ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४२ ब्रह्माण्डपुराणम्
अध्यायः ४३
[[लेखकः :|]]
अध्यायः ४४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
अश्वानन महाप्राज्ञ करुणामृतवारिधे ।
श्रीदेवीदर्शने दीक्षा यादृशी तां निवेदय ॥ ३,४३.१ ॥

हयग्रीव उवाच
यदि ते देवताभावो यया कल्मषकर्दमाः ।
क्षाल्यन्ते च तथा पुसां दीक्षामाचक्ष्महेऽत्र ताम् ॥ ३,४३.२ ॥

हस्ते शिवपुरन्ध्यात्वा जपेन्मूलाङ्गमालिनीम् ।
गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षेयमीरिता ॥ ३,४३.३ ॥

निमील्य नयने ध्यात्वा श्रीकामाक्षीं प्रसन्नधीः ।
सम्यक्पश्येद्गुरुः शिष्यं दृग्दीक्षा सेयमुच्यते ॥ ३,४३.४ ॥

गुरोरालोकमात्रेण भाषणात्स्पर्शनादपि ।
सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता ॥ ३,४३.५ ॥

देव्या देहो यथा प्रोक्तो गुरुदेहस्तथैव च ।
तत्प्रसादेन शिष्योऽपि तद्रूपः सम्प्रकाशते ॥ ३,४३.६ ॥

चिरं शुश्रूषया सम्यक्तोषितो देशिकेश्वरः ।
तूष्णीं संकल्पयेच्छिष्यं सा दीक्षा मानसी मता ॥ ३,४३.७ ॥

दीक्षाणामपि सर्वासामियमेवोत्तमोत्तमा ।
आदौ कुर्यात्क्रियादीक्षां तत्प्रकारः प्रवक्ष्यते ॥ ३,४३.८ ॥

शुक्लपक्षे शुभदिने विधाय शुचिमानसम् ।
जिह्वास्यमलशुद्धिं च कृत्वा स्नात्वा यथाविधि ॥ ३,४३.९ ॥

संध्याकर्म समाप्याथ गुरुदेहं परं स्मरन् ।
एकान्ते निवसञ्छ्रीमान्मौनी च नियताशनः ॥ ३,४३.१० ॥

गुरुश्च तादृशोभूत्वा पूजामन्दिरमाविशेत् ।
देवीसूक्तेन संयुक्तं विद्यान्यासं समातृकम् ॥ ३,४३.११ ॥

कृत्वा पुरुषसूक्तेन षोडशैरुपचारकैः ।
आवाहना सने पाद्यमर्ध्यमाचमनं तथा ॥ ३,४३.१२ ॥

स्नानं वस्त्रं च भूषा च गन्धः पुष्पं तथैव च ।
धूपदीपौ च नैवेद्यं ताम्बूलं च प्रदक्षिणा ॥ ३,४३.१३ ॥

प्रणामश्चेति विख्यातैः प्रीणयेत्त्रिपुरांबिकाम् ।
अथ पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्यया ॥ ३,४३.१४ ॥

ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमस्त्रिपुरसुन्दरि हृदये देवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि आस्यदेवि कामेश्वरि भगमालिनि नित्यक्लिन्नें भैरुण्डे वह्निवासिनि महावज्रेश्वरि विद्येश्वरि परशिवदूति त्वरिते कुलसुंदरि नित्ये नीलपताके विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये परमेश्वरि मन्त्रेशमयि षष्ठीशमय्युद्यानमयि लोपामुद्रामय्यगस्त्यमयि कालतापनमयि धर्माचारमयि मुक्तके शीश्वरमयि दीपकलानाथमयि विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमयि अणिमसिद्धे महिमसिद्धे गरिम सिद्धे लघिमसिद्धे ईशित्वसिद्धे वशित्वसिद्धे प्राप्तिसिद्धे प्राकाम्यसिद्धे रससिद्धे मोक्षसिद्धे ब्राह्मि माहेश्वरी कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे महालक्ष्मि सर्वसंक्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्ववशङ्करि सर्वोन्मादिनि सर्वमहाङ्कुशे सर्वखेचरि सर्वबीजे सर्वयोने सर्वास्त्रखण्डिनि त्रैलोक्यमोहिनि चक्रस्वामिनि प्राटयोगिनि बौद्धदर्शनाङ्गि कामाकर्षिणि बुद्ध्याकर्षिणि अहङ्काराकर्षिणि शब्दाकर्षिणि स्पर्शाकर्षिणि रूपाकर्षिणि रसाकर्षिणि गन्धाकर्षिणि चित्ताकर्षिणि धैर्याकर्षिणि स्मृत्याकर्षिणि नामाकर्षिणि बीजाकर्षिणात्माकिर्षिणि अमृताकर्षिणि शरीराकर्षिणि गुप्तयोगिनि सर्वाशापरिपूरकचक्रस्वामिनि अनङ्गकुसुमे अनङ्गमेखले अनङ्गमादिनि अनङ्गमदनातुरेऽनङ्गरेखेऽनङ्गवेगिन्यनङ्गाङ्कुशेऽनङ्गमालिनि गुप्ततरयोगिनि वैदिकदर्शनाङ्गि सर्वसंक्षोभकारक चक्रस्वामिनि पूर्वाम्नायाधिदेवते सृष्टिरूपे सर्वसंक्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्वाह्लादिनि सर्वसंमोहिनि सर्वस्तंभिणि सर्वजृंभिणि सर्ववशङ्करि
सर्वरञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिके सर्वसंपत्प्रपूरिणि सर्वमन्त्रमयि सर्वद्वन्द्वक्षयकरि सम्प्रदाययोगिनि सौरदर्शनाङ्गि सर्वसौभाग्यदायकचक्रे सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्वप्रियङ्करि सर्वमङ्गलकारिणि सर्वकामप्रदे सर्वदुःखविमोचिनि सर्वमृत्युप्रशमिनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि सर्वसौभाग्यदायिनि कुलोत्तीर्णयोगिनि सर्वार्थसाधकचक्रेशि सर्वज्ञे सर्वशक्ते सर्वैश्वर्यफलप्रदे सर्वज्ञानमयि सर्वव्याधिनिवारिणि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि सर्वरक्षास्वरूपिणि सर्वेप्सित फलप्रदे नियोगिनि वैष्णवदर्शनाङ्गि सर्वरक्षाकरचक्रस्थे दक्षिणाम्नायेशि स्थितिरूपे वशिनि कामेशि मोदिनि विमले अरुणे जयिनि सर्वेश्वरि कौलिनि रहस्ययोगिनि रहस्यभोगिनि रहस्यगोपिनि शाक्तदर्शनाङ्गि सर्वरोगहरचक्रेशि पश्चिमाम्नाये धनुर्बाणपाशाङ्कुशदेवते कामेशि वज्रेशि फगमालिनि अतिरहस्ययोगिनि शैवदर्शनाङ्गि सर्वसिद्धिप्रदचक्रगे उत्तराम्नायेशि संहाररूपे शुद्धपरे विन्दुपीठगते महारात्रिपुरसुन्दरि परापरातिरहस्ययोगिनि शांभवदर्शनाङ्गि सर्वानन्दमयचक्रेशि त्रिपुरसुंदरि त्रिपुरवासिनि त्रिपुरश्रीः त्रिपुरमालिनि त्रिपुरसिद्धे त्रिपुरांब सर्वचक्रस्थे अनुत्तराम्नायाख्यस्वरूपे महात्रिपुरभैरवि चतुर्विधगुणरूपे कुले अकुले कुलाकुले महाकौलिनि सर्वोत्तरे सर्वदर्शनाङ्गि नवासनस्थिते नवाक्षरि नवमिथुनाकृते महेशमाधवविधातृमन्मथस्कन्दनन्दीन्द्रमनुचन्द्रकुबेरागस्त्यदुर्वासःक्रोधभट्टारकविद्यात्मिके कल्याणतत्त्वत्रयरूपे शिवशिवात्मिके पूर्मब्रह्मशक्ते महापरमेश्वरि महात्रिपुरसुन्दरि तव श्रीपादुकां पूजयामि नमः ।
क एं ईल ह्रीं हस कहल ह्रीं ऐं क्लीं सौः सौः क्लीं ऐं श्रीं ।
देव्याः पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्याया ।
नोचेत्तत्पूजनं व्यर्थमित्याहुर्वेदवादिनः ॥ ३,४३.१५ ॥

