ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← उत्तरभागः, अध्यायः ७ ब्रह्माण्डपुराणम्
अध्यायः ८
[[लेखकः :|]]
उत्तरभागः, अध्यायः ९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


इन्द्र उवाच
अगम्यागमनं किं वा को दोषः का च निष्कृतिः ।
एतन्मे मुनिशार्दूल विस्तराद्वक्तुमर्हसि ॥ ३,८.१ ॥
बृहस्पतिरुवाच
अगम्यागमनं नाम मातृस्वसृगुरुस्त्रियः ।
मातुलस्य प्रिया चेति गत्वेमा नास्ति निष्कृतिः ॥ ३,८.२ ॥
मातृसङ्गे तु यदघं तदेव स्वसृसङ्गमे ।
गुरुस्त्रीसंगमे तद्वद्गुरवो बहवः स्मृताः ॥ ३,८.३ ॥
ब्रह्मोपदेशमारभ्य यावद्वेदान्तदर्शनम् ।
एकेन वक्ष्यते येन स महागुरुरुच्यते ॥ ३,८.४ ॥
ब्रह्मोपदेशमेकत्र वेदशास्त्राण्यथैकतः ।
आचार्यः स तु विज्ञेयस्तदेकैकास्तु देशिकाः ॥ ३,८.५ ॥
गुरोरात्मान्तमेव स्यादायार्यस्य प्रियागमे ।
द्वादशाब्दं चरेत्कृच्छ३ एकैकं तु षडब्दतः ॥ ३,८.६ ॥
मातुलस्य प्रियां गत्वा षडब्दं कृच्छ्रमाचरेत् ।
ब्राह्मणस्तु सजातीयां प्रमदां यदि गच्छति ॥ ३,८.७ ॥
उपोषितस्त्रिरात्रं तु प्राणायामशतं चरेत् ।
कुलटां तु सजातीयां त्रिरात्रेण विशुध्यति ॥ ३,८.८ ॥
पञ्चाहात्क्षत्रियाङ्गत्वा सप्ताहा द्वैश्यजामपि ।
चक्रीकिरातकैवर्तकर्मकारादियोषितः ॥ ३,८.९ ॥
शुद्धिः स्याद्द्वादशाहेन धराशक्त्यर्चनेन च ।
अनन्त्यजां ब्राह्मणो गत्वा प्रमादादब्दतः शुचिः ॥ ३,८.१० ॥
देवदासी ब्रह्मदासी स्वतन्त्राशूद्रदासिका ।
दासी चतुर्विधा प्रोक्ता द्वे चाद्ये क्षत्रियासमे ॥ ३,८.११ ॥
अन्यावेश्याङ्गनातुल्या तदन्या हीनजातिवत् ।
आत्मदासीं द्विजो मोहादुक्तार्थे दोषमाप्नुयात् ॥ ३,८.१२ ॥
स्वस्त्रीमृतुमतीं गत्वा प्राजापत्यं चरेद्व्रतम् ।
द्विगुणेन परां नारीं चतुर्भिः क्षत्रियाङ्गनाम् ॥ ३,८.१३ ॥
अष्टभिर्वैश्यनारीं च शूद्रां षौडशभिस्तथा ।
द्वात्रिंशता संकरजां वेश्यां शूद्रामिवाचरेत् ॥ ३,८.१४ ॥
रजस्वलां तु यो भार्यां मोहतो गन्तुमिच्छति ।
स्नात्वान्यवस्त्रसंयुक्तमुक्तार्थेनैव शुध्यति ॥ ३,८.१५ ॥
उपोष्य तच्छेषदिनं स्नात्वा कर्म समाचरेत् ।
तथैवान्याङ्गनां गत्वा तदुक्तार्थं समाचरेत् ॥ ३,८.१६ ॥
पित्रोरनुज्ञया कन्यां यो गच्छेद्विधिना विना ।
त्रिरात्रोपोषणाच्छुद्धिस्तामेवोद्वाहयेत्तदा ॥ ३,८.१७ ॥
कन्यां दत्त्वा तु योऽन्यस्मै दत्ता यश्चानुयच्छति ।
पित्रोरनुज्ञया पाददिनार्धेन विशुध्यति ॥ ३,८.१८ ॥
ज्ञातः पितृभ्यां यो मासं कन्याभावे तु गच्छति ।
वृषलः स तु विज्ञेयः सर्वकर्मबहिष्कृतः ॥ ३,८.१९ ॥
