ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २ ब्रह्माण्डपुराणम्
अध्यायः ३
[[लेखकः :|]]
उत्तरभागः, अध्यायः ४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

सूत उवाच
प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयंभुवः ।
ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥ ३,३.१ ॥

यथेदं कुरुते व्यक्तं सुसूक्ष्मं विश्वमीश्वरः ।
अव्यक्तं ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥ ३,३.२ ॥

पुरान्तद्व्यणुकाद्यानां संपूर्णे कल्पसंक्षये ।
उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥ ३,३.३ ॥

अन्ते द्रुमस्य संप्राप्ते पश्चिमास्य मनोस्तदा ।
अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते ॥ ३,३.४ ॥

संप्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते ।
प्रत्याहारे तदा तस्मिन्भूततन्मात्रसंक्षये ॥ ३,३.५ ॥

महदादिविकारस्य विशेषान्तस्य संक्षये ।
स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥ ३,३.६ ॥

आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुमम् ।
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ ३,३.७ ॥

प्रणष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ।
आपस्तदा प्रविष्टास्तु वेगवत्यो महास्वनाः ॥ ३,३.८ ॥

सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ।
अपामपि गणो यस्तु ज्योतिःष्वालीयते रसः ॥ ३,३.९ ॥

नश्यन्त्यापस्तदा तत्र रसतन्मात्रसंक्षयात् ।
तीव्रतेजोहृतरसाज्योतिष्ट्वं प्राप्नुवन्त्युत ॥ ३,३.१० ॥

ग्रस्ते च सलिले तेजः सर्वतोमुखमीक्षते ।
अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलं तदा ॥ ३,३.११ ॥

सर्वमापूर्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ।
अर्चिर्भिः संतते तस्मिंस्तर्यगूर्ध्वमधस्ततः ॥ ३,३.१२ ॥

ज्योतिषोऽपि गुणं रूपं वायुरत्ति प्रकाशकम् ।
प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ॥ ३,३.१३ ॥

प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ।
उपशाम्यति तेजो हिवायुराधूयते महान् ॥ ३,३.१४ ॥

निरालोके तदा लोके वायुभूते च तेजसि ।
ततस्तु मूलमासाद्य वायुः संबन्धमात्मनः ॥ ३,३.१५ ॥

ऊर्ध्वञ्चाधश्च तिर्यक्च दोधवीति दिशो दश ।
वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ॥ ३,३.१६ ॥

प्रशाम्यति तदा वायुः खन्तु तिष्ठत्यनावृतम् ।
अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ॥ ३,३.१७ ॥

सर्वमापूरयच्छब्दैः सुमहत्तत्प्रकाशते ।
तस्मिंल्लीने तदा शिष्टमाकाशं शब्दलक्षणम् ॥ ३,३.१८ ॥

शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति ।
तत्र शब्दं गुमं तस्य भूतदिर्ग्रसते पुनः ॥ ३,३.१९ ॥

भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ।
अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ॥ ३,३.२० ॥

भूतादिर्ग्रसते चापि महान्वै बुद्धिलक्षणः ।
महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ॥ ३,३.२१ ॥

बुद्धिर्मनश्च लिङ्गं च महानक्षर एव च ।
पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्व चिन्तकाः ॥ ३,३.२२ ॥

संप्रलीनेषु भूतेषु गुणसाम्ये ततो महान् ।
लीयन्ते गुणसाम्यं तु स्वात्मन्येवावतिष्ठते ॥ ३,३.२३ ॥

लीयन्ते सर्वभूतानां कारणानि प्रसंगमे ।
इत्येष संयमश्चैव तत्त्वानां कारणैः सह ॥ ३,३.२४ ॥

तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्तको द्विजाः ।
धर्माधर्मौं तपो ज्ञानं शुभं सत्यानृते तथा ॥ ३,३.२५ ॥

ऊर्ध्वभावो ह्यधोभावः सुखदुःखे प्रियाप्रिये ।
सर्वमेतत्प्रपञ्चस्थं गुणमात्रात्मकं स्मृतम् ॥ ३,३.२६ ॥

निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ।
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति ॥ ३,३.२७ ॥

यात्यवस्था तु साचैव देहिनां तु निरुच्यते ।
जन्तूनां पापपुण्यं तु प्रकृतौ यत्प्रतिष्ठितम् ॥ ३,३.२८ ॥

अवस्थास्थानि तान्येव पुण्यपापानि जन्तवः ।
योजयन्ते पुनर्देहान्परत्वेन तथैव च ॥ ३,३.२९ ॥

धर्माधर्मौं तु जन्तूनां गुणमात्रात्मकावुभौ ।
कारणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ॥ ३,३.३० ॥

सचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः ।
सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः ॥ ३,३.३१ ॥

संयुज्यन्ते वियुज्यन्ते कारणैः संचरन्ति च ।
राजसी तामसी चैव सात्त्विकी चैव वृत्तयः ॥ ३,३.३२ ॥

गुणमात्राः प्रवर्तन्ते पुरुषाधिष्ठता स्त्रिधा ।
उर्द्ध्वदेशात्मकं सत्त्वमधोभागात्मकं तमः ॥ ३,३.३३ ॥

तयोः प्रवर्त्तकं मध्ये इहैवावर्त्तकं रजः ।
इत्येवं परिवर्तन्तेत्रयश्चेतोगुणात्मकाः ॥ ३,३.३४ ॥

लोकेषु सर्वभूतानां तन्न कार्यं विजानता ।
अविद्याप्रत्ययारंभा आरभ्यन्ते हि मानवैः ॥ ३,३.३५ ॥

एतास्तु गतयस्तिस्रः शुभात्पापात्मिकाः स्मृताः ।
तमसोऽभिभवाज्जन्तुर्याथातथ्यं न विन्दति ॥ ३,३.३६ ॥

अतत्त्वदर्शनात्सोऽथ विविधं वध्यते ततः ।
प्राकृतेन च बन्धेन तथ्यावैकारिकेण च ॥ ३,३.३७ ॥

दक्षिणाभिस्ततीयेन बद्धोऽत्यन्तं विवर्त्तते ।
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः ॥ ३,३.३८ ॥

अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ।
अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः ॥ ३,३.३९ ॥

येषामेते मनोदोषा ज्ञानदोषा विपर्ययात् ।
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम् ॥ ३,३.४० ॥

अज्ञानं तमसो मूरं कर्मद्वयफलं रजः ।
कर्म जस्तु पुनर्देहो महादुःखं प्रवर्त्तते ॥ ३,३.४१ ॥

श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणजा तथा ।
पुनर्भवकरी दुःखात्कर्मणा जायते तृषा ॥ ३,३.४२ ॥

सतृष्णोऽभिहितो बालः स्वकृतैः कर्मणः फलैः ।
तैलवीडकवज्जीवस्तत्रैव परिवर्त्तते ॥ ३,३.४३ ॥

तस्मान्मूलमनर्थानामज्ञान मुपदिश्यते ।
तं शत्रुमवधार्यैकं ज्ञाने यत्नं समाचरेत् ॥ ३,३.४४ ॥

ज्ञानाद्धि त्यजते सर्वं त्यागाद्बुद्धिर्विरज्यते ।
वैराग्याच्छुध्यते चापि शुद्धः सत्त्वेन मुच्यते ॥ ३,३.४५ ॥

अत ऊर्द्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम् ।
अभिष्वङ्गाय योगः स्याद्विषयेष्ववशात्मनः ॥ ३,३.४६ ॥

अनिष्टमिष्टमप्रीतिप्रीतितापविषादनम् ।
दुःखलाभे न तापश्च सुखानुस्मरणं तथा ॥ ३,३.४७ ॥

इत्येष वैषयो रागः संभूत्याः कारणं स्मृतः ।
ब्रह्मादौ स्थावरान्ते वै संसारेह्यादिभौतिके ॥ ३,३.४८ ॥

