ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उत्तरभागः, अध्यायः २८ ब्रह्माण्डपुराणम्
अध्यायः २९
[[लेखकः :|]]
उत्तरभागः, अध्यायः ३० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
अश्वानन महाप्राज्ञ वर्णितं मन्त्रिणीबलम् ।
विषङ्गस्य वधो युद्धे वर्णितो दण्डनाथया ॥ ३,२९.१ ॥
श्रीदेव्याः श्रोतुमिच्छामि रणचक्रे पराक्रमम् ।
सोदरस्यापदं दृष्ट्वा भण्डः किमकरोच्छुचा ॥ ३,२९.२ ॥
कथं तस्य रणोत्साहः कैः समं समयुध्यत ।
सहायाः केऽभवंस्तस्य हतभ्रातृतनूभुवः ॥ ३,२९.३ ॥
हयग्रीव उवाच
इदं शृणु महाप्राज्ञ सर्वपापनिकृन्तनम् ।
ललिताचरितं पुण्यमणिमादिगुमप्रदम् ॥ ३,२९.४ ॥
वैषुवायनकालेषु पुण्येषु समयेषु च ।
सिद्धिदं सर्वपापघ्नं कीर्तिदं पञ्चपर्वसु ॥ ३,२९.५ ॥
तदा हतौ रणे तत्र श्रुत्वा निजसहोदरौ ।
शोकेन महताविष्टो भण्डः प्रविललाप सः ॥ ३,२९.६ ॥
विकीर्मकेशो धरणौ मूर्छितः पतितस्तदा ।
न लेभे किञ्चिदाश्वासं भ्रातृव्यसनकर्शितः ॥ ३,२९.७ ॥
पुनः पुनः प्रविलपन्कुटिलाक्षेण भूरिशः ।
आश्वास्यामानः शोकेन युक्तः कोपमवाप सः ॥ ३,२९.८ ॥
फालं वहन्नतिक्रूरं भ्रमद्भ्रुकुटिभीषणम् ।
अङ्गारपाटलाक्षश्च निःश्वसन्कृष्णसर्पवत् ॥ ३,२९.९ ॥
उवाच कुटिलाक्षं द्राक्समस्तपृतनापतिम् ।
क्षिप्रं मुहुर्मुहुः स्पृष्ट्वा धुन्वानः करवालिकाम् ॥ ३,२९.१० ॥
क्रोधहुङ्कारमातन्वन्गर्जन्नुत्पातमेघवत् ॥ ३,२९.११ ॥
ययैव दृष्टया मायाबलाद्युद्धे विनाशिताः ।
भ्रातरो मम पुत्राश्च सेनानाथाः सहस्रशः ॥ ३,२९.१२ ॥
तस्याः स्त्रियाः प्रमत्तायाः कण्ठोत्थैः शोणितद्रवैः ।
भ्रातृपुत्रमहाशोकवह्निं निर्वापयाम्यहम् ॥ ३,२९.१३ ॥
गच्छ रे कुटिलाक्ष त्वं सज्जीकुरु पताकिनीम् ।
इत्युक्त्वा कठिनं वर्म वज्रपातसहं महत् ॥ ३,२९.१४ ॥
दधानो भुजमध्येन बध्नन्पृष्ठ तथेषुधी ।
उद्दाममौर्विनिःश्वासकठोरं भ्रामयन्धनुः ॥ ३,२९.१५ ॥
कालाग्निरिव संक्रुद्धो निर्जगाम निजात्पुरात् ।
तालजङ्घादिकैः सार्द्धंपूर्वद्वारे निवेशिते ॥ ३,२९.१६ ॥
चतुर्भिर्धृतशस्त्रौघैर्धृतवर्मभिरुद्धतैः ।
पञ्चत्रिंशच्चमूनाथैः कुटिलाक्षपुरःसरैः ॥ ३,२९.१७ ॥
सर्वसेनापतीन्द्रेण कुटिलाक्षेण स क्रुधा ।
मिलितेन च भण्डेन चत्वारिंशच्चमूवराः ॥ ३,२९.१८ ॥
