ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८ ब्रह्माण्डपुराणम्
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
अनाद्यनन्तमव्यक्तं व्यक्तानामादिकारणम् ।
आनन्दबोधैकरसं तन्महन्मन्महे महः ॥ ३,३९.१ ॥

अश्वानन महाप्राज्ञ वेदवेदान्तवित्तम ।
श्रुतमेतन्महापुण्यं ललिताख्यानमुत्तमम् ॥ ३,३९.२ ॥

सर्वपूज्या त्वया प्रोक्ता त्रिपुरा परदेवता ।
पाशाङ्कुशधनुर्बाण परिष्कृतचतुर्भुजा ॥ ३,३९.३ ॥

तस्या मन्त्रमिति प्रोक्तं श्रीचक्रं चक्रूषणम् ।
नवावरणमीशानी श्रीपरस्याधिदैवतम् ॥ ३,३९.४ ॥

काञ्चीपुरे पवित्रेऽस्मिन्महीमण्डलमण्डले ।
केयं विभाति कल्याणी कामाक्षीत्यभिविश्रुता ॥ ३,३९.५ ॥

द्विभुजा विविधोल्लासविलसत्तनुवल्लरी ।
अदृष्टपूर्वसैन्दर्या परज्योतिर्मयी परा ॥ ३,३९.६ ॥

सूत उवाच
अगस्त्येनैवमुक्तः सन्परानन्दादृतेक्षणः ।
ध्यायंस्तच्च परं तेजो हयग्रीवो महामनाः ।
इति ध्यात्वा नमस्कृत्य तमगस्त्यमथाब्रवीत् ॥ ३,३९.७ ॥

हयग्रीव उवाच
रहस्यं संप्रवक्ष्यामि लोपामुद्रापते शृणु ॥ ३,३९.८ ॥

आद्या याणुतरा सा स्याच्चित्परा त्वादिकारणम् ।
अन्ताख्येति तथा प्रोक्ता स्वरूपात्तत्त्वचिन्तकैः ॥ ३,३९.९ ॥

द्वितीयाभूत्ततः शुद्धपराद्विभुजसंयुता ।
दक्षहस्ते योगमुद्रां वामहस्ते तु पुस्तकम् ॥ ३,३९.१० ॥

बिभ्रती हिमकुन्देन्दुमुक्तासमवपुर्द्युतिः ।
परापरा तृतीया स्याद्बा लार्कायुतसंमिता ॥ ३,३९.११ ॥

सर्वाभरणसंयुक्ता दशहस्तधृताम्बुजा ।
वामोरुन्यस्तहस्ता वा किरीटार्धेन्दुभूषणा ॥ ३,३९.१२ ॥

पश्चाच्चतुर्भुजा जाता सा परा त्रिपुरारुणा ।
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करा ॥ ३,३९.१३ ॥

ललिता सैव कामाक्षी काञ्च्यां व्यक्तिमुपागता ।
सरस्वतीरमागौर्यस्तामेवाद्यामुपासते ॥ ३,३९.१४ ॥

नेत्रद्वयं महेशस्य काशीकाञ्जीपुरद्वयम् ॥ ३,३९.१५ ॥

विख्यातं वैष्णवं क्षेत्रं शिवसांनिध्य कारकम् ।
काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः ॥ ३,३९.१६ ॥

श्रीदेवीदर्शनायैव तपस्तेपे सुदुष्करम् ।
आत्मैकध्यानयुक्तस्य तस्यव्रतवतो मुने ॥ ३,३९.१७ ॥

प्रादुरासीत्पुरो लक्ष्मीः पद्महस्ता परात्परा ।
पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह ॥ ३,३९.१८ ॥

सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ।
सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी ॥ ३,३९.१९ ॥

तां दृष्ट्वाद्भुतसैन्दर्यां परज्योतिर्मयीं पराम् ।
आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदये स्थिताम् ॥ ३,३९.२० ॥

यामाहुस्त्रिपुरामेव ब्रह्मविष्णवीशमातरम् ।
कामाक्षीति प्रसिद्धां तामस्तौ षीत्पुर्मभक्तिमान् ॥ ३,३९.२१ ॥

