ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः ५ ब्रह्माण्डपुराणम्
अध्यायः ६
[[लेखकः :|]]
उत्तरभागः, अध्यायः ७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अथोपवेश्य चैवैनमासने परमाद्भुते ।
हयाननमुपागत्यागस्त्यो वाक्यं समब्रवीत् ॥ ३,६.१ ॥

भगवन्सर्वधर्मज्ञ सर्वसिद्धान्तवित्तम् ।
लोकाभ्युदयहेतुर्हि दर्शनं हि भवादृशाम् ॥ ३,६.२ ॥

आविर्भावं महादेव्यास्तस्या रूपान्तराणि च ।
विहारश्चैव मुख्या ये तान्नो विस्तरतो वद ॥ ३,६.३ ॥

हयग्रीव उवाच
अनादिरखिलाधारा सदसत्कर्मरूपिणी ।
ध्यानैकदृश्या ध्यानाङ्गी विद्याङ्गी हृदयास्पदा ॥ ३,६.४ ॥

आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात् ॥ ३,६.५ ॥

आदौ प्रादुरभूच्छक्तिर्ब्रह्मणो ध्यानयोगतः ।
प्रकृतिर्नाम सा ख्याता देवानामिष्टसिद्धिदा ॥ ३,६.६ ॥

द्वितीयमुदभूद्रूपं प्रवृत्तेऽमृतमन्थने ।
शर्वसंमोहजनकमवाङ्मनसगोजरम् ॥ ३,६.७ ॥

यद्दर्शनादभूदीशः सर्वज्ञोऽपि विमोहितः ।
विसृज्य पार्वतीं शीघ्रन्तया रुद्धोऽतनोद्रतम् ॥ ३,६.८ ॥

तस्यां वै जनयामास शास्तारमसुरार्दनम् ॥ ३,६.९ ॥

अगस्त्य उवाच
कथं वै सर्वभूतेशो वशी मन्मथ शासनः ।
अहो विमोहितो देव्या जनयामास चात्मजम् ॥ ३,६.१० ॥

हयग्रीव उवाच
पुरामरपुराधीशो विजयश्रीसमृद्धिमान् ।
त्रैलोक्यं पालयामास सदेवासुरमानुषम् ॥ ३,६.११ ॥

कैलासशिखराकारं गजेन्द्रमधिरुह्य सः ।
चचाराखिललोकेषु पूज्यमानोऽखिलैरपि ।
तं प्रमत्तं विदित्वाथ भवानीपतिख्ययः ॥ ३,६.१२ ॥

दुर्वाससमथाहूय प्रजिघाय तदन्तिकम् ।
खण्डाजिनधरो दण्डीधूरिधूसरविग्रहः ।
उन्मत्तरूपधारी च ययौ विद्याधराध्वना ॥ ३,६.१३ ॥

एतस्मिन्नन्तरे काले काचिद्विद्याधराङ्गना ।
यदृच्छयागता तस्य पुरश्चारुतराकृतिः ॥ ३,६.१४ ॥

चिरकालेन तपसा तोषयित्वा परांबिकाम् ।
तत्समर्पितमाल्यं च लब्ध्वा संतुष्टमानसा ॥ ३,६.१५ ॥

तां दृष्ट्वा मृगुशावाक्षीमुवाच मुनिपुङ्गवः ।
कुत्र वा गम्यते भीरु कुतो लब्धमिदं त्वया ॥ ३,६.१६ ॥

प्रणम्य सा महात्मानमुवाच विनयान्विता ।
चिरेण तपसा ब्रह्मन्देव्या दत्तं प्रसन्नया ॥ ३,६.१७ ॥

तछ्रुत्वा वचनं तस्याः सोऽपृच्छन्माल्यमुत्तमम् ।
पृष्टमात्रेण सा तुष्टा ददौ तस्मै महात्मने ॥ ३,६.१८ ॥