दीप्तायुधा दीप्तकेशा निर्जग्मुर्दीप्तकङ्कटाः ।
द्विसहस्राक्षौहिणीनां पञ्चाशीतिः परार्धिका ॥ ३,२९.१९ ॥
तदेनमन्वगादेकहेलया मथितुं द्विषः ।
भण्डासुरे विनिर्याते सर्वसैनिकसंकुले ॥ ३,२९.२० ॥
शून्यके नगरे तत्र स्त्रीमात्रमवशेषितम् ।
आभिलो नाम दैत्येन्द्रो रथवर्यो महारथः ।
सहस्रयुग्यसिंहाढ्यमारुरोह रणोद्धतः ॥ ३,२९.२१ ॥
तत्वरे विज्वलज्ज्वालाकालाग्निरिव दीप्तिमान् ।
घातको नाम वै खड्गश्चन्द्रहाससमाकृतिः ॥ ३,२९.२२ ॥
इतस्ततश्चलन्तीनां सेनानां धूलिरुत्थिता ।
वोढुं तासां भरं भूमिरक्षमेव दिवं ययौ ॥ ३,२९.२३ ॥
केचिद्भूमेरपर्याप्ताः प्रचेलुर्व्योमवर्त्मना ।
केषाञ्चित्स्कन्धमारूढाः केचिच्चेलुर्महारथाः ॥ ३,२९.२४ ॥
न दिक्षु न च भूचक्रे न व्योमनि च ते ममुः ।
दुःखदुखेन ते चेलुरन्योन्याश्लेषपीडिताः ॥ ३,२९.२५ ॥
अत्यन्त सेनासंमर्दाद्रथचक्रैर्विचूर्णिताः ।
केचित्पादेन नागानां मर्दिता न्यपतन्भुवि ॥ ३,२९.२६ ॥
इत्थं प्रचलिता तेन समं सर्वैश्च सैनिकैः ।
वज्रनिष्पेषसदृशो मेघनादो व्यधीयत ॥ ३,२९.२७ ॥
तेनातीव कठोरेण सिंहनादेन भूयसा ।
भण्डदैत्यमुखोत्थेन विदीर्णमभवज्जगत् ॥ ३,२९.२८ ॥
सागराः शोषमापन्नाश्चन्द्राकारै प्रपलायितौ ।
उडूनि न्यपतन्व्योम्नो भूमिर्देलायिताभवत् ॥ ३,२९.२९ ॥
दिङ्नागाश्चाभवंस्त्रस्ता मूर्च्छिताश्च दिवौकसः ।
शक्तीनां कटकं चासीदकाण्डत्रासविह्वलम् ॥ ३,२९.३० ॥
प्राणान्संधारयामासुः कथञ्चिन्मध्य आहवे ।
शक्तयो भयविभ्रष्टान्यायुधानि पुनर्दधुः ॥ ३,२९.३१ ॥
वह्निप्राकारवलयं प्रशान्तं पुनरुत्थितम् ।
दैत्येन्द्रसिंहनादेन चमूनाथधनुःस्वनैः ॥ ३,२९.३२ ॥
क्रन्दनैश्चापि योद्धॄणामभूच्छब्दमयं जगत् ।
तेन नादेन महता भण्डदैत्यविनिर्गमम् ।
निश्चित्य ललिता देवी स्वयं योद्धुं प्रचक्रमे ॥ ३,२९.३३ ॥
अशक्यमन्यशक्तीनामाकलय्य महाहवम् ।
भण्डदैत्येन दुष्टेन स्वयमुद्योगमास्थिता ॥ ३,२९.३४ ॥
चक्रराजरथस्तस्याः प्रचचाल महोदयः ।
चतुर्वेदमहाचक्रपुरुषार्थमहाभयः ॥ ३,२९.३५ ॥
आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः ।
नवपर्वस्थदेवीभिराकृष्टगुरुधन्विभिः ॥ ३,२९.३६ ॥
परार्धाधिकसंख्यातपरिवारसमृद्धिभिः ।
पर्वस्थानेषु सर्वेषु पालितः सर्वतो दिशम् ॥ ३,२९.३७ ॥
