ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १७
← उत्तरभागः, अध्यायः १६ | ब्रह्माण्डपुराणम् अध्यायः १७ [[लेखकः :|]] |
उत्तरभागः, अध्यायः १८ → |
दण्डनाथाविनिर्याणे संख्यातीतैः सितप्रभैः ।
छत्रैर्गगनमारेजे निःसंख्याशशिमण्डितम् ॥ ३,१७.१ ॥
अन्योन्यसक्तैर्थवलच्छत्रैरन्तर्घनीभवत् ।
तिमिरं नुनुदे भूयस्तत्काण्डमणिरोचिषा ॥ ३,१७.२ ॥
वज्रप्रभाधगधगच्छायापूरितदिङ्मुखाः ।
तालवृन्ताः शतविधाः क्रोडमुख्या बलेऽचलन् ॥ ३,१७.३ ॥
चण्डो दण्डादयस्तीव्राभैरवाः शुलपाणयः ।
ज्वलत्केशापिशङ्गाभास्तडिद्भासुरदिङ्मुखाः ॥ ३,१७.४ ॥
दहत्य इव दैत्यौघांस्तीक्ष्णैर्मार्गणवह्निभिः ।
प्रचेलुर्दण्डनाथायास्सेना नासीरधाविताः ॥ ३,१७.५ ॥
अथ पोत्रीमुखीदेवीसमानाकृतिभूषणाः ।
तत्समानायुधकरास्तत्समानस्ववाहनाः ॥ ३,१७.६ ॥
तीक्ष्मदंष्ट३ इनिष्ठ्यूतवह्रिधूमामितांबराः ।
तमालश्यामलाकाराः कपिलाः क्रूरलोचनाः ॥ ३,१७.७ ॥
सहस्रमहिषारूढाः प्रचेलुः सूकराननाः ।
अथ श्रीदण्डनाथा च करिचक्ररथोत्तमात् ॥ ३,१७.८ ॥
अवरुह्य महासिंहमारुरोह स्ववाहनम् ।
वज्रघोष इति ख्यातं धूतकेसरमण्डलम् ॥ ३,१७.९ ॥
व्यक्तास्यं विकटाकारं विशङ्कटविलोचनम् ।
दंष्ट्राकटकटत्कारबधिरीकृतदिक्तटम् ॥ ३,१७.१० ॥
आदिकूर्मकठोरास्थि खर्परप्रतिमैर्नखैः ।
विबन्तमिव भूचक्रमापातालं निमज्जिभिः ॥ ३,१७.११ ॥
योजनत्रयमुत्तुङ्गं वगादुद्धूतवालधिम् ।
सिंहवाहनमारुह्य व्यचलद्दण्डनायिका ॥ ३,१७.१२ ॥
तस्यामसुरसंहारे प्रवृत्तायां ज्वलत्क्रुधि ।
उद्वेगं बहुलं प्राप त्रैलोक्यं सचराचरम् ॥ ३,१७.१३ ॥
किमसौ धक्ष्यति रुषा विश्वमद्यैव पोत्रिणी ।
किं वा मुसलघातेन भूमिं द्वेधा करिष्यति ॥ ३,१७.१४ ॥
अथ वा हलनिर्घातैः क्षोभयिष्यति वारिधीन् ।
इति त्रस्तहृदः सर्वे गगने नाकिनां गणाः ॥ ३,१७.१५ ॥
दूराद्रुतं विमानैश्च सत्रासं ददृशुर्गताः ।
ववन्दिरे च ता देवा बद्धाञ्जलिपुटान्विताः ।
मुहुर्द्वादशनामानि कीर्तयन्तो नभस्तले ॥ ३,१७.१६ ॥
अगस्त्य उवाच
कानि द्वादशनामानि तस्या देव्या वद प्रभो ।
अश्वानन महाप्राज्ञ येषु मे कौतुकं महत् ॥ ३,१७.१७ ॥
हयग्रीव उवाच
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ।
पञ्चमी दण्डनाथा च संकेता समयेश्वरी ॥ ३,१७.१८ ॥
तथा समयसंकेता वाराही पोत्रिणी तथा ।
वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ॥ ३,१७.१९ ॥
अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ।
नामद्वादशकाभिख्यवज्रपञ्जरमध्यगः ।
संकटे दुःखमाप्नोति न कदाचन मानवः ॥ ३,१७.२० ॥
एतैर्नामभिरभ्रस्थाः संकेतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचालच सा पुनः ॥ ३,१७.२१ ॥
अथ संकेतयोगिन्या मन्त्रनाथा पदस्पृशः ।
निर्याणसूचनकरी दिवि दध्वान काहली ॥ ३,१७.२२ ॥
शृङ्गारप्रायभूषाणां शार्दूलश्यामलत्विषाम् ।
वीणासंयतपाणीनां शक्तीनां निर्ययौ बलम् ॥ ३,१७.२३ ॥
काश्चद्गायन्ति नृत्यन्ति मत्तकोकिलनिःस्वनाः ।
वीणावेणुमृदङ्गाद्याः सविलासपदक्रमाः ॥ ३,१७.२४ ॥
प्रचेलुः शक्तयः श्यामा हर्षयन्त्यो जगज्जनान् ।
