ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ४१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४० ब्रह्माण्डपुराणम्
अध्यायः ४१
[[लेखकः :|]]
अध्यायः ४२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
कीदृशं यन्त्रमेतस्या मन्त्रोवा कीदृशो वरः ।
उपदेष्टा च कीदृक्स्याच्छिष्यो वा कीदृशः स्मृतः ॥ ३,४१.१ ॥

सर्वज्ञस्त्वं हयग्रीव साक्षात्परमपूरुषः ।
स्वामिन्मयि कृपादृष्ट्या सर्वमेतन्निवेदय ॥ ३,४१.२ ॥

हयग्रीव उवाच
मन्त्रं श्रीचक्रगेवास्याः सेयं हि त्रिपुरांबिका ।
सैषैव हि महालक्ष्मीः स्फुरच्चैवात्मनः पुरा ॥ ३,४१.३ ॥

पस्यति स्म तदा चक्रं ज्योतिर्मयविजृंभितम् ।
अस्य चक्रस्य माहात्म्यमपरिज्ञेयमेव हि ॥ ३,४१.४ ॥

साक्षात्सैव महालक्ष्मीः श्रीचक्रमिति तत्त्वतः ।
यदभ्यर्च्य महाविष्णुः सर्वलोकविमोहनम् ।
कामसंमोहिनीरूपं भेजे राजीवलोचनः ॥ ३,४१.५ ॥

अर्चयित्वा तदीशानः सर्वविद्येश्वरोऽभवत् ।
तदाराध्य विशेषेण ब्रह्मा ब्रह्माण्डसूरभूत् ।
मुनीनां मोहनश्चासीत्स्मरो यद्वरिवस्यया ॥ ३,४१.६ ॥

श्रीदेव्याः पुरतश्चक्रं हेमरौप्यादिनिर्मितम् ।
निधाय गन्धैरभ्यर्च्य षोडशाक्षरविद्यया ॥ ३,४१.७ ॥

प्रत्यहं तुलसीपत्रैः पवित्रैर्मङ्गलाकृतिः ।
सहस्रैर्मूलमन्त्रेण श्रीदेवीध्यानसंयुतः ॥ ३,४१.८ ॥

अर्चयित्वा च मध्वाज्यशर्करापायसैः शुभैः ।
अनवद्यैश्च नैवेद्यैर्माषापूपैर्मनोहरैः ॥ ३,४१.९ ॥

यः प्रीणति महालक्ष्मीं मतिमान्मण्डलत्रये ।
महसा तस्य सांनिध्यमाधत्ते परमेश्वरी ॥ ३,४१.१० ॥

मनसा वाञ्छितं यच्च प्रसन्ना तत्प्रपूरयेत् ।
धवलै कुसुमैश्चक्रमुक्तरीत्या तु योर्ऽचयेत् ॥ ३,४१.११ ॥

तस्यैव रसनाभागे नित्यं नृत्यति भारती ।
पाटलैः कुसुमैश्चक्रं योर्ऽचयेदुक्तमार्गतः ।
सार्वभौमं च राजानं दासवद्वशयेदसौ ॥ ३,४१.१२ ॥

पीतवर्णैः शुभैः पुष्पैः पूर्ववत्पूजयेच्च यः ।
तस्य वक्षस्थले नित्यं साक्षाच्छ्रीर्वसति ध्रुवम् ॥ ३,४१.१३ ॥

दुर्गन्धैर्गन्धहीनैश्च सुवर्णैरपि नार्चयेत् ।
सुगन्धैरेव कुसुमैः पुष्पैश्चाभ्यर्चर्योच्छवाम् ॥ ३,४१.१४ ॥

कामाक्ष्यैव महालक्ष्मीश्चक्रं श्रीचक्रमेव हि ।
श्रीविद्यैषा परा विद्या नायिका गुरुनायिका ॥ ३,४१.१५ ॥

एतस्या मन्त्रराजस्तु श्रीविद्यैव तपोधन ।
कामराजान्तमन्त्रान्ते श्रीबीजेन समन्वितः ॥ ३,४१.१६ ॥

षोडशाक्षरविद्येयं श्रीविद्येति प्रकीर्तिता ।
इत्थं रहस्यमाख्यातं गोपनीयं प्रयत्नतः ॥ ३,४१.१७ ॥

तिसृणामपि मूर्तीनां शक्तिर्विद्येयमीरिता ।
सर्वेषा मपि मन्त्राणां विद्यैषा प्राणरूपिणी ॥ ३,४१.१८ ॥