दशयोजनमुन्नद्धश्चतुर्योजन विस्तृतः ।
महाराज्ञीचक्रराजो रथेन्द्रः प्रचलन्बभौ ॥ ३,२९.३८ ॥
तस्मिन्प्रचलिते जुष्टे श्यामया दण्डनाथया ।
गेयचक्रं तु बालाग्रे किरिचक्रं तु बृष्ठतः ॥ ३,२९.३९ ॥
अन्यासामपि शक्तीनां वाहनानि परार्द्धशः ।
नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा ॥ ३,२९.४० ॥
गजभेरुण्डशरभ व्याघ्रवातमृगास्तथा ।
एतादृशश्च तिर्यञ्चोऽप्यन्ये वाहनतां गताः ॥ ३,२९.४१ ॥
मुहुरुच्चावचाः शक्तीर्भण्डासुरवधोद्यताः ।
योजनायामविस्तारमपि तद्द्वारमण्डलम् ।
वह्निप्राकारचक्रस्य न पर्याप्तं चमूपतेः ॥ ३,२९.४२ ॥
ज्वालामालिनिका नित्या द्वारस्यात्यन्तविस्तृतिम् ।
विततान समस्तानां सैन्यानां निर्गमैषिणी ॥ ३,२९.४३ ॥
अथ सा जगतां माता महाराज्ञी महोदया ।
निर्जगामा ग्निपुरता वरद्वारात्प्रतापिनी ॥ ३,२९.४४ ॥
देवदुन्दुभयो नेदुः पतिताः पुष्पवृष्टयः ।
महामुक्तातपत्रं तद्दिवि दीप्तमदृश्यत ॥ ३,२९.४५ ॥
निमित्तानि प्रसन्नानि शंसकानि जयश्रियाः ।
अभवंल्ललितासैन्ये उत्पातास्तु द्विषां बले ॥ ३,२९.४६ ॥
ततः प्रववृते युद्धं सेन योरुभयोरपि ।
प्रसर्पद्विशिखैः स्तोमबद्धान्धतमसच्छटम् ॥ ३,२९.४७ ॥
हन्यमानगजस्तोमसृतशोणितबिन्दुभिः ।
ह्नीयमाणशिरश्छन्नदैत्यश्वेतातपत्रकम् ॥ ३,२९.४८ ॥
न दिशो न नभो नागा न भूमिर्न च किञ्चन ।
दृश्यते केवलं दृष्टं रजोमात्रं च सूर्च्छितम् ॥ ३,२९.४९ ॥
नृत्यत्कबन्धनिवहाविर्भूततटपादपम् ।
दैत्यकेशसहस्रैस्तु शैवालाङ्कुरकोमला ॥ ३,२९.५० ॥
श्वेतातपत्रयवलयश्वेतपङ्कजभासुरा ।
चक्रकृत्तकरिग्रामपादकूर्मपरंपरा ॥ ३,२९.५१ ॥
शक्तिध्वस्तमहादैत्यगलगण्डशिलोच्चया ।
विलूनकाण्डैः पतितैः सफेना बलचामरैः ॥ ३,२९.५२ ॥
तीक्ष्णासिवल्लरीजालैर्निबिडीकृततीरभूः ।
दैत्यवीरेक्षमश्रेणिमुक्तिंसपुटभासुरा ॥ ३,२९.५३ ॥
दैत्यवाहनसंघातन क्रमीनशताकुला ।
प्रावहच्छोणितनदी सेनयोर्युध्यमानयोः ॥ ३,२९.५४ ॥
इत्थं प्रववृते युद्धं मृत्योश्च त्रासदायकम् ।
चतुर्थयुद्धदिवसे प्रातरा रभ्यभीषणम् ।
प्रहरद्वयपर्यन्तं सेनयोरुभयोरपि ॥ ३,२९.५५ ॥
ततः श्रीललितादेव्या भण्डस्याथाभवद्रणः ।
अस्त्रप्रत्यस्त्रसंक्षोभैस्तुमुलीकृतदिक्तटः ॥ ३,२९.५६ ॥
धनुर्ज्यातलटङ्कारहुङ्कारैरतिभीषणः ।
तूणीरवदनात्कृष्टधनुर्वरविनिः सृतैः ।
