ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३२

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः ३१ ब्रह्माण्डपुराणम्
अध्यायः ३२
[[लेखकः :|]]
उत्तरभागः, अध्यायः ३३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
लोहादिसप्तशालानां रक्षका एव संति वै ।
तन्नामकीर्तय प्राज्ञ येन मे संशयच्छिदा ॥ ३,३२.१ ॥

हयग्रीव उवाच
नानावृक्षमहोद्याने वर्तते कुंभसंभव ।
महाकालः सर्वलोकभक्षकः श्यामविग्रहः ॥ ३,३२.२ ॥

श्यामकञ्चुकधारी च मदारुणविलोचनः ।
ब्रह्माण्डचषके पूर्णं पिबन्विश्वरसायनम् ॥ ३,३२.३ ॥

महाकालीं घनश्यामामनङ्गार्द्रामपाङ्गयन् ।
सिंहासने समासीनः कल्पान्ते कलनात्मके ॥ ३,३२.४ ॥

ललिताध्यानसंपन्नो ललितापूजनोत्सुकः ।
वितन्वंल्लरिताभक्तेः स्वायुषो दीर्घ दीर्घताम् ।
कालमृत्युप्रमुख्यैश्च किङ्करैरपि सेवितः ॥ ३,३२.५ ॥

महाकालीमहाकालौ ललिताज्ञाप्रवर्त्तकौ ।
विश्वं कलयतः कृत्स्नं प्रथमेऽध्वनि वासिनौ ॥ ३,३२.६ ॥

कालचक्रं मतङ्गस्य तस्यैवासनतां गताम् ।
चतुरावरणोपेतं मध्ये बिन्दुमनोहरम् ॥ ३,३२.७ ॥

त्रिकोणंपञ्चकोणं च षोडशच्छदपङ्कजम् ।
अष्टारपङ्कजं चैवं महाकालस्तु मध्यगः ॥ ३,३२.८ ॥

त्रिकोणे तु महाकाल्या महासंध्या महानिशा ।
एतास्तिस्रो महादेव्यो महाकालस्य शक्तयः ॥ ३,३२.९ ॥

तत्रैव पञ्चकोणाग्रे प्रत्यूषश्च पितृप्रसूः ।
प्राह्णापराह्णमध्याह्नाः पञ्च कालस्य शक्तयः ॥ ३,३२.१० ॥

अथ षोडशपत्राब्जे स्थिता शक्तीर्मुने शृणु ।
दिनमिश्रा तमिस्रा च ज्योत्स्नी चैव तु पक्षिणी ॥ ३,३२.११ ॥

प्रदोषा च निशीथा च प्रहरा पूर्णिमापि च ।
राका चानुमतिश्चैव तथैवामावस्यिका पुनः ॥ ३,३२.१२ ॥

सिनीवाली कुहूर्भद्रा उपरागा च षोडशी ।
एता षोडशमात्रस्थाः शक्तयः षोडश स्मृताः ॥ ३,३२.१३ ॥

कला काष्ठा निमेषाश्च क्षणाश्चैव लवास्त्रुटिः ।
मुहुर्ताः कुतपाहोरा शुक्लपक्षस्तथैव च ॥ ३,३२.१४ ॥

कृष्णपक्षायनाश्चैव विषुवा च त्रयोदशी ।
संवत्सरा च परिवत्सरेडावत्सरापि च ॥ ३,३२.१५ ॥

एताःषोडश पत्राब्जवासिन्यः शक्तयः स्मृताः ।
इद्वत्सरा ततश्चेन्दुवत्सरावत्सरेऽपि च ॥ ३,३२.१६ ॥

तिथिर्वारांश्च नक्षत्रं योगाश्च करणानि च ।
एतास्तु शक्तयो नागपत्रांभोरुहसंस्थिताः ॥ ३,३२.१७ ॥

कलिः कल्पा च कलना काली चेति चतुष्टयम् ।
द्वारपालकतां प्राप्तं कालच क्रस्य भास्वतः ॥ ३,३२.१८ ॥

एता महाकालदेव्यो मदप्रहसिताननाः ।
मदिरापूर्णचषकमशेषं चारुणप्रभम् ।
दधानाः श्यामलाकाराः सर्वाः कालस्य योषितः ॥ ३,३२.१९ ॥

ललितापूजनध्यानजपस्तोत्रपरायणाः ।
निषेवन्ते महाकालं कालचक्रासनस्थितम् ॥ ३,३२.२० ॥

अथ कल्पकवट्यास्तु रक्षकः कुम्भसंभव ।
वसन्तर्तुर्महातेजा ललिताप्रियकिङ्करः ॥ ३,३२.२१ ॥

पुष्पसिंहासनासीनः पुष्पमाध्वीमदारुणाः ।
पुष्पायुधः पुष्पभूषः पुष्पच्छत्रेण शोभितः ॥ ३,३२.२२ ॥

मधुश्रीर्माधवश्रीश्च द्वे देव्यौ तस्य दीव्यतः ।
प्रसूनमदिरामत्ते प्रसूनशरलालसे ॥ ३,३२.२३ ॥

