ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २५ ब्रह्माण्डपुराणम्
अध्यायः २६
[[लेखकः :|]]
उत्तरभागः, अध्यायः २७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

प्रथमयुद्धदिवसः ।
दशाक्षौहिणिकायुक्तः कुटिलाक्षोऽपि वीर्यवान् ।
दण्डनाथाशरैस्तीक्ष्णै रणे भग्नः पलायितः ।
दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम् ॥ ३,२६.१ ॥

इमं वृत्तान्तमाकर्ण्य भण्डः क्षोभमथाययौ ।
रात्रौ कपटसंग्रामं दुष्टानां निर्जरद्रुहाम् ।
मन्त्रिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः ॥ ३,२६.२ ॥

अहो बत महत्कष्टं दैत्यैर्देव्याः समागतम् ।
उत्तानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः ॥ ३,२६.३ ॥

महाचक्ररथेन्द्रस्य न जातं रक्षणं बलैः ।
एतं त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतम् ॥ ३,२६.४ ॥

को वृत्तान्तोऽभवत्तत्र स्वामिन्या किं रणः कृतः ।
अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः ॥ ३,२६.५ ॥

विम्रष्टव्यमिदं कार्यं प्रवृत्तिस्तत्र कीदृशी ।
महादेव्याश्च हृदये कः प्रसंगः प्रवर्तते ॥ ३,२६.६ ॥

इति शङ्काकुलास्तत्र दण्डनाथापुरोगमाः ।
मन्त्रिणीं पुरतः कृत्वा प्रचेलुर्ललितां प्रति ॥ ३,२६.७ ॥

शक्तिचक्रचमूनाथाः सर्वास्ताः पूजिता द्रुतम् ।
व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन् ॥ ३,२६.८ ॥

अवरुह्य स्वयानाभ्यां मन्त्रिणीदण्डनायिके ।
अधस्तात्सैन्यमावेश्य तदारुरुहतू रथम् ॥ ३,२६.९ ॥

क्रमेण नव पर्वाणि व्यतीत्य त्वरितक्रमैः ।
तत्तत्सर्वगतैः शक्तिचक्रैः सम्यङ्निवेदितैः ॥ ३,२६.१० ॥

अभजेतां महाराज्ञीं मन्त्रिणीदण्डनायिके ।
ते व्यजिज्ञपतां देव्या अष्टाङ्गस्पृष्टभूतले ॥ ३,२६.११ ॥

महाप्रमादः समभूदिति नः श्रुतमंबिके ।
कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः ॥ ३,२६.१२ ॥

स दुरात्मा दुराचारः प्रकाशसमारात्त्रसन् ।
कुहकव्यवहारेण जयसिद्धिं तु काक्षति ॥ ३,२६.१३ ॥

दैवान्नः स्वामिनीगात्रे दुष्टानाममरद्रुहाम् ।
शरादिकपरामर्शो न जातस्तेन जीवति ॥ ३,२६.१४ ॥

एकावलंबनं कृत्वा महाराज्ञि भवत्पदम् ।
वयं सर्वा हि जीवामः साधयामः समीहितम् ॥ ३,२६.१५ ॥

अतोऽस्माभिः प्रकर्तव्यं श्रीमत्यङ्गस्य रक्षणम् ।
मायाविनश्च दैत्येन्द्रास्तत्र मन्त्रो विधीयताम् ॥ ३,२६.१६ ॥

आपत्कालेषु जेतव्या भण्डाद्या दानवाधमाः ।
कूटयुद्धं न कुर्वन्ति न विशन्ति चमूमिमाम् ॥ ३,२६.१७ ॥

तथा महेन्द्रशैलस्य कार्यं दक्षिणदेशतः ।
शिबिरं बहुविस्तारं योजनानां शतावधि ॥ ३,२६.१८ ॥

वह्लिप्राकारवलयं रक्षणार्थं विधीयताम् ।
अस्मत्सेनानिवेशस्य द्विषां दर्पशमाय च ॥ ३,२६.१९ ॥

शतयोजनमात्रस्तु मध्यतेशः प्रकल्प्यताम् ।
वह्निप्राकाराचक्रस्य द्वारन्दक्षिणतो भवेत् ॥ ३,२६.२० ॥