विमुक्तैर्विशिशैर्भीमैराहवे प्राणहारिभिः ॥ ३,२९.५७ ॥
हस्तलाघववेगेन न प्राज्ञायत किञ्चन ।
महाराज्ञीकरांभोजव्यापारं शरमोक्षणे ।
शृणु सर्वं प्रवक्ष्यामि कुम्भसंभव सङ्गरे ॥ ३,२९.५८ ॥
संधाने त्वेकधा तस्य दशधा चापनिर्गमे ।
शतधा गगने दैत्यसैन्यप्राप्तौ सहस्रधा ।
दैत्याङ्गसंगे संप्राप्ताः कोटिसंख्याः शिलीमुखाः ॥ ३,२९.५९ ॥
परान्धकारं सृजती भिन्दती रोदसी शरैः ।
मर्माभिनत्प्रचण्डस्य महाराज्ञी महेषुभिः ॥ ३,२९.६० ॥
वहत्कोपारुणं नेत्रं ततो भण्डः स दानवः ।
ववष शरजालेन महता ललितेश्वरीम् ॥ ३,२९.६१ ॥
अन्धतामिस्रकं नाम महास्त्रं प्रमुमोच सः ।
महातरणिबाणेन तन्नुनोद महेश्वरी ॥ ३,२९.६२ ॥
पाखण्डास्त्रं महावीरो भण्डः प्रमुमुचे रणे ।
गायत्र्यस्त्रं तस्य नुत्यै ससर्ज जगदंबिका ॥ ३,२९.६३ ॥
अन्धास्त्रमसृजद्भण्डः शक्तिदृष्टिविनाशनम् ।
चाक्षुष्मतमहास्त्रेण शमयायास तत्प्रसूः ॥ ३,२९.६४ ॥
शक्तिनाशाभिधं भण्डो मुमोचास्त्रं महारणे ।
विश्वावसोरथास्त्रेण तस्य दर्पमपाकरोत् ॥ ३,२९.६५ ॥
अन्तकास्त्रं ससर्जोच्चैः संक्रुद्धो भडदानवः ।
महामृत्युञ्जयास्त्रेण नाशयामास तद्बलम् ॥ ३,२९.६६ ॥
सर्वास्त्रस्मृतिनाशाख्यमस्त्रं भण्डो व्यमुञ्चत ।
धारणास्त्रेण चक्रेशी तद्बलं समनाशयत् ॥ ३,२९.६७ ॥
भयास्त्रमसृजद्भण्डः शक्तीनां भीतिदायकम् ।
अभयङ्करमैन्द्रास्त्रं मुमुचे जगदंबिका ॥ ३,२९.६८ ॥
महारोगास्त्रमसृजच्छक्तिसेनासु दानवः ।
राजयक्ष्मादयो रोगास्ततोऽभूवन्सहस्रशः ॥ ३,२९.६९ ॥
तन्निवारणसिद्ध्यर्थं ललिता परमेश्वरी ।
नामत्रयमहामन्त्रमहास्त्रं सा मुमोच ह ॥ ३,२९.७० ॥
अच्युतश्चाप्यनन्तश्च गोविन्दस्तु शरोत्थिताः ।
हुङ्कारमात्रतो दग्ध्वारोगांस्ताननयन्मुदम् ॥ ३,२९.७१ ॥
नत्वा च तां महेशानीं तद्भक्तव्याधिमर्दनम् ।
विधातुं त्रिषु लोकेषु नियुक्ताः स्वपदं ययुः ॥ ३,२९.७२ ॥
आयुर्नाशनमस्त्रं तु मुक्तवान्भण्डदानवः ।
कालसंकर्षणीरूपमस्त्रं राज्ञी व्यमुञ्चत ॥ ३,२९.७३ ॥
महासुरास्त्रमुद्दामं व्यसृजद्भण्डदानवः ।
ततः सहस्रशो जाता महाकाया महाबलाः ॥ ३,२९.७४ ॥
मधुश्च कैटभश्चैव महिषासुर एव च ।
धूम्रलोचनदैत्यश्च चण्डमुण्डादयोऽसुराः ॥ ३,२९.७५ ॥
चिक्षुभश्चामरश्चैव रक्तबीजोऽसुरस्तथा ।