सन्तानवाटिकापालो ग्रीष्मर्तुस्तीक्ष्णलोचनः ।
ललिताकिङ्करो नित्यं तस्यास्त्वाज्ञाप्रवर्तकः ॥ ३,३२.२४ ॥

शुक्र श्रीश्च शुचिश्रीश्च तस्य भार्ये उभे स्मृते ।
हरिचन्दनवाटी तु मुने वर्षर्तुना स्थिता ॥ ३,३२.२५ ॥

स वर्षर्न्तुर्महातेजा विद्युत्पङ्गललोचनः ।
वज्राट्टहासमुखरो मत्तजीमूतवाहनः ॥ ३,३२.२६ ॥

जीमूतकवचच्छन्नो मणिकार्मुकधारकः ।
ललितापूजनध्यानजपस्तोत्रपरायणः ॥ ३,३२.२७ ॥

वर्तते विन्ध्यमथन त्रैलोक्याह्लाददायकः ।
नभःश्रीश्च नभस्यश्रीः स्वरस्वारस्वमालिनी ॥ ३,३२.२८ ॥

अम्बा दुला निरलिश्चाभ्रयन्ती मेघयन्त्रिका ।
वर्षयन्ती चिबुणिका वारिधारा च शक्तयः ॥ ३,३२.२९ ॥

वर्षन्त्यो द्वादश प्रोक्ता मदारुणविलोचनाः ।
ताभिः समं स वर्षर्तुः शक्तिभिः परमेश्वरीम् ॥ ३,३२.३० ॥

सदैव संजपन्नास्ते निजोत्थैः पुष्पमण्डलैः ।
ललिताभक्तदेशांस्तु भूषयन्स्वस्य सम्पदा ॥ ३,३२.३१ ॥

तद्वैरिणां तु वसुधामनाबृष्ट्या निपीडयन् ।
वर्तते सततं देवीकिङ्करौ जलदागमः ॥ ३,३२.३२ ॥

मन्दारवाटिकायां तु सदा शरदृतुर्वसन् ।
तां कक्षां रक्षति श्रीमांल्लोकचित्तप्रसादनः ॥ ३,३२.३३ ॥

इषश्रीश्च तथोर्जश्रीस्तस्यर्तोः प्राणनायिके ।
ताब्यां संजह्रतुस्तोयं निजोत्थैः पुष्पमण्डलैः ।
अभ्यर्चयति साम्राज्ञीं श्रीकामेश्वरयोषितम् ॥ ३,३२.३४ ॥

हेमन्तर्तुर्महातेजा हिमशीतलविग्रहः ।
सदा प्रसन्नवदनो ललिताप्रियकिङ्करः ॥ ३,३२.३५ ॥

निजोत्थैः पुष्पसंभारैरर्चयन्परमेश्वरीम् ।
पारिजातस्य वाटीं तु रक्षति ज्वलनार्दनः ॥ ३,३२.३६ ॥

सहःश्रीश्च सहस्यश्रीस्तस्य द्वे योषिते शुभे ।
कदम्बवनवाट्यास्तु रक्षकः शिशिराकृतिः ॥ ३,३२.३७ ॥

शिशिरर्तुर्मुनिश्रेष्ठ वर्तते कुम्भसम्भव ।
सा कक्ष्या तेन सर्वत्र शीशिरीकृतभूतला ॥ ३,३२.३८ ॥

तद्वासिनी ततः श्यामा देवता शिशिराकृतिः ।
तपःश्रीश्च तपस्यश्रीस्तस्य द्वे योषिदुत्तमे ।
ताभ्यां सहार्चयत्यंबां ललितां विश्वपावनीम् ॥ ३,३२.३९ ॥

अगस्त्य उवाच
गन्धर्ववदन श्रीमन्नानावृक्षादिसप्तकैः ।
प्रथमोद्यानपालस्तु महाकालो मया श्रितः ॥ ३,३२.४० ॥

चतुरावरणं चक्रं त्वया तस्य प्रकीर्तितम् ।
षण्णामृतूनामन्येषां कल्पकोद्यानवाटिषु ।
पालकत्वं श्रुतं त्वत्तश्चक्रदेव्यस्तु न श्रुताः ॥ ३,३२.४१ ॥

अत एव वसन्तादिचक्रावरणदेवताः ।
क्रमेण ब्रूहि भगवन्सर्वज्ञोऽसि यतो महान् ॥ ३,३२.४२ ॥

हयग्रीव उवाच
आकर्णय मुनिश्रेष्ट तत्तच्चक्रस्थदेवताः ॥ ३,३२.४३ ॥

कालचक्रं पुरा प्रोक्तं वासन्तं चक्रमुच्यते ।
त्रिकोणं पञ्चकोणं च नागच्छदसरोरुहम् ।
षोडशारं सरोजं च दशारद्वितयं पुनः ॥ ३,३२.४४ ॥

चतुरस्रं च विज्ञेयं सप्तावरणसंयुतम् ।
तन्मध्ये बिन्दुचक्रस्थो वसन्तर्तुर्महाद्युति ॥ ३,३२.४५ ॥