कराभ्यां तत्समादाय कृतार्थोऽस्मीति सत्वरम् ।
दधौ स्वशिरसा भक्त्या तामुवाचातिर्षितः ॥ ३,६.१९ ॥

ब्रह्मादीनामलभ्यं यत्तल्लब्धं भाग्यतो मया ।
भक्तिरस्तु पदांभोजे देव्यास्तव समुज्ज्वला ॥ ३,६.२० ॥

भविष्यच्छोभनाकारे गच्छ सौम्ये यथासुखम् ।
सा तं प्रणम्य शिरसा ययौ तुष्टा यथागतम् ॥ ३,६.२१ ॥

प्रेषयित्वा स तां भूयो ययौ विद्याधराध्वना ।
विद्याधरवधूहस्तात्प्रतिजग्राह वल्लकीम् ॥ ३,६.२२ ॥

दिव्यस्रगनुलेपांश्च दिव्यान्याभरणानि च ।
क्वचिद्गृह्णन्क्वचिद्गा यन्क्वचिद्धसन् ॥ ३,६.२३ ॥

स्वेच्छाविहारी स मुनिर्ययौ यत्र पुरन्दरः ।
स्वकरस्थां ततो मालां शक्राय प्रददौ मुनिः ॥ ३,६.२४ ॥

तां गृहीत्वा गजस्कन्धे स्थापयामास देवराट् ।
गजस्तु तां गृहीत्वाथ प्रेषयामास भूतले ॥ ३,६.२५ ॥

तां दृष्ट्वा प्रेषितां मालां तदा क्रोधेन तापसः ।
उवाच न धृता माला शिरसा तु मयार्पिता ॥ ३,६.२६ ॥

त्रैलोक्यैश्वर्यमत्तेन भवता ह्यवमानिता ।
महादेव्या धृता या तु ब्रह्माद्यैः पूज्यतेहि सा ॥ ३,६.२७ ॥

त्वया यच्छासितो लोकः सदेवासुरमानुषः ।
अशोभनो ह्यतेजस्को मम शापाद्भविष्यति ॥ ३,६.२८ ॥

इति शप्त्वा विनीतेन तेन संपूजितोऽपि सः ।
तूष्णीमेव ययौ ब्रह्मन्भाविकार्यमनुस्मरन् ॥ ३,६.२९ ॥

विजयश्रीस्ततस्तस्य दैत्यं तु बलिमन्वगात् ।
नित्यश्रीर्नित्यपुरुषं वासुदेवमथान्वगात् ॥ ३,६.३० ॥

इन्द्रोऽपि स्वपुरं गत्वा सर्वदेवसमन्वितः ।
विषण्णचेता निःश्रीकश्चिन्तयामास देवराट् ॥ ३,६.३१ ॥

अथामरपुरे दृष्ट्वा निमित्तान्यशुभानि च ।
बृहस्पतिं समाहूय वाक्यमेतदुवाच ह ॥ ३,६.३२ ॥

भगवन्सर्वधर्मज्ञ त्रिकालज्ञानकोविद ।
दृश्यतेऽदृष्टपूर्वाणि निमित्तान्यशुभानि च ॥ ३,६.३३ ॥

किंफलानि च तानि स्युरुपायो वाथ कीदृशः ।
इति तद्वचनं श्रुत्वा देवेन्द्रस्य बृहस्पतिः ।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं शुभम् ॥ ३,६.३४ ॥

कृतस्य कर्मणो राजन्कल्पकोटिशतैरपि ।
प्रायश्चित्तोपभोगाभ्यां विना नाशो न जायते ॥ ३,६.३५ ॥

इन्द्र उवाच
कर्म वा कीदृशं ब्रह्मन्प्रायश्चित्तं च कीदृशम् ।
तत्सर्वं श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ ३,६.३६ ॥