यतो दक्षिणदेशस्थं शून्यकं विद्विषां पुरम् ।
द्वारे च बहवः कल्प्याः परिवारा उदायुधाः ॥ ३,२६.२१ ॥

निर्गच्छतां प्रविशतां जनानामुपरोधकाः ।
अनालस्या अनिद्राश्च विधेयाः सततोद्यताः ॥ ३,२६.२२ ॥

एवं च सति दुष्टानां कूटयुद्धं चिकीर्षितम् ।
अवेलासु च संध्यासु मध्यरात्रिषु च द्विषाम् ।
अशक्यमेव भवति प्रौढमाक्रमणं हठात् ॥ ३,२६.२३ ॥

नो चेद्दुराशया दैत्या बहुमायापरिग्रहाः ।
पश्यतोहरवत्सर्वं विलुठन्ति महद्बलम् ॥ ३,२६.२४ ॥

मन्त्रिण्या दण्डनाथाया इति श्रुत्वा वचस्तदा ।
शुचिदन्तरुचा मुक्ता वहन्ती ललिताब्रवीत् ॥ ३,२६.२५ ॥

भवतीनामयं मन्त्रश्चारुबुद्ध्या विचारितः ।
अयं कुशलधीमार्गोनीतिरेषा सनातनी ॥ ३,२६.२६ ॥

स्वचक्रस्य पुरो रक्षां विधाय दृढसाधनैः ।
परचक्राक्रमः कार्यो जिगीषद्भिर्महाजनैः ॥ ३,२६.२७ ॥

इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी ।
ज्वालामालिनिकां नित्यामाहूयेदमुवाच ह ॥ ३,२६.२८ ॥

वत्से त्वं वह्निरूपासि ज्वालामालामयाकृतिः ।
त्वया विधीयतां रक्षा बलस्यास्य महीयसः ॥ ३,२६.२९ ॥

शतयोजनविस्तारं परिवृत्य महीतलम् ।
त्रिंशद्योजनमुन्नद्धं ज्वालाकारत्वमाव्रज ॥ ३,२६.३० ॥

द्वारयोजनमात्रं तु मुक्त्वान्यत्र ज्वलत्तनुः ।
वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम् ॥ ३,२६.३१ ॥

इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी ।
महेन्द्रोत्तरभूभागं चलितुं चक्र उद्यमम् ॥ ३,२६.३२ ॥

सा च नित्यानित्यमयी ज्वलज्ज्वा लामयाकृतिः ।
चतुर्दशीतिथिमयी तथेति प्रणनाम ताम् ॥ ३,२६.३३ ॥

तयैव पूर्वनिर्दिष्टं महेन्द्रोत्तरभूतलम् ।
कुण्डलीकृत्य जज्वालशालरूपेण सा पुनः ॥ ३,२६.३४ ॥

नभोवलयजंबालज्वालामालामयाकृतिः ।
बभासे दण्डनाथाया मन्त्रिनाथचमूरपि ॥ ३,२६.३५ ॥

अन्या सामपि शक्तीनां महतीनां महद्बलम् ।
विशङ्कटोदरं सालं प्रविवेश गतक्लमा ॥ ३,२६.३६ ॥

राजचक्ररथेन्द्रं तु मध्ये संस्थाप्य दण्डिनी ।
वामपक्षे रथं स्वीयं दक्षिणे श्यामलारथम् ॥ ३,२६.३७ ॥

पश्चाद्भागे सम्पदेशीं पुरस्ताश्च हयासनाम् ।
एवं संवेश्य परितश्चक्रराजरथस्य च ॥ ३,२६.३८ ॥

द्वारे निवेशयामास विंशत्यक्षौहिणीयुताम् ।
ज्वलद्दण्डायुधोदग्रां स्तम्भिनीं नाम देवताम् ॥ ३,२६.३९ ॥

या देवी दण्डनाथाया विघ्नदेवीति विश्रुता ।
एवं सुरक्षितं कृत्वा शिबिरं योत्रिणी तथा ।
पूषण्युदितभूयिष्ठे पुनर्युद्धमुपाश्रयत् ॥ ३,२६.४० ॥

