ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २६ ब्रह्माण्डपुराणम्
अध्यायः २७
[[लेखकः :|]]
उत्तरभागः, अध्यायः २८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अथ नष्टेषु पुत्रेषु शोकानलपरिप्लुतः ।
विललाप स दैत्येन्द्रो मत्वा जातं कुलक्षयम् ॥ ३,२७.१ ॥

हा पुत्रा हा गुणोदारा हा मदेकपरायणाः ।
हा मन्नेत्रसुधापूरा हा मत्कुलविवर्धनाः ॥ ३,२७.२ ॥

हा समस्तसुरश्रेष्ठमदभञ्जनतत्पराः ।
हा समस्तसुरस्त्रीणामन्तर्मोहनमन्मथाः ॥ ३,२७.३ ॥

दिशत प्रीतिवाचं मे ममाङ्के वल्गताधुना ।
किमिदानीमिमं तातमवमुच्य सुखं गताः ॥ ३,२७.४ ॥

युष्मान्विना न शोभन्ते मम राज्यानि पुत्रकाः ।
रिक्तानि मम गेहानि रिक्ता राजसभापि मे ॥ ३,२७.५ ॥

कथमेवं विनिःशेषं हतायूयं दुराशयाः ।
अप्रधृष्यभुजासत्त्वान्भवतो मत्कुलाङ्कुरान् ।
कथमेकपदे दुष्टा वनिता संगरेऽवधीत् ॥ ३,२७.६ ॥

मम नष्टानि सौख्यानि मम नष्टाः कुलस्त्रियः ।
इतः परं कुले क्षीणे साहसानि सुखानि च ॥ ३,२७.७ ॥

भवतः सुकृतैर्लब्ध्वा मम पूर्वजनुःकृतैः ।
नाशोऽयं भवतामद्य जातो नष्टस्ततोऽस्म्यहम् ॥ ३,२७.८ ॥

हा हतोऽस्मि विपन्नोऽस्मि मन्दभाग्योऽस्मि पुत्रकाः ।
इति शोकात्स पर्यस्यन्प्रलपन्मुक्तमूर्धजः ।
मूर्च्छया लुप्तहृदयो निष्पपात नुपासनात् ॥ ३,२७.९ ॥

विशुक्रश्च विषङ्गश्च कुटिलाक्षश्च संसदि ।
भण्डमाश्वासयामासुर्दैवस्य कुटिलक्रमैः ॥ ३,२७.१० ॥

विशुक्र उवाच
देवकि प्राकृत इव प्राप्तः शोकस्य वश्यताम् ।
लपसि त्वे प्रति सुतान्प्राप्तमृत्यून्महाहवे ॥ ३,२७.११ ॥

धर्मवान्विहितः पन्था वीराणामेष शाश्वतः ।
अशोच्यमाहवे मृत्युं प्राप्नुवन्ति यदर्हितम् ॥ ३,२७.१२ ॥

एतदेव विनाशाय शल्यवद्बाधते मनः ।
यत्स्त्री समागत्य हठान्नि हन्ति सुभटान्रणे ॥ ३,२७.१३ ॥

इत्युक्ते तेन दैत्येन पुत्रशोको व्यमुच्यत ।
भण्डेन चण्डकालाग्निसदृशः क्रोध आदधे ॥ ३,२७.१४ ॥

स कोशात्क्षिप्रमुद्धृत्य खड्गमुग्रं यमोपमम् ।
विस्फारिताक्षियुगलो भृशं जज्वाल तेजसा ॥ ३,२७.१५ ॥

इदानीमेव तां दुष्टां खड्गेनानेन खण्डशः ।
शकलीकृत्य समरे श्रमं प्राप्स्यामि बन्धुभिः ॥ ३,२७.१६ ॥

इति रोषस्खलद्वर्णः श्वसन्निव भुजङ्गमः ।
खड्गं विधुन्वन्नुत्थाय प्रचचाला तिमत्तवत् ॥ ३,२७.१७ ॥

तं निरुध्य च संभ्रान्ताः सर्वे दानवपुङ्गवाः ।
वाचमूचुरतिक्रोधाज्ज्वलन्तो ललितां प्रति ॥ ३,२७.१८ ॥

न तदर्थे त्वया कार्यः स्वामिन्संभ्रम ईदृशः ।
अस्माभिः स्वबलैर्युक्तै रणोत्साहो विधीयते ॥ ३,२७.१९ ॥