तदेकद्वयसंलग्ने मधुश्रीमाधवश्रियौ ।
उभाभ्यां निजहस्ताभ्यामुभयोस्तनमेककम् ॥ ३,३२.४६ ॥

निपीडयन्स्वहस्तस्य युगलेन ससौरभम् ।
सपुष्पमदिरापूर्मचषकं पिशितं वहन् ॥ ३,३२.४७ ॥

एवमेव तु सर्वर्तुध्यानं विन्ध्यनिषूदन ।
वर्षर्तोस्तु पुनर्ध्याने शक्तिद्वितयमादिमम् ।
अङ्कस्थितं तु विज्ञेयं शक्तयोऽन्याः समीपगाः ॥ ३,३२.४८ ॥

अथ वासन्तचक्रस्थदेवीः शृणु वदाम्यम् ।
मधुशुक्लप्रथमिका मधुशुक्लद्वितीयिका ॥ ३,३२.४९ ॥

मधुशुक्लतृतीया च मधुशुक्लचतुर्थिका ।
मधुशुक्ला पञ्चमी च मधुशुक्ला च षष्ठिका ॥ ३,३२.५० ॥

मधुशुक्ला सप्तमी च मधुशुक्लाष्टमी पुनः ।
नवमी मधुशुक्ला च दशमी मधुशुक्लिका ॥ ३,३२.५१ ॥

मधुशुक्लैकादशी च द्वादशी मधुशुक्लतः ।
मधुशुक्लत्रयोदश्यां मधुशुक्ला चतुर्दशी ॥ ३,३२.५२ ॥

मधुशुक्ला पौर्णमासी प्रथमा मधुकृष्णिका ।
मधुकृष्णा द्वितीया च तृतीया मधुकृष्णिका ॥ ३,३२.५३ ॥

चतुर्थी मधुकृष्णा च मधुकृष्म च पञ्चमी ।
षष्टी तु मधुकृष्णा स्यात्सप्तमी मधुकृष्मतः ॥ ३,३२.५४ ॥

मधुकृष्णाष्टमी चैव नवमीमधुकृष्णतः ।
दशमी मधुकृष्णा च विन्ध्यदर्पनिषूदन ॥ ३,३२.५५ ॥

मधुकृष्णैकादशी तु द्वादशी मधुकृष्णतः ।
मधुकृष्णत्रयोदश्या मधुकृष्णचतुर्दशी ॥ ३,३२.५६ ॥

मध्वमा चेति विज्ञेयास्त्रिंशदेतास्तु शक्तयः ।
एवमेव प्रकारेण माधवाख्यो परिस्थिताः ॥ ३,३२.५७ ॥

शुक्लप्रतिपदाद्यास्तु शक्तयस्त्रिंशदन्यकाः ।
मिलित्वा षष्टिसंख्यास्तु ख्याता वासन्तशक्तयः ॥ ३,३२.५८ ॥

स्वैः स्वैर्मन्त्रैस्तत्र चक्रे पूजनीया विधानतः ।
वासन्तचक्रराजस्य सप्तावरणभूमयः ॥ ३,३२.५९ ॥

षष्टिः स्युर्दैवतास्तासु षष्टिभूमिषु संस्थिताः ।
विभज्य चार्चनीयाः स्युस्तत्तन्मन्त्रैस्तु साधकैः ॥ ३,३२.६० ॥

तथा वासन्तचक्रं स्यात्तथैवान्येषु च त्रिषु ।
देवतास्तु परं भिन्नाः शुक्रशुच्यादिभेदतः ॥ ३,३२.६१ ॥

शक्तयः षष्टिसंख्याता ग्रीष्मचक्रे महोदयाः ।
एवं वर्षादिके चक्रे भेदान्नभवभस्यजान् ॥ ३,३२.६२ ॥

षष्टि षष्टिसु शक्तीनां चक्रेचक्रे प्रतिष्ठिताः ।
ग्रन्थविस्तारभीत्या तु तत्संख्यानाद्विरम्यते ॥ ३,३२.६३ ॥

आर्तव्याः शक्तयस्त्वेता ललिताभक्त सौख्यदाः ।
ललितापूजनध्यानजपस्तोत्रपरायणाः ॥ ३,३२.६४ ॥

कल्पादिवाटिकाचक्रे सञ्चरन्त्यो मदालसाः ।
स्वस्वपुष्पोत्थमधुभिस्तर्पयन्त्यो महेश्वरीम् ॥ ३,३२.६५ ॥

मिलित्वा चैव संख्याताः षष्ट्युत्तरशतत्रयम् ।
एवं सप्तसु शालेषु पालिकाश्चक्रदेवताः ॥ ३,३२.६६ ॥

नामकीर्तनपूर्वं तु प्रोक्तस्तुभ्यं प्रपृच्छते ।
अन्येषामपि शालानामुपादानं तु पूरकम् ।
विस्तारं तत्र शक्तिं च कथयाम्यवधारय ॥ ३,३२.६७ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसम्वादे ललितोपाख्याने श्रीनगरत्रिपुरासप्तकक्षापालकदेवताप्रकाशन कथनं नाम द्वात्रिंशोऽध्यायः