ऋग्वेदः सूक्तं ४.२७
← सूक्तं ४.२६ | ऋग्वेदः - मण्डल ४ सूक्तं ४.२७ वामदेवो गौतमः। |
सूक्तं ४.२८ → |
दे. श्येनः, ५ इन्द्रो वा। त्रिष्टुप्, ५ शक्वरी। |
गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ।
शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥१॥
न घा स मामप जोषं जभाराभीमास त्वक्षसा वीर्येण ।
ईर्मा पुरंधिरजहादरातीरुत वाताँ अतरच्छूशुवानः ॥२॥
अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिम् ।
सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥३॥
ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः ।
अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥४॥
अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः ।
अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥५॥
सायणभाष्यम्
गर्भे न्विति पंचर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभं । अंत्या शक्करी षट्पंचाशदक्षरा। श्येनो देवता । पूर्वसूक्तेऽष्टौ वेत्युक्तत्वादंत्याया इंद्रो वा देवता। तथा चानुक्रांतं । गर्भे नु पंचांत्या शक्करीति ॥ श्येने निष्केवल्यशस्त्र इदं सूक्तं । सूत्रं तु पूर्वमुदाहृतं ॥
गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ ।
श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥१
गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ ।
श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥१
गर्भे। नु। सन् । अनु। एषां । अवेदं । अहं । देवानां । जनिमानि। विश्वा।
शतं । मा। पुरः। आयसीः । अरक्षन् । अध। श्येनः । जवसा। निः। अदीयं ॥१॥
अत्रैषः श्लोकः पठ्यते -- श्येनभावं समास्थाय गर्भाद्योगेन निःसृतः । ऋषिर्गर्भे शयानः सन् ब्रूते गर्भे नु सन्निति ॥ “गर्भे “नु गर्भे एव “सन् विद्यमानः “अहं वामदेवः “एषाम् इन्द्रादीनां “देवानां “विश्वा विश्वानि सर्वाणि “जनिमानि जन्मानि “अनु “अवेदम् आनुपूर्व्येणाज्ञासिषम् । परमात्मनः सकाशात् सर्वे देवा जाता इत्यवेदिषमित्यर्थः । इतः पूर्वं “शतं बहूनि “आयसीः अयोमयानि अभेद्यानि “पुरः शरीराणि “मा माम् "अरक्षन् अपालयन् । यथाहं शरीरात् व्यतिरिक्तमात्मानं न जानीयां तथा मामरक्षन्नित्यर्थः । “अध अधुना “श्येनः श्येनवत्थि्ततः अहं “जवसा वेगेन “निरदीयं शरीरान्निरगमम् । अनावरणमात्मानं जानन्निर्गतोऽस्मीत्यर्थः । ‘ पुरुषे ह वा अयमादितः इति खण्डे • गर्भ एवैतच्छयानो वामदेव एवमुवाच ' ( ऐ, आ. २. ५. १ ) इत्यादिनायमर्थः सम्यक् प्रतिपादितः ॥
न घा॒ स मामप॒ जोषं॑ जभारा॒भीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण ।
ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः ॥२
न । घ॒ । सः । माम् । अप॑ । जोष॑म् । ज॒भा॒र॒ । अ॒भि । ई॒म् । आ॒स॒ । त्वक्ष॑सा । वी॒र्ये॑ण ।