अज्ञानपूर्वकं तस्मादज्ञानं तु विवर्जयेत् ।
यस्य चार्षे न प्रमाणं शिष्टाचारं तथैव च ॥ ३,३.४९ ॥

वर्णाश्रमविरुद्धो यः शिष्टशास्त्रविरोधकः ।
एष मार्गो हि निरये तिर्य्यग्योनौ च कारणम् ॥ ३,३.५० ॥

तिर्य्यग्यो निगतं चैव कारणं तत्त्ररुच्यते ।
त्रिविधो यातनास्थाने तिर्य्यग्योनौ च षड्विधे ॥ ३,३.५१ ॥

कारणे विषये चैव प्रतिघातस्तु सर्वशः ।
अनैश्वर्यं तु तत्सर्वं प्रतिघातात्मकं स्मृतम् ॥ ३,३.५२ ॥

इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ।
सत्त्वस्थमात्रकं चित्तं यथासत्त्वं प्रदर्शनात् ॥ ३,३.५३ ॥

तत्त्वानां च यथातत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ।
सत्त्वक्षेत्रज्ञनानात्वमेतन्नानार्थदर्शनम् ॥ ३,३.५४ ॥

नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योग उच्यते ।
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ॥ ३,३.५५ ॥

संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ।
निःसंबन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते ॥ ३,३.५६ ॥

स्वात्मन्यवस्थितश्चापि विरूपाख्येन लिख्यते ।
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञान मोक्षयोः ॥ ३,३.५७ ॥

स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ।
पूर्वं वियोगो ज्ञानेन द्वितीये रागसंक्षयात् ॥ ३,३.५८ ॥

तृष्णाक्ष यात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ।
लिङ्गाभावात्तु कैवल्यं कैवल्यात्तु निरञ्जनम् ॥ ३,३.५९ ॥

निरञ्जनत्वाच्छुद्धस्तु नितान्यो नैव विद्यते ।
अत ऊर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ॥ ३,३.६० ॥

दिव्ये च मानुषे चैव विषये पञ्चलक्षणे ।
अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ॥ ३,३.६१ ॥

तपप्रीतिविषादानां कार्यं तु परिवर्जनम् ।
एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ॥ ३,३.६२ ॥

अनित्यमशिवं दुःखमिति वुद्ध्यानुचिन्त्य च ।
विशुद्धं कार्यकरणं सत्त्वस्यातिनिषैवया ॥ ३,३.६३ ॥

परिपक्वकषायो हि कृत्स्नान्दोषान्प्रपश्यति ।
ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ॥ ३,३.६४ ॥

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ॥ ३,३.६५ ॥

प्राणक्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च ।
शैत्यात्प्रकुपितो वायुरूर्द्ध्वं तूत्क्रमते ततः ॥ ३,३.६६ ॥

स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः ।
समासात्संवृते ज्ञाने संचृत्तेषु च कर्मसु ॥ ३,३.६७ ॥

स जीवो नाभ्यधिष्ठानः कर्मभिः स्वैः पुराकृतैः ।
अष्टाङ्गप्रणवृत्तिं वै स विच्यावयते पुनः ॥ ३,३.६८ ॥

शरीरं प्रजहन्सोंऽते निरुच्छ्वासस्ततो भवेत् ।
एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ॥ ३,३.६९ ॥

यथेह लोके स्वप्ने तं नीयमानमितस्ततः ।
रञ्जनं तद्विधेयस्य ते तान्यो न च विद्यते ॥ ३,३.७० ॥

नृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ।
शब्दाद्ये विषये दोषदृष्टिर्वै पञ्चलक्षणे ॥ ३,३.७१ ॥

अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् ।
वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ॥ ३,३.७२ ॥

अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम् ।
अव्यक्ताद्यास्तु विज्ञेया भूतान्ताः प्रकृतेर्भवाः ॥ ३,३.७३ ॥

वर्णाश्रमाचारयुक्तः शिष्टः शास्त्राविरोधनः ।
वर्णाश्रमाणां धर्मोऽयं देवस्थानेषु कारणम् ॥ ३,३.७४ ॥

ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता ।
ऐश्वर्यमाणिमाद्यं हि कारणं ह्यष्टलक्षणम् ॥ ३,३.७५ ॥

निमित्तमप्रतीघाते दृष्टे शब्दादिलक्षणे ।
अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ३,३.७६ ॥

क्षेत्रज्ञेष्वनुसज्जन्ते गुणमात्रत्मकानि तु ।
प्रावृट्काले पृथग्मेघं पश्यन्तीव सचक्षुषः ॥ ३,३.७७ ॥

पश्यन्त्येवं विधाः सिद्धा जीवं दिव्येन चक्षुषा ।
खादतश्चान्नपानानि योनीः प्रविशतस्तथा ॥ ३,३.७८ ॥

तिर्यगूर्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम् ।
जीवः प्राणस्तथा लिङ्गं करणं च चतुष्टयम् ॥ ३,३.७९ ॥

पर्यायवाचकैः शब्दैरेकार्थैः सोऽभिलष्यते ।
व्यक्ताव्यक्तप्रमाणोऽयं स वै भुङ्क्ते तु कृत्स्नशः ॥ ३,३.८० ॥

अव्यक्तानुग्रहान्तं च क्षेत्रज्ञाधिष्ठितं च यत् ।
एवं ज्ञात्वा शुचिर्भूत्वा ज्ञानाद्वै विप्रमुच्यते ॥ ३,३.८१ ॥

नष्टं चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शने ।
यथेष्टं परिनिर्याति भिन्ने देहे सुनिर्वृते ॥ ३,३.८२ ॥

भिद्यते करणं चापि ह्यव्यक्तज्ञानिनस्ततः ।
मुक्तो गुणशरीरेण प्रणाद्येन तु सर्वशः ॥ ३,३.८३ ॥

नान्यच्छरीरमादत्ते दग्धे वीजे यथाङ्कुरः ।
ज्ञानी च सर्वसंसाराविज्ञशारीरमानसः ॥ ३,३.८४ ॥

ज्ञानाच्चतुर्द्दशाबुद्धः प्रकृतिस्थो निवर्तते ।
प्रकृतिं सत्यमित्याहुर्विकारोऽनृतमुच्यते ॥ ३,३.८५ ॥

असद्भावोऽनृतं ज्ञेयं सद्भावः सत्य मुच्यते ।
अनामरूपं क्षेत्रज्ञनामरूपं प्रचक्षते ॥ ३,३.८६ ॥

यस्मात्क्षेत्रं विजानाति तत्मात्क्षेत्रज्ञ उच्यते ।
क्षेत्रं प्रत्ययते यस्मात्क्षेत्रज्ञः शुभ उच्यते ॥ ३,३.८७ ॥

क्षेत्रज्ञः स्मर्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते ।
क्षेत्रं त्वत्प्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययः सदा ॥ ३,३.८८ ॥

क्षपणात्कारणाच्चैव क्षतत्राणात्तथैव च ।
भोज्यत्वविषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ॥ ३,३.८९ ॥

महदाद्यं विशेषान्तं सर्वैरूप्यं विलक्षणम् ।
विकारलक्षणं तद्वै सोऽक्षरः क्षरमेति च ॥ ३,३.९० ॥

तमेवानुविकारं तु यस्माद्वै क्षरते पुनः ।
तस्माच्च कारणाच्चैव ज्ञरमित्यभिधीयते ॥ ३,३.९१ ॥

संसारे नरकेभ्यश्च त्रायते पुरुषं च यत् ।
दुःखत्राणात्पुनश्चापि क्षेत्रमित्यभिधीयते ॥ ३,३.९२ ॥

सुखदुःखमहंभावाद्भोज्यमित्यभिधीयते ।
अचेतनत्वाद्विषयस्तद्विधर्मा विभुः स्मृतः ॥ ३,३.९३ ॥

न क्षीयते न क्षरति विकारप्रसृतं तु तत् ।
अक्षरं तेन वाप्युक्तम क्षीणत्वात्तथैव च ॥ ३,३.९४ ॥

