ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २१ ब्रह्माण्डपुराणम्
अध्यायः २२
[[लेखकः :|]]
उत्तरभागः, अध्यायः २३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अथ श्रीललितासेनानिस्साणप्रतिनिस्वनः ।
उच्चचालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः ॥ ३,२२.१ ॥

तेन मर्दितदिक्केन क्षुभ्यद्गर्भपयोधिना ।
बधिरीकृतलोकेन चकम्पे जगतां त्रयी ॥ ३,२२.२ ॥

मर्दयन्ककुभां वृन्दं भिन्दन्भूधरकन्दराः ।
पुप्रोथे गगनाभोगे दैत्य निःसाणनिस्वनः ॥ ३,२२.३ ॥

महानरहरिक्रुद्धहुङ्कारोद्धतिमद्ध्वनिः ।
विरसं विररासोच्चैर्विबुधद्वेषिझल्लरी ॥ ३,२२.४ ॥

ततः किलकिलारावमुखरा दैत्यकोटयः ।
समनह्यन्त संक्रुद्धाः प्रति तां परमेश्वरीम् ॥ ३,२२.५ ॥

कश्चिद्रत्नविचित्रेण वर्मणाच्छन्नविग्रहः ।
चकाशे जङ्गम इव प्रोत्तुङ्गो रोहणाचलः ॥ ३,२२.६ ॥

कालरात्रिमिवोदग्रां शस्त्रकारेण गोपिताम् ।
अधुनीत भटः कश्चिदतिधौतां कृपाणिकाम् ॥ ३,२२.७ ॥

उल्ला सयन्कराग्रेण कुन्तपल्लवमेकतः ।
आरूढतुरगो वीथ्यां चारिभेदं चकार ह ॥ ३,२२.८ ॥

केचिदारुरुहुर्योधा मातङ्गांस्तुङ्गवर्ष्मणः ।
उत्पात वातसंपातप्रेरितानिव पर्वतान् ॥ ३,२२.९ ॥

पट्टिशैर्मुद्गरैश्चैव भिदुरैर्भिण्डिपालकैः ।
द्रुहणैश्च भुशुण्डीभिः कुठारैर्मुसलैरपि ॥ ३,२२.१० ॥

गदाभिश्च शतघ्नीभिस्त्रिशिखैर्विशिखैरपि ।
अर्धचक्रैर्महाचक्रैर्वक्राङ्गैरुरगाननैः ॥ ३,२२.११ ॥

फणिशीर्षप्रभेदैश्च धनुर्भिः शार्ङ्गधन्विभिः ।
दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः ॥ ३,२२.१२ ॥

यवमध्यैर्मुष्टिमध्यैर्वललैः खण्डलैरपि ।
कटारैः कोणमध्यैश्च फणिदन्तैः परःशतैः ॥ ३,२२.१३ ॥

पाशायुधैः पाशतुण्डैः काकतुण्डैः सहस्रशः ।
एवमादिभिरत्युग्रैरायुधैर्जीवहारिभिः ॥ ३,२२.१४ ॥

परिकल्पितहस्ताग्रा वर्मिता दैत्यकोटयः ।
अश्वारोहा गजारोहा गर्दभारोहिणः परे ॥ ३,२२.१५ ॥

उष्ट्रारोहा वृकारोहा शुनकारोहिणः परे ।
काकादिरोहिणो गृध्रारोहाः कङ्कादिरोहिणः ॥ ३,२२.१६ ॥

व्याघ्रादिरोहिणश्चान्ये परे सिंहादिरोहिणः ।
शरभारोहिणश्चान्ये भेरुण्डारोहिणः परे ॥ ३,२२.१७ ॥

सूकरारोहिणो व्यालारूढाः प्रेतादिरोहिणः ।
एवं नानाविधैर्वाहवाहिनो ललितां प्रति ॥ ३,२२.१८ ॥

प्रचेलुः प्रबलक्रोधसंमूर्च्छितनिजाशयाः ।
कुटिलं सैन्यभर्त्तारं दुर्मदं नाम दानवम् ।
दशाक्षौहिणिकायुक्तं प्राहिणोल्ललितां प्रति ॥ ३,२२.१९ ॥

दिधक्षुभिरिवाशेषं विश्वं सह बलोत्कटैः ।
भटैर्युक्तः स सेनानी ललिताभिमुखे ययौ ॥ ३,२२.२० ॥

भिन्दन्पटहसंरावैश्चतुर्दश जगन्ति सः ।
अट्टहासान्वितन्वानो दुर्मदस्तन्मुखो ययौ ॥ ३,२२.२१ ॥

