ऋग्वेदः सूक्तं ४.३१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.३० ऋग्वेदः - मण्डल ४
सूक्तं ४.३१
वामदेवो गौतमः
सूक्तं ४.३२ →
दे. इन्द्रः। गायत्री, ३ पादनिचृत्

अग्निष्टोमे चातुर्विंशिकेहनि च माध्यंदिने सवने मैत्रावरुण्सय कया नः इत्याद्स्तृचः स्तोत्रियः(आश्व.श्रौ. ७.७)। वरुणप्रघासेषु कायस्य हविषः अनुवाक्या( आश्व.श्रौ. २.१७)

वामदेव्यं साम। स्तोत्राणां प्रतिष्ठापनार्थं।


कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥१॥
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृळ्हा चिदारुजे वसु ॥२॥
अभी षु णः सखीनामविता जरितॄणाम् ।
शतं भवास्यूतिभिः ॥३॥
अभी न आ ववृत्स्व चक्रं न वृत्तमर्वतः ।
नियुद्भिश्चर्षणीनाम् ॥४॥
प्रवता हि क्रतूनामा हा पदेव गच्छसि ।
अभक्षि सूर्ये सचा ॥५॥
सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे ।
अध त्वे अध सूर्ये ॥६॥
उत स्मा हि त्वामाहुरिन्मघवानं शचीपते ।
दातारमविदीधयुम् ॥७॥
उत स्मा सद्य इत्परि शशमानाय सुन्वते ।
पुरू चिन्मंहसे वसु ॥८॥
नहि ष्मा ते शतं चन राधो वरन्त आमुरः ।
न च्यौत्नानि करिष्यतः ॥९॥
अस्माँ अवन्तु ते शतमस्मान्सहस्रमूतयः ।
अस्मान्विश्वा अभिष्टयः ॥१०॥
अस्माँ इहा वृणीष्व सख्याय स्वस्तये ।
महो राये दिवित्मते ॥११॥
अस्माँ अविड्ढि विश्वहेन्द्र राया परीणसा ।
अस्मान्विश्वाभिरूतिभिः ॥१२॥
अस्मभ्यं ताँ अपा वृधि व्रजाँ अस्तेव गोमतः ।
नवाभिरिन्द्रोतिभिः ॥१३॥
अस्माकं धृष्णुया रथो द्युमाँ इन्द्रानपच्युतः ।
गव्युरश्वयुरीयते ॥१४॥
अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य ।
वर्षिष्ठं द्यामिवोपरि ॥१५॥


सायणभाष्यम्

‘ कया नः' इति पञ्चदशर्चं दशमं सूक्तं वामदेवस्यार्षमैन्द्रं गायत्रम् । “ अभी षु णः' इत्येषा पादनिचृन्नाम गायत्री ' त्रयः सप्तकाः पादनिचृत्' (अनु. ४. ४ ) इति तल्लक्षणयुक्तत्वात् । तथा चानुक्रमणिका- ‘कया पञ्चोनाभी षु पादनिचृत्' इति । सूक्तविनियोगो लैङ्गिकः । अग्निष्टोमे चातुर्विंशिकेऽहनि च माध्यंदिने सवने मैत्रावरुणस्य ‘कया नः' इत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च--- ‘ होत्रकाणां कया नश्चित्र आ भुवत् ' ( आश्व. श्रौ. ७. ४ ) इति । वरुणप्रघासेषु कायस्य हविषः अनुवाक्या ‘कया नः' इत्येषा । तथा च सूत्रितं-- कया नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्रे' ( आश्व. श्रौ. २. १७) इति ॥


कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ ।

कया॒ शचि॑ष्ठया वृ॒ता ॥१

कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ ।

कया॑ । शचि॑ष्ठया । वृ॒ता ॥१

कया । नः । चित्रः । आ । भुवत् । ऊती । सदाऽवृधः । सखा ।

कया । शचिष्ठया । वृता ॥१

“सदावृधः सदा वर्धमानः "चित्रः चायनीयः पूजनीयः "सखा मित्रभूत इन्द्रः “कया "उती ऊत्या तर्पणेन "नः अस्मान् “आ “भुवत् आभिमुख्येन भवेत् । "शविष्ठया प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन "कया “वृता केन वर्तनेन कर्मणा चाभिमुखो भवेत् ॥


कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दंध॑सः ।

दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥२

कः । त्वा॒ । स॒त्यः । मदा॑नाम् । मंहि॑ष्ठः । म॒त्स॒त् । अन्ध॑सः ।

दृ॒ळ्हा । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥२

कः । त्वा । सत्यः । मदानाम् । मंहिष्ठः । मत्सत् । अन्धसः ।

दृळ्हा । चित् । आऽरुजे । वसु ॥२

“मंहिष्ठः पूजनीयः “सत्यः सत्यभूतः “मदानां मादयितॄणां मध्ये “कः मदकरः “अन्धसः सोमस्य रसः “दृळ्हा “चित् दृढान्यपि "वसु वसूनि शत्रूणां धनानि "आरुजे आ समन्तात् भङ्क्तुं हे इन्द्र “त्वा त्वां “मत्सत् मादयेत् ॥


अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णां ।

श॒तं भ॑वास्यू॒तिभिः॑ ॥३

अ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ।

श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभिः॑ ॥३

अभि । सु । नः । सखीनाम् । अविता । जरितॄणाम् ।

शतम् । भवासि । ऊतिऽभिः ॥३

हे इन्द्र त्वं “सखीनां समानख्यातीनां “जरितॄणां स्तोतॄणाम् “अविता रक्षिता त्वं “शतं शतेन बह्वीभिः "ऊतिभिः रक्षाभिः सह “नः अस्माकं "सु सुष्ठु “अभि “भवासि अभिमुखो भव ॥


अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः ।

नि॒युद्भि॑श्चर्षणी॒नां ॥४

अ॒भि । नः॒ । आ । व॒वृ॒त्स्व॒ । च॒क्रम् । न । वृ॒त्तम् । अर्व॑तः ।

नि॒युत्ऽभिः॑ । च॒र्ष॒णी॒नाम् ॥४

अभि । नः । आ । ववृत्स्व । चक्रम् । न । वृत्तम् । अर्वतः ।

नियुत्ऽभिः । चर्षणीनाम् ॥४

हे इन्द्र त्वं “वृत्तं “चक्रं “न वर्तमानं चक्रमिव “अर्वतः उपगन्तॄन् “नः अस्मान् “चर्षणीनाम् अस्मदीयानां मनुष्याणां “नियुद्भिः स्तुतिभिः "अभि “आ “ववृत्स्व अभ्यावर्तस्व ॥


प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि ।

अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥५

प्र॒ऽवता॑ । हि । क्रतू॑नाम् । आ । ह॒ । प॒दाऽइ॑व । गच्छ॑सि ।

अभ॑क्षि । सूर्ये॑ । सचा॑ ॥५

प्रऽवता । हि । क्रतूनाम् । आ । ह । पदाऽइव । गच्छसि ।

अभक्षि । सूर्ये । सचा ॥५

हे इन्द्र त्वं “क्रतूनां कर्मणां यजमानानां संबन्धिनः “प्रवता प्रवतः प्रवणान् देशान् "पदेव पदानि स्वकीयानि स्थानानीव “आ “गच्छसि “हि आगतो भवसि खलु। “ह इति पूरणः । हे इन्द्र त्वामहं “सूर्ये सूर्येण "सचा सह “अभक्षि भजे ॥ ॥ २४ ॥


सं यत्त॑ इंद्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे ।

अध॒ त्वे अध॒ सूर्ये॑ ॥६

सम् । यत् । ते॒ । इ॒न्द्र॒ । म॒न्यवः॑ । सम् । च॒क्राणि॑ । द॒ध॒न्वि॒रे ।

अध॑ । त्वे इति॑ । अध॑ । सूर्ये॑ ॥६

सम् । यत् । ते । इन्द्र । मन्यवः । सम् । चक्राणि । दधन्विरे ।

अध । त्वे इति । अध । सूर्ये ॥६

हे “इन्द्र “ते त्वदर्थं “मन्यवः स्तुतयः “यत् यदा “सं “दधन्विरे अस्माभिरनुमन्यन्ते । “चक्राणि चङ्क्रमणानि कर्माणि च "सं दधन्विरे । “अध तदानीं ताः स्तुतयः तानि कर्माणि च “त्वे त्वयि भवन्ति । “अध तदनन्तरं "सूर्ये च भवन्ति ।।


उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते ।

दाता॑र॒मवि॑दीधयुं ॥७

उ॒त । स्म॒ । हि । त्वाम् । आ॒हुः । इत् । म॒घऽवा॑नम् । श॒ची॒ऽप॒ते॒ ।

दाता॑रम् । अवि॑ऽदीधयुम् ॥७

उत । स्म । हि । त्वाम् । आहुः । इत् । मघऽवानम् । शचीऽपते ।

दातारम् । अविऽदीधयुम् ॥७

हे “शचीपते कर्मपालकेन्द्र “उत अपि च “मघवानं धनवन्तं “दातारं स्तोतृभ्योऽभीष्टप्रदं त्वा “त्वाम् “अविदीधयुम् । विदीधयुः अदीप्यमानः । न विदीधयुः अविदीधयुः । तं दीप्यमानम् “आहुः “स्म प्रवदन्ति खलु । “हि “इत् इति द्वयं पूरणार्थम् ।।॥३॥


उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते ।

पु॒रू चि॑न्मंहसे॒ वसु॑ ॥८

उ॒त । स्म॒ । स॒द्यः । इत् । परि॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते ।

पु॒रु । चि॒त् । मं॒ह॒से॒ । वसु॑ ॥८

उत । स्म । सद्यः । इत् । परि । शशमानाय । सुन्वते ।

पुरु । चित् । मंहसे । वसु ॥८

“उत अपि च हे इन्द्र त्वं “सद्य “इत् सद्य एव “शशमानाय स्तुतिं कुर्वते । शशमानः शंसमानः ' ( निरु. ६. ८) इति यास्केनोक्तत्वात् । “सुन्वते सोमाभिषवं कुर्वते यजमानाय “पुरु “चित् पुरूणि बहून्यपि “वसु वसूनि धनानि “परि परितः "मंहसे "स्म प्रयच्छसि खलु ॥


न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वरं॑त आ॒मुरः॑ ।

न च्यौ॒त्नानि॑ करिष्य॒तः ॥९

न॒हि । स्म॒ । ते॒ । श॒तम् । च॒न । राधः॑ । वर॑न्ते । आ॒ऽमुरः॑ ।

न । च्यौ॒त्नानि॑ । क॒रि॒ष्य॒तः ॥९

नहि । स्म । ते । शतम् । चन । राधः । वरन्ते । आऽमुरः ।

न । च्यौत्नानि । करिष्यतः ॥९

हे इन्द्र "आमुरः बाधका राक्षसादयः "ते त्वदीयं “शतं “चन शतपरिमितमपि “राधः धनं “नहि “वरन्ते “स्म न वारयन्ति खलु । किंच शत्रूणां हिंसनं “करिष्यतः तव “च्यौत्नानि बलानि “न वारयन्ति ।


अ॒स्माँ अ॑वंतु ते श॒तम॒स्मान्त्स॒हस्र॑मू॒तयः॑ ।

अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥१०

अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । श॒तम् । अ॒स्मान् । स॒हस्र॑म् । ऊ॒तयः॑ ।

अ॒स्मान् । विश्वाः॑ । अ॒भिष्ट॑यः ॥१०

अस्मान् । अवन्तु । ते । शतम् । अस्मान् । सहस्रम् । ऊतयः ।

अस्मान् । विश्वाः । अभिष्टयः ॥१०

हे इन्द्र “ते त्वदीयाः “शतं शतसंख्याकाः “ऊतयः रक्षाः “अस्मान् “अवन्तु रक्षन्तु । “सहस्रं सहस्रसंख्याकास्त्वदीया रक्षाः “अस्मान् अवन्तु । “विश्वाः सर्वाणि “अभिष्टयः त्वदीयान्यभिगमनानि "अस्मान् अवन्तु ॥ ॥ २५ ॥


अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ ।

म॒हो रा॒ये दि॒वित्म॑ते ॥११

अ॒स्मान् । इ॒ह । वृ॒णी॒ष्व॒ । स॒ख्याय॑ । स्व॒स्तये॑ ।

म॒हः । रा॒ये । दि॒वित्म॑ते ॥११

अस्मान् । इह । वृणीष्व । सख्याय । स्वस्तये ।

महः । राये । दिवित्मते ॥११

हे इन्द्र त्वम् “इह अस्मिन् यज्ञे “अस्मान् यजमानान् “सख्याय सखिभावाय “स्वस्तये अविनाशाय च “महः महते "दिवित्मते दीप्तिमते "राये धनाय च "वृणीष्व संभजस्व ॥