यस्मात्पूर्यनुशेते च तस्मात्पुरुष उच्यते ।
पुरप्रत्ययिको यस्मात्पुरुषेत्यभिधीयते ॥ ३,३.९५ ॥

पुरुषं कथयस्वाथ कथितोऽज्ञैर्विभाष्यते ।
शुद्धो निरञ्जनाभासो ज्ञाता ज्ञानविवर्जितः ॥ ३,३.९६ ॥

अस्तिनास्तीति सोऽन्यो वा बद्धो मुक्तो गतःस्थितः ।
नैर्हेतुकात्त्वनिर्देश्यादहस्तस्मिन्न विद्यते ॥ ३,३.९७ ॥

शुद्धत्वान्न तु दृश्यो वै द्रष्टृत्वात्समदर्शनः ।
आत्मप्रत्ययकारित्वादन्यूनं वाप्यहेतुकम् ॥ ३,३.९८ ॥

भावग्राह्यमनुमानाच्चिन्तयन्न प्रमुह्यते ।
यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम् ॥ ३,३.९९ ॥

दृश्यादृश्येषु निर्देश्यं तदा तद्दुर्द्धरं वरम् ।
विज्ञाता न च दृश्येत वृथक्त्वेनेह सर्वशः ॥ ३,३.१०० ॥

स्वेनात्मना तथात्मानं कारणात्मा नियच्छति ।
प्रकृतौ कारणे तत्र स्वात्मन्येवोपतिष्ठति ॥ ३,३.१०१ ॥

अस्तिनास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः ।
एकत्वं वा पृथक्वं वा क्षेत्रज्ञः पुरुषोऽपि वा ॥ ३,३.१०२ ॥

आत्मा वा स निरात्मा वा चेतनोऽचेतनोऽपि वा ।
कर्त्ता वा सोऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव च ॥ ३,३.१०३ ॥

यद्गत्वा न निवर्त्तन्ते क्षेत्रज्ञं तु निरञ्जनम् ।
अवाच्यं तदनाख्यानादग्राह्यं वादहेतुभिः ॥ ३,३.१०४ ॥

अप्रतर्क्यमचिन्त्यत्वादवा येत्वाच्च सर्वशः ।
नालप्य वचसा तत्त्वमप्राप्य मनसा सह ॥ ३,३.१०५ ॥

क्षेत्रज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने ।
व्यपेतसुखदुःखे च निरुद्धे शान्तिमागते ॥ ३,३.१०६ ॥

निरात्मके पुनस्तस्मिन्वाच्यावाच्यं न विद्यते ।
एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ॥ ३,३.१०७ ॥

सृज्यते ग्रसते चैव व्यक्तौ पर्यवतिष्ठते ।
क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्गे प्रवर्त्तते ॥ ३,३.१०८ ॥

अधिष्ठानं प्रपद्येत तस्यान्ते बुद्धिपूर्वकम् ।
साधर्म्यवैधर्म्यकृतः संयोगो विदितस्तयोः ।
अनादिमांश्च संयोगो महापुरुषजः स्मृतः ॥ ३,३.१०९ ॥

यावच्च सर्गप्रति सर्गकालस्तावज्जगत्तिष्ठति संनिरुध्य ।
पूर्वं हि तस्यैव च बुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थंमेव ॥ ३,३.११० ॥

एषा निसर्गप्रतिसर्गपूर्वा प्राधानिकी चेश्वरकारिता वा ।
अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ॥ ३,३.१११ ॥

इत्येष प्राकृतः सर्गस्तृतीयो हेतुलक्षणः ।
उक्तो ह्यस्मिंस्तदात्यन्तं कालं ज्ञात्वा प्रमुच्यते ॥ ३,३.११२ ॥

इत्येष प्रतिसर्गो वस्त्रिविदः कीर्त्तितो मया ।
विस्तरेणानुपूर्व्याच भूयः किं वर्त्तयाम्यहम् ॥ ३,३.११३ ॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे प्रतिसर्गो नाम तृतीयोऽध्यायः