अथ भण्डासुराज्ञप्तः कुटिलाक्षो महाबलः ।
शून्यकस्य पुरद्वारे प्रचीने समकल्पयत् ।
रक्षणार्थं दशाक्षौ हिण्युपेतं तालजङ्घकम् ॥ ३,२२.२२ ॥

अवाचीने पुरद्वारे दशाक्षौहिणिकायुतम् ।
नाम्ना तालभुजं दैत्यं रक्षणार्थमकल्पयत् ॥ ३,२२.२३ ॥

प्रतीचीने पुरद्वारे दशाक्षौहिणिकायुतम् ।
तालग्रीवं नाम दैत्यं रक्षार्थं समकल्पयत् ॥ ३,२२.२४ ॥

उत्तरे तु पुरद्वारे तालकेतुं महा बलम् ।
आदिदेश स रक्षार्थं दशाक्षौहिणिकायुतम् ॥ ३,२२.२५ ॥

पुरस्य सालवलये कपिशीर्षकवेश्मसु ।
मण्डलाकारतो वस्तुन्दशाक्षौहिणिमादिशत् ॥ ३,२२.२६ ॥

एवं पञ्चाशता कृत्वाक्षौहिण्या पुररक्षणम् ।
शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिनेऽवदत् ॥ ३,२२.२७ ॥

कुटिलाक्ष उवाच
देव त्वदाज्ञया दत्तं सैन्यं नगररक्षणे ।
दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति ॥ ३,२२.२८ ॥

अस्मत्किङ्कर मात्रेण सुनिराशा हि साबला ।
तथापि राज्ञामाचारः कर्त्तव्यं पुररक्षणम् ॥ ३,२२.२९ ॥

इत्युक्त्वा भण्डदैत्येन्द्रं कुबिलाक्षोऽतिगर्वितः ।
स्वसैन्यं सज्जयामास सेनापतिभिरन्वितः ॥ ३,२२.३० ॥

दूतस्तु प्रेषितः पूर्वं कुटिलाक्षेण दानवः ।
स ध्वनन्ध्वजिनीयुक्तो ललितासैन्य मावृणोत् ॥ ३,२२.३१ ॥

कृत्वा किलकिलारावं भटास्तत्र सहस्रशः ।
दोधूयमानैरसिभिर्निपेतुः शक्तिसैनिकैः ॥ ३,२२.३२ ॥

ताश्च शक्त्य उद्दण्डाः स्फुरिताट्टहसस्वनाः ।
देदीप्यमानशस्त्राभाः समयुध्यन्त दानवैः ॥ ३,२२.३३ ॥

शक्तीनां दानवानां च संशोभितजगत्त्रयः ।
समवर्तत संग्रामो धूलिग्रामतताम्बरः ॥ ३,२२.३४ ॥

रथवंशेषु मूर्च्छन्त्यः करिकण्ठैः प्रपञ्चिताः ।
अश्वनिःश्वासविक्षिप्ता धूलयः रवं प्रपेदिरे ॥ ३,२२.३५ ॥

तमापतन्तमालोक्य दशाक्षौहिणिकावृतम् ।
संपत्सरस्वती क्रोधादभिदुद्राव संगरे ॥ ३,२२.३६ ॥

सम्पत्करीसमानाभिः शक्तिभिः समधिष्ठिताः ।
अश्वाश्च दन्तिनो मत्ता व्यमर्दन्दानत्रीं चमुम् ॥ ३,२२.३७ ॥

अन्योन्यतुमुले युद्धे जाते किलिकिलारवे ।
धूलीषु धूयमानासु ताड्यमानासु भेरिषु ॥ ३,२२.३८ ॥

इतस्ततः प्रववृधे रक्तसिन्धुर्महीयसी ।
शक्तिभिः पात्यमानानां दानवानां सहस्रशः ॥ ३,२२.३९ ॥

ध्वजानि लुठितान्यासन्विलूनानि शिलीमुखैः ।
विस्रस्ततत्तच्छिह्नानि समं छत्रकदम्बकैः ॥ ३,२२.४० ॥

रक्तारुणायां युद्धोर्व्यां पतितैश्छत्रमण्डलैः ।
आलंबि तुलना संध्यारक्ताभ्रहिमरोचिषा ॥ ३,२२.४१ ॥

ज्वालाकपालः कल्पाग्निरिव चारुपयोनिधौ ।
दैत्यसैन्यानि निवहाः शक्तीनां पर्यवारयन् ॥ ३,२२.४२ ॥