मयूरवाहनाः काश्चित्कतिचिद्धंसवाहनाः ॥ ३,१७.२५ ॥
कतिचिन्नकुलारूढाः कतिचित्कोकिलासनाः ।
सर्वाश्च श्यामलाकाराः काश्चित्कर्णीरथस्थिताः ॥ ३,१७.२६ ॥
कादंबमधुमत्ताश्च काश्चिदारूढसैन्धवाः ।
मन्त्रनाथां पुरस्कृत्य संप्रचेलुः पुरः पुरः ॥ ३,१७.२७ ॥
अथारुह्य समुत्तुङ्गध्वजचक्रं महारथम् ।
बालार्कवर्णकवचा मदालोलविलोचना ॥ ३,१७.२८ ॥
ईषत्प्रस्वेदकणिकामनोहरमुखांबुजा ।
प्रेक्षयन्ती कटाक्षौधौः किञ्चिद्भ्रूवल्लिताण्डवैः ॥ ३,१७.२९ ॥
समस्तमपि तत्सैन्यं शक्तीनामुद्धतोद्धतम् ।
पिच्छत्रिकोणच्छत्रेण बिरुदेन महीयसा ॥ ३,१७.३० ॥
आसां मध्ये न चान्यासां शक्तीनामुज्ज्वलोदया ।
निर्जगाम घनश्यामश्यामला मन्त्रनायिका ॥ ३,१७.३१ ॥
तां तुष्टुवुः षोडशभिर्नामभिर्नाकवासिनः ।
तानि षोडशनामानि शृणु कुंभसमुद्भव ॥ ३,१७.३२ ॥
संगीतयोगिनी श्यामा श्यामला मन्त्रनायिका ।
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ ३,१७.३३ ॥
वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया ।
निपप्रिया कदंबेशी कदंबवनवासिनी ॥ ३,१७.३४ ॥
सदामदा च नामानि षोडशैतानि कुंभज ।
एतैर्यः सचिवेशानीं सकृत्स्तौति शरीरवान् ।
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ ३,१७.३५ ॥
मन्त्रिनाथा यत्रयत्र कटाक्षं विकिरत्यसौ ।
तत्रतत्र गताशङ्कं शत्रुसैन्यं पतत्यलम् ॥ ३,१७.३६ ॥
ललितापरमेशान्या राज्यचर्चा तु यावती ।
शक्तीनामपि चर्चा या सा सर्वत्र जयप्रदा ॥ ३,१७.३७ ॥
अथ संगीतयोगिन्याः करस्थाच्छुकपोतकात् ।
निर्जगाम धनुर्वेदो वहन्सज्जं शरासनम् ॥ ३,१७.३८ ॥
चतुर्बाहुयुतो वीरस्त्रिशिरास्त्रिविलोचनः ।
नमस्कृत्य प्रधानेशीमिदमाह स भक्तिमान् ॥ ३,१७.३९ ॥
देवि भण्डासुरेद्रस्य युद्धाय त्वं प्रवर्त्तसे ।
अतस्तव मया साह्यं कर्तव्यं मन्त्रिनायिके ॥ ३,१७.४० ॥
चित्रजीवमिमं नाम कोदण्डं सुमहत्तरम् ।
गृहाण जगतामंब दानवानां निबर्हणम् ॥ ३,१७.४१ ॥
इमौ चाक्षयबाणाढ्यौ तूणीरौ स्वर्णचित्रितौ ।
गृहाण दैत्यनाशाय ममानुग्रहहेतवे ॥ ३,१७.४२ ॥
इति प्रणम्य शिरसा धनुर्वेदेन भक्तितः ।
अर्पितांश्चापतूणीराञ्जग्राह प्रियकप्रिया ॥ ३,१७.४३ ॥
चित्रजीवं महाचापमादाय च शूकप्रिया ।
विस्फारं जनयामास मौर्वीमुद्वाद्य भूरिशः ॥ ३,१७.४४ ॥
संगीतयोगिनी चापध्वनिना पूरितं जगत् ।
नाकालयानां च मनोन यनानन्दसंपदा ॥ ३,१७.४५ ॥
यन्त्रिणी चेति द्वे तस्याः परिचारिके ।
शुकं वीणां च सहसा वहन्त्यौ परिचेरतुः ॥ ३,१७.४६ ॥
आलोलवलयक्वाणवर्धिष्णुगुणनिस्वनम् ।
धारयन्ती घनश्यामा चकारातिमनोहरम् ॥ ३,१७.४७ ॥
चित्रजीवशरासेन भूषिता गीतयोगिनी ।
कदंबिनीव रुरुचे कदम्बच्छत्रकार्मुका ॥ ३,१७.४८ ॥
कालीकटाक्षवत्तीक्ष्णो नृत्यद्भुजगभीषणः ।
उल्लसन्दक्षिणे पाणौ विललास शिलीमुखः ॥ ३,१७.४९ ॥
गेयचक्ररथारूढां तां पश्चाच्च सिषेविरे ।
तद्वच्छ्यामलशोभाढ्या देव्यो बाणधनुर्धराः ॥ ३,१७.५० ॥
सहस्राक्षौहिणीसंख्यास्तीव्रवेगा मदालसाः ।
आपूरयन्त्यः ककुभं कलैः किलिकिलारवैः ॥ ३,१७.५१ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दण्डनाथाश्यामलासेनायात्रा नाम सप्तदशोऽध्यायः