भवदाज्ञालवं प्राप्य समस्तभुवनं हठात् ।
विमर्द्दयितुमीशाः स्मः किमु तां मुग्धभामिनीम् ॥ ३,२७.२० ॥

किं चूषयामः सप्ताब्धीन्क्षोदयामोऽथ वा गिरीन् ।
अधरोत्तरमेवैतत्त्रैलोक्यं करवाम वा ॥ ३,२७.२१ ॥

छिनदाम सुरान्सर्वान्भिनदाम तदालयान् ।
पिन्षाम हरित्पालानाज्ञां देहि महामते ॥ ३,२७.२२ ॥

इत्युदीरित माकर्ण्य महाहङ्कारगर्वितम् ।
उवाच वचनं क्रुद्धः प्रतिघारुणलोचनः ॥ ३,२७.२३ ॥

विशुक्र भवता गत्वा मायान्तार्हितवर्ष्मणा ।
जयविघ्नं महायन्त्रं कर्त्तव्यं कटके द्विषाम् ॥ ३,२७.२४ ॥

इति तस्य वचः श्रुत्वा विशुक्रो रोषरूषितः ।
मायातिरोहितवपुर्जगाम ललिताबलम् ॥ ३,२७.२५ ॥

तस्मिन्प्रयातुमुद्युक्ते सुर्योऽस्तं समुपागतः ।
पर्यस्तकिरणस्तोमपाटलीकृतदिङ्मुखः ॥ ३,२७.२६ ॥

अनुरागवती संध्या प्रयान्तं भानुमालिनम् ।
अनुवव्राज पातालकुञ्जे रन्तुमिवोत्सुका ॥ ३,२७.२७ ॥

वेगात्प्रपततो भानोर्देहसंगात्समुत्थिताः ।
चरमाब्धेरिव पयःकणास्तारा विरेजिरे ॥ ३,२७.२८ ॥

अथाससाद बहुलं तमः कज्जलमेचकम् ।
सार्थं कर्त्तुमिवोद्युक्तं सवर्णस्यासिदुर्धिया ॥ ३,२७.२९ ॥

मायारथं समारूढो गूढशर्वरसंवृतः ।
अदृश्यवपुरापेदे ललिताकटकं खलः ॥ ३,२७.३० ॥

तत्र गत्वा ज्वलज्ज्वालं वह्निप्राकारमण्डलम् ।
शतयोजनविस्तारामालोकयत्दुर्मतिः ॥ ३,२७.३१ ॥

परितो विभ्रमञ्शालमवकाशमवाप्नुवन् ।
दक्षिणं द्वारमासाद्य निदध्यौ क्षणमुद्धतः ॥ ३,२७.३२ ॥

तत्रापश्यन्महासत्त्वास्सावधाना धृतायुधाः ।
आरूढयानाः सनद्धवर्माणो द्वारदेशतः ॥ ३,२७.३३ ॥

स्तंभिनीप्रमुखाः शक्तीर्विशत्यक्षौहिणीयुताः ।
सर्वदा द्वाररक्षार्थं निर्दिष्टा दण्डनाथया ॥ ३,२७.३४ ॥

विलोक्य विस्मयाविष्टो विचार्य च चिरं तदा ।
शालस्य बहिरेवासौ स्थित्वा यन्त्रं समातनोत् ॥ ३,२७.३५ ॥

गव्यूतिमात्रकायामे तत्समानप्रविस्तरे ।
शिलापट्टे सुमहति प्रालिखद्यन्त्रमुत्तमम् ॥ ३,२७.३६ ॥

अष्टदिक्ष्वष्टशूलेन संहाराक्षरमौलिना ।
अष्टभिर्दैवतैश्चैव युक्तं यन्त्रं समालिखत् ॥ ३,२७.३७ ॥

अलसा कृपणा दीना नितन्द्राच प्रमीलिका ।
क्लीबा च निरहङ्कारा चेत्यष्टौ देवताः स्मृताः ॥ ३,२७.३८ ॥

देवताष्टकमेतश्च शूलाष्टकपुटोपरि ।
नियोज्य लिखितं यन्त्रं मायावी सममन्त्रयत् ॥ ३,२७.३९ ॥

पूजां विधाय मन्त्रस्य बलिभिश्छागलादिभिः ।
तद्यन्त्रं चारिकटके प्राक्षिपत्समरेऽसुरः ॥ ३,२७.४० ॥

पाकारस्य बहिर्भागे वर्तिना तेन दुर्धिया ।
क्षिप्तमुल्लङ्घ्य च रणे पपात कटकान्तरे ॥ ३,२७.४१ ॥