बृहस्पतिरुवाच
हननस्तेयहिंसाश्च पानमन्याङ्गनारतिः ।
कर्म पञ्चविधं प्राहुर्दुष्कृतं धरणीपतेः ॥ ३,६.३७ ॥

ब्रह्मक्षत्रियविट्शूद्रगोतुरङ्गखरोष्ट्रकाः ।
चतुष्पदोऽण्डजाब्जाश्च तिर्यचोऽनस्थिकास्तथा ॥ ३,६.३८ ॥

अयुतं च सहस्रं च शतं दश तथा दश ।
दशपञ्चत्रिरेकार्धमानुपूर्व्यादिदं भवेत् ॥ ३,६.३९ ॥

ब्रह्मक्षत्रविशां स्त्रीणामुक्तार्थे पापमादिशेत् ।
पितृमातृगुरुस्वामि पुत्राणां चैव निष्कृतिः ॥ ३,६.४० ॥

गुर्वाज्ञया कृतं पापं तदाज्ञालङ्घनेर्ऽथकम् ।
दशब्राह्मणभृत्यर्थमेकं हन्याद्द्विजं नृपः ॥ ३,६.४१ ॥

शतब्राह्मणभृत्यर्थं ब्राह्मणो ब्राह्मणं तु वा ।
पञ्चब्रह्मविदामर्थे त्रैश्यमेकं तु दण्डयेत् ॥ ३,६.४२ ॥

वैश्यं दशविशामर्थे विशां वा दण्डयेत्तथा ।
तथा शतविशामर्थे द्विजमेकं तु दण्डयेत् ॥ ३,६.४३ ॥

शूद्राणां तु सहस्राणां दण्डयेद्ब्राह्मणं तु वा ।
तच्छतार्थं तु वा वैश्यं तद्दशार्द्धं तु शूद्रकम् ॥ ३,६.४४ ॥

बन्धूनां चैव मित्राणामिष्टार्थे तु त्रिपादकम् ।
अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु किञ्चन ॥ ३,६.४५ ॥

आत्मानं हन्तुमारब्धं ब्राह्मणं क्षत्रियं विशम् ।
गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते ॥ ३,६.४६ ॥

आत्मदारात्मजभ्रातृबन्धूनां च द्विजोत्तम ।
क्रमाद्दशगुणो दोषो रक्षणे च तथा फलम् ॥ ३,६.४७ ॥

भूपद्विजश्रोत्रियवेदविद्व्रतीवेदान्तविद्वेदविदां विनाशे ।
एकद्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेति वदन्ति संतः ॥ ३,६.४८ ॥

तेषां च रक्षणविधौ हि कृते च दाने पूर्वोदितोत्तरगुणं प्रवदन्ति पुण्यम् ।
तेषां च दर्शनविधौ नमने चकार्ये शूश्रूषणेऽपि चरतां सदृशांश्च तेषाम् ॥ ३,६.४९ ॥

सिंहव्याघ्रमृगादीनि लोकहिंसाकराणि तु ।
नृपो हन्याच्च सततं देवार्थे ब्राह्मणार्थके ॥ ३,६.५० ॥

आपत्स्वात्मार्थके चापि हत्वा मेध्यानि भक्षयेत् ॥ ३,६.५१ ॥

नात्मार्थे पाचयेदन्न नात्मार्थे पाचयेत्पशून् ।
देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते ॥ ३,६.५२ ॥

पुरा भगवती माया जगदुज्जीवनोन्मुखी ।
ससर्ज सर्वदेवांश्च तथैवासुरमानुषान् ॥ ३,६.५३ ॥

तेषां संरक्षणार्थाय पशूनपि चतुर्दश ।
यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाच ह ॥ ३,६.५४ ॥

यजध्वं पशुभिर्देवान्विधिनानेन मानवाः ।
इष्टानि ये प्रदास्यन्ति पुष्टास्ते यज्ञभाविताः ॥ ३,६.५५ ॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
दरिद्रो नारकश्चैव भवेज्जन्मनि जन्मनि ॥ ३,६.५६ ॥