शुम्भश्चैव निशुम्भश्च कालकेया महाबलाः ॥ ३,२९.७६ ॥
धूम्राभिधानाश्च परे तस्मादस्त्रात्समुत्थिताः ।
ते सर्वे दानवश्रेष्ठाः कठोरैः शस्त्रमण्डलैः ॥ ३,२९.७७ ॥
शक्तिसेनां मर्दयन्तो नर्द्दन्तश्च भयङ्करम् ।
हाहेति क्रन्दमानाश्चशक्तयो दैत्यमर्दिताः ॥ ३,२९.७८ ॥
ललितां शरणं प्राप्ताः पाहि पाहीति सत्वरम् ।
अथ देवी भृशं क्रुद्धा रुषाट्टहासमातनोत् ॥ ३,२९.७९ ॥
ततः समुत्थिता काचिद्दुर्गा नाम यशस्विनी ।
समस्तदेवतेजोभिर्निर्मिता विश्वरूपिणी ॥ ३,२९.८० ॥
शूलं च शूलिना दत्तं चक्रं चक्रिसमर्पितम् ।
शङ्खं वरुणदत्तश्च शक्तिं दत्तां हविर्भुजा ॥ ३,२९.८१ ॥
चापमक्षयतूणीरौ मरुद्दत्तौ महामृधे ।
वज्रिदत्तं च कुलिशं चषकन्धनदार्पितम् ॥ ३,२९.८२ ॥
कालदण्डं महादण्डं पाशं पाशधरार्पितम् ।
ब्रह्मदत्तां कुण्डिकां च घण्टामैरावतार्पिताम् ॥ ३,२९.८३ ॥
मृत्युदत्तौ खड्गखेटौ हारं जलधिनार्पितम् ।
विश्वकर्मप्रदत्तानि भूषणानि च बिभ्रती ॥ ३,२९.८४ ॥
अङ्गैः सहस्रकिरणश्रेणिभासुररश्मिभिः ।
आयुधानि समस्तानि दीपयन्ति महोदयैः ॥ ३,२९.८५ ॥
अन्यदत्तैरथान्यैश्च शोभमाना परिच्छदैः ।
सिंहवाहनमारुह्य युद्धं नारायणीव्यधात् ॥ ३,२९.८६ ॥
तथा ते महिषप्रख्या दानवा विनिपातिताः ।
चण्डिकासप्तशत्यां तु यथा कर्म पुराकरोत् ॥ ३,२९.८७ ॥
तथैव समरञ्चक्रे महिषादिमदापहम् ।
तत्कृत्वा दुष्करं कर्म ललितां प्रणनाम सा ॥ ३,२९.८८ ॥
मूकास्त्रमसृद्दुष्टः शक्तिसेनासु दानवः ।
महावाग्वा दिनी नाम ससर्जास्त्रं जगत्प्रसूः ॥ ३,२९.८९ ॥
विद्यारूपस्य वेदस्य तस्करानसुराधमान् ।
ससर्ज तत्र समरे दुर्मदो भण्डदानवः ॥ ३,२९.९० ॥
दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्या तिरस्कृतः ।
अर्णवास्त्रं महादीरो भण्डदैत्यो रणेऽसृजत् ॥ ३,२९.९१ ॥
तत्रोद्दामपयः पूरे शक्तिसैन्यं ममजज च ।
अथ श्रीललितादक्षहस्ततर्जनिकानखात् ।
आदिकूर्मः समुत्पन्नो योजनायतविस्तरः ॥ ३,२९.९२ ॥
धृतास्तेन महाभोगखर्परेण प्रथीयसा ।
शक्तयो हर्षमापन्नाः सागरास्त्रभयं जहुः ॥ ३,२९.९३ ॥
तत्सामुद्रं च भगवान्सकलं सलिलं पपौ ।
हैरण्याक्षं महास्त्रं तु विजहौ दुष्टदानवः ॥ ३,२९.९४ ॥
तस्मात्सहस्रशो जाता हिरण्याक्षा गदायुधाः ।
तैर्हन्यमाने शक्तीनां सैन्ये सन्त्रा सविह्वले ।