कृत्वा किलकिलारावं ततः शक्तिमहाचमूः ।
अग्निप्राकारकद्वारान्निर्जगां महारवा ॥ ३,२६.४१ ॥

इत्थं सुरक्षितं श्रुत्वा ललिताशिबिरोदरम् ।
भूयः संज्वरमापन्नः प्रचण्डो भण्डदानवः ॥ ३,२६.४२ ॥

मन्त्रयित्वा पुनस्तत्र कुटिलाक्षपुरोगमैः ।
विषङ्गेण विशुक्रेणासममात्मसुतैरपि ॥ ३,२६.४३ ॥

एकौघस्य प्रसारेण युद्धं कर्तुं महाबलः ।
चतुर्बाहुमुखान्पुत्रांश्चतुर्जलधिसन्निभान् ॥ ३,२६.४४ ॥

चतुरान्युद्धकृत्येषु समाहूय स दानवः ।
प्रेषयामास युद्धाय भण्डश्चण्डक्रुधा ज्वलन् ॥ ३,२६.४५ ॥

त्रिंशत्संख्याश्च तत्पुत्रा महाकाया महाबलाः ।
तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज ॥ ३,२६.४६ ॥

चतुर्बाहुश्चकोराक्षस्तृतीयस्तु चतुः शिराः ।
वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः ॥ ३,२६.४७ ॥

मखशत्रुर्मखस्कन्दीसिंहघोषः सिरालकः ।
लडुनः पट्टसेनश्च पुराजित्पूर्वमारकः ॥ ३,२६.४८ ॥

स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः ।
अतिमायो बृहन्माय उपमायश्च वीर्यवान् ॥ ३,२६.४९ ॥

इत्येते दुर्मदाः पुत्रा भण्डदैत्यस्य दुर्द्धियः ।
पितुः सदृशदोर्वीर्याः पितुः सदृशविग्रहाः ॥ ३,२६.५० ॥

आगत्य भण्डचरणावभ्यवन्दत भक्तितः ।
तानुद्वीक्ष्य प्रसन्नाभ्यां लोचनाभ्यां स दानवः ।
सगौरवमिदं वाक्यं बभाषे कुलघातकः ॥ ३,२६.५१ ॥

भो भो मदीयास्तनया भवतां कः समो भुवि ।
भवतामेव सत्येन जितं विश्वं मया पुरा ॥ ३,२६.५२ ॥

शक्रस्या ग्नेर्यमस्यापि निरृतेः पाशिनस्तथा ।
कचेषु कर्षणं कोपात्कृतं युष्माभिराहवे ॥ ३,२६.५३ ॥

अस्त्राण्यपि च शस्त्राणि जानीथ निखिलान्यपि ।
जाग्रत्स्वेव ही युष्मासु कुलभ्रंशोऽयमागतः ॥ ३,२६.५४ ॥

मायाविनी दुललिता काचित्स्त्री युद्धदुर्मदा ।
बहुभिः स्वसमानाभिः स्त्रीभिर्युक्ता हिनस्ति नः ॥ ३,२६.५५ ॥

तदेनां समरेऽवश्यमात्मवश्यां विधास्यथ ।
जीवग्राहं च सा ग्राह्या भवद्भिर्ज्वलदायुधैः ॥ ३,२६.५६ ॥

अप्रमेयप्रकोपान्धान्युष्मानेकां स्त्रियं प्रति ।
सम्प्रेषणमनौचित्यं तथाप्येष विधेः क्रमः ॥ ३,२६.५७ ॥

इममेकं सहध्वं च शौर्यकीतिविपर्ययम् ।
इत्युक्त्वा भण्डदैत्येन्द्रस्तान्प्रहैषीद्रणं प्रति ।
द्विशतं चाक्षौहिणीनां तत्सहायतयाहिनोत् ॥ ३,२६.५८ ॥

द्विशत्यक्षौहिणीसेना मुख्यस्य तिलकायिता ।
बद्धभ्रुकुटयः शस्त्रपाणयो निर्ययुर्गृहात् ॥ ३,२६.५९ ॥