पारंपर्येण विज्ञाता विद्येयं बन्धमोचिनी ।
संस्मृता पापहरणी जरामृत्युविनाशिनी ॥ ३,४१.१९ ॥

पूजिता दुःखदौर्भाग्यव्याधिदारिद्रयनाशिनी ।
स्तुता विघ्नौघशमिनी ध्याता सर्वार्थसिद्धिदा ॥ ३,४१.२० ॥

मुद्राविशेषतत्त्वज्ञो दीक्षाक्षपितकल्मषः ।
भजेद्यः परमेशानीमभीष्टफलमाप्नुयात् ॥ ३,४१.२१ ॥

धवलांबरसंवीतां धवलावासमध्यगाम् ।
पूजयेद्धवलैः पुष्पैर्ब्रह्मचर्ययुतो नरः ॥ ३,४१.२२ ॥

धवलैश्चैव नैवेद्यैर्दधिक्षीरौदनादिभिः ।
संकल्पधवलैर्वापि पूजयेत्परमेश्वरीम् ॥ ३,४१.२३ ॥

श्रीर्वालन्त्र्यक्षीबीजैः क्रमात्खण्डेषु योजिताम् ।
षोडशाक्षरविद्यां तामर्चयेच्छुद्धमानसः ॥ ३,४१.२४ ॥

अनुलोमविलोमेन प्रजपन्मात्रिकाक्षरैः ॥ ३,४१.२५ ॥

भावयन्नेव देवाग्रे श्रीदेवीं दीपरूपिणीम् ।
मनसोपांशुना वापि निगदेनापि तापस ॥ ३,४१.२६ ॥

श्रीदेवीन्याससहितः श्रीदेवीकृतविग्रहः ।
एकलक्षजपेनैव महापापैः प्रमुच्यते ॥ ३,४१.२७ ॥

लक्षद्वयेन देवर्षे सप्तजन्मकृतान्यपि ।
पापानि नाशयत्येव साधकस्य परा कला ॥ ३,४१.२८ ॥

लक्षत्रितयजापेन सहस्रजनिपातकैः ।
मुच्यते नात्र संदेहो निर्मलो नितरां मुने ।
क्रमात्षोडशलक्षेण देवीसांनिध्यमाप्नुयात् ॥ ३,४१.२९ ॥

पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ ३,४१.३० ॥

होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।
मन्त्रान्ते पूजयेद्देवीं जपकाले यथोचितम् ॥ ३,४१.३१ ॥

जपाद्दशांशो होमः स्यात्तद्दशांशं तु तर्पणम् ।
तद्दशांशं ब्राह्मणानां भोजनं विन्ध्यमर्दन ॥ ३,४१.३२ ॥

देशकालोपघाते तु यद्यदङ्गं विहीयते ।
तत्संख्याद्विगुणं जप्त्वा पुरश्चर्यां समापयेत् ॥ ३,४१.३३ ॥

ततः काम्यप्रयोगार्थं पुनर्लक्षत्रयं जपेत् ।
व्रतस्थो निर्विकारश्च त्रिकालं पूजनेरतः ।
पश्चाद्वश्यादिकर्माणि कुर्वन्सिद्धिमवाप्स्यति ॥ ३,४१.३४ ॥

अभ्यर्च्य चक्रमध्यस्थो मन्त्री चिन्तयते यदा ।
सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम् ॥ ३,४१.३५ ॥

ततो भवति विन्ध्यारे सर्वसौभाग्यसुन्दरः ।
वल्लभः सर्वलोकानां वशयेन्नात्रसंशयः ॥ ३,४१.३६ ॥

रोचनाकुङ्कुमाभ्यां तु समभागं तु चन्दनम् ।
शतमष्टोत्तरं जप्त्वा तिलकं कारयेद्बुधः ॥ ३,४१.३७ ॥

ततो यमीक्षते वक्ति स्पृशते चिन्तयेच्च यम् ।
अर्धेन च शरीरेण स वशं याति दासवत् ॥ ३,४१.३८ ॥

तथा पुष्पं फलं गन्धं पानं वस्त्रं तपोधन ।
शतमष्टोत्तरं जप्त्वा यस्यै संप्रोष्यते स्त्रियै ।
सद्य आकृष्यते सा तु विमूढहृदया सती ॥ ३,४१.३९ ॥