इतस्ततः प्रचलिते शिथिले रणकर्मणि ॥ ३,२९.९५ ॥
अथ श्रीललितादक्षहस्तमध्याङ्गुलीनखात् ।
महावराहः समभूच्छ्वेतः कैलाससंनिभः ॥ ३,२९.९६ ॥
तेन वज्रसमानेन पोत्रिणाभिविदारिताः ।
कोटिशस्ते हिरण्याक्षा मर्द्यमानाः क्षयं गताः ॥ ३,२९.९७ ॥
अथभण्डस्त्वतिक्रोधाद्भुकुटीं विततान ह ।
तस्य भ्रुकुटितो जाता हिरण्याः कोटिसंख्यकाः ॥ ३,२९.९८ ॥
ज्वलदादित्यवद्दीप्ता दीपप्रहरणाश्व ते ।
अमर्दयच्चक्तिसैन्यं प्रह्लादं चाप्यमर्दयन् ॥ ३,२९.९९ ॥
यः प्रह्लादोऽस्ति शक्तीनां परमानन्दलक्षणः ।
स एव बालकोभूत्वा हिरण्यपरिपीडितः ॥ ३,२९.१०० ॥
ललितां शरणं प्राप्तस्तेन राज्ञी कृपामगात् ।
अथ शक्त्या नन्दरूपं प्रह्लादं परिरक्षितुम् ॥ ३,२९.१०१ ॥
दक्षहस्तानामिकाग्रं धुनोति स्म महेश्वरी ।
तस्माद्धूतसटाजालः प्रज्वलल्लोचनत्रयः ॥ ३,२९.१०२ ॥
सिंहास्यः पुरुषा कारः कण्ठस्याधो जनार्दनः ।
नखायुधः कालरुद्ररूपी घोराट्टहासवान् ॥ ३,२९.१०३ ॥
सहस्रसंख्यदोर्दण्डो ललिताज्ञानुपालकः ।
हिरण्यकशिपून्सर्वान्भण्डभ्रुकुटिसंभवान् ॥ ३,२९.१०४ ॥
क्षणाद्विदारयामास नखैः कुलिशकर्कशैः ।
बलीन्द्रास्त्रं महाघोरं सर्वदैवतनाशनम् ।
अमुञ्चल्ललिता देवी प्रतिभण्डमहासुरम् ॥ ३,२९.१०५ ॥
तदस्त्रदर्पनाशाय वामनाः शतशोऽभवन् ।
महाराज्ञीदक्षहस्तकनिष्ठाग्रान्महौजसः ॥ ३,२९.१०६ ॥
क्षणेक्षणे वर्धमानाः पाशहस्ता महाबलाः ।
बलीन्द्रानस्त्रसंभूतान्बध्नन्तः पाशबन्धनैः ॥ ३,२९.१०७ ॥
दक्षहस्तकनिष्ठाग्राज्जाताः कामेशयोषितः ।
महाकाया महोत्साहास्तदस्त्रं समनाशयन् ॥ ३,२९.१०८ ॥
हैहयास्त्रं समसृजद्भण्डदैत्यो रणाजिरे ।
तस्मात्सहस्रशोजाताः सहस्रार्जुनकोटयः ॥ ३,२९.१०९ ॥
अथ श्रीललितावामहस्ताङ्गुष्टनखादितः ।
प्रज्वलन्भार्गवो रामः सक्रोधः सिंहनादवान् ॥ ३,२९.११० ॥
धारया दारयन्नेतान्कुठारस्य कठोरया ।
सहस्रार्जुनसंख्यातान्क्षणादेव व्यनाशयन् ॥ ३,२९.१११ ॥
अथ क्रुद्धो भण्डदैत्यः क्रोधाद्धुङ्कारमातनोत् ।
तस्माद्धुङ्कारतो जातश्चन्द्रहासकृपाणवान् ॥ ३,२९.११२ ॥
सहस्राक्षौहिणीरक्षःसेनया परिवारितः ।
कनिष्ठं कुंभकर्णं च मेघनादं च नन्दनम् ।
गृहीत्वा शक्तिसैन्यं तदतिदूरममर्दयत् ॥ ३,२९.११३ ॥
अथ श्रीललितावामहस्ततर्जनिकानखात् ।
कोदण्डरामः समभूल्लक्ष्मणेन समन्वितः ॥ ३,२९.११४ ॥