निर्गमे भण्डपुत्राणां भूः प्रकम्पमलम्बत ।
उत्पाता विविधा जाता वित्रस्तं चाभवज्जगत् ॥ ३,२६.६० ॥

तान्कुमारान्महासत्त्वांल्लाजवर्षैरवाकिरन् ।
विथीषु यानैश्चलितान्पौरवृद्धपुरन्ध्रयः ॥ ३,२६.६१ ॥

बन्दिनो मागधाश्चैव कुमाराणां स्तुतिं व्यधुः ।
मङ्गलारार्तिकं चक्रुर्द्वारेद्वारे पुराङ्गनाः ॥ ३,२६.६२ ॥

भिद्यमानेव वसुधा कृष्यमाणमिवाबरम् ।
आसीत्तेषां विनिर्याणे घूर्णमान इवार्णवः ॥ ३,२६.६३ ॥

द्विशत्यक्षौहिणीसेनां गृहीत्वा भण्डसूनवः ।
क्रोधोद्यद्भ्रुकुटीक्रूरवदना निर्ययुः पुरात् ॥ ३,२६.६४ ॥

शक्तिसैन्यानि सर्वाणि भक्षयामः क्षणाद्रणे ।
तेषामायुधचक्राणि चूर्णयामः शितैशरैः ॥ ३,२६.६५ ॥

अग्निप्राकारवलयं शमयामश्च रंहसा ।
दुर्विदग्धां तां ललितां बन्दीकुर्मश्च सर्वरम् ॥ ३,२६.६६ ॥

इत्यन्योन्यं प्रवल्गन्तो वीरभाषणघोषणैः ।
आसेदुरग्निप्राकारसमीपं भण्डसूनवः ॥ ३,२६.६७ ॥

यौवनेन मदेनान्धा भूयसा रुद्धदृष्टयः ।
भ्रुकुटीकुटिलाश्चक्रुः सिंहनादंमहात्तरम् ॥ ३,२६.६८ ॥

विदीर्णमिव तेनासीद्ब्रह्माण्ड चण्डिमस्पृशा ।
उत्पातवारिदोत्सृष्टघोरनिर्घातरंहसा ॥ ३,२६.६९ ॥

एतस्याननुभूतस्य महाशब्दस्य डम्बरः ।
क्षोभयामास शक्तीनां श्रवांसि च मनांसि च ॥ ३,२६.७० ॥

आगत्य ते कलकलं चक्रुःसार्धं स्वसैनिकैः ।
विविधायुधसम्पातमूर्च्छद्वैमानिकच्छटम् ॥ ३,२६.७१ ॥

चतुर्बाहुमखान्भूत्वा भण्डदैत्यकुमारकान् ।
आगतान्युद्धकृत्याय बाला कौतूहलं दधे ॥ ३,२६.७२ ॥

कुमारी ललितादेव्यास्तस्या निकटवासिनी ।
समस्तशक्तिचक्राणां पूज्य विक्रमशालिनी ॥ ३,२६.७३ ॥

ललितासदृशाकारा कुमारी कोपमादधे ।
या सदा नववर्षेव सर्वविद्यामहाखनिः ॥ ३,२६.७४ ॥

बालारुणतनुः श्रोणीशोणवर्णवपुर्लता ।
महाराज्ञी पादपीठे नित्यमाहितसंनिधिः ॥ ३,२६.७५ ॥

तस्या बहिश्चराः प्राणा या चतुर्थं विलोचनम् ।
तानागतान्भण्डसुतान्संहरिष्यामि सत्वरम् ॥ ३,२६.७६ ॥

इति निश्चित्य बालांबा महाराज्ञ्यै व्यजिज्ञपत् ।
मातर्भण्डमहादैत्यसूनवो योद्धुमागताः ॥ ३,२६.७७ ॥

तैः समं योद्धुमिच्छामि कुमारित्वात्सकौतुका ।
सफुरन्ताविव मे बाहू युद्धकण्डूययानया ॥ ३,२६.७८ ॥

क्रीडा ममैषा हन्तव्या न भवत्या निवारणैः ।
अहं हि वालिका नित्यं क्रीडनेष्वनुरागिणी ॥ ३,२६.७९ ॥

