर्त्तितः ।। ११.४ ।।

तेषान्तु मानसी कन्या मेना नाम महागिरेः।
पत्नी हिमवतः शुभ्र यस्यां मैनाक उच्यते ।। ११.५ ।।

जातः सर्वैषधिधरः सर्वरत्नाकरात्मवान्।
पर्वतः प्रवरः पुण्यः क्रौञ्चस्तस्यात्मजोऽभवत् ।। ११.६ ।।

तिस्रः कन्यास्तु मेनायां जनयामास शैलराट्।
अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम् ।। ११.७ ।।

आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोऽचरत्।
न्यग्रोधमेकपर्णी तु पाटलामेकपाटला।
शतं वर्षसहस्राणि दुश्चरं देवदानवैः ष।। ११.८ ।।

आहारमेकपर्णेन एकपर्णी समाचरत्।
पाटलेनैव चैकेन विदध्यादेकपाटला ।। ११.९ ।।

पूर्णे पूर्णे सहस्रे द्वे आहारं वै प्रजक्रतुः ।
एका तत्र निराहारा तां माता प्रत्यभाषत ।। ११.१० ।।

निषेधयन्ती ह्युमेति माता स्रेहेन दुःखिता।
सा तथोक्ततया देवी मात्रा दुश्चरचारिणी ।। ११.११ ।।

उमेति सा महाभागा त्रिषु लोकेषु विश्रुता ।
तथेति नाम्ना तेनासौ निरुक्ता कर्मणा शुभा ।। ११.१२ ।।

एतत्तु त्रिकुमारीकं जगत्स्यास्यति शाश्वतम्।
एतासां तपसा दृप्तं यावद्भूमिद्धरिष्यति ।। ११.१३ ।।

तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः।
देव्यस्ताः सुमहाभागाः सर्व्वाश्च स्थिरयौवनाः ।। ११.१४ ।।

सर्वाश्च ब्रह्मवादिन्यः सर्वा श्चैवोर्द्ध्वरेतसः।
उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।। ११.१५ ।।

महायोगबलोपेता महादेवमुपस्थिता।
दन्तकाण्वोशना तस्याः पुत्रो वै भृगु नन्दनः ।। ११.१६ ।।

असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता।
दत्ता हिमवता तस्मै योगाचार्याय धीमते।
देवलं सुषुवे सा तु ब्रह्मिष्ठं मानसं सुतम् ।। ११.१७ ।।

या चैतासां कुमारीणां तृतीया त्वेकपाटला।
पुत्रं शतशिलाकस्य जैगीषव्यमुपस्थिता ।। ११.१८ ।।

तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ।
इत्येता वै महाभागाः कन्या हिमवतः शुभाः ।। ११.१९ ।।

रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते।
अन्योन्यप्रीतिरनयोरुमाशङ्करयोर्यथा ।। ११.२० ।।

श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा।
ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा।
तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ।। ११.२१ ।।

अनयो रतिविघ्नञ्च त्वमाचर हुताशन।
सर्वत्र गत एव त्वं न दोषो विद्यते तदा ।। ११.२२ ।।

इत्येवमुक्ते तु तथा वह्निना च तथा कृतम्।
उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ।। ११.२३ ।।

ततो रुषितया देव्या शप्तोऽग्निः शांशपायन।
इदं चोक्तवती वह्निं रोषगद्घदया गिरा ।। ११.२४ ।।

यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन।
कृतवानस्यकर्त्तव्यं तस्मात्त्वमसि दुर्मते ।। ११.२५ ।।

यदेवं विभृतं गर्भं रौद्रं शुक्रं महाप्रभम्।
गर्भं त्वं धारयस्वैवमेषा ते दण्डधारणा ।। ११.२६ ।।

स शापरोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः।
बहून्वर्षगणान् गर्भं धारयामास वै द्विजाः ।। ११.२७ ।।

