ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः ३० ब्रह्माण्डपुराणम्
अध्यायः ३१
[[लेखकः :|]]
उत्तरभागः, अध्यायः ३२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
किमिदं श्रीपुरं नाम केन रूपेण वर्तते ।
केन वानिर्मितं पूर्व तत्सर्वं मे निवदय ॥ ३,३१.१ ॥

कियत्प्रमाणं किं वर्णं कथयस्व मम प्रभो ।
त्वमेव सर्वसन्देहपङ्कशोषणभास्करः ॥ ३,३१.२ ॥

हयग्रीव उवाच
यथा चक्ररथं प्राप्य पूर्वोक्तैर्लक्षणैर्युतम् ।
महायागानलोत्पन्ना ललिता परमेश्वरी ॥ ३,३१.३ ॥

कृत्वा वैवाहिकीं लीलां ब्रह्माद्यैः प्रार्थिता पुनः ।
व्यजेष्ट भण्डनामानमसुरं लोककण्टकम् ॥ ३,३१.४ ॥

तदा देवा महेन्द्राद्याः सन्तोषं बहु भेजिरे ।
अथ कामेश्वरस्यापि ललितायाश्च शोभनम् ।
नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः ॥ ३,३१.५ ॥

कुमारा ललितादेव्या ब्रह्मविष्णुमहेश्वराः ।
वर्धकिं विश्वकर्माणं सुराणां शिल्पकोविदम् ॥ ३,३१.६ ॥

सुराणां शिल्पनं च मयं मायाविचक्षणम् ।
आहूय कृतसत्कारानूचिरे ललिताज्ञया ॥ ३,३१.७ ॥

अधिकारिपुरुषा ऊचुः
भो विश्वकर्मञ्छिल्पज्ञ भोभो मय महोदय ।
भवन्तौ सर्वशास्त्रज्ञौ घटनामार्गकोविदौ ॥ ३,३१.८ ॥

संकल्पमात्रेण महाशिल्पकल्पविशारदौ ।
युवाभ्यां ललितादेव्या नित्यज्ञानमहोदधेः ॥ ३,३१.९ ॥

षोडशीक्षेत्रमध्येषु तत्क्षेत्रसमसंख्यया ।
कर्तव्या श्रीनगर्यो हि नानारत्नैरलङ्कृताः ॥ ३,३१.१० ॥

यत्र षोडशधा भिन्ना ललिता परमेश्वरी ।
विश्वत्राणाय सततं निवासं रचयिष्यति ॥ ३,३१.११ ॥

अस्माकं हि प्रियमिदं मरुतामपिच प्रियम् ।
सर्वलोकप्रियं चैतत्तन्नाम्नैव विरच्यताम् ॥ ३,३१.१२ ॥

इति कारणदेवानां वचनं सुनिशम्य तौ ।
विश्वकर्ममयौ नत्वा व्यभाषेतां तथास्त्विति ॥ ३,३१.१३ ॥

पुनर्नत्वा पृष्टवन्तौ तौ तान्कारण पूरुषान् ।
केषु क्षेत्रेषु कर्तव्याः श्रीनगर्यो महोदयाः ॥ ३,३१.१४ ॥

ब्रह्माद्याः परिपृष्टास्ते प्रोचुस्तौ शिल्पिनौ पुनः ।
क्षेत्राणां प्रविभागं तु कल्पयन्तौ यथोचितम् ॥ ३,३१.१५ ॥

कारणपुरुषा ऊचुः
प्रथमं मेरुपृष्ठे तु निषधे च महीधरे ।
हेमकूटे हिमगिरौ पञ्चमे गन्धमादने ॥ ३,३१.१६ ॥

नीले मेषे च शृङ्गारे महेन्द्रे च महागिरौ ।
क्षेत्राणि हि नवैतानि भौमानि विदितान्यथ ॥ ३,३१.१७ ॥

औदकानि तु सप्तैव प्रोक्तान्यखिल सिन्धुषु ।
लवणोऽब्धीक्षुसाराब्धिः सुराब्धिर्घृतसागरः ॥ ३,३१.१८ ॥