जटामुकुटवान्वल्लीबन्ध्धतूणीरपृष्टभूः ।
नीलोत्पलदलश्यामो धनुर्विस्फारयन्मुहुः ॥ ३,२९.११५ ॥
नाशयामास दिव्यास्त्रैः क्षणाद्राक्षससैनिकम् ।
मर्दयामास पौलस्त्यं कुंभकर्णं च सोदरम् ।
लक्ष्मणो मेघनादं च महावीरमनाशयत् ॥ ३,२९.११६ ॥
द्विविदास्त्रं महाभीममसृजद्भण्डदानवः ।
तस्मादनेकशो जाताः कपयः पिङ्गलोचनाः ॥ ३,२९.११७ ॥
क्रोधेनात्यन्तता म्रास्याः प्रत्येकं हनुमत्समाः ।
व्यनाशयच्छक्तिसैन्यं क्रूरक्रेङ्कारकारिणः ॥ ३,२९.११८ ॥
अथ श्रीललितावामहस्तमध्याङ्गुलीनखात् ।
आविर्बभूव तालाङ्कः क्रोधमध्यारुणेक्षणः ॥ ३,२९.११९ ॥
नीलांबरपिनद्धाङ्गः कैलासाचलनिर्मलः ।
द्विविदास्त्रसमुद्भूतान्कपीन्सर्न्वान्व्यनाशयन् ॥ ३,२९.१२० ॥
राजासुरं नाम महत्ससर्जास्त्रं महाबलः ।
तस्मादस्त्रात्समुद्भूता बहवो नृपदानवाः ॥ ३,२९.१२१ ॥
शिशुपालो दन्तवक्त्रः शाल्वः काशीपतिस्तथा ।
पौण्ड्रको वासुदेवश्च रुक्मी डिंभकहंसकौ ॥ ३,२९.१२२ ॥
शंबरश्च प्रलंबश्च तथा बाणासुरोऽपि च ।
कंसश्चाणूरमल्लश्च मुष्टिकोत्पलशेखरौ ॥ ३,२९.१२३ ॥
अरिष्टो धेनुकः केशी कालियो यमलार्जुनौ ।
पूतना शकटश्चैव तृणावर्तादयोऽसुराः ॥ ३,२९.१२४ ॥
नरकाख्यो महावीरो विष्णुरूपी मुरासुरः ।
अनेके सह सेनाभिरुत्थिताः शस्त्रपाणयः ॥ ३,२९.१२५ ॥
तान्विनाशयितुं सर्वान्वासुदेवः सनातनः ।
श्रीदेवीवामहस्ताब्जानामिकानखसंभवः ॥ ३,२९.१२६ ॥
चतुर्व्यूहं समातेने चत्वारस्ते ततोऽभवन् ।
वासुदेवो द्वितीयस्तु संकर्षण इति स्मृतः ॥ ३,२९.१२७ ॥
प्रद्युम्नश्चानिरुद्धश्च ते सर्वे प्रीद्यतायुधाः ।
तानशेषान्दुराचारान्भूमेर्भारप्रवर्तकान् ॥ ३,२९.१२८ ॥
नाशयामासुरुर्वीशवेषच्छन्नान्महासुरान् ॥ ३,२९.१२९ ॥
अथ तेषु विनष्टेषु संक्रुद्धो भण्ड्रदानवः ।
धर्मविप्लावकं घोरं कल्यस्त्रं सममुञ्चत ॥ ३,२९.१३० ॥
ततः कल्यस्त्रतोजाता आन्ध्राः पुण्डाश्च भूमिपाः ।
किराताः शबरा हूणा यवनाः पापवृत्तयः ॥ ३,२९.१३१ ॥
वेद विप्लावका धर्मद्रोहिणः प्राणहिंसकाः ।
वर्णाश्रमेषु सांकर्यकारिणो मलिनाङ्गकाः ।
ललिताशक्तिसैन्यानि भूयोभूयो व्यमर्दयन् ॥ ३,२९.१३२ ॥
अथ श्रीललितावामहस्तपद्मस्य भास्वतः ।
कनिष्ठिकानखोद्भूतः कल्किर्नाम जनार्दनः ॥ ३,२९.१३३ ॥