स गङ्गामुपगम्याह श्रूयतां सरिदुत्तमे।
सुमहान् परिखेदो मे गर्भधारणकारणात् ।। ११.२८ ।।

मद्धितार्थमिमं गर्भमतो धारय निम्नगे।
मत्प्रसादाच्च खेदो वै मन्दस्तव भविष्यति ।। ११.२९ ।।

तथेत्युक्त्वा तदा सा तु सम्प्रहृष्ट महानदी।
तं गर्भं धारयामास दह्यमानेन चेतसा ।। ११.३० ।।

सापि कृच्छ्रेण महता खिद्यमाना महानदी।
कालं प्रकृष्टं सुमहद्घर्भधारणतत्परा ।। ११.३१ ।।

तया परिगतं गर्भं कुक्षौ हिमवतः शुभे।
शुभं शरवणं नाम चित्रं पुष्पितपादपम्।
तत्र तं व्यसृजद्गर्भं दीप्यमानामिवानलम् ।। ११.३२ ।।

रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः ।
आदित्यशतसङ्काशो महातेजाः प्रतापवान् ।। ११.३३ ।।

तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते।
विमानयानैराकाशं पतत्रिभिरिवावृतम् ।। ११.३४ ।।

देवदुन्दुभयो नेदुराकाशे मधुरस्वराः।
मुमुचुः पुष्पवर्षञ्च खचराः सिद्धचारणाः ।। ११.३५ ।।

जगुर्गन्धर्व्वमुख्याश्च सर्व्वशस्तत्र तत्र ह।
यक्षा विद्याधराः सिद्धाः किन्नराश्चैव सर्वशः ।। ११.३६ ।।

महानाग सहस्राणि प्रवराश्च पतत्रिणः ।
उपतस्थुर्महाभागमाग्नेयं शङ्करात्मजम्।
प्रभावेण तदा तेन दैत्यदानवराक्षसाः ।। ११.३७ ।।

सह सप्तर्षिभार्याभिरादावे वाग्निसम्भवः।
अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम् ।। ११.३८ ।।

ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः ।
स्निह्यमानाभिरत्यर्थं स्वकाभिरिव मातृभिः ।। ११.३९ ।।

युगपत्सर्वदेवीर्हि दिदृक्षुर्जाह्नवीसुतः।
षप्मुखो व्यसृजच्छ्रीमांस्तासां प्रीत्या महाद्युतिः ।। ११.४० ।।

श्रीमान् कमलपत्राक्षस्तरुणादित्य सन्निभः।
येन जातेन लोकानामाक्षेपस्तेजसा कृतः ।। ११.४१ ।।

तेन जातेन महता देवानामसहिष्णवः।
स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ।। ११.४२ ।।

कृत्तिकाभिस्तु यस्मात् संवर्द्धितः स पुरातनः।
कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः ।। ११.४३ ।।

जृम्भतस्तस्य दैत्यारेर्ज्वालामालाकुलात्तदा।
मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता ।। ११.४४ ।।

क्रीडार्थञ्चैव स्कन्दस्य विष्णुना प्रभविष्णुना।
गरुडादिति सृष्टौ हि पक्षिणौ हि प्रभद्रकौ ।। ११.४५ ।।

मयूरः कुक्कुटश्चैव पताका चैव वायुना।
यस्य दत्ता सरस्वत्या महावीणा महास्वना।
अजः स्वयम्भुवा दत्तो मेषो दत्तश्च शम्भुना ।। ११.४६ ।।

माया विहरणे विप्रा गिरौ क्रौञ्चे निपातिते।
तारके चासुरवरे समुदीर्णे निपातिते ।। ११.४७ ।।

सेन्द्रोपेन्द्रैर्महाभागैर्देवरैग्निसुतः प्रभुः ।
सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् ।। ११.४८ ।।

देवसेनापतिस्त्वेवं पठ्यते नरनायकः।
देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः ।। ११.४९ ।।