दधिसिन्धुः क्षीरसिन्धुर्जलसिन्धुश्च सप्तमः ।
पूर्वोक्ता नव शैलेन्द्राः पश्चात्सप्त च सिन्धवः ॥ ३,३१.१९ ॥

आत्दृत्य षोडश क्षेत्राण्यंबाश्रीपुरकॢप्तये ।
येषु दिव्यानि वेश्मानि ललिताया महौजसः ।
सृजतं दिव्यघटनापण्डितौ शिल्पिनौ युवाम् ॥ ३,३१.२० ॥

येषु क्षेत्रेषु कॢप्तानि घ्नन्त्या देव्या महासुरान् ।
नामानि नित्यानाम्नैव प्रथितानि न संशयः ॥ ३,३१.२१ ॥

सा हि नित्यास्वरूपेण कालव्याप्तिकरी परा ।
सर्वं कलयते देवी कलनाङ्कतया जगत् ॥ ३,३१.२२ ॥

नित्यानाच महाराज्ञी नित्या यत्र न तद्भिदा ।
अतस्तदीयनाम्ना तु सनामा प्रथिता पुरा ॥ ३,३१.२३ ॥

कामेश्वरीपुरी चैव भगमालापुरी तथा ।
नित्यक्लिन्नापुरीत्यादिनामानि प्रथितान्यलम् ॥ ३,३१.२४ ॥

अतो नामानि वर्णेन योग्ये पुण्यतमे दिने ।
महाशिल्पप्रकारेण पुरीं रचयतां शुभाम् ॥ ३,३१.२५ ॥

इति कारणकृत्येन्द्रैर्ब्रह्मविष्णुमहेश्वरैः ।
प्रोक्तौ तौ श्रीपुरीस्थेषु तेषु क्षेत्रेषु चक्रतुः ॥ ३,३१.२६ ॥

अथ श्रीपुरविस्तारं पुराधिष्ठातृदेवताः ।
कथयाम्यहमाधार्य लोपामुद्रापते शृणु ॥ ३,३१.२७ ॥

यो मेरुरखिलाधारस्तुङ्गश्चानन्तयोजनः ।
चतुर्दशजगच्चक्रसंप्रोतनिजविग्रहः ॥ ३,३१.२८ ॥

तस्य चत्वारि शृङ्गाणि शक्रनैरृतवायुषु ।
मध्यस्थलेषु जातानि प्रोच्छ्रायस्तेषु कथ्यते ॥ ३,३१.२९ ॥

पूर्वोक्तशृङ्गत्रितयं शतयोजनमुन्नतम् ।
शतयोजनविस्तारं तेषु लोकास्त्रयो मताः ॥ ३,३१.३० ॥

ब्रह्मलोको विष्णुलोकः शिवलोकस्तथैव च ।
एतेषां गृहविन्यासान्वक्ष्याम्यवसरान्तरे ॥ ३,३१.३१ ॥

मध्ये स्थितस्य शृङ्गस्य विस्तारं चोच्छ्रयं शृणु ।
चतुःशतं योजनानामुच्छ्रितं विस्तृतं तथा ॥ ३,३१.३२ ॥

तत्रैव शृङ्गे महति शिल्पिभ्यां श्रीपुरं कृतम् ।
चतुःशतं योजनानां विस्तृत कुम्भसंभव ॥ ३,३१.३३ ॥

तत्रायं प्रविभागस्ते प्रविविच्य प्रदर्श्यते ।
प्राकारः प्रथमः प्रोक्तः कालायसविनिर्मितः ॥ ३,३१.३४ ॥

षट्दशाधिकसाहस्रयोजनायतवेष्टनः ।
चतुर्दिक्षु द्वार्युतश्च चतुर्योजनमुच्छ्रितः ॥ ३,३१.३५ ॥

शालमूलपरीणाहो योजनायुतमब्धिप ।
शालाग्रस्य तु गव्यूतेर्नद्धवातायनं पृथक् ॥ ३,३१.३६ ॥