शक्तिच्छन्दोज्ज्वलच्छस्त्रधारानिष्कृत्तकन्धराः ।
दानवानां रणतले निपेतुर्मुण्डराशयः ॥ ३,२२.४३ ॥

दष्टौष्ठैर्भ्रुकुटीक्रूरैः क्रोधसंरक्तलोचनैः ।
मुण्डैरखण्डमभवत्संग्रामधरणीतलम् ॥ ३,२२.४४ ॥

एवं प्रवृत्ते समये जगच्चक्रभयङ्करे ।
शक्तयो भृशसंक्रुद्धा दैत्यसेनाममर्दयन् ॥ ३,२२.४५ ॥

इतस्ततः शक्तिशस्त्रैस्ताडिता मूर्च्छिता इति ।
विनेशुर्दानवास्तत्र संपद्देवीबलाहताः ॥ ३,२२.४६ ॥

अथ भग्नं समाश्वास्य निजं बलमरिन्दमः ।
उष्ट्रमारुह्य सहसा दुर्मदोऽभ्यद्रवच्चमुम् ॥ ३,२२.४७ ॥

दीर्घग्रीवः समुन्नद्धः पृष्ठे निष्ठुरतोदनः ।
अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह ॥ ३,२२.४८ ॥

तमुष्ट्रवाहनं दुष्टमन्वीयुः क्रुद्धचेतसः ।
दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया ॥ ३,२२.४९ ॥

अवाकिरद्दिशो भल्लैरुल्लसत्फलशालिभिः ।
संपत्करीचमूचक्रं वनं वार्भिरिवांबुदः ॥ ३,२२.५० ॥

तेन दुःसहसत्त्वेन ताडिता बहुभिः शरैः ।
स्तंभितेवाभवत्सेना संपत्कर्याः क्षणं रणे ॥ ३,२२.५१ ॥

अथ क्रोधारुणं चक्षुर्दधाना संपदंबिका ।
रणकोलाहलगजमारूढायुध्यतामुना ॥ ३,२२.५२ ॥

आलोलकङ्कणक्वाणरमणीयतरः करः ।
तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे ॥ ३,२२.५३ ॥

लघुहस्ततयापश्यन्नाकृष्टन्न च मोक्षणम् ।
ददृशे घनुषश्चक्रं केवलं शरधारणे ॥ ३,२२.५४ ॥

आश्वर्काबरसंपर्कस्फुटप्रतिफलत्फलाः ।
शराः सम्पत्करीचापच्युताः समदहन्नरीन् ॥ ३,२२.५५ ॥

दुर्मदस्याथ तस्याश्च समभूद्युद्धमुद्धतम् ।
अभूदन्योन्यसंघट्टाद्विस्फुलिङ्गशिलीमुखैः ॥ ३,२२.५६ ॥

प्रथमं प्रसृतैर्बाणैः सम्पद्देवीसुरद्विषोः ।
अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम् ॥ ३,२२.५७ ॥

तदन्तरे च बाणानामतिसंघट्टयोनयः ।
विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम् ॥ ३,२२.५८ ॥

तयाधिरूढः संश्रोण्यारणकोलाहलः करी ।
पराक्रमं बहुविधं दर्शयामास संगरे ॥ ३,२२.५९ ॥

करेण कतिचिद्दैत्यान्पादघातेन कांश्चन ।
उदग्रदन्तमुसलघातैरन्यांश्च दानवान् ॥ ३,२२.६० ॥

वालकाण्डहतैरन्यान्फेत्कारैरपरान्रिपून् ।
गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान् ॥ ३,२२.६१ ॥

पृथुमानाभिघातेन कांश्चिद्दैत्यन्व्यमर्दयत् ।
चतुरं चरितं चक्रे संपद्देवीमतङ्गजः ॥ ३,२२.६२ ॥

सुदुर्मदः क्रुधा रक्तो दृढेनैकेन पत्रिणा ।
संपत्करीमुकुटगं मणिमेकमपाहरत् ॥ ३,२२.६३ ॥

अथ क्रोधारुणदृशा तया मुक्तैः शिलीमुखैः ।
विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ ॥ ३,२२.६४ ॥

ततः किलकिला रावं कृत्वा शक्तिचमूवरैः ।
तत्सैनिकवरास्त्वन्ये निहता दानवोत्तमाः ॥ ३,२२.६५ ॥

हतावशिष्टा दैत्यास्तु शक्तिबाणैः खिलीकृताः ।
पलायिता रणक्षोण्याः शून्यकं पुरमाश्रयन् ॥ ३,२२.६६ ॥