प्रमथैर्विविधैर्दवैस्तथा भूत गणैरपि ।
मातृभिर्विविधाभिश्च विनायकगणैस्तथा ।। ११.५० ।।

सा त्वपश्यद्विमानानि पतन्ती सा दिवश्च्युता ।
त्रसरेणुप्रमाणानि तेष्वपश्यच्च्युतान् पितॄन् ।। ११.५१ ।।

सुसूक्ष्मानपरित्यक्तानग्नीनग्निष्विवाहितान्।
त्रायध्वमित्युवाचाथ पतन्ती तानवाक्शिराः ।। ११.५२ ।।

तैरुक्ता सा तु माभैषीरित्युक्ताधिष्ठिताभवत्।
ततः प्रासादयत्सा वै पितॄंस्तान् दीनया गिरा ।। ११.५३ ।।

ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात्।
भ्रष्टैश्वर्या स्वदोषेण तपसि त्वं शुचिस्मिते ।। ११.५४ ।।

यैः क्रियन्ते च कर्म्माणि शरीरैरिह दैवतैः ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ।। ११.५५ ।।

सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे।
तस्मादमावस्वपत्यत्वं प्रेत्य प्राप्स्यसे फलम् ।। ११.५६ ।।

इत्युक्त्या वै पितरः पुनस्ते तु प्रसादिताः।
ध्यात्वा प्रसादं सञ्चक्रुस्तस्यास्ते त्वनुकम्पया ।। ११.५७ ।।

अवश्यम्भाविनं दृष्ट्वा ह्यर्थमूचुस्ततः सुराः ।
सोमपाः पितरः कन्यां राज्ञश्चैव ह्यमावसोः ।। ११.५८ ।।

उत्पन्नस्य पृथिव्यां तु मानुषत्वे महात्मनः।
कन्या भूत्वा त्विमाँल्लोकान्पुनः प्राप्स्यसि स्वानिति ।। ११.५९ ।।

अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा।
अस्यैव राज्ञो दुहिता अद्रिकायां ह्यमावसोः ।। ११.६० ।।

पराशरस्य दायादं ऋषेस्त्वं जनयिष्यसि।
स वेदमेकं विप्रर्षिश्चतुर्धा वै करिष्यति ।। ११.६१ ।।

महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ।
विचित्रवीर्य्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ।। ११.६२ ।।

चित्राङ्गदं चराजानं तेजोबलगुणान्वितम्।
एतानुत्पाद्य पुत्रं स्वं पुनर्लोकानवाप्स्यसि ।। ११.६३ ।।

व्यतिक्रमात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम्।
तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ।। ११.६४ ।।

कन्या भूत्वा ततश्च त्वमिमान् लोकानवाप्स्यसि।
एवमुक्ता तु दाशेयी जाता सत्यवती तु सा ।। ११.६५ ।।

अद्रिकायां सुता मत्स्यां सुता जाता ह्यमावसोः।
अद्रि कामत्स्यसम्भूता गङ्गायामनुसङ्गमे ।। ११.६६ ।।

तस्य राज्ञो हि सा कन्या राज्ञो वीर्य्ये सदैव हि।
विरजा नाम ते लोका दिवि रोचन्ति ते गणाः ।। ११.६७ ।।

अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः ।
तान्दानवगणा यक्षा रक्षोगन्धर्व्वकिन्नराः।
भूतसर्पपिशाचाश्च भावयन्ति फलार्थिनः ।। ११.६८ ।।

एते पुत्राः समाख्याताः पुलहस्य प्रजापतेः।
त्रय एते गणाः प्रोक्ता धर्ममूर्तिधराः शुभाः ।। ११.६९ ।।

एतेषां मानसी कन्या पीवरी नाम विश्रुता।
योगिनी योगपत्नी च योगमाता तथैव च ।। ११.७० ।।

भविता द्वापरं प्राप्य अष्टाविंशन्तु दैवतम्।
पराशरकुलोद्भूतः शुको नाम महातपाः ।। ११.७१ ।।