ब्रह्मोवाच ।
जय देवि जगन्मातर्जय त्रिपुरसुन्दरि ।
जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥ ३,३९.२२ ॥

जय श्रीकरुणाराशे जय शृङ्गारनायिके ।
जयजयेधिकसिद्धेशि जय योगीन्द्रवन्दिते ॥ ३,३९.२३ ॥

जयजय जगदम्ब नित्यरूपे जयजय सन्नुतलोकसौख्यदात्रि ।
जयजय हिमशैलकीर्तनीये जयजय शङ्करकामवामनेत्रि ॥ ३,३९.२४ ॥

जगज्जन्मस्थितिध्वंसपिधानानुग्रहान्मुहुः ।
या करोति स्वसङ्कल्पात्तस्यै देव्यै नमोनमः ॥ ३,३९.२५ ॥

वर्णाश्रमाणां सांकर्यकारिणः पापिनो जनान् ।
निहन्त्याद्यातितीक्ष्णास्त्रैस्तस्यै देव्यैदृ ॥ ३,३९.२६ ॥

नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः ।
देद्या या च स्वसंवेद्या तस्यै देव्यै नमोनमः ॥ ३,३९.२७ ॥

रहस्याम्नायवेदान्तैस्तत्त्वविद्भिर्मुनीश्वरैः ।
परं ब्रह्मेति या ख्याता तस्यैदृ ॥ ३,३९.२८ ॥

हृदयस्थापि सर्वेषां या न केनापि दृश्यते ।
सूक्ष्मविज्ञानरूपायैदृ ॥ ३,३९.२९ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
यद्ध्यानैकपरा नित्यं तस्यैदृ ॥ ३,३९.३० ॥

यच्चरणभक्ता इन्द्राद्या यदाज्ञामेव बिभ्रति ।
साम्राज्यसंपदीशायै तस्यैदृ ॥ ३,३९.३१ ॥

वेदा निःश्वसितं यस्या वीक्षितं भूतपञ्चकम् ।
स्मितं चराचरं विश्वं तस्यैदृ ॥ ३,३९.३२ ॥

सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया ।
धत्ते सर्वजनाधारां तस्यैदृ ॥ ३,३९.३३ ॥

ज्वलत्यग्निस्तपत्यर्केवातो वाति यदाज्ञया ।
ज्ञानशक्तिस्वरूपायै तस्यैदृ ॥ ३,३९.३४ ॥

पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम् ।
यन्मयं मुनयः प्राहुस्तस्यैदृ ॥ ३,३९.३५ ॥

शिवशक्तीश्वराश्चैव शुद्धबोधः सदाशिवः ।
यदुन्मेषविभेदाः स्युस्तस्यैदृ ॥ ३,३९.३६ ॥

गुरुर्मन्त्रो देवता च तथा प्राणाश्च पञ्चधा ।
या विराजति चिद्रूपा तस्यैदृ ॥ ३,३९.३७ ॥

सर्वात्मनामन्तरात्मा परमान्दरूपिणी ।
श्रीविद्येति स्मृता वा तु तस्यैदृ ॥ ३,३९.३८ ॥

दर्शनानि च सर्वाणि यदङ्गानि विदुर्बुधाः ।
तत्तन्नियमयूपायै तस्यै देव्यै नमोनमः ॥ ३,३९.३९ ॥

या भाति सर्वलोकेषु मणिमन्त्रौष धात्मना ।
तत्त्वोपदेशरूपायै तस्यैदृ ॥ ३,३९.४० ॥

देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा ।
तत्तद्रूपेण या भाति तस्यैदृ ॥ ३,३९.४१ ॥

हे प्रतिभटाकारा कल्याणगुणशालिनी ।
विश्वोत्तीर्णेति चाख्याता तस्यैदृ ॥ ३,३९.४२ ॥

इति स्तुत्वा महादेवीं धाता लोकपितामहः ।
भूयोभूयो नमस्कृत्य सहसा शरणं गतः ॥ ३,३९.४३ ॥

सन्तुष्टा सा तदा देवी ब्रह्माणं प्रेक्ष्य संनतम् ।
वरदा सर्वलोकानां वृणीष्व वरमित्यशात् ॥ ३,३९.४४ ॥