क्षणं रणक्रीडया च प्रीतिं यास्यामि चैतसा ।
इति विज्ञापिता देवी प्रत्युवाच कुमारिकाम् ॥ ३,२६.८० ॥

वत्से त्वमतिमृद्वङ्गी नववर्षा नवक्रमा ।
नवीनयुद्धशिक्षा च कुमारी त्वं ममैकिका ॥ ३,२६.८१ ॥

त्वां विना क्षणमात्रं मे न निश्वासः प्रवर्तते ।
ममोच्छ्वसितमेवासि न त्वं याहि महाहवम् ॥ ३,२६.८२ ॥

दण्डिनी मन्त्रिणी चैव शक्तयोऽन्याश्च कोटिशः ।
संत्येव समरे कर्तुं वत्से त्वं किं प्रमाद्यसि ॥ ३,२६.८३ ॥

इति श्रीललितादेव्या निरुद्धापि कुमारिका ।
कौमारकौतुकाविष्टा पुनर्युद्धमयाचत ॥ ३,२६.८४ ॥

सुदृढं निश्चयं दृष्ट्वा तस्याः श्रीललितांबिका ।
अनुज्ञां कृतवत्येव गाढमाश्लिष्य बाहुभिः ॥ ३,२६.८५ ॥

स्वकीयकवचादेकमाच्छिद्य कवचं ददौ ।
स्वायुधेभ्यश्चायुधानि वितीर्यविससर्ज ताम् ॥ ३,२६.८६ ॥

कर्णीरथं महाराज्ञ्या चापदण्डात्समुद्धृतम् ।
हंसयुग्यशतैर्युक्तमारुरोह कुमारिका ॥ ३,२६.८७ ॥

तस्यां रणे प्रवृत्तायां सर्वपर्वस्थदेवताः ।
बद्धाञ्जलिपुटा नेमुः प्रधृतासिपरंपराः ॥ ३,२६.८८ ॥

ताभिः प्रणम्यमाना सा चक्रराजरथोत्तमात् ।
अवरुह्य तले सैन्यं वर्तमानमगाहत ॥ ३,२६.८९ ॥

तामायान्तीमथो दृष्ट्वा कुमारीं कोपपाटलाम् ।
मन्त्रिणीदण्डनाथे च सभये वाचमूचतुः ॥ ३,२६.९० ॥

किं भर्तृदारिके युद्धे व्यवसायः कृतस्त्वया ।
अकाण्डे किं महाराज्ञ्या प्रेषितासि रणं प्रति ॥ ३,२६.९१ ॥

तदेतदुचितंनैव वर्तमानेऽपि सैनिके ।
त्वं मूर्तं जीवितमसि श्रीदेव्या बालिके यतः ॥ ३,२६.९२ ॥

निवर्तस्व रणोत्साहात्प्रणामस्ते विधीयते ।
इति ताभ्यां प्रार्थितापि प्राचलद्दृढनिश्चया ॥ ३,२६.९३ ॥

अत्यन्तं विस्मयाविष्टे मन्त्रिणीदण्डनायिके ।
सहैव तस्या रक्षार्थं चेलतुः पार्श्वयोर्द्वयोः ॥ ३,२६.९४ ॥

अथाग्निवरणद्वारा ताभ्यामनुगता सती ।
प्रभूतसेनायुक्ताभ्यां निर्जगाम कुमारिका ॥ ३,२६.९५ ॥

सनाथशक्तिसेनानां सर्वासामनुगृह्णती ।
प्रणामाञ्जलिजालानि कर्णीरथकृतासना ॥ ३,२६.९६ ॥

भण्डस्य तनयान्दुष्टानभ्यद्रवदरिन्दमा ।
तस्याः प्रादेशिकं सैन्यं कुमार्या न हि विद्यते ॥ ३,२६.९७ ॥

सर्वं हि ललितासैन्यं तत्सैन्यं समजायत ।
ततः प्रववृते युद्धमत्युद्धतापराक्रमम् ॥ ३,२६.९८ ॥