श्रीमान्योगी महायोगी योगस्तस्माद्द्विजोत्तमः।
व्यासादरण्यां सम्भूतो विधूम इव पावकः ।। ११.७२ ।।

स तस्यां पितृकन्यायां योगाचार्यान्परिश्रुतान् ।
कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं ववौ ।। ११.७३ ।।

कन्यां कीर्त्तिमतीञ्चैव योगिनीं योगमातरम् ।
ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य तु ।। ११.७४ ।।

एतानुत्पाद्य धर्मात्मा पुत्रान्योगमवाप्य च।
महायोगतपाश्चैव अपरावर्त्तिनीं गतिम् ।। ११.७५ ।।

आदित्यकिरणोपेतं त्वपुनर्भावमास्थितः।
सर्वव्यापि विनिर्मुक्तो भविष्यति महामुनिः ।। ११.७६ ।।

अमूर्त्तिमन्तः पितरो धर्ममूर्त्तिधरास्तु ये।
त्रय एते गणास्तेषां चत्वारोऽन्ये निबोधत ।। ११.७७ ।।

यान्वक्ष्यामि द्विजश्रेष्ठा मूर्त्तिमन्तो महाप्रभाः।
उत्पन्नास्ते स्वधायास्तु कन्या ह्यग्नेः कवेः सुताः ।। ११.७८ ।।

पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः।
सर्वकामसमृद्धेषु द्विजा स्तान्भावयन्त्युत ।। ११.७९ ।।

एतेषां मानसी कन्या गौर्नाम दिवि विश्रुता।
दत्तसेना कुमारेण शुक्रस्य महिषी प्रिया ।। ११.८० ।।

एकत्रिंशच्च विख्याता भृगूणां कीर्त्तिवर्द्धनाः।
मरीचिगर्भास्ते लोकाः समावृत्य दिवि स्थिताः ।। ११.८१ ।।

एते ह्यङ्गिरसः पुत्राः साध्यैः सह विवर्द्धिताः।
उपहूताः स्मृतास्ते तु पितरो भास्वरा दिवि।
तान्क्षत्रियगणान्दृष्ट्वा भावयन्ति फलार्थिनः ।। ११.८२ ।।

एतेषां मानसी कन्या यशोदा नाम विश्रुता।
पत्नी सा विश्वमहतः स्नुषा वै विश्वशर्म्मिणः ।। ११.८३ ।।

राजर्षेर्जननी देवी खट्वाङ्गस्य महात्मनः।
यस्य यज्ञे पुरा गीता गाथा गीतैर्महर्षिभिः ।। ११.८४ ।।

अग्नेर्जन्म तथा दृष्ट्वा शाण्डिल्यस्य महात्मनः।
यजमानं दिलीपं ये पश्यन्ति सुसमाहिताः।
सत्यव्रतं महात्मानं ते स्वर्गजयिनोऽमराः ।। ११.८५ ।।

आज्यपा नाम पितरः कर्दमस्य प्रजापतेः ।
समुत्पन्नस्य पुलहादुत्पन्नास्तस्य वै पुनः ।। ११.८६ ।।

लोकेष्वेतेषु वर्त्तन्ते कामगेषु विहङ्गमाः ।
एतान्वैश्यगणाः श्राद्धे भावयन्ति फलार्थिनः ।। ११.८७ ।।

एतेषां मानसी सन्या विरजा नाम विश्रुता ।
ययातेर्जननी साध्वी पत्नी सा नहुषस्य तु ।। ११.८८ ।।

सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ।
हिरण्यगर्भस्य सुताः शूद्रास्तान्बावयन्त्युत ।। ११.८९ ।।

मानसा नाम ते लोका वहन्ते यत्र ते दिवि।
एतेषां मानसी कन्या नर्मदा सरितां वरा ।। ११.९० ।।