शालद्वारस्य चौन्नत्यमेकयोजनमाश्रितम् ।
द्वारेद्वारे कपाटे द्वे गव्यूत्यर्धप्रविस्तरे ॥ ३,३१.३७ ॥

एकयोजनमुन्नद्धे कालायस विनिर्मिते ।
उभयोरर्गला चेत्थमर्धक्रोशसमायता ॥ ३,३१.३८ ॥

एवं चतुर्षु द्वारेषु सदृशं परिकीर्तितम् ।
गोपुरस्य तु संस्थानं कथये कुंभसंभव ॥ ३,३१.३९ ॥

पूर्वोक्तस्य तु शालस्य मूले योजनसंमिते ।
पार्श्वद्वये योजने द्वे द्वे समादाय निर्मिते ॥ ३,३१.४० ॥

विस्तारमपि तावन्तं संप्राप्तं द्वारगर्भितम् ।
पार्श्वद्वयं योजने द्वे मध्ये शालस्य योजनम् ॥ ३,३१.४१ ॥

मेलयित्वा पञ्च मुने योजनानि प्रमाणतः ।
पार्श्वद्वयेन सार्धेन क्रोशयुग्मेन संयुतम् ॥ ३,३१.४२ ॥

मेलयित्वा पञ्चसंख्यायोजनान्यायतस्तथा ।
एवं प्राकारतस्तत्र गोपुरं रचितं मुने ॥ ३,३१.४३ ॥

तस्माद्गोपुरमूलस्य वेष्टो विंशतियोजनः ।
उपर्युपरि वेष्टस्य ह्रास एव प्रकीर्त्यते ॥ ३,३१.४४ ॥

गोपुरस्योन्नतिः प्रोक्तापञ्चविंशतियोजना ।
योजनेयोजने द्वारं सकपाटं मनोहरम् ॥ ३,३१.४५ ॥

भूमिकाश्चापि तावन्त्यो यथोर्ध्वं ह्राससंयुताः ।
गोपुराग्रस्य निस्तारो योजनं हि समाश्रितः ॥ ३,३१.४६ ॥

आयामोऽपि च तावान्वै तत्र त्रिमुकुटं स्मृतम् ।
मुकुटस्य तु विस्तारः क्रोशमानो घटोद्भव ॥ ३,३१.४७ ॥

क्रोशद्वयं समुन्नद्धं ह्रासं गोपुरवन्मुने ।
मुकुटस्यान्तरे क्षोणी क्रोशार्धेन च संमिता ॥ ३,३१.४८ ॥

मुकुटं पश्चिमे प्राच्यां दक्षिणे द्वारगोपुरे ।
दक्षोत्तरस्तु मुकुटाः पश्चिमद्वारगोपुरे ॥ ३,३१.४९ ॥

दक्षिणद्वारवत्प्रोक्ता उत्तरद्वाःकिरीटिकाः ।
पश्चिमद्वारवत्पूर्वद्वारे मुकुटकल्पना ॥ ३,३१.५० ॥

कालायसाख्यशालस्यान्तरे मारुतयोजने ।
अन्तरे कांस्यशालस्य पूर्ववद्गोपुरोऽन्वितः ॥ ३,३१.५१ ॥

शालमूलप्रमाणं च पूर्ववत्परिकीर्तितम् ।
कांस्यशालोऽपि पूर्वादिदिक्षु द्वारसमन्विन्तः ॥ ३,३१.५२ ॥

द्वारेद्वारे गोपुराणि पर्वलक्षणभाञ्जि च ।
कालायसस्य कांस्यस्य योंऽतर्देशः समन्ततः ॥ ३,३१.५३ ॥

नानावृक्षमहोद्यानं तत्प्रोक्तं कुम्भसंभव ।
उद्भिज्जाद्यं यावदस्ति तत्सर्वं तत्र वर्तते ॥ ३,३१.५४ ॥