ततो गोमयसंलिप्ते भूतले द्रोणशालिभिः ।
तावद्भिस्तण्डुलैः शुद्धैः शस्तार्णैस्तत्र नूतनम् ॥ ३,४३.१६ ॥

द्रोणोदपूरितं कुंभं पञ्चरत्नैर्नवैर्युतम् ।
न्यग्रोधाश्वत्थमाकन्दजंबूदुम्बरशाखिनाम् ॥ ३,४३.१७ ॥

त्वग्भिश्च पल्लवैश्चैव प्रक्षिप्तैरधिवासिनम् ।
कुम्भाग्रे निक्षिपेत्पक्वं नारिकेलफलं शुभम् ॥ ३,४३.१८ ॥

अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपादि दर्शयेत् ।
श्रीचिन्तामणिमन्त्रं तु हृदि मातृकमाजपेत् ॥ ३,४३.१९ ॥

कुम्भ स्पृशञ्छ्रीकामाप्तिरूपीकृतकलेवरम् ।
अष्टोत्तरशते जाते पुनर्दीपं प्रदर्शयेत् ॥ ३,४३.२० ॥

शिष्यमाहूय रहसि वाससा बद्धलोचनम् ।
कारयित्वा प्रणामानां साष्टाङ्गानां त्रयं गुरुः ॥ ३,४३.२१ ॥

पुष्पाणि तत्करे दत्त्वा कारये त्कुसुमाञ्जलिम् ।
श्रीनाथकरुणाराशे परञ्ज्योतिर्मयेश्वरि ॥ ३,४३.२२ ॥

प्रसूनाञ्जलिरेषा ते निक्षिप्ता चरणांबुजे ।
परं धाम परं ब्रह्म मम त्वं परदेवता ॥ ३,४३.२३ ॥

अद्यप्रभृति मे पुत्रान्रक्ष मां शारणागतम् ।
इत्युक्त्वा गुरुपादाव्जे शिष्यो मूर्ध्नि विधारयेत् ॥ ३,४३.२४ ॥

जन्मान्तर सुकृतत्वं स्यान्न्यस्ते शिरसि पादुके ।
गुरुणा कमलासनमुरशासनपुरशासनसेवया लब्धे ॥ ३,४३.२५ ॥

इत्युक्त्वा भक्तिभरितः पुनरुत्थाय शान्तिमान् ।
वामपार्श्वे गुरोस्तिष्ठेदमानी विनयान्वितः ॥ ३,४३.२६ ॥

ततस्तुंबीजलैः प्रोक्ष्य वामभागे निवेदयेत् ।
विमुच्य नेत्रबन्धं तु दर्शयेदर्चनक्रमम् ॥ ३,४३.२७ ॥

सितामध्वाज्यकदलीफलपायसरूपकम् ।
महात्रिपुरसुन्दर्या नैवेद्यमिति चादिशेत् ॥ ३,४३.२८ ॥

षोडशर्णमनुं तस्य वदेद्वामश्रुतौ शनैः ।
ततो बहिर्विनिर्गत्य स्थाप्य दार्वासने शुचिम् ॥ ३,४३.२९ ॥