सा भावयति भूतानि दक्षिणापथगामिनी ।
जननी त्रसद्दस्योर्हि पुरुकुत्सपरिग्रहः ।। ११.९१ ।।

एतेषामभ्युपगमान्मातुर्मन्वन्तरेश्वरः ।
मन्वन्त रादौ श्राद्धानि प्रवर्त्तयति सर्वशः ।। ११.९२ ।।

पिदॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः ।
तस्मादिह स्वधर्मेण श्राद्धं देयन्तु श्रद्धया ।। ११.९३ ।।

सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः।
दत्तं स्वधां पुरोधाय तथा प्रीणाति वै पितॄन् ।। ११.९४ ।।

सोमस्याप्यायनं कृत्वा ह्यग्नेर्वैवस्वतस्य च।
उद गायनञ्चाग्नौ च अश्वमेधं तदामुयात् ।। ११.९५ ।।

पितॄन् प्रीणाति वै भक्त्या पितरः प्रीणयन्ति तम्।
पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः।
पुष्टिं प्रजां च स्वर्गं प्रयच्छन्ति न संशयः ।। ११.९६ ।।

देवकार्य्यादपि सदा पितृकार्य्यं विशिष्यते।
देवताभ्यः पितॄणां हि पूर्व्वमाप्यायनं स्मृतम् ।। ११.९७ ।।

न हि योगगतिः सूक्ष्मा पितॄणामपि तृप्तयः।
तपसा हि प्रसिद्धेन दृश्यन्ते मांसचक्षुषा ।। ११.९८ ।।

इत्येते पितरश्चैव लोका दुहितरश्च वै।
दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति तान् ।। ११.९९ ।।

चत्वारो मूर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः।
तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्व्वन्ति यत्नतः ।। ११.१०० ।।

भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तद्घतमानसाः।
विश्वे च सिकताश्चैव पृश्निजाः श्रृङ्गिणस्तथा ।। ११.१०१ ।।

कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत।
प्रजास्ता वातरशना दिवाकीर्त्त्यास्तथैव च ।। ११.१०२ ।।

लेखाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः।
अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व्व एव च ।। ११.१०३ ।।

यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह।
पितॄंस्त्वपूजयन्सर्वे नित्यमेव फलार्थिनः ।। ११.१०४ ।।

एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः।
सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ।। ११.१०५ ।।

हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा।
मोक्षं योगमयैश्वर्य्यं प्रयच्छन्ति पितामहाः ।। ११.१०६ ।।

मोक्षोपायमथैश्वर्य्यं सूक्ष्मदेहाश्च देवताः।
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ।। ११.१०७ ।।

ऐश्वर्य्यं विहितं योगमैश्वर्य्यं वित्तमुत्तमम्।
योगैश्वर्य्यदृते मोक्षः कथञ्चिन्नोपपद्यते ।। ११.१०८ ।।

अपक्षस्यैव गमनं गगने पक्षिणो यथा ।
वरिष्ठः सर्वधर्म्माणां मोक्षो धर्म्मः सनातनः ।। ११.१०९ ।।

विमानानां सहस्राणि युक्तान्यप्सरसांगणैः।
सर्वकामप्रसिद्धानि प्रयच्छन्ति पितामहाः ।। ११.११० ।।

प्रज्ञा पुष्टिः स्मृतिर्मेधा राज्यमारोग्यमेव च।
पितॄणां हि प्रसादेन प्राप्यते सुमहात्मना ।। ११.१११ ।।

मुक्तावैढूर्य्यवासांसि वाजिनागायुतानि च।
कोटिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः ।। ११.११२ ।।

हंसबर्हिणयुक्तानि मुक्तावैढूर्य्यवन्ति च।
किङ्किणीजालनद्धानि सदा पुष्पफलानि च।
प्रीत्या नित्यं प्रयच्छन्ति मनुष्याणां पितामहाः ।। ११.११३ ।।

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नामैकादशोऽध्यायः ।। ११ ।। *