परंसहस्रास्तरवः सदापुष्पाः सदाफलाः ।
सदापल्लवशोभाढ्याः सदा सौरभसंकुलाः ॥ ३,३१.५५ ॥

चूताः कङ्कोलका लोध्रा बकुलाः कर्णिकारकाः ।
शिंशपाश्च शिरीषाश्च देवदारुनमेरवः ॥ ३,३१.५६ ॥

पुन्नागा नागभद्राश्च मुचुकुन्दाश्च कट्फलाः ।
एलालवङ्गास्तक्कोलास्तथा कर्पूरशाखिनः ॥ ३,३१.५७ ॥

पीलवः काकतुण्ड्यश्च शालकाश्चासनास्तथा ।
काञ्चनाराश्च लकुचाः पनसा हिङ्गुलास्तथा ॥ ३,३१.५८ ॥

पाटलाश्च फलिन्यश्च जटिल्यो जघनेफलाः ।
गणिकाश्च कुरण्टाश्च बन्धुजीवाश्च दाडिमाः ॥ ३,३१.५९ ॥

अश्वकर्णा हस्तिकर्णाश्चांपेयाः कनकद्रुमाः ।
यूथिकास्तालपर्ण्यश्च तुलस्यश्च सदाफलाः ॥ ३,३१.६० ॥

तालास्तमालहिन्तालखर्जूराः शरबर्बुराः ।
इक्षवः क्षीरिणश्चैव श्लेष्मान्तकविभीतकाः ॥ ३,३१.६१ ॥

हरीत्क्यस्त्ववाक्पुष्प्यो घोण्टाल्यः स्वर्गपुष्पिकाः ।
भल्लातकाश्च खदिराः शाखोटाश्चन्दनद्रुमाः ॥ ३,३१.६२ ॥

कालागुरुद्रुमाः कालस्कन्धाश्चिञ्चा वदास्तथा ।
उदुंबरार्जुनाश्वत्थाः शमीवृक्षा ध्रुवाद्रुमाः ॥ ३,३१.६३ ॥

रुचकाः कुटजाः सप्तपर्णाश्च कृतमालकाः ।
कपित्थास्तिन्तिणी चैवेत्येवमाध्याः सहस्रशः ॥ ३,३१.६४ ॥

नानाऋतुसमाविष्टा देव्याः शृङ्गारहेतवः ।
नानावृक्षमहोत्सेधा वर्तन्ते वरशाखिनः ॥ ३,३१.६५ ॥

कांस्यशालस्यान्तरोले सप्तयोजनदूरतः ।
चतुरस्रस्ताम्रशालः सिंधुयोजनमुन्नतः ॥ ३,३१.६६ ॥

अनयोरन्तरक्षोणी प्रोक्ता कल्पकवाटिका ।
कर्पूरगन्धिभिश्चारुरत्नबीजसमन्वितैः ॥ ३,३१.६७ ॥

काञ्चनत्वक्सुरुचिरैः फलैस्तैः फलिता द्रुमाः ।
पीतांबराणि दिव्यानि प्रवालान्येव शाखिषु ॥ ३,३१.६८ ॥

अमृतं स्यान्मधुरसः पुष्पाणि च विभूषणम् ।
ईदृशा वहवस्तत्र कल्पवृक्षाः प्रकीर्तिताः ॥ ३,३१.६९ ॥

एषा कक्षा द्वितीया स्यान्कल्पवापीति नामतः ।
ताम्रशालस्यान्तराले नागशालः प्रकीर्तिताः ॥ ३,३१.७० ॥

अनयोरुभयोस्तिर्यगदेशः स्यात्सप्तयोजनः ।
तत्र संतानवाटी स्यान्कल्पवापीसमाकृतिः ॥ ३,३१.७१ ॥

तयोर्मध्ये मही प्रोक्ता हरिचन्दनवाटिका ।
कल्पवाटीसमाकारा फलपुष्पसमाकुला ॥ ३,३१.७२ ॥

एषु सर्वेषु शालेषु पूर्ववद्द्वारकल्पनम् ।
पूर्ववद्गोपुराणां च मुकुटानां च कल्पनम् ॥ ३,३१.७३ ॥