तद्यन्त्रस्य विकारेण कटकस्थास्तुशक्तयः ।
विमुक्तशस्त्रसंन्यासमास्थिता दीनमानसाः ॥ ३,२७.४२ ॥

किं हतैरसुरैः कार्यं शस्त्राशस्त्रिक्रमैरलम् ।
जयसिद्धफलं किं वा प्राणिहिंसा च पापदा ॥ ३,२७.४३ ॥

अमराणां कृते कोऽयं किमस्माकं भविष्यति ।
वृथा कलकलं कृत्वा न फलं युद्धकर्मणा ॥ ३,२७.४४ ॥

का स्वामिनी महाराज्ञी का वासौ दण्डनायिका ।
का वा सा मन्त्रिणी श्यामा भृत्यत्वं नोऽथ कीदृशम् ॥ ३,२७.४५ ॥

इह सर्वाभिरस्माभिर्भृत्यभूताभिरेकिका ।
वनिता स्वामिनीकृत्ये किं फलं मोक्ष्यते परम् ॥ ३,२७.४६ ॥

परेषां मर्मभिदुरैरायुधैर्न प्रयोजनम् ।
युद्धं शाम्यतु चास्माकं देहशस्त्रक्षतिप्रदम् ॥ ३,२७.४७ ॥

युद्धे च मरणं भावि वृथा स्युर्जीवितानि नः ।
युद्धे मृत्युर्भवेदेव इति तत्र प्रमैव का ॥ ३,२७.४८ ॥

उत्साहेन फलं नास्ति निद्रैवैका सुखावहा ।
आलस्यसदृशं नास्ति चित्तविश्रान्तिदायकम् ॥ ३,२७.४९ ॥

एतादृशीश्च नो ज्ञात्वा सा राज्ञी किं करिष्यति ।
तस्या राज्ञीत्वमपि नः समवायेन कल्पितम् ॥ ३,२७.५० ॥

एवं चोपेक्षितास्माभिः सा विनष्टबला भवेत् ।
नष्ट सत्त्वा च सा राज्ञी कान्नः शिक्षां करिष्यति ॥ ३,२७.५१ ॥

एवमेव रणारंभं विमुच्य विधुतायुधाः ।
शक्तयो निद्रया द्वारे घूर्णमाना इवाभवन् ॥ ३,२७.५२ ॥

सर्वत्र मान्द्यं कार्येषु महदालस्यमागतम् ।
शिथिलं चाभवत्सर्वं शक्तीनां कटकं महत् ॥ ३,२७.५३ ॥

जयविघ्नं महायन्त्रमिति कृत्वा स दानवः ॥ ३,२७.५४ ॥

निर्विद्य तत्प्रभावेण कटकं प्रमिमन्थिषुः ।
द्वितीययुद्धदिवसस्यार्धरात्रे गते सति ॥ ३,२७.५५ ॥

निस्मृत्य नगराद्भूयस्त्रिंशदक्षौहिणीवृतः ।
आजगाम पुनर्दैत्यो विशुक्रः कटकं द्विषाम् ॥ ३,२७.५६ ॥

अश्रूयन्त ततस्तस्य रणनिःसाणनिस्वनाः ।
तथापि ता निरुद्योगाः शक्तयः कटकेऽभवन् ॥ ३,२७.५७ ॥

तदा महानुभावत्वाद्विकारैर्विघ्नयन्त्रजैः ।
अस्पृष्टे मन्त्रिणीदण्डनाथे चिन्तामवा पतुः ॥ ३,२७.५८ ॥

अहो बत महत्कष्टमिदमापतितं भयम् ।
कस्य वाथ विकारेण सैनिका निर्गतोद्यमाः ॥ ३,२७.५९ ॥

निरस्तायुधसंरंभा निद्रातन्द्राविघूर्णिताः ।
न मानयन्ति वाक्यानि रार्चयन्ति महेश्वरीम् ।
औदासीन्यं वितन्वन्ति शक्तयो निस्पृहा इमाः ॥ ३,२७.६० ॥

इति ते मन्त्रिणीदण्डनाथे चिन्तापरायणे ।
चक्रस्यन्दनमारूढे महाराज्ञीं समूचतुः ॥ ३,२७.६१ ॥

मन्त्रिण्युवाच
देवि सक्य विकारोऽयं शक्तयो विगतोद्यमाः ।
न शृण्वन्ति महाराज्ञि तवाज्ञां विश्वपालिताम् ॥ ३,२७.६२ ॥