तद्वृत्तान्तमथाकर्ण्य संक्रुद्धो दानवेश्वरः ॥ ३,२२.६७ ॥

प्रचण्डेन प्रभावेण दीप्यमान इवात्मनि ।
स पस्पर्श नियुद्धाय खड्गमुग्रविलोचनः ।
कुटिलाक्षं निकटगं बभाषे पृतनापतिम् ॥ ३,२२.६८ ॥

कथं सा दुष्टवनिता दुर्मदं बलशालिनम् ।
निपातितवती युद्धे कष्ट एव विधेः क्रमः ॥ ३,२२.६९ ॥

न सुरेषु न यक्षेषु नोरगेन्द्रेषु यद्बलम् ।
अभूत्प्रतिहतं सोऽपि दुर्मदोऽबलया हतः ॥ ३,२२.७० ॥

तां दुष्टवनितां जेतुमाक्रष्टुं च कचं हठात् ।
सेनापतिं कुरण्डाख्यं प्रेषयाहवदुर्मदम् ॥ ३,२२.७१ ॥

एति संप्रोषितस्तेन कुटिलाक्षो महापलम् ।
कुरण्डं चण्डदोर्द्दण्डमाजुहाव प्रभोः पुरः ॥ ३,२२.७२ ॥

स कुरण्डः समागत्य प्रणाम स्वामिनेऽदिशत् ।
उवाच कुटिलाक्षस्तं गच्छ सज्जय सैनिकान् ॥ ३,२२.७३ ॥

मायायां चतुरोऽसि त्वं चित्रयुद्धविशारद ।
कूटयुद्धे च निपुणस्तां स्त्रियं परिमर्दय ॥ ३,२२.७४ ॥

इति स्वामिपुरस्तेन कुटिलाक्षेण देशितः ।
निर्जगाम पुरात्तूर्णं कुरण्डश्चण्डविक्रमः ॥ ३,२२.७५ ॥

विंशत्यक्षौहिणीभिश्च समन्तात्परिवारितः ।
मर्दयन्स महीगोलं हस्तिवाजिपदातिभिः ।
दुर्मदस्याग्रजश्चण्डः कुरण्डः समरं ययौ ॥ ३,२२.७६ ॥

दूलीभिस्तुमुलीकुर्वन्दिगन्तं धीरमानसः ।
शोकरोषग्रहग्रस्तो जवनाश्वगतो ययौ ॥ ३,२२.७७ ॥

शार्ङ्गं धनुः समादाय घोरटङ्कारमुत्स्वनम् ।
ववर्ष शरधारभिः संपत्कर्या महाचमूम् ॥ ३,२२.७८ ॥

पापे मदनुजं हत्वा दुर्मदं युद्धदुर्मदम् ।
वृथा वहसि विक्रान्तिलवलेशं महामदम् ॥ ३,२२.७९ ॥

इदानीं चैव भवतीमेतैर्नाराचमण्डलैः ।
अन्तकस्य पुरीमत्र प्रापयिष्यामि पश्य माम् ॥ ३,२२.८० ॥

अतिहृद्यमतिस्वादु त्वद्वपुर्बिलनिर्गतम् ।
अपूर्वमङ्गनारक्तं पिबन्तु रणपूतनाः ॥ ३,२२.८१ ॥

ममानुजवधोत्थस्य प्रत्यवायस्य तत्फलम् ।
अधुना भोक्ष्यसे दुष्टे पश्य मे भुजयोर्बलम् ॥ ३,२२.८२ ॥

इति संतर्जयन्संपत्करीं करिवरस्थिताम् ।
सैन्यं प्रोत्साहयामास शक्तिसेनाविमर्दने ॥ ३,२२.८३ ॥

अथ तां पृतनां चण्डी कुरण्डस्य महौजसः ।
विमर्दयितुमुद्युक्ता स्वसैन्यं प्रोदसीसहत् ॥ ३,२२.८४ ॥

अपुर्वाहवसंजातकौतुकाथ जगाद ताम् ।
अश्वरूढा समागत्य सस्नेहार्द्रमिदं वचः ॥ ३,२२.८५ ॥

सखि संपत्करि प्रीत्या मम वाणी निशम्यतम् ।
अस्य युद्धमिदं देहि मम कर्तुं गुणोत्तरम् ॥ ३,२२.८६ ॥

क्षणं सहस्व समरे मयैवैष नियोत्स्यते ।
याचितासि सखित्वेन नात्र संशयमाचर ॥ ३,२२.८७ ॥

इति तस्या वचः श्रुत्वा संपद्देव्या शुचिस्मिता ।
निवर्तयामास चमूङ्कुरुण्डाभिमुखोत्थिताम् ॥ ३,२२.८८ ॥