ब्रह्मोवाच ।
भक्त्या त्वद्दर्शनेनैव कृतार्थोऽस्मि न संशयः ।
तथापि प्रार्थये किञ्चिल्लोकानुग्रहकाम्यया ॥ ३,३९.४५ ॥

कर्मभूमौ तु लोकेऽस्मिन्प्रायो मूढा इमे जनाः ।
तेषामनुग्रहार्थाय नित्यं कुर्वत्र संनिधिम् ॥ ३,३९.४६ ॥

तथेति तस्य तं कामं पूरयामास वेधसः ।
अथ धाता पुनस्तस्या देव्या वासमकल्पयत् ॥ ३,३९.४७ ॥

श्रीदेवीसोदरं नत्वा पुण्डरीकाक्षमच्युतम् ।
तत्सांनिध्यं सदा काञ्च्यां प्रार्थयामास चादृतः ॥ ३,३९.४८ ॥

ततस्तथा करिष्यामीत्यब्रवीत्तं जनार्दनः ।
अथ तुष्टो जगद्धाता पुनः प्राह महेश्वरीम् ॥ ३,३९.४९ ॥

शिवोऽप्यत्रैव सांनिध्यं तव प्रीत्या करोत्विति ।
अथ श्रीत्रिपुरादक्षभागात्कामेश्वरः परः ॥ ३,३९.५० ॥

ईशानःसर्वविद्या नामीश्वरः सर्वदेहिनाम् ।
आविरासीन्महादेवः साक्षाच्छृङ्गारनायकः ॥ ३,३९.५१ ॥

ततः पुनः श्रीकामाक्षीभालनेत्रकटाक्षतः ।
काचिद्बाला प्रादुरासीन्महागौरा महोज्ज्वला ॥ ३,३९.५२ ॥

सर्वशृङ्गारवेषाढ्या महालावण्यशेवधिः ।
अथ श्रीपुण्डरीकाक्षो ब्रह्मणा सह सादरम् ॥ ३,३९.५३ ॥

कारयामास कल्याणमादिस्त्रीपुंसयोस्तयोः ।
आखण्डलादयो देवा वसुरुद्रादिदेवताः ॥ ३,३९.५४ ॥

मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः ।
योगीन्द्राः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥ ३,३९.५५ ॥

वामदेवप्रभृतयो जीवन्मुक्ताः शुकादयः ।
यक्षकिन्नर गन्धर्वसिद्धविद्याधरोरगाः ॥ ३,३९.५६ ॥

गणाग्रणीर्महाशास्ता दुर्गाद्याश्चैव मातरः ।
या यास्तु देवताः प्रोक्तास्ताः सर्वाः परमेश्वरीम् ॥ ३,३९.५७ ॥

भद्रासनविमानस्था नेमुः प्राञ्जलयस्तदा ।
मनसा निर्मितं धात्रा मध्ये नगरमद्भुतम् ॥ ३,३९.५८ ॥

मन्दिरं परमेशान्या मनोहरतमं शुभम् ।
श्रीमता वासुदेवेन सोदरेम महेश्वरः ॥ ३,३९.५९ ॥

तत्रोदवोढतां गौरीमुपाग्नि भगवान्भवः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ॥ ३,३९.६० ॥

दम्पत्योर्जगतां पत्योः पाणिग्रहणमङ्गलम् ।
को वा वर्णयितुं शक्तो यदि जिह्वासहस्रवान् ॥ ३,३९.६१ ॥

आदिश्रीमन्दिरस्यास्य वायुभागे महेशितुः ।
विस्तृतं भुवनश्रेष्ठं कल्पितं परमेष्ठिना ॥ ३,३९.६२ ॥

श्रीगृहस्याग्निभागे तु विचित्रं विष्णुमन्दिरम् ।
इत्थं ता देवतास्तत्र तिस्रः सन्निहिताः सदा ॥ ३,३९.६३ ॥

तदा प्रदक्षिणीकृत्य तत्परौ दम्पती तु तौ ।
प्राप्तौ सभावनागारं तदा विधिजनार्दनौ ॥ ३,३९.६४ ॥