निवेश्य प्राङ्मुखं तत्र पट्टवस्त्रसमास्तृते ।
शिष्यं श्रीकुम्भसलिलैरभिषिञ्चेत्समन्त्रकम् ॥ ३,४३.३० ॥

पुनः शुद्धोदकैः स्नात्वा वाससी परिगृह्य च ।
अष्टोत्तरशतं मन्त्रं जप्त्वा निद्रामथाविशेत् ॥ ३,४३.३१ ॥

शुभे दृष्टे सति स्वप्ने पुण्यं योज्यं तदोत्तमम् ।
दुःस्वप्ने तु जपं कुर्यादष्टोत्तरसहस्रकम् ॥ ३,४३.३२ ॥

कारयेत्त्रिपुरांबायाः सपर्यां मुक्तमार्गतः ।
यदा न दृष्टः स्वप्नोऽपि तदा सिद्धिश्चिराद्भवेत् ॥ ३,४३.३३ ॥

स्वीकुर्यात्परया भक्त्या देवी शेष कलाधिकम् ।
सद्य एव स शिष्यः स्यात्पङ्क्तिपावनपावनः ॥ ३,४३.३४ ॥

शरीरमर्थं प्राणं च तस्मै श्रीगुरवे दिशेत् ।
तदधीनश्च रेन्नित्यं तद्वाक्यं नैव लघयेत् ॥ ३,४३.३५ ॥

यः प्रसन्नः क्षणार्धेन मोक्षलक्ष्मीं प्रयच्छति ।
दुर्लभं तं विजानीयाद्गुरुं संसारतारकम् ॥ ३,४३.३६ ॥

गुकारस्यान्धकारोर्ऽथो रुकारस्तन्निरोधकः ।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ ३,४३.३७ ॥

बोधरूपं गुरुं प्राप्य न गुर्वन्तरमादिशेत् ।
गुरुक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् ॥ ३,४३.३८ ॥

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
आददीत ततो ज्ञानं पूर्वं तमभिवादयेत् ॥ ३,४३.३९ ॥

एवं दीक्षात्रयं कृत्वा विधेयं बौधयेत्पुनः ।
गुरुभक्तिस्सदाचारस्तद्द्रोहस्तत्र पातकम् ॥ ३,४३.४० ॥

तत्पदस्मरणं मुक्तिर्यावद्देहमयं क्रमः ।
यत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणत् ॥ ३,४३.४१ ॥

गोब्राह्मणावधं कृत्वा न तत्पापं समाश्रयेत् ।
ब्रह्मादिस्तंब पर्यतं यस्य मे गुरुसंततिः ॥ ३,४३.४२ ॥

तस्य मे सर्वपूज्यस्य को न पूज्यो महीतले ।
इति सर्वानुकूलो यः स शिष्यः परिकीर्तितः ॥ ३,४३.४३ ॥

शीलादिविमलानेकगुणसंपन्नभावनः ।
गुरुशासनवर्तित्वाच्छिष्य इत्यभिधीयते ॥ ३,४३.४४ ॥

जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् ।
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति ॥ ३,४३.४५ ॥

यथा ध्यानस्य सामर्थ्यात्कीटोऽपि भ्रमरायते ।
तथा समाधिसा मर्थ्याद्ब्रह्मीभूतो भवेन्नरः ॥ ३,४३.४६ ॥

यथा निलीयते काले प्रपञ्चो नैव दृश्यते ।
तथैव मीलयेन्नेत्रे एतद्ध्यानस्य लक्षणम् ॥ ३,४३.४७ ॥

विदिते तु परे तत्त्वे वर्णातीते ह्यविक्रिये ।
किङ्करत्वं च गच्छन्ति मन्त्रा मन्त्राधिपैः सह ॥ ३,४३.४८ ॥

आत्मैक्यभावनिष्ठस्य या चेष्टा सा तु दर्शनम् ।
योगस्तपः स तन्मन्त्रस्तद्धनं यन्निरीक्षणम् ॥ ३,४३.४९ ॥

देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्रयत्र मनो याति तत्रतत्र समाधयः ॥ ३,४३.५० ॥

यः पश्येत्सर्वगं शांमानन्दात्मानमद्वयम् ।
न तस्य किञ्चिदाप्तव्यं ज्ञातव्यं वावशिष्यते ॥ ३,४३.५१ ॥

पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमोजपः ।
जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३,४३.५२ ॥

देहो देवालयः प्रोक्तो जीव एव महेश्वरः ।
त्यजेदज्ञाननिर्माल्यं सोहंभावेन योजयेत् ॥ ३,४३.५३ ॥

तुषेण बद्धो व्रीहिः स्यात्तुषाभावे तु तण्डुलः ।
पाशबद्धः स्मृतो जीवः पाशमुक्तो महेश्वरः ॥ ३,४३.५४ ॥

आकाशे पक्षिजातीनां जलेषु जलचारिणाम् ।
यथा गतिर्न दृश्येत महावृत्तं महात्मनाम् ॥ ३,४३.५५ ॥

नित्यार्चनं दिवा कुर्याद्रात्रौ नैमित्तिकार्चनम् ।
उभयोः काम्यकर्मा स्यादिति शास्त्रस्य निश्चयः ॥ ३,४३.५६ ॥

कोटिकोटिमहादानात्कोटिकोटिमहाव्रतात् ।
कोटिकोटिमहायज्ञात्परा श्रीपादुका स्मृतिः ॥ ३,४३.५७ ॥

ज्ञानतोऽज्ञानतो वापि यावद्देहस्य धारणम् ।
तावद्वर्णाश्रमाचारः कर्तव्यः कर्ममुक्तये ॥ ३,४३.५८ ॥

निर्गतं यद्गुरोर्वक्त्रात्सर्वं शास्त्रं तदुच्यते ।
निषिद्धमपि तत्कुर्याद्गुर्वाज्ञां नैव लङ्घयेत् ॥ ३,४३.५९ ॥

जातिविद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा ।
दण्डप्रमाणं कृत्वैकं त्रिः प्रदक्षिणामाचरेत् ॥ ३,४३.६० ॥

गुरुबुद्ध्या नमेत्सर्वं दैवतं तृणमेव वा ।
प्रणमेद्देवबुद्ध्या तु प्रतिमां लोहमृन्मयीम् ॥ ३,४३.६१ ॥

गुरुं हुङ्कृत्य तुङ्कृत्य विप्रं वादैर्विजित्य च ।
विकास्य गुह्यशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥ ३,४३.६२ ॥

अद्वैतं भाव येन्नित्यं नाद्वैतं गुरुणा सह ।
न निन्देदन्यसमयान्वेदशास्त्रागमादिकान् ॥ ३,४३.६३ ॥

एकग्रामस्थितः शिष्यस्त्रिसंध्यं प्रणमेद्गुरुम् ।
क्रोश मात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् ॥ ३,४३.६४ ॥

अर्थयोजनगः शिष्यः प्रणमेत्पञ्चपर्वसु ।
एकयोजनमारभ्य योजनद्वादशावधि ॥ ३,४३.६५ ॥

तत्तद्योजनसंख्यातमासेषु प्रणमेद्गुरुम् ।
अतिदूरस्थितः शिष्यो यदेच्छा स्यात्तदा व्रजेत् ॥ ३,४३.६६ ॥

रिक्तपाणिस्तु नोपेयाद्राजानं देवतां गुरुम् ।
फलपुष्पांबरादीनि यथाशक्ति समर्पयेत् ॥ ३,४३.६७ ॥

मनुष्यचर्मणा बद्धः साक्षात्परशिवः स्वयम् ।
सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ ॥ ३,४३.६८ ॥