लिखेद्रोचन यैकान्ते प्रतिमामवनीतले ।
सुरूपां च सशृङ्गारवेषाभरणमण्डिताम् ॥ ३,४१.४० ॥

तद्भालगलहृन्नाभिजानुमण्डलयोजितम् ।
जन्मनाममहाविद्यामङ्कुशान्तर्विदर्भितम् ॥ ३,४१.४१ ॥

सर्वाङ्गसंधिसंलीनामालिख्य मदनाक्षरैः ।
तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः ॥ ३,४१.४२ ॥

बद्ध्वा तु क्षोभिणीं मुद्रां विद्यामष्टशतं जपेत् ।
संयोज्य दहनागारे चन्द्रसूर्यप्रभाकुले ॥ ३,४१.४३ ॥

ततो विह्वलितापाङ्गीमनङ्गशरपीडिताम् ।
प्रज्वलन्मदनोन्मेषप्रस्फुरज्जघनस्थलाम् ॥ ३,४१.४४ ॥

शक्तिचक्रे लसद्रश्मिवलनाकवलीकृताम् ।
दूरीकृतसुचारित्रां विशालनयनाम्बुजाम् ॥ ३,४१.४५ ॥

आकृष्टनयनां नष्टधैर्यसंलीनव्रीडनाम् ।
मन्त्रयन्त्रौषधमहामुद्रानिगडबन्धनाम् ।
दूरीकृतसुचारित्रां विशालनयनाम्बुजाम् ॥ ३,४१.४६ ॥

मनोऽधिकमहामन्त्रजपमानां हृतांशुकाम् ।
विमूढामिव विक्षुब्धामिव प्लुष्टामिवाद्भुताम् ॥ ३,४१.४७ ॥

लिखितामिव निःसंज्ञामिव प्रमथितामिव ।
निलीनामिव निश्चेष्टामिवान्यत्वं गतामिव ॥ ३,४१.४८ ॥

भ्रमन्मन्त्रानिलोद्धूतवेणुपत्राकृतिं च खे ।
भ्रमन्तीं भावयेन्नारीं योजनानां शतादपि ॥ ३,४१.४९ ॥

चक्रमध्यगतां पृथ्वीं सशैलवनकाननाम् ।
चतुःसमुद्रपर्यन्तं ज्वलन्तीं चिन्तयेत्ततः ॥ ३,४१.५० ॥

षण्मासाभ्यासयोगेन जायते मदनोपमः ।
दृष्ट्वा कर्षयते लोकं दृष्ट्वैव कुरुते वशम् ॥ ३,४१.५१ ॥

दृष्ट्वा संक्षोभयेन्नारीं दृष्ट्वैव हरते विषम् ।
दृष्ट्वा करीति वागीशं दृष्ट्वा सर्वं विमोहयेत् ।
दृष्ट्वा चातुर्थिकादींश्च ज्वरान्नाशयते क्षणात् ॥ ३,४१.५२ ॥

पीतद्रव्येण लिखितं चक्रं गूढं तु धारयेत् ।
वाक्स्तंभं वादिनां क्षिप्रं कुरुते नात्र संशयः ॥ ३,४१.५३ ॥

महानीलीरसेनापि शत्रुनामयुतं लिखेत् ।
दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते रिपून् ॥ ३,४१.५४ ॥

महिषाश्वपुरीषाभ्यां गोमूत्रैर्नाम टङ्कितम् ।
आरनालस्थितं चक्रं विद्वेषं कुरुते द्विषाम् ॥ ३,४१.५५ ॥

युक्त्वा रोचनया नाम काकपक्षेण मध्यगम् ।
लंबमानस्तदाकारो उच्चाटनकरं परम् ॥ ३,४१.५६ ॥

दुग्धलाक्षारोचनाभिर्महानीलीरसेन च ।
लिखित्वा धारयंश्चक्रं चातुर्वर्ण्यं वशं नयेत् ॥ ३,४१.५७ ॥

अनेनैव विधानेन जलमध्ये यदि क्षिपेत् ।
सौभाग्यमतुलं तस्य स्नानपानान्न संशयः ॥ ३,४१.५८ ॥

चक्रमध्यगतं देशं नगरीं वा वराङ्गनाम् ।
ज्वलन्तीं चिन्तयेन्नित्यं सप्ताहात्क्षोभयेन्मुने ॥ ३,४१.५९ ॥

