ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः ६ ब्रह्माण्डपुराणम्
अध्यायः ७
[[लेखकः :|]]
उत्तरभागः, अध्यायः ८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

इन्द्र उवाच
भगवन्सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् ।
स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद ॥ ३,७.१ ॥

बृहस्पतिरुवाच
पापानामधिकं पापं हननं जीवजातिनाम् ।
एतस्मादधिकं पापं विश्वस्ते शरणं गते ॥ ३,७.२ ॥

विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् ।
ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ॥ ३,७.३ ॥

ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च ।
बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः ।
तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते ॥ ३,७.४ ॥

विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते ।
विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत् ॥ ३,७.५ ॥

ततो देवद्विजातीनां हेमरत्नापहारकम् ।
यो हन्यादविचारेण सोऽश्वमेधफलं लभेत् ॥ ३,७.६ ॥

गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च ।
स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम् ॥ ३,७.७ ॥

अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि ।
दशोत्तरगुणैः पापैर्लिप्यते धनहारकः ॥ ३,७.८ ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
रहस्यातिरहस्यं च सर्वपापप्रणाशनम् ॥ ३,७.९ ॥

पुरा काञ्चीपुरे जातो वज्राख्यो नाम चोरकः ।
तस्मिन्पुरवरे रम्ये सर्वैश्वर्यसमन्विताः ।
सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः ॥ ३,७.१० ॥

सर्वैश्वर्यसमृद्धेऽस्मिन्नगरे स तु तस्करः ।
स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत् ॥ ३,७.११ ॥

तदरण्येऽवटं कृत्वा स्थापयामास लोभतः ।
तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति ॥ ३,७.१२ ॥

किरातः कश्चिदागत्य तं दृष्ट्वा तु दशांशतः ।
जहाराविदितस्तेन काष्ठभारं वहन्ययौ ॥ ३,७.१३