अथ बालार्कवर्णाभिः शक्तिभिः समधिष्ठिताः ।
तरङ्गा इव सैन्याब्धेस्तुरङ्गा वातरंहसः ॥ ३,२२.८९ ॥

खरैः खुरपुटैः क्षोणीमुल्लिखन्तो मुहुर्मुहुः ।
पेतुरेकप्रवाहेण कुरण्डस्य चमूमुखे ॥ ३,२२.९० ॥

वल्गाविभागकृत्येषु संवर्तनविवर्तने ।
घतिभेदेषु चारेषु पञ्चधा खुरपातने ॥ ३,२२.९१ ॥

प्रोत्साहने च संज्ञाभिः करपादाग्रयोनिभिः ।
चतुराभिस्तुरङ्गस्य हृदयज्ञाभिराहवे ॥ ३,२२.९२ ॥

अश्वारूढांबिकासैन्यशक्तिभिः सह दानवाः ।
प्रोत्साहिताः कुरण्डेन समयुध्यन्त दुर्मदाः ॥ ३,२२.९३ ॥

एवं प्रवृत्ते समरे शक्तीनां च सुरद्विषाम् ।
अपराजितनामानं हयमारुह्य वेगिनम् ।
अभ्यद्रवद्दुराचारमश्वारूढाः कुरण्डकम् ॥ ३,२२.९४ ॥

प्रचलद्वेणिसुभगा शरच्चन्द्रकलोज्ज्वला ।
संध्यानुरक्तशीतांशुमण्डलीसुंदरानना ॥ ३,२२.९५ ॥

स्मयमानेव समरे गृहीतमणिकार्मुका ।
अवाकिरच्छरासारैः कुरण्डं तुरगानना ॥ ३,२२.९६ ॥

तुरगारूढयोत्क्षिप्ताः समाक्रामन्दिगन्तरान् ।
दिशो दश व्यानशिरे रुक्मपुङ्खाः शिलीमुखाः ॥ ३,२२.९७ ॥

दुर्मदस्याग्रजः क्रुद्धः कुरण्डश्चण्डविक्रमः ।
विशिखैः शार्ङ्गनिष्ठ्यूतैरश्वारूढा मवाकिरत् ॥ ३,२२.९८ ॥

चण्डैः खुरपुटैः सैन्यं खण्डयन्नतिवेगतः ।
अश्वारूढातुरङ्गोऽपि मर्दयामास दानवान् ॥ ३,२२.९९ ॥

तस्या हेषारवाद्दूरमुत्पातांबुधिनिःस्वनः ।
अमूर्च्छयन्ननेकानि तस्यानीतानि वैरिणः ॥ ३,२२.१०० ॥

इतस्ततः प्रचलितैर्दैत्यचक्रे हयासना ।
निजं पाशायुधं दिव्यं मुमोच ज्वलिताकृति ॥ ३,२२.१०१ ॥

तस्मात्पाशात्कोटिशोऽन्ये पाशा भुजगभीषणाः ।
समस्तमपि तत्सैन्यं बद्ध्वाबद्ध्वा व्यमूर्छयन् ॥ ३,२२.१०२ ॥

थ सैनिकबन्धेन क्रुद्धः स च कुरण्डकः ।
सरेणैकेन चिच्छेद तस्या मणिधनुर्गुणम् ॥ ३,२२.१०३ ॥

छिन्नमौर्वि धनुस्त्यक्त्वा भृशङ्क्रुद्धा हयासना ।
अङ्कुशं पातयामास तस्य वक्षसि दुर्मतेः ॥ ३,२२.१०४ ॥

तेनाङ्कुशेन ज्वलता पीतजीवितशोणितः ।
कुरण्डो न्यपतद्भूमौ वज्ररुग्ण इव द्रुमः ॥ ३,२२.१०५ ॥

तदङ्कुशविनिष्ठ्यूताः पुतनाः काश्चिदुद्भटाः ।
तत्सैन्यं पाशनिष्यन्दं भक्षयित्वा क्षयं गताः ॥ ३,२२.१०६ ॥

इत्थं कुरुण्डे निहते विंशत्यक्षौहिणीपतौ ।
हतावशिष्टास्ते दैत्याः प्रपलायन्त वै द्रुतम् ॥ ३,२२.१०७ ॥

कुरण्डं सानुजं युद्धे शक्तिसैन्यैर्निपातितम् ।
श्रुत्वा शून्यकनाथोऽपि निशश्वास भुजङ्गवत् ॥ ३,२२.१०८ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दुर्मदकुरण्डवधो नाम द्वाविंशोऽध्यायः