गोपुरद्वारकॢप्तं च द्वारे द्वारे च संमितिः ।
आरकूटस्यान्तराले सप्तयोजनदूरतः ॥ ३,३१.७४ ॥

पञ्चलोहमयः शालः पूर्वशालसमाकृतिः ।
तयोर्मध्ये मही प्रोक्ता मन्दारद्रुमवाटिका ॥ ३,३१.७५ ॥

पञ्चलोहस्यान्तराले सप्तयोजनदूरतः ।
रौप्यशालस्तु संप्रोक्तः पूर्वोक्तैर्लक्षणैर्युतः ॥ ३,३१.७६ ॥

तयोर्मध्यमही प्रोक्ता पारिजातद्रुवाटिका ।
दिव्यामोदसुसंपूर्णा फलपुष्पभरोज्ज्वला ॥ ३,३१.७७ ॥

रौप्यशालस्यान्तराले सप्तयोजनविस्तरः ।
हेमशालः प्रकथितः पूर्ववद्द्वारशोभितः ॥ ३,३१.७८ ॥

तयोर्मध्ये महीप्रोक्ता कदम्बतरुवाटिका ।
तत्र दिव्या नीपवृक्षा योजनद्वयमुन्नताः ॥ ३,३१.७९ ॥

सदैव मदिरास्पन्दा मेदुरप्रसवोज्ज्वलाः ।
येभ्यः कादंबरी नाम योगिनी भोगदायिनी ॥ ३,३१.८० ॥

विशिष्टा मदिरोद्याना मन्त्रिण्याः सततं प्रिया ।
ते नीपवृक्षाः सुच्छायाः पत्रलाः पल्लवाकुलाः ।
आमोदलोलभृङ्गालीझङ्कारैः पूरितोदराः ॥ ३,३१.८१ ॥

तत्रैव मन्त्रिणीनाथाया मन्दिरं सुमनोहरम् ।
कदंबवनवाट्यास्तु विदिक्षुज्वलनादितः ॥ ३,३१.८२ ॥

चत्वारि मन्दिराण्युच्चैः कल्पितान्यादिशिल्पिना ।
एकैकस्य तु गे७ य विस्तारः पञ्चयोजनः ॥ ३,३१.८३ ॥

पञ्चयोजनमायामः सप्तावरणतः स्थितिः ।
एवमन्यविदिक्षु स्युस्सर्वत्र प्रियकद्रुमाः ।
निवासनगरी सेयं श्यामायाः परिकीर्तिता ॥ ३,३१.८४ ॥

सेनार्थं नगरी त्वन्या महापद्माटवीस्थले ।
यदत्रैव गृह तस्या बहुयोजनदूरतः ॥ ३,३१.८५ ॥

श्रीदेव्या नित्यसेवा तु मत्रिण्या न घटिष्यते ।
अतश्चितामणिगृहोपान्तेऽपि भवनं कृतम् ।
तस्याः श्रीमन्त्रनाथायाः सुरत्वष्ट्रा मयेन च ॥ ३,३१.८६ ॥

श्रीपुरे मन्त्रेणी देव्या मन्दिरस्य गुणान्बहुन् ।
वर्णयिष्यति को नाम यो द्विजिह्वासहस्रवान् ॥ ३,३१.८७ ॥

कादंबरीमदाताम्रनयनाः कलवीणया ।
गायन्त्यस्तत्र खेलन्ति मान्यमातङ्गकन्यकाः ॥ ३,३१.८८ ॥

अगस्त्य उवाच
मातङ्गो नाम कःप्रोक्तस्तस्य कन्याः कथं च ताः ।
सेवन्ते मन्त्रिणीनाथां सदा मधुमदालसाः ॥ ३,३१.८९ ॥

हयग्रीव उवाच
मतङ्गो नाम तपसामेकराशिस्तपोधनः ।
महाप्रभावसंपन्नो जगत्सर्जनलंपटः ॥ ३,३१.९० ॥