ई॒र्मा । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । उ॒त । वाता॑न् । अ॒त॒र॒त् । शूशु॑वानः ॥२
न। घ। सः। मां। अप । जोषं । जभार। अभि । ईं। आस । त्वक्षसा। वीर्येण ।
ईर्मा। पुरंऽधिः । अजहात्। अरातीः । उत । वातान् । अतरत् । शूशुवानः ॥२॥
“सः गर्भः “मां वामदेवं “जोषं पर्याप्तं “न “घ नैव “अप “जभार अपजहार । गर्भेऽपि वसतो मे मोहो नाभूदित्यर्थः । अहं तु “ईम् इदं गर्भस्थं दुःखं “त्वक्षसा तीक्ष्णेन “वीर्येण ज्ञानसामर्थ्येन “अभि "आस अभ्यभवम् । “ईर्मा सर्वस्य प्रेरकः “पुरंधिः पुरां धारकः परमात्मा “अरातीः गर्भसंश्रितान् शत्रून् “अजहात् अत्यजत् । जघान । "उत अपि च "शूशुवानः वर्धमानः परिपूर्णः परमात्मा “वातान् गर्भक्लेशकरान् वायून् “अतरत् अतारीत् ॥
अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् ।
सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥३
अव॑ । यत् । श्ये॒नः । अस्व॑नीत् । अध॑ । द्योः । वि । यत् । यदि॑ । वा॒ । अतः॑ । ऊ॒हुः । पुर॑म्ऽधिम् ।
सृ॒जत् । यत् । अ॒स्मै॒ । अव॑ । ह॒ । क्षि॒पत् । ज्याम् । कृ॒शानुः॑ । अस्ता॑ । मन॑सा । भु॒र॒ण्यन् ॥३
अव। यत्। श्येनः । अस्वनीत्। अध। द्योः।वि। यत्। यदि।वा। अतः।ऊहुः। पुरंऽधिं।
सृजत् । यत्। अस्मै।अव। ह ।क्षिपत्।ज्यां। कृशानुः । अस्ता। मनसा। भुरण्यन् ॥३॥
“अध तदानीं सोमाहरणकाले “यत् यदा “श्येनः “द्योः द्युलोकात् “अव “अस्वनीत् अवाङ्मुखं शब्दमकरोत् । “यदि “वा यदा च । वेति चार्थे । “यत् यं “पुरंधिं सोमम् “अतः अस्माच्छ्येनात् “वि “ऊहुः सोमपाला विक्षिप्तवन्तः। “यत् यदा “अस्ता शराणां क्षेप्ता “मनसा मनोवेगेन “भुरण्यन् गन्तुमिच्छन् 'कृशानुः एतन्नामकः सोमपालः "ज्यां धनुषः कोटौ मौर्वीं “क्षिपत् "ह चिक्षेप खलु । “अस्मै श्येनाय शरम् “अव “असृजत् त्यक्तवान् । तथा च ब्राह्मणं- तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत् ' ( ऐ. ब्रा. ३. २६) इत्यादि । यदा सोमपाला इत्थमित्थं चक्रुस्तदा श्येनः सोममाजहारेत्यृचोत्तरया संबन्धः ॥
ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः ।
अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥४
ऋ॒जि॒प्यः । ई॒म् । इन्द्र॑ऽवतः । न । भु॒ज्युम् । श्ये॒नः । ज॒भा॒र॒ । बृ॒ह॒तः । अधि॑ । स्नोः ।
अ॒न्तरिति॑ । प॒त॒त् । प॒त॒त्रि । अ॒स्य॒ । प॒र्णम् । अध॑ । याम॑नि । प्रऽसि॑तस्य । तत् । वेरिति॒ वेः ॥४
ऋजिप्यः । ईं। इंद्रऽवतः। न। भुज्युं । श्येनः । जभार। बृहतः । अधि । स्नोः ।
अंतरिति।पतत्। पतत्रि।अस्य। पर्णं।अध।यामनि।प्रऽसितस्य। तत्। वेरिति वेः ॥४॥