ज्ञातः पितृभ्यां यो गत्वा परोढां तद्विनाशने ।
विधवा जायते नेयं पूर्वगन्तारमाप्नुयात् ॥ ३,८.२० ॥
अनुग्रहाद्द्विजातीनामुद्वाहविधिना तथा ।
त्यागकर्माणि कुर्वीत श्रौतस्मार्तादिकानि च ॥ ३,८.२१ ॥
आदावुद्वाहिता वापि तद्विनाशेऽन्यदः पिता ।
भोगेच्छोः साधनं सा तु न येग्याखिलकर्मसु ॥ ३,८.२२ ॥
ब्रह्मादिपिपीलकान्तं जगत्स्थावरजङ्गमम् ।
पञ्चभूतात्मकं प्रोक्तं चतुर्वासनयान्वितम् ॥ ३,८.२३ ॥
जन्माद्याहारमथननिद्राभीत्यश्च सर्वदा ।
आहारेण विना जन्तुर्नाहारो मदनात्स्मृतः ॥ ३,८.२४ ॥
दुस्तरो मदनस्तस्मात्सर्वेषां प्राणिनामपि ।
पुन्नारीरूपवत्कृत्वा मदननेनैव विश्वसृक् ॥ ३,८.२५ ॥
प्रवृत्तिमकरोदादौ सृष्टिस्थितिलयात्मिकाम् ।
तत्प्रवृत्त्या प्रवर्तन्ते तन्निवृत्त्याक्षयां गतिम् ॥ ३,८.२६ ॥
प्रवृत्त्यैव यथा मुक्तिं प्राप्नुयुर्ये न धीयुताः ।
तद्रहस्यं तदोपायं शृणु वक्ष्यामि सांप्रतम् ॥ ३,८.२७ ॥
सर्वात्मको वासुदेवः पुरुषस्तु पुरातनः ।
इयं हि मूलप्रकृतिर्लक्ष्मीः सर्वजगत्प्रसूः ॥ ३,८.२८ ॥
पञ्चापञ्चात्मतृप्त्यर्थं मथनं क्रियतेतराम् ।
एवं मन्त्रानुभावात्स्यान्मथनं क्रियते यदि ॥ ३,८.२९ ॥
तावुभौ मन्त्रकर्माणौ न दोषो विद्यते तयोः ॥ ३,८.३० ॥
तपोबलवतामेतत्केवलानामधोगतिः ।
स्वस्त्रीविषय एवेदं तयोरपि विधेर्बलात् ॥ ३,८.३१ ॥
परस्परात्म्यैक्यहृदोर्देव्या भक्त्यार्द्रचेतसोः ।
तयोरपि मनाक्चेन्न निषिद्धदिवसेष्वघम् ॥ ३,८.३२ ॥
इयमंबा जगद्धात्री पुरुषोऽयं सदाशिवः ।
पञ्चविंशतितत्त्वानां प्रीतये मथ्यतेऽधुना ॥ ३,८.३३ ॥
एतन्मन्त्रानुभावाच्च मथनं क्रियते यदि ।
तावुभौ पुण्यकर्माणौ न दोषो विद्यते तयोः ॥ ३,८.३४ ॥
इदं च शृणु देवेन्द्र रहस्यं परमं महत् ।
सर्वेषामेव पापानां यौगपद्येन नाशनम् ॥ ३,८.३५ ॥
भक्तिश्रद्धासमायुक्तः स्नात्वान्तर्जलसंस्थितः ।
अष्टोत्तरसहस्रं तु जपेत्पञ्चदशाक्षरीम् ॥ ३,८.३६ ॥
आराध्य च परां शक्तिं मुच्यते सर्वकिल्बिषैः ।
तेन नश्यन्ति पापानि कल्पकोटिकृतान्यपि ।
सर्वापद्भ्यो विमुच्येत सर्वाभीष्टं च विन्दति ॥ ३,८.३७ ॥
इन्द्र उवाच
भगवन्सर्वधर्मज्ञ सर्वभूतहिते रत ।
संयोगजस्य पापस्य विशेषं वक्तुमर्हसि ॥ ३,८.३८ ॥
बृहस्पतिरुवाच
संयोगजं तु यत्पापं तच्चतुर्धा निगद्यते ।
कर्ता प्रधानः सहकृन्निमित्तोऽनुमतः क्रमात् ॥ ३,८.३९ ॥
क्रमाद्दशांशतोऽघं स्याच्छुद्धिः पूर्वोक्तमार्गतः ॥ ३,८.४० ॥
मद्यं कलञ्जं निर्यासं छत्राकं गृञ्जनं तथा ।