तपः शक्त्यात्तधिया च सर्वत्राज्ञाप्रवर्त्तकः ।
तस्य पुत्रस्तु मातङ्गो मुद्रिणीं मन्त्रिनायिकाम् ॥ ३,३१.९१ ॥
.
घोरैस्तपोभिरत्यर्थं पूरयामास धीरधीः ।
मतङ्गमुनिपुत्रेण सुचिरं समुपासिता ॥ ३,३१.९२ ॥

मन्त्रिणी कृतसान्निध्या वृणीष्व वरमित्यशात् ।
सोऽपिसर्वमुनिश्रेष्ठो मातङ्गस्तपसां निधिः ।
उवाच तां पुरो दत्तसान्निध्यां श्यामलांबिकाम् ॥ ३,३१.९३ ॥

मातङ्गमहामुनिरुवाच
देवी त्वत्स्मृतिमात्रेण सर्वाश्च मम सिद्धयः ।
जाता एवाणिमाद्यास्ताः सर्वाश्चान्या विभूतयः ॥ ३,३१.९४ ॥

प्रापणीयन्न मे किञ्चिदस्त्यंबभुवनत्रये ।
सर्वतः प्राप्तकालस्य भवत्याश्चरितस्मृतेः ॥ ३,३१.९५ ॥

अथापि तव सांनिध्यमिदं नो निष्फलं भवेत् ।
एवं परं प्रार्थयेऽहं तं वरं पूरयांबिके ॥ ३,३१.९६ ॥

पूर्वं हिमवता सार्थं सौहार्दं परिहासवान् ।
क्रीडामत्तेन चावाच्यैस्तत्र तेन प्रगल्भितम् ॥ ३,३१.९७ ॥

अहङ्गौरीगुरुरिति श्लाघामात्मनि तेनिवान् ।
तद्वाक्यं मम नैवाभूद्यतस्तत्राधिको गुणः ॥ ३,३१.९८ ॥

उभयोर्गुणसाम्ये तु मित्रयोरधिके गुणे ।
एकस्य कारणाज्जाते तत्रान्यस्य स्पृहा भवेत् ॥ ३,३१.९९ ॥

गौरीगुरुत्वश्लाघार्थं प्राप्तकामोऽप्यहं तपः ।
कृतवान्मन्त्रिणीनाथे तत्त्वंमत्तनया भव ॥ ३,३१.१०० ॥

यतो मन्नामविख्याता भविष्यसि न संशयः ।
इत्युक्तं वचनं श्रुत्वा मातङ्गस्य महामुनेः ।
तथास्त्विति तिरोघत्स च प्रीतोऽभवन्मुनिः ॥ ३,३१.१०१ ॥

मातङ्गस्य महर्षेस्तु तस्य स्वप्ने तदा मुदा ।
तापिच्छमञ्जरीमेकां ददौ कर्णावतंसतः ॥ ३,३१.१०२ ॥

तत्स्वप्नस्य प्रभावेण मातङ्गस्य सधर्मिणी ।
नाम्ना सिद्धिमती गर्भे लघुश्यामामधारयत् ॥ ३,३१.१०३ ॥

तत एव समुत्पन्ना मातङ्गी तेन कीर्तिताः ।
लघुश्यामेति सा प्रोक्त श्यामा यन्मूलकन्दभूः ॥ ३,३१.१०४ ॥

मातङ्गकन्यका हृद्याः कोटीनामपि कोटिशः ।
लघुश्यामा महाश्यामामातङ्गी वृन्दसंयुताः ।
अङ्गशक्तित्वमापन्नाः सेवन्ते प्रियकप्रियाम् ॥ ३,३१.१०५ ॥

इति मातङ्गकन्यानामुत्पत्तिः कुंभसंभव ।
कथिताः सप्तकक्षाश्च शाला लोहादिनिर्मिताः ॥ ३,३१.१०६ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने हयग्रीवागस्त्यसंवादे सप्तकक्ष्या मतङ्गकन्याप्रादुर्भावो नामैकत्रिंशोऽध्यायः