ववर्ष शरजालानि दैत्येन्द्रेषु कुमारिका ।
भण्डासुरकुमारैस्तैर्महाराज्ञीकुमारिका ।
यद्युद्धमतनोत्तत्तु स्पृहणीयं सुरासुरैः ॥ ३,२६.९९ ॥

अत्यन्तविस्मिता दैत्यकुमारा नववर्षिणीम् ।
कर्मीरथस्थामालोक्य किरन्तींशरमण्डलम् ॥ ३,२६.१०० ॥

क्षणेक्षणे बालिकया क्रियमाणं महारणम् ।
व्यजिज्ञपन्महाराज्ञ्यै भ्रमन्त्यः परिचारिकाः ॥ ३,२६.१०१ ॥

मन्त्रिणीदण्डनाथे च न तां विजहतू रणे ।
प्रेक्षकत्व मनुप्राप्ते तृष्णीमेव बभूवतुः ॥ ३,२६.१०२ ॥

सर्वेषां दैत्यपुत्राणामेकरूपा कुमारिका ।
प्रत्येकभिन्ना ददृशे बिंबमालेव भास्वतः ॥ ३,२६.१०३ ॥

सायकैरग्निचूडालैस्तेषां मर्माणि भिन्दती ।
रक्तोत्पलमिव क्रोधसंरक्तं बिभ्रती मुखम् ॥ ३,२६.१०४ ॥

आश्चर्यं ब्रुवतो व्योम्नि पश्यतां त्रिदिवौकसाम् ।
साधुवादैर्बहुविधैर्मत्रिणीदण्डनाथयोः ॥ ३,२६.१०५ ॥

अर्च्यमाना रणं चक्रे लघुहस्ता कुमारिका ।
द्वितीयं युद्धदिवसं समस्तमपि सा रणे ॥ ३,२६.१०६ ॥

प्रकाशयामास बलं ललितादुहिता निजम् ।
अस्त्रप्रत्यस्त्रमोक्षेण तान्सर्वानपि भिन्दती ॥ ३,२६.१०७ ॥

नारायणास्त्रमोक्षेण महराज्ञीकुमारिका ।
द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोत्क्षणात् ॥ ३,२६.१०८ ॥

अक्षौहिणीनां क्षयतः क्षणात्कोपमुपागताः ।
आकृष्टगुरुधन्वानस्तेऽपतन्नेकहेलया ॥ ३,२६.१०९ ॥

ततः कलकले जाते शक्तीनां च दिवौकसाम् ।
युगपत्त्रिंशतो बाणानसृजत्सा कुमारिका ॥ ३,२६.११० ॥

हस्तलाघवमाश्रित्य मुक्तैश्चन्द्रार्धसायकैः ।
त्रिंशता त्रिंशतो भण्डपुत्राणा साहतं शिरः ॥ ३,२६.१११ ॥

इति भण्डस्य पुत्रेषु प्राप्तेषु यमसादनम् ।
अत्यन्तविस्मयाविष्टा वबृषुः पुष्पमभ्रगाः ॥ ३,२६.११२ ॥

सा च पुत्री महाराज्ञ्याः विध्वस्तासुरमैनिका ।
मन्त्रिणीदण्डनाथाभ्यामालिङ्ग्यत भृशं मुदा ॥ ३,२६.११३ ॥

तस्याः पराक्रमोन्मेषैर्नृत्यन्त्योजयदायिभिः ।
शक्तयस्तुमुलं चक्रुः साधुवादैर्जगत्त्रयम् ॥ ३,२६.११४ ॥

सर्वाश्च शक्तिसेनान्यो दण्डनाथापुरःसराः ।
तदाश्चर्यं महाराज्ञ्यै निवेदयितुमुद्गताः ॥ ३,२६.११५ ॥

ताभिर्निवेद्यमानानि सा देवी ललितांबिका ।
पुत्रीभुजावदानानि श्रुत्वा प्रीतिं समाययौ ॥ ३,२६.११६ ॥

समस्तमपि तच्चक्रं शक्तीनां तत्पराक्रमैः ।
अदृष्टपूर्वैर्देवेषु विस्मयस्य वशं गतम् ॥ ३,२६.११७ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डपुत्रवधो नाम षड्विंशोऽध्यायः