समागम्य च सभ्यानां समास्तानांयथाविधि ।
संस्कारं वैदिकैर्मन्त्रैः कथयामासतुर्मुदा ॥ ३,३९.६५ ॥

आद्यादिलक्ष्मीः सर्वेषां पुरतः श्रीपरेश्वरी ।
विरञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत ॥ ३,३९.६६ ॥

का नाम वाणी मा नाम कमला ते उभे ततः ।
प्रादुर्भूते प्रभापुञ्जे पञ्जरान्त इव स्थिते ॥ ३,३९.६७ ॥

श्रीदेवतानमच्छीर्षबद्धाञ्जलिपुटावुभौ ।
जय कामाक्षिकामाक्षीत्यूचतुस्तां प्रणेमतुः ॥ ३,३९.६८ ॥

मूर्ते च गङ्गायमुने तत्र सेवार्थमागते ।
तिस्रः कोट्योर्ऽधकोटी च या यास्तीर्थाधिदेवताः ॥ ३,३९.६९ ॥

सेवार्थं त्रिपुरांबा यास्तास्ताः सर्वाः समागताः ।
तदा कराभ्यामादाय चामरे भारतीश्रियौ ।
श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम् ॥ ३,३९.७० ॥

अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते ।
आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ ॥ ३,३९.७१ ॥

संवीक्ष्य सर्वजनता विशेषेण विसिस्मिये ।
तदा प्रभृति कल्याणी कामाक्षीत्यभिधामियात् ।
तदुच्चारणमात्रेण श्रीदेवी शं प्रयच्छति ॥ ३,३९.७२ ॥

कामाक्षीति त्रयो वर्णाः सर्वमङ्गलहेतवः ।
अथ सा जगदीशानी वेदवेदाङ्गपारगे ॥ ३,३९.७३ ॥

विधौ नित्यं निषीदेति संदिदेश सरस्वतीम् ।
सापि वाणीश्वरी गङ्गाहस्तनिक्षिप्तचामरा ।
पश्यतां सर्वदेवानां विधातुर्मुखमाविशत् ॥ ३,३९.७४ ॥

इन्दिरा च महालक्ष्म्या संदिष्टा तुष्टया तथा ।
यथोचितनिवासाय विष्णोर्वक्षस्थलं मुदा ।
तदाज्ञां शिरसा धृत्वा रमा विष्णुश्च भक्तितः ॥ ३,३९.७५ ॥

तावुभौ दंपती नत्वा महात्रिपुरसुन्दरीम् ।
प्रार्थयामासतुर्भूयस्तदावरणदेवताम् ॥ ३,३९.७६ ॥

तथास्त्विति वरं दत्त्वा ताभ्यां त्रिपुरसुन्दरम् ।
तदावरणदेवत्वं प्राप्तौ पद्माच्युतौ तदा ॥ ३,३९.७७ ॥

स्वपीठोत्तरमास्थाप्य दक्षिणे स्थितवान्स्वयम् ।
अथोवाच महागौरीं त्वमन्यद्रूपमाचर ।
तत्र यातो महागौर्याः प्रतिबिंबो मनोहरः ॥ ३,३९.७८ ॥

चकासद्दिव्यदेहेन महागौरीसमाकृतिः ।
तरुणारुणराजाभसैन्दर्यचरणद्वयः ॥ ३,३९.७९ ॥

क्वणत्कङ्कणमञ्जीरतित्तिरीकृतपीठकः ।
विद्युदुल्लासितस्वानमनोज्ञमणिमेखलः ॥ ३,३९.८० ॥

रत्नकङ्कणकेयूरविराजितभुजद्वयः ।
मुक्तावैदूर्यमाणिक्य निबद्धवरबन्धनः ॥ ३,३९.८१ ॥

विभ्राजमानो मध्येन वलित्रितयशोभितः ।
जाह्नवीसरिदावर्तशोभिनाभीविभूषितः ॥ ३,३९.८२ ॥

पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनः ।
आमुक्तमुक्तालङ्कारभासुरस्तनकुञ्चुकः ॥ ३,३९.८३ ॥

विनोदेन कटीदेशलंबमानसुशृङ्खलः ।
माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृतः ॥ ३,३९.८४ ॥