देवतार्थे च पित्रर्थे तथैवाभ्यागते गुरौ ।
महदागमने चैव हन्यान्मेध्यान्पशून्द्विजः ॥ ३,६.५७ ॥

आपत्सु ब्राह्मणो मांसं मेध्यमश्नन्न दोषभाक् ।
विहितानि तु कार्याणि प्रतिषिद्धानि वर्जयेत् ॥ ३,६.५८ ॥

पुराभूद्युवनाश्वस्य देवतानां महाक्रतुः ।
ममायमिति देवानां कलहः समजायत ॥ ३,६.५९ ॥

तदा विभज्य देवानां मानुषांश्च पशूनपि ।
विभज्यैकैकशः प्रदाद्ब्रह्मा लोकपितामहः ॥ ३,६.६० ॥

ततस्तु परमा शक्तिर्भूतसंधसहायिनी ।
कुपिताभूत्ततो ब्रह्मा तामुवाच नयान्वितः ॥ ३,६.६१ ॥

प्रादुर्भूता समुद्वीक्ष्य भूतानन्दभयान्वितः ।
प्राञ्जलिः प्रणतस्तुत्वा प्रसीदेति पुनः पुनः ॥ ३,६.६२ ॥

प्रादुर्भूता यतोऽसि त्वं कृतर्थोऽस्मि पुरो मम ।
त्वयैतदखिलं कर्म निर्मितं सुशुभाशुभम् ॥ ३,६.६३ ॥

श्रुतयः स्मृतयश्चैव त्वयैव प्रतिपादिताः ।
त्वयैव कल्पिता यागा मन्मुखात्तु महाक्रतौ ॥ ३,६.६४ ॥

ये विभक्तास्तु पशवो देवानां परमेश्वरि ।
ते सर्वे तावकाः संतुभूतानामपि तृप्तये ॥ ३,६.६५ ॥

इत्युक्त्वान्तर्दधे तेषां पुर एव पितामहः ।
तदुक्तेनैव विधिना चकार च महाक्रतून् ॥ ३,६.६६ ॥

इयाज च परां शक्तिं हत्वा मेध्यान्पशूनपि ।
तत्तद्विभागो वेदेषु प्रोक्तत्वादिह नोदितः ॥ ३,६.६७ ॥

स्त्रियः शुद्रास्तथा मांसमादद्युर्ब्राह्मणं विना ।
आपत्सु ब्राह्मणो वापि भक्षयेद्गुर्वनुज्ञया ॥ ३,६.६८ ॥

शिवोद्भवमिद पिण्डमत्यथ शिवतां गतम् ।
उद्बुध्यस्व पशो त्वं हि नाशिवः सञ्छिवो ह्यसि ॥ ३,६.६९ ॥

ईशः सर्वजगत्कर्ता प्रभवः प्रलयस्तथा ।
यतो विश्वाधिको रुद्रस्तेन रुद्रोऽसि वै पशो ॥ ३,६.७० ॥

अनेन तुरगं गा वा गजोष्ट्रमहिषादिकम् ।
आत्मार्थं वा परार्थं वा हत्वा दोषैर्न लिप्यते ॥ ३,६.७१ ॥

गृहानिष्टकरान्वापि नागाखुबलिवृश्चिकान् ।
एतद्गृहाश्रमस्थानां क्रियाफलमभीप्सताम् ।
मनःसंकल्पसिद्धानां महतां शिववर्चसाम् ॥ ३,६.७२ ॥

पशुयज्ञेन चान्येषामिष्टा पूर्तिकरं भवेत् ।
जपहोमार्चनाद्यैस्तु तेषामिष्टं च सिध्यति ॥ ३,६.७३ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने हिंसाद्यस्वरूपकथनं नाम षष्ठोऽध्यायः