सद्भक्तरक्षणायैव निराकारोऽपि साकृतिः ।
शिवः कृपानिधिर्लोके संसारीव हि चेष्टते ॥ ३,४३.६९ ।
अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः ।
अचतुर्वदनो ब्रह्मा श्रीगुरुः परिकीर्तितः ॥ ३,४३.७० ॥

श्रीगुरुं परतत्त्वाख्यं तिष्ठन्तं चक्षुरग्रतः ।
भाग्यहीना न पश्यन्ति सूर्यमन्धा इवोदितम् ॥ ३,४३.७१ ॥

उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा ।
अधमा शास्त्रचिन्ता स्याल्लोकचिन्ताधमाधमा ॥ ३,४३.७२ ॥

नास्थि गुर्वधिकं तत्त्वं नास्ति ज्ञानाधिकं सुखम् ।
नास्ति भक्त्यधिका पूजा न हि मोक्षाधिकं फलम् ॥ ३,४३.७३ ॥

सर्ववेदेषु शास्त्रेषु ब्रह्मविष्णुशिवादिषु ।
तत्र तत्रोच्यते शब्दैः श्रीकामाक्षी परात्परा ॥ ३,४३.७४ ॥

शचीन्द्रौ स्वाहाग्नी च प्रभारवी ।
लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ॥ ३,४३.७५ ॥

अग्नीषोमौ बिन्दुनादौ तथा प्रकृतिपूरुषौ ।
आधाराधेयनामानौ भोगमोक्षौ तथैव च ॥ ३,४३.७६ ॥

प्राणापनौ च शब्दार्थौं तथा विधिनिषेधकौ ।
सुखदुःखादि यद्द्वन्द्वं दृश्यते श्रूयतेऽपि वा ॥ ३,४३.७७ ॥

सर्वलोकेषु तत्सर्वं परं ब्रह्म न संशयः ।
उत्तीर्ममपरं ज्योतिः कामाक्षीनामकं विदुः ॥ ३,४३.७८ ॥

यदेव नित्यं ध्यायन्ति ब्रह्मविष्णुशिवादयः ।
इत्थं हि शक्तिमार्गेऽस्मिन्यः पुमानिह वर्तते ॥ ३,४३.७९ ॥

प्रसादभूमिः श्रीदेव्या भुक्तिमुक्त्योः स भाजनम् ।
अमन्त्रं वा समत्रं वा कामाक्षीमर्चयन्ति ये ॥ ३,४३.८० ॥

स्त्रियो वैश्याश्च शूद्राश्च ते यान्ति परमां गतिम् ।
किं पुनः क्षत्त्रिया विप्रा मन्त्रपूर्वं यजन्ति ये ॥ ३,४३.८१ ॥

संसारिणोऽपि ते नूनं विमुक्ता नात्र संशयः ।
सितामध्वाज्यकदलीफलपायसरूपकम् ॥ ३,४३.८२ ॥

पञ्चपर्वसु नैवेद्यं सर्वदैव निवेदयेत् ।
योनार्चयति शक्तोऽपि स देवीशापमाप्नुयात् ॥ ३,४३.८३ ॥

अशक्तौ भावनाद्रव्यैरर्चयेन्नित्यमंबिकाम् ।
गृहस्थस्तु महादेवीं मङ्गलाचारसंयुतः ॥ ३,४३.८४ ॥

अर्चयेत महालक्ष्मीमनुकूलाङ्गनासखः ।
गुरुस्त्रिवारमाचारं कथयेत्कलशोद्भव ॥ ३,४३.८५ ॥

शिष्यो यदि न गृह्णीया च्छिष्ये पापं गुरोर्न हि ।
लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ॥ ३,४३.८६ ॥

श्रीगुरुं गुरुपत्नीं च पितरौ चिन्तयेद्धिया ।
इति सर्वं मया प्रोक्तं समासेन घटोद्भव ॥ ३,४३.८७ ॥

एतावदवधानेन सर्वज्ञो मतिमान्भवेत् ॥ ३,४३.८८ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने त्रिचत्वारिंशोऽध्यायः