लशुनं च कलिङ्गं च महाकोशातकीं तथा ॥ ३,८.४१ ॥
बिंबीं च कवकं चैव हस्तिनीं शिशुलंबिकाम् ।
औदुंबरं च वार्ताकं कतकं बिल्वमल्लिका ॥ ३,८.४२ ॥
क्रमाद्दशगुणं न्यूनमघमेषां विनिर्दिशेत् ।
पुरग्रामाङ्गवैश्याङ्गवेश्योपायनविक्रयी ॥ ३,८.४३ ॥
सेवकः पुरसंस्थश्च कुग्रामस्थोऽभिशस्तकः ।
वैद्यो वैखानसः शैवो नारीजीवोऽन्नविक्रयी ॥ ३,८.४४ ॥
शस्त्रजीवी परिव्राट्च वैदिकाचारनिन्दकः ।
क्रमाद्दशगुणान्न्यूनमेषामन्नादने भवेत् ॥ ३,८.४५ ॥
स्वतन्त्रं तैलकॢप्तं तु ह्युक्तार्थं पापमादिशेत् ।
तैरेव दृष्टं तद्भुक्तमुक्तपापं विनिर्दिशेत् ॥ ३,८.४६ ॥
ब्रह्मक्षत्रविशां चैव सशूद्राणां यथौदनम् ।
तैलपक्वमदृष्टं च भुञ्जन्पादमघं भवेत् ॥ ३,८.४७ ॥
द्विजात्मदासीकॢप्तं च तया दृष्टे तदर्धके ।
वेश्यायास्तु त्रिपादं स्यात्तथा दृष्टे तदोदने ॥ ३,८.४८ ॥
शूद्रावत्स्यात्तु गोपान्नं विना गव्यचतुष्टयम् ।
तैलाज्यगुडसंयुक्तं पक्वं वैश्यान्न दुष्यति ॥ ३,८.४९ ॥
वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टेन किञ्चन ॥ ३,८.५० ॥
ब्रुवस्यान्नं द्विजो भुक्त्वा प्राणायामशतं चरेत् ।
अथवान्तर्जले जप्त्वाद्रुपदां वा त्रिवारकम् ॥ ३,८.५१ ॥
इदं विष्णुस्त्र्यंबकं वा त्थैवान्तर्जले जपेत् ।
उपोष्य रजनीमेकां ततः पापाद्विशुध्यति ॥ ३,८.५२ ॥
अथवा प्रोक्षयेदन्नमब्लिङ्गैः पावमानिकैः ।
अन्नसूक्तं जपित्वा तु भृगुर्वै वारुणीति च ॥ ३,८.५३ ॥
ब्रह्मार्पणमिति श्लोकं जप्त्वा नियममाश्रितः ।
उपोष्य रजनीमेकां ततः शुद्धो भविष्यति ॥ ३,८.५४ ॥
स्त्री भुक्त्वा तु ब्रुवाद्यन्नमेकाद्यान्भोजये द्द्विजान् ।
आपदि ब्राह्मणो ह्येषामन्नं भुक्त्वा न दोषभाक् ॥ ३,८.५५ ॥
इदं विष्णुरिति मन्त्रेण सप्तवाराभिमन्त्रितम् ।
सोऽहंभावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते ॥ ३,८.५६ ॥
अथवा शङ्करं ध्यायञ्जप्त्वा त्रैय्यंबकं मनुम् ।
सोऽहंभावेन तज्ज्ञानान्न दोषैः प्रविलिप्यते ॥ ३,८.५७ ॥
इदं रहस्यं देवेन्द्र शृणुष्व वचनं मम ।
ध्यात्वा देवीं परां शक्तिं जप्त्वा पञ्चदशाक्षरीम् ॥ ३,८.५८ ॥
तन्निवेदितबुद्ध्यादौ योऽश्नाति प्रत्यहं द्विजः ।
नास्यान्नदोषजं किञ्चिन्न दारिद्रयभयं तथा ॥ ३,८.५९ ॥
न व्याधिजं भयं तस्य न च शत्रुभयं तथा ।
जपतो मुक्तिरेवास्य सदा सर्वत्र मङ्गलम् ॥ ३,८.६० ॥
एष ते कथितः शक्र पापानामपि विस्तरः ।
प्रायश्चित्तं तथा तेषां किमन्यच्छ्रोतुमिच्छसि ॥ ३,८.६१ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्यानेऽष्टमोऽध्यायः