लिखित्वा पीतवर्णं तु चक्रमेतद्यदाचरेत् ।
पूर्वाशाभिमुखो भूत्वा स्तंभयेत्सर्ववादिनः ॥ ३,४१.६० ॥

सिंदूरवर्णलिखितं पूजयेदुत्तरामुखः ।
यदा तदा स्ववशगो लोको भवति नान्यथा ॥ ३,४१.६१ ॥

चक्रं गौरिकयालिख्यपूजयेत्पश्चिमामुखः ।
यः ससर्वाङ्गनाकर्षवश्यक्षोभकरो भवेत् ॥ ३,४१.६२ ॥

पूजयेद्विन्ध्यदर्पारे रहस्येकचरो गिरौ ।
अजरामरतां मन्त्री लभते नात्र संशयः ॥ ३,४१.६३ ॥

रहस्यमेतत्कथितं गोपितव्यं महामुने ।
गोपनात्सर्वसिद्धिः स्याद्भ्रंश एव प्रकाशनात् ॥ ३,४१.६४ ॥

अविधाय पुरश्चर्यां यः कर्म कुरुते मुने ।
देवताशापमाप्नोति न च सिद्धिं स विन्दति ॥ ३,४१.६५ ॥

प्रयोगदोषशान्त्यर्थं पुनर्लक्षं जपेद्बुधः ।
कुर्याच्च विधिवत्पूजां पुनर्योग्यो भवेन्नरः ॥ ३,४१.६६ ॥

निष्कामो देवतां नित्यं योर्ऽचयेद्भक्तिनिर्भरः ॥ ३,४१.६७ ॥

तामेव चिन्तयन्नास्ते यथाशक्ति मनुं जपन् ॥ ३,४१.६८ ॥

सैव तस्यैहिकं भारं वहेन्मुक्तिं च साधयेत् ।
सदा संनिहिता तस्य सर्वं च कथयेत सा ॥ ३,४१.६९ ॥

वात्सल्यसहिता धेनु यथा वत्समनुव्रजेत् ।
तथानुगच्छेत्सा देवी स्वभक्तं शरणागतम् ॥ ३,४१.७० ॥

अगस्त्य उवाच
शरणागतशब्दस्य कोर्ऽथो वद हया नन ।
वत्सं गौरिव यं गौरी धावन्तमनुधावति ॥ ३,४१.७१ ॥

हयग्रीव उवाच
यः पुमानखिलं भारमैहिकामुष्मिकात्मकम् ।
श्रीदेवतायां निक्षिप्य सदा तद्गतमानसः ॥ ३,४१.७२ ॥

सर्वानुकूलः सर्वत्र प्रतिकूलविवर्जितः ।
अनन्यशरणो गौरीं दृढं सम्प्रार्थ्य रक्षणे ॥ ३,४१.७३ ॥

रक्षिष्यतीति विश्वासस्तत्सेवैकप्रयोजनः ।
वरिवस्यातत्परः स्यात्सा एव शरणागतिः ॥ ३,४१.७४ ॥

यदा कदाचित्स्तुतिनिन्दनादौ निन्दन्तु लोकाः स्तुवतां जनो वा ।
इति स्वरूपं सुधिया समीक्ष्य विषादखेदौ न भजेत्प्रपन्नः ॥ ३,४१.७५ ॥

अनुकूलस्य संकल्पः प्रतिकूलस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ३,४१.७६ ॥

आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ।
अङ्गीकृत्यात्मनिक्षेपं पञ्चाङ्गानि समर्पयेत् ।
न ह्यस्य सदृशं किञ्चिद्भुक्तिमुक्त्योस्तु साधनम् ॥ ३,४१.७७ ॥

अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ३,४१.७८ ॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ।
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ॥ ३,४१.७९ ॥

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ।
मयि चानन्यभावेन भक्तिख्यभिचारिणी ॥ ३,४१.८० ॥

विविक्तदेशसेवित्वमरतिर्जनसंसदि ।
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतानि सर्वदा ज्ञानसाधनानि समभ्यसेत् ॥ ३,४१.८१ ॥

तत्कर्मकृत्तत्परमस्तद्भक्तः संगवर्जितः ।
निर्वैरः सर्वभूतेषु यः स याति परां श्रियम् ॥ ३,४१.८२ ॥

गुरुस्तु मादृशो धीमान्ख्यातो वातापितापन ।
शिष्योऽपि त्वादृशः प्रोक्तो रहस्याम्नायदेशिकः ॥ ३,४१.८३ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने एकचत्वारिंशोऽध्यायः