अश्वारूढः प्रतीप्त श्रीरट्टहासं चकार सः ।
तस्यैव ध्वनिना सर्वे वज्रनिष्पेषबन्धुना ॥ ३,२९.१३४ ॥
किराता मूर्च्छिता नेशुः शक्तयश्चापि हर्षिताः ।
दशावतारनाथास्ते कृत्वेदं कर्म दुष्करम् ॥ ३,२९.१३५ ॥
ललितां तां नमस्कृत्य बद्धाञ्जलिपुटाः स्थिताः ।
प्रतिकल्पं धर्मरक्षां कर्तुं मत्स्या दिजन्मभिः ।
ललितांबानियुक्तास्ते वैकुण्ठाय प्रतस्थिरे ॥ ३,२९.१३६ ॥
इत्थं समस्तेष्वस्त्रंषु नाशितेषु दुराशयः ।
महामोहास्त्रमसृजच्छक्तयस्तेन मूर्छिताः ॥ ३,२९.१३७ ॥
शांभवास्त्रं विसृज्यांबा महामोहास्त्रमक्षिणोत् ।
अस्त्रप्रत्यस्त्रधाराभिरित्थं जाते महाहवे ।
अस्तशैलङ्गभस्तीशो गन्तुमारभतारुणः ॥ ३,२९.१३८ ॥
अथ नारायणास्त्रेण सा देवी ललितांबिका ।
सर्वा अक्षौहिणीस्तस्य भस्मसादकरोद्रणे ॥ ३,२९.१३९ ॥
अथ पाशुपतास्त्रेण दीप्तकालानलत्विषा ।
चत्वारिंशच्चमूनाथान्महाराज्ञी व्यमर्दयत् ॥ ३,२९.१४० ॥
अथैकशेषं तं दुष्टं निहताशेषबान्धवम् ।
क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम् ॥ ३,२९.१४१ ॥
महासुरं महासत्त्वं भण्डं चण्डपराक्रमम् ।
महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा ।
गतासुमकरोन्माता ललिता परमेश्वरी ॥ ३,२९.१४२ ॥
तदस्त्रज्वालयाक्रान्तं शून्यकं तस्य पट्टनम् ।
सस्त्रीकं च सबालं च सगोष्ठं धनधान्यकम् ॥ ३,२९.१४३ ॥
निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत ।
भण्डस्य संक्षयेणासीत्त्रैलोक्यं हर्षनर्तितम् ॥ ३,२९.१४४ ॥
इत्थं विधाय सुरकार्यमनिन्द्यशीला श्रीचक्रराजरथमण्डलमण्डनश्रीः ।
कामेश्वरी त्रिजगतां जननी बभासे विद्योतमानविभवा विज्यश्रियाढ्या ॥ ३,२९.१४५ ॥
सैन्यं समस्तमपि सङ्गरकर्मखिन्नं भण्डासुरप्रबलबाणकृशानुतप्तम् ।
अस्तं गते सवितरि प्रथितप्रभावा श्रीदेवता शिबिरमात्मन आनिनाय ॥ ३,२९.१४६ ॥
यो भण्डदानववधं ललितांबयेमं कॢप्तं सकृत्पठति तस्य तपोधनेन्द्र ।
नाशं प्रयान्ति कदनानि दृताष्टसिद्धेर्भुक्तिश्च मुक्तिरपि वर्तत एव हस्ते ॥ ३,२९.१४७ ॥
इमं पवित्रं ललितापराक्रमं समस्तपापघ्नमशेषसिद्धिदम् ।
पठन्ति पुण्येषु दिनेषु ये नरा भजन्ति ते भाग्यसमृद्धिमुत्तमाम् ॥ ३,२९.१४८ ॥
इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुरवधो नामैकोनत्रिंशोऽध्यायः