“ऋजिप्यः ऋजुगामी “श्येनः “इन्द्रवतः इन्द्रो रक्षको यस्य तस्मात् "बृहतः महतः “अधि उपरि “स्नोः स्थितात् द्युलोकात् “ईम् एनं सोमं "जभार आजहार । तत्र दृष्टान्तः । इन्द्रवतः । इन्द्रः समर्थः । तद्वतो देशात् “भुज्युं न भुज्युनामकं राजानं यथाश्विनावाजह्रतुस्तद्वत् । “अध तदानीं “यामनि युद्धे “प्रसितस्य कृशानोरस्त्रैर्बद्धस्य "वेः गन्तुः “अस्य श्येनस्य “अन्तः मध्ये स्थितं “पतत्रि पतनशीलं “तत् "पर्णं "पतत् अपतत् ॥
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्धः॑ ।
अ॒ध्व॒र्युभि॒ः प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥५
अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । आ॒ऽपि॒प्या॒नम् । म॒घऽवा॑ । शु॒क्रम् । अन्धः॑ ।
अ॒ध्व॒र्युऽभिः॑ । प्रऽय॑तम् । मध्वः॑ । अग्र॑म् । इन्द्रः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै । शूरः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै ॥५
अध। श्वेतं । कलशं। गोभिः । अक्तं । आऽपिप्यानं। मघऽवा। शुक्रं । अंधः ।
अध्वर्युऽभिः । प्रऽयतं । मध्वः । अग्रं। इंद्रः । मदाय । प्रति। धत्। पिबध्यै। शूरः । मदाय । प्रति । धत् । पिबध्यै ॥ ५॥
“अध अधुना “शूरः विक्रान्तः “मघवा धनवान्' “इन्द्रः “श्वेतं शुभ्रं "कलशं कलशे पात्रे स्थितं “गोभिः गव्येन पयसा “अक्तं सिक्तम् “आपिप्यानम् आप्याययन्तं “शुक्रं सारोपेतम् “अध्वर्युभिः “प्रयतं दत्तम् “अन्धः सोमलक्षणमन्नं “मध्वः मधुरस्य सोमरसस्य “अग्रम् अग्रे “मदाय मदार्थं “पिबध्यै पातुं “प्रति “धत् प्रतिदधातु । पुनरुक्तिरादरार्था ॥ ॥ १६ ॥
टिप्पणी
आत्मा का श्येन रूप तब उभरता है जब वह अपनी बहिर्मुखी चित्तवृत्तियों को समेटकर अपनी अन्तर्मुखी उड़ान भरता है। इसी उड़ान के फलस्वरूप जब योग-समाधि प्राप्त होती है तो वहीं ब्रह्मानन्दरस-रूप सोम इस श्येन को मिल जाता है। ....अन्तरिक्षपर्यायों का प्रतीकवाद (अध्याय ५)
४.२७.३ कृशानु
लक्ष्मीनारायणसंहिता ३.९१.७८ यां कृशाङ्ग द्विजस्य कथा अस्ति। बीजदोषकारणेन कृशाङ्गः ब्राह्मणीपुत्रो भूत्वापि चाण्डालः आसीत्। तेन तपस्तप्त्वा चाण्डालत्वात् मुक्तिं प्राप्य द्विजत्वं अगृह्णात्। कृशाङ्गः संज्ञा संकेतमस्ति यत् तपसा स्वपापानां शोधनमात्रं, कृशाङ्गत्वं पर्याप्तं नास्ति, अपितु कृशानु - यः अन्यानपि कृशं कर्तुं, तेषां दोषानां हरणाय समर्थं भवितुं शक्तः अस्ति, तस्य संज्ञा कृशानुः अस्ति। लक्ष्मीनारायणसंहितायां अयं कृत्यं अश्वपट्टसरोवरनिकटे अभूत् । अयं संकेतं अस्ति यत् कृशांगता प्राप्तिः एकांगी साधना अस्ति, कृशानुत्वं सर्वांगीणा, अश्वप्रकारा साधना। प्रस्तुतायां ऋचायां तथा अन्यत्रापि कृशानुः बाणस्य क्षेप्ता अस्ति येन कारणेन सोमस्याहरणसक्तस्य श्येनस्य पर्णं अच्छिद्यत्। पर्णः स्थूलत्वस्य प्रतीकमस्ति। यदा पर्णस्य छेदनं भवति, तदैव कृशाङ्गत्वं।
मण्डल ४ | |
---|---|
|