दक्षहस्तांबुजासक्तस्निग्धोज्जवलमनोहरः ।
आभात्याप्रपदीनस्रग्दिव्याकल्पकदंबकैः ॥ ३,३९.८५ ॥

दीप्तभूषणरत्नांशुराजिराजितदिङ्मुखः ।
तप्तहाटकसंकॢप्तरत्नग्रीबोपशोभितः ॥ ३,३९.८६ ॥

माङ्गल्यसूत्ररत्नांशुशोणिमाधरकन्धरः ।
पालीवतंसमाणिक्यताटङ्कपरिभूषितः ॥ ३,३९.८७ ॥

जपाविद्रुमलावण्यललिताधरपल्लवः ।
दाडिमीफलबीजाभदन्तपङ्क्तिविराजितः ॥ ३,३९.८८ ॥

मन्दमन्दस्मितोल्लासिकपोलफलकोमलः ।
औपम्यरहितोदारनासामणिमनोहरः ॥ ३,३९.८९ ॥

विलसत्तिलपुष्पश्रीविमलोन्नत नासिकः ।
ईषदुन्मेषमधुरनीलोत्पलविलोचनः ॥ ३,३९.९० ॥

नवप्रसूनचापश्रीललितभ्रूविकाशकः ।
अर्द्धेन्दुतुलितो भाले पूर्णेन्दुरुचिराननः ॥ ३,३९.९१ ॥

सांद्रसौरभसंपन्नकस्तूरीतिलकोज्ज्वलः ।
मत्तालिमालाविलसदलकाढ्यमुखांबुजः ॥ ३,३९.९२ ॥

पारिजातप्रसूनस्रग्वाहिधम्मिल्लबन्धनः ।
अत्यर्थरत्नखचितमुकुटाञ्चितमस्तकः ॥ ३,३९.९३ ॥

सर्वलावण्यवसतिर्भवनं विभ्रमाश्रियः ।
शिवो विष्णुश्च तत्रत्याः समस्ताश्च महाजनाः ॥ ३,३९.९४ ॥

बिंबस्य तस्य देव्याश्च अभेदं जगृहुस्तदा ।
अथ तर्हि महेशानी स्वतन्त्रा प्रविवेश ह ॥ ३,३९.९५ ॥

अग्रतः सर्बदेवानामाश्रयेण प्रपश्यताम् ।
बिम्बं कृत्वात्मना बिम्बे संप्रविश्य स्थितां च ताम् ।
दृष्ट्वा भूयो नमस्कृत्य पुनः प्रार्थितवान्विधिः ॥ ३,३९.९६ ॥

पूर्णब्रह्मे महाशक्ते महात्रिपुरसुन्दरि ।
श्रीकामाक्षीति विख्याते नमस्तुभ्यं दिनेदिने ।
किञ्चिद्विज्ञापयाम्यद्य शृणु तत्कृपया मम ॥ ३,३९.९७ ॥

अत्रैव तु महागौर्या महेशस्योभयोरपि ।
श्रीदेवि नित्यकल्याणि विवाहः प्रतिवत्सरम् ।
कर्तव्यो जगतामृद्धसेवायै च दिवौकसाम् ॥ ३,३९.९८ ॥

भूलोकेऽस्मिन्महादेवि विमूढा जनता अपि ।
तां दृष्ट्वा भक्तितो नत्वा प्रयान्तु परमां गतिम् ॥ ३,३९.९९ ॥

तथेत्याकाशवाण्या तु ददौ तस्यौत्तरं परा ।
विससर्ज च सर्वांस्तान्स्वनिकेतनिवृत्तये ॥ ३,३९.१०० ॥

तदद्भुततमं शीलं स्मृत्वा स्मृत्वा मुहुर्मुहुः ।
तां नमस्कृत्य ते सर्वे ततो जगमुर्यथागतम् ॥ ३,३९.१०१ ॥

पितामहस्तु हृष्टात्मा मुकुन्देन शिवेन च ।
सार्धं श्रीमन्दिरे तत्र मन्त्रोपेतां निवेश्य च ।
आराध्य वैदिकैः स्तोत्रैः साष्टाङ्गं प्रणनाम सः ॥ ३,३९.१०२ ॥