अ॒स्माँ अ॑विड्ढि वि॒श्वहेंद्र॑ रा॒या परी॑णसा ।

अ॒स्मान्विश्वा॑भिरू॒तिभिः॑ ॥१२

अ॒स्मान् । अ॒वि॒ड्ढि॒ । वि॒श्वहा॑ । इन्द्र॑ । रा॒या । परी॑णसा ।

अ॒स्मान् । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥१२

अस्मान् । अविड्ढि । विश्वहा । इन्द्र । राया । परीणसा ।

अस्मान् । विश्वाभिः । ऊतिऽभिः ॥१२

हे “इन्द्र त्वं “विश्वहा सर्वेष्वहःसु "परीणसा महता “राया धनेन “अस्मान् यजमानान् “अविड्ढि रक्ष । किंच “विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः “अस्मान् अविड्ढि ॥


अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः ।

नवा॑भिरिंद्रो॒तिभिः॑ ॥१३

अ॒स्मभ्य॑म् । तान् । अप॑ । वृ॒धि॒ । व्र॒जान् । अस्ता॑ऽइव । गोऽम॑तः ।

नवा॑भिः । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ ॥१३

अस्मभ्यम् । तान् । अप । वृधि । व्रजान् । अस्ताऽइव । गोऽमतः ।

नवाभिः । इन्द्र । ऊतिऽभिः ॥१३

हे "इन्द्र त्वं "नवाभिः नूतनाभिः “ऊतिभिः रक्षाभिः "अस्तेव क्षेप्ता शूर इव “गोमतः गोभिः युक्तान “तान् प्रसिद्धान् “व्रजान् गोनिवासान् “अस्मभ्यम् "अपा “वृधि उद्घाटय ॥


अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इं॒द्रान॑पच्युतः ।

ग॒व्युर॑श्व॒युरी॑यते ॥१४

अ॒स्माक॑म् । धृ॒ष्णु॒ऽया । रथः॑ । द्यु॒ऽमान् । इ॒न्द्र॒ । अन॑पऽच्युतः ।

ग॒व्युः । अ॒श्व॒ऽयुः । ई॒य॒ते॒ ॥१४

अस्माकम् । धृष्णुऽया । रथः । द्युऽमान् । इन्द्र । अनपऽच्युतः ।

गव्युः । अश्वऽयुः । ईयते ॥१४

हे “इन्द्र “धृष्णुया धृष्णुः शत्रूणां धर्षक: "द्युमान् दीप्तिमान् "अनपच्युतः विनाशरहितः “गव्युः गोमान् “अश्वयुः अश्ववान् “अस्माकम् अस्मत्संबन्धी “रथः “ईयते सर्वत्र गच्छतु । तेन रथेनास्मान् रक्षेत्यर्थः ॥


‘ अस्माकमुत्तमं कृधि ' इत्यनया आदित्यं दृष्ट्वा रथादवरोहेत् । तथा च सूत्रितम्- अस्माकमुत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् ' ( आश्व. गृ. २. ६. १२ ) इति ।।

अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य ।

वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥१५

अ॒स्माक॑म् । उ॒त्ऽत॒मम् । कृ॒धि॒ । श्रवः॑ । दे॒वेषु॑ । सू॒र्य॒ ।

वर्षि॑ष्ठम् । द्याम्ऽइ॑व । उ॒परि॑ ॥१५

अस्माकम् । उत्ऽतमम् । कृधि । श्रवः । देवेषु । सूर्य ।

वर्षिष्ठम् । द्याम्ऽइव । उपरि ॥१५

हे सूर्य सर्वस्य प्रेरकेन्द्र हे आदित्य वा त्वं “देवेषु द्योतमानेषु वह्न्यादिषु मध्ये “अस्माकम् अस्मत्संबन्धि “श्रवः यशः “उत्तमम् उत्कृष्टं “कृधि कुरु । तत्र दृष्टान्तः । “वर्षिष्ठम् अतिशयेन प्रवृद्धं सेचनसमर्थं वा “द्यामिव द्युलोकं यथा सर्वेषां लोकानाम् “उपरि स्थितमुत्कृष्टमकरोस्तद्वत् ॥ ॥ २६ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३१&oldid=215789" इत्यस्माद् पुनः प्राप्तिः