अन्योन्यं च विरक्तास्ताः पराच्यः सर्वकर्मसु ।
निद्रातन्द्रामुकुलिता दुर्वाक्यानि वितन्वते ॥ ३,२७.६३ ॥

का दण्डिनी मन्त्रिणी का महाराज्ञीति का पुनः ।
युद्धं च कीदृशमिति क्षेपं भूरि वितन्वते ॥ ३,२७.६४ ॥

अस्मिन्नेवान्तरे शत्रुरागच्छति महाबलः ।
उद्दण्डभेरीनिस्वानैर्विभिन्दन्निव रोदसी ॥ ३,२७.६५ ॥

अत्र यत्प्राप्तरूपं तन्महाराज्ञि प्रपद्यताम् ।
इत्युक्त्वा सह दण्डिन्या मन्त्रिणी प्रणतिं व्यधात् ॥ ३,२७.६६ ॥

ततः सा ललिता देवी कामेश्वरमुखं प्रति ।
दत्तदृष्टडिः समहसदतिरक्तरदावलिः ॥ ३,२७.६७ ॥

तस्याः स्मितप्रभापुञ्जे कुञ्जराकृतिमान्मुखे ।
कटक्रोडगलद्दानः कश्चिदेव व्यजृंभत ॥ ३,२७.६८ ॥

जपापटलपाटल्यो बालचन्द्रवपुर्धरः ।
बीजपूरगदामिक्षुचापं शूलं सुदर्शनम् ॥ ३,२७.६९ ॥

अब्जपाशोत्पलव्रीहिमञ्जरीवरदां कुशान् ।
रत्नकुंभं च दशभिः स्वकैर्हस्तैः समुद्वहन् ॥ ३,२७.७० ॥

तुन्दिलश्चन्द्रचूडालो मन्द्रबृंहितनिस्वनः ।
सिद्धिलक्ष्मीसमाश्लिष्टः प्रणनाम महेश्वरीम् ॥ ३,२७.७१ ॥

तया कृताशीः स महान्गणनाथो गजाननः ।
जयविघ्नमहायन्त्रंभेत्तुं वेगाद्विनिर्ययौ ॥ ३,२७.७२ ॥

अन्तरेवहि शालस्य भ्रमद्दन्तावलाननः ।
निभृतं कुत्रचिल्लग्नं जयविघ्नं व्यलोकयत् ॥ ३,२७.७३ ॥

स देवो घोरनिर्घातैर्दुःसहैर्दन्तपातनैः ।
क्षणाच्चूर्मीकरोति स्म जयविघ्नमहाशिलाम् ॥ ३,२७.७४ ॥

तत्र स्थिताभिर्दुष्टाभिर्देवताभिः सहैव सः ।
परागशेषतां नीत्वा तद्यन्त्रं प्रक्षिपद्दिवि ॥ ३,२७.७५ ॥

ततः किलकिलारावं कृत्वाऽलस्यविवर्जिताः ।
उद्यताः समरं कर्तुं शक्तयः शस्त्रपाणयः ॥ ३,२७.७६ ॥

स देतिवदनः कण्ठकलिताकुण्ठनिस्वनः ।
जययन्त्रं हि तत्सृष्टं तथा रात्रौ व्यनाशयत् ॥ ३,२७.७७ ॥

इमं वृत्तान्तमाकर्ण्य भण्डः स क्षोभमाययौ ।
ससर्जय बहूनात्मरूपान्दन्तावलाननान् ॥ ३,२७.७८ ॥

ते कटक्रोडविगलन्मदसौरभचञ्चलैः ।
चञ्चरीककुलैरग्रे गीयमानमहोदयाः ॥ ३,२७.७९ ॥

स्फुरद्दाडिमकिञ्जल्कविक्षेपकररोचिषः ।
सदा रत्नाकरानेकहेलया पातुमुद्यताः ॥ ३,२७.८० ॥

आमोदप्रमुखा ऋद्धिमुख्यशक्तिनिषेविताः ।
आमोदश्च प्रमोदश्च मुमुखो दुर्मुखस्तथा ॥ ३,२७.८१ ॥

अरिघ्नो विघ्नकर्त्ता च षडेते विघ्ननायकाः ।
ते सप्तकोटिसंख्यानां हेरंबाणामधीश्वराः ॥ ३,२७.८२ ॥

ते पुरश्चलितास्तस्य महागणपते रणे ।
अग्निप्राकारवलयाद्विनिर्गत्य गजाननाः ॥ ३,२७.८३ ॥