अथाकाशगिरा देवी ब्रह्माणमिदमब्रवीत् ॥ ३,३९.१०३ ॥

विष्णुं शिवं च स्वस्थाने समाधाय समाहितः ।
प्रतिसंवत्सरं तत्र सेवां कुरुदृढाशय ॥ ३,३९.१०४ ॥

स्वयंव्यक्तमिह श्रीशमित्रेशांबासमन्वितम् ।
श्रीकामगिरिपीठं तु साक्षाच्छ्रीपुरमध्यगम् ॥ ३,३९.१०५ ॥

वामभागे वृतं लक्ष्यं विष्णुनान्यत्र सेविनम् ॥ ३,३९.१०६ ॥

चिदानन्दाकाररूपं सर्वपीठाधिदैवतम् ।
अदृश्यमूर्तिमव्यक्तमादधार यथा विधि ॥ ३,३९.१०७ ॥

श्रीमनोज्ञे सुनक्षत्रे दलानां हीरकोरकैः ।
अर्चिष्मद्भिरप्रधृष्यैर्ल्लोकानामभिवृद्धये ॥ ३,३९.१०८ ॥

इदानीं त्वं तदभ्यर्च्य यधाविधि विधे मुदा ।
मण्डलं त्वखिलं कृत्वा निजलोकं हि पालय ॥ ३,३९.१०९ ॥

इत्युक्तो भगवान्ब्रह्मा तथा कृत्वा तदीरितम् ।
निक्षिप्य हृदि तां देवीं निजं धाम जगाम सः ॥ ३,३९.११० ॥

इति ते तत्त्वतः प्रोक्तं कामाक्षीशीलमद्भुतम् ।
साक्षादेवमहालक्ष्मीमिमां विद्धि घटोद्भव ॥ ३,३९.१११ ॥

य इदं शृणुयान्नित्यं यश्चापि प्रयतः पठेत् ।
तस्य भुक्तिश्च मुक्तिश्च करस्था नात्र संशयः ॥ ३,३९.११२ ॥

बृहस्पतिसमो बुद्ध्या सर्वविद्याधिपो भवेत् ।
आदिर्नारायणः श्रीमान्भगवान्भक्तवत्सलः ॥ ३,३९.११३ ॥

तपसा तोषितः पूर्वं मया च चिरकालतः ।
सारूप्यमुक्तिं कृपया दत्त्वा पुत्राय मे प्रभुः ।
महात्रिपुरसुन्दर्या महात्म्यं समुपादिशत् ॥ ३,३९.११४ ॥

ततस्तस्मादहं किञ्चिद्वेद्मि वक्ष्ये न चान्यथा ।
रहस्यमन्त्रं संवक्ष्येशृणु तं त्वं समाहितः ॥ ३,३९.११५ ॥

न ब्रह्मा न च विष्णुर्वा न रुद्रश्च त्रयोऽप्यमी ।
मोहिता मायया यस्यास्तुरीयस्तु स चेश्वरः ।
सदाशिवो न जानाति कथं प्राकृतदेवताः ॥ ३,३९.११६ ॥

सदाशिवस्तु सर्वात्मा सच्चिदानन्दविग्रहः ।
अकर्तुमन्यथा कर्तुं कर्तुमस्या अनुग्रहात् ॥ ३,३९.११७ ॥

सदा कश्चित्तदेवाहं मन्यमानो महेश्वरः ।
तन्मायामोहितो भूत्वा त्ववशः शवतामगात् ॥ ३,३९.११८ ॥

सैव कारणमेतेषामुत्पत्तौ च लयेऽपि च ।
कश्चिदत्र विशेषोऽस्ति वक्तव्यांशोऽपि तं शृणु ॥ ३,३९.११९ ॥

ब्रह्मादीनां त्रयाणां च तुरीयस्त्वीश्वरः प्रभुः ।
चतुर्णामपि सर्वेषामादि कर्ता सदाशिवः ॥ ३,३९.१२० ॥

एतद्रहस्यं कथितं तस्याश्चरितमद्भुतम् ।
भूय एव प्रवक्ष्यामि सावधानमनाः शृणु ॥ ३,३९.१२१ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने एकोनचत्वारिंशोऽध्यायः