सामग्री पर जाएँ

ऋग्वेदः सूक्तं ४.४६

विकिस्रोतः तः
← सूक्तं ४.४५ ऋग्वेदः - मण्डल ४
सूक्तं ४.४६
वामदेवो गौतमः, १- ३ इन्द्रो वा।
सूक्तं ४.४७ →
दे. इन्द्रवायू, १ वायुः। गायत्री
द्विदेवत्यसोमभक्षणम्
द्विदेवत्यग्रह१
वराहमुखे सरस्वती, खजुराहो


अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।
त्वं हि पूर्वपा असि ॥१॥
शतेना नो अभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः ।
वायो सुतस्य तृम्पतम् ॥२॥
आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः ।
वहन्तु सोमपीतये ॥३॥
रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम् ।
आ हि स्थाथो दिविस्पृशम् ॥४॥
रथेन पृथुपाजसा दाश्वांसमुप गच्छतम् ।
इन्द्रवायू इहा गतम् ॥५॥
इन्द्रवायू अयं सुतस्तं देवेभिः सजोषसा ।
पिबतं दाशुषो गृहे ॥६॥
इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम् ।
इह वां सोमपीतये ॥७॥


सायणभाष्यम्

पञ्चमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘अग्रं पिब ' इति सप्तर्चं प्रथमं सूक्तं वामदेवस्यार्षं गायत्रम् । कृत्स्नम् इन्द्रवायुदेवताकम् आद्या केवलवायव्या । तथा चानुक्रान्तम् --'अग्रं वायव्याद्यैन्द्रवायवं तु गायत्रम्' इति । सूक्तविनियोगो लैङ्गिकः । आद्ये द्वे ऐन्द्रवायवग्रहस्य याज्ये । तथा च सूत्रितम् - ‘ अग्रं पिबा मधूनामिति याज्ये अनवानम् ' ( आश्व. श्रौ. ५.५) इति ।


अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।

त्वं हि पू॑र्व॒पा असि॑ ॥१

अग्र॑म् । पि॒ब॒ । मधू॑नाम् । सु॒तम् । वा॒यो॒ इति॑ । दिवि॑ष्टिषु ।

त्वम् । हि । पू॒र्व॒ऽपाः । असि॑ ॥१

अग्रम् । पिब । मधूनाम् । सुतम् । वायो इति । दिविष्टिषु ।

त्वम् । हि । पूर्वऽपाः । असि ॥१

हे "वायो त्वम् “अग्रम् इन्द्रादिभ्यः पूर्वं “मधूनां मधुररसानां सोमानां संबन्धिनं "सुतम् अभिषुतं रसं “पिब । कुत्रेति तदुच्यते । “दिविष्टिषु दिवः स्वर्गस्य प्रापकेषु यज्ञेषु ।यद्वा । अस्माकं दिवः स्वर्गस्यैषणेषु निमित्तेषु । “त्वं “हि त्वं खलु “पूर्वपा “असि । हिशब्दः ‘देव दधिषे पूर्वपेयम्' (ऋ. सं. ७, ९२. १ ) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थः । वायोरग्रपानं देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहं प्रथमः पिबेयम् ' ( ऐ. ब्रा. २. २५) इत्यादिब्राह्मणे स्पष्टमाम्नातम् । तत्र हि वायुराजिं प्रथमं धावित्वाग्रपानं लब्धवान् ॥


श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।

वायो॑ सु॒तस्य॑ तृम्पतम् ॥२

श॒तेन॑ । नः॒ । अ॒भिष्टि॑ऽभिः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।

वायो॒ इति॑ । सु॒तस्य॑ । तृ॒म्प॒त॒म् ॥२

शतेन । नः । अभिष्टिऽभिः । नियुत्वान् । इन्द्रऽसारथिः ।

वायो इति । सुतस्य । तृम्पतम् ॥२

हे “वायो “नियुत्वान् नियुद्भिस्तद्वान् “इन्द्रसारथिः इन्द्रसहायः सन् त्वं “शतेन अपरिमितैः “अभिष्टिभिः अभित एषणीयैः कामैर्निमित्तभूतैरागच्छेति शेषः । आगत्य च “सुतस्य सुतमभिषुतं “नः अस्मदीयं सोमं “तृम्पतं पिबतं त्वमिन्द्रश्च । इन्द्रस्य साहित्यं ब्राह्मणे एवोक्तं -- तत्तुरीयभागिन्द्रोऽभवत्त्रिभाग्वायुः' इति, ‘तुरीये हैव संग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत्' ( ऐ. ब्रा. २. २५ ) इति वा ॥


आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रय॑ः ।

वह॑न्तु॒ सोम॑पीतये ॥३

आ । वा॒म् । स॒हस्र॑म् । हर॑यः । इन्द्र॑वायू॒ इति॑ । अ॒भि । प्रयः॑ ।

वह॑न्तु । सोम॑ऽपीतये ॥३

आ । वाम् । सहस्रम् । हरयः । इन्द्रवायू इति । अभि । प्रयः ।

वहन्तु । सोमऽपीतये ॥३

हे “इन्द्रवायू “वां युवां “सहस्रं “हरयः सहस्रसंख्याका अश्वाः “प्रयः अन्नं प्रति त्वरयन्तः सन्ति । अत्र हरिशब्दोऽश्वसामान्यवचनः । ते “सोमपीतये “आ “वहन्तु ॥


रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् ।

आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥४

रथ॑म् । हिर॑ण्यऽवन्धुरम् । इन्द्र॑वायू॒ इति॑ । सु॒ऽअ॒ध्व॒रम् ।

आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥४

रथम् । हिरण्यऽवन्धुरम् । इन्द्रवायू इति । सुऽअध्वरम् ।

आ । हि । स्थाथः । दिविऽस्पृशम् ॥४

हे “इन्द्रवायू हिरण्यवन्धुरं हिरण्मयनिवासीधारकाष्ठोपेतं “दिविस्पृशं द्युलोकम्पर्शिनं “स्वध्वरं शोभनाध्वरवन्तं “रथम् “आ “स्थाथः “हि आस्थितौ खलु । यस्मादेवं तस्मादागच्छतमित्यर्थः । स्वध्वरं प्रत्यास्थाय इति वा व्याख्येयम् ॥


' रथेन पृथु ' इत्यादिकस्तृचो दशरात्रे पञ्चमेऽहनि प्रउगशस्त्रे ऐन्द्रवायवो द्वितीयः । सूत्रितं च - ‘ रथेन पृथुपाजसा बहवः सूरचक्षसः' ( आश्व. श्रौ ७. १२ ) इति ॥

रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् ।

इन्द्र॑वायू इ॒हा ग॑तम् ॥५

रथे॑न । पृ॒थु॒ऽपाज॑सा । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ।

इन्द्र॑वायू॒ इति॑ । इ॒ह । आ । ग॒त॒म् ॥५

रथेन । पृथुऽपाजसा । दाश्वांसम् । उप । गच्छतम् ।

इन्द्रवायू इति । इह । आ । गतम् ॥५

हे “इन्द्रवायू “पृथुराजसा प्रभूतबलेन “रथेन “दाश्वांसं दातारं यजमानम् “उप “गच्छतम् । तदर्थम् “इह अस्मिन् यज्ञे “आ “गतम् आगच्छतम् ॥


इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभि॑ः स॒जोष॑सा ।

पिब॑तं दा॒शुषो॑ गृ॒हे ॥६

इन्द्र॑वायू॒ इति॑ । अ॒यम् । सु॒तः । तम् । दे॒वेभिः॑ । स॒ऽजोष॑सा ।

पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥६

इन्द्रवायू इति । अयम् । सुतः । तम् । देवेभिः । सऽजोषसा ।

पिबतम् । दाशुषः । गृहे ॥६

हे "इन्द्रवायू "अयं सोमः “सुतः अभिषुतः । “तं सोमं "देवेभिः देवैः “सजोषसा समानप्रीतौ “दाशुषः हविर्दातुः "गृहे यागशालायां “पिबतम् ॥


इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् ।

इ॒ह वां॒ सोम॑पीतये ॥७

इ॒ह । प्र॒ऽयान॑म् । अ॒स्तु॒ । वा॒म् । इन्द्र॑वायू॒ इति॑ । वि॒ऽमोच॑नम् ।

इ॒ह । वा॒म् । सोम॑ऽपीतये ॥७

इह । प्रऽयानम् । अस्तु । वाम् । इन्द्रवायू इति । विऽमोचनम् ।

इह । वाम् । सोमऽपीतये ॥७

हे “इन्द्रवायू "वां युवयोः “इह अस्मिन् यज्ञे “प्रयाणं गमनम् “अस्तु । "इह अस्मिन्नेव यज्ञे "वाँ “सोमपीतये "विमोचनम् अश्वानाम् अस्तु । पर्यवसानत एकार्थत्वेऽप्यादरार्थत्वादविरोधः ॥ ॥ २२ ॥


टिप्पणी

इन्द्रवायूरुपरि टिप्पणी

वायुरुपरि टिप्पणी

४.४६.१ अग्रं पिब मधूनां इति

अन्यत्रापि मधूनां अग्रस्य उल्लेखाः सन्ति (अध्वर्युभिः प्रयतं मध्वो अग्रम् - ४.०२७.०५, इदं हि वां प्रभृतं मध्वो अग्रम्-७.०९१.०५, जुहोमि ते धरुणं मध्वो अग्रम् - १०.०८३.०७ )। यदा पादपः अग्रे गच्छति, पुष्यति, तदा अपि अल्पमात्रायां मधोः सृजनं भवति। किन्तु अयं मधुः अग्रं धारयति, इदं कथनं नोचितं भवति।


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४६&oldid=401139" इत्यस्माद् प्रतिप्राप्तम्