क्रोधहुङ्कारतुमुलाः प्रत्य पद्यन्त दानवान् ।
पुनः प्रचण्डफूत्कारबधिरीकृतविष्टपाः ॥ ३,२७.८४ ॥

पपात दैत्यसैन्येषु गणचक्रचमूगणः ।
अच्छिदन्निशितैर्बाणैर्गणनाथः स दानवान् ॥ ३,२७.८५ ॥

गणनाथेन तस्याभूद्विशुक्रस्य महौजसः ।
युद्धमुद्धतहुङ्कारभिन्नकार्मुकनिःस्वनम् ॥ ३,२७.८६ ॥

भ्रुकुटी कुटिले चक्रे दष्टोष्ठमतिपाटलम् ।
विशुक्रो युधि बिभ्राणः समयुध्यत तेन सः ॥ ३,२७.८७ ॥

शस्त्राघट्टननिस्वानैर्हुंकारैश्च सुरद्विषाम् ।
दैत्यसप्तिखुरक्रीडत्कुद्दालीकूटनिस्वनैः ॥ ३,२७.८८ ॥

फेत्कारैश्च गचेन्द्राणां भयेनाक्रन्दनैरपि ।
हेषया च हयश्रेण्या रथचक्रस्वनैरपि ॥ ३,२७.८९ ॥

धनुषां गुणनिस्स्वानैश्चक्रचीत्करणैरपि ॥ ३,२७.९० ॥

शरसात्कारघोषैश्च वीरभाषाकदंबकैः ।
अट्टहासैर्महेन्द्राणां सिंहनादैश्चभूरिशः ॥ ३,२७.९१ ॥

क्षुभ्यद्दिगन्तरं तत्र ववृधे युद्धमुद्धतम् ।
त्रिंशदक्षौहिणी सेना विशुक्रस्य दुरात्मनः ॥ ३,२७.९२ ॥

प्रत्येकं योधया मासुर्गणनाथा महारथाः ।
दन्तैर्मर्म विभिन्दन्तो विष्टंयतश्च शुण्डया ॥ ३,२७.९३ ॥

क्रोधयन्तः कर्णतालैः पुष्कलावर्त्तकोपमैः ।
नासाश्वासैश्च परुषैर्विक्षिपन्तः पताकिनीम् ॥ ३,२७.९४ ॥

उरोभिर्मर्दयन्तश्च शैलवप्रसमप्रभैः ।
पिंषन्तश्च पदाघातैः पीनैर्घ्नन्तस्तथोदरैः ॥ ३,२७.९५ ॥

विभिन्दन्तश्च शूलेन कृत्तन्तश्चक्रपातनैः ।
शङ्खस्वनेन महता त्रासयन्तो वरूथिनीम् ॥ ३,२७.९६ ॥

गणनाथमुखोद्भूता गजवक्राः सहस्रशः ।
धूलीशेषं समस्तं तत्सैन्यं चक्रुर्महोद्यताः ॥ ३,२७.९७ ॥

अथ क्रोधसमाविष्टो निजसैन्यपुरोगमः ।
प्रेषयामास देवस्य गजासुर मसौ पुनः ॥ ३,२७.९८ ॥

प्रचण्डसिंहनादेन गजदैत्येन दुर्धिया ।
सप्ताक्षौहिणियुक्तेन युयुधे स गणेश्वरः ॥ ३,२७.९९ ॥

हीयमानं समालोक्य गजासुरभुजाबलम् ।
वर्धमानं च तद्वीर्यं विशुक्रः प्रपलायितः ॥ ३,२७.१०० ॥

स एक एव वीरेद्रः प्रचलन्नाखुवाहनः ।
सप्ताक्षौहिणिकायुक्तं गजासुरममर्दयत् ॥ ३,२७.१०१ ॥

गजासुरे च निहते विशुक्रे प्रपलायिते ।
ललितान्तिकमापेदे महागमपतिर्मृधात् ॥ ३,२७.१०२ ॥

कालरात्रिश्च दैत्यानां सा रात्रिर्विरतिं गता ।
ललिता चाति मुदिता बभूवास्य पराक्रमैः ॥ ३,२७.१०३ ॥

विततार महाराज्ञीप्रीयमाणा गणेशितुः ।
सर्वदैवतपूजायाः पूर्वपूज्यत्वमुत्तमम् ॥ ३,२७.१०४ ॥

इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने गणनाथपराक्रमो नाम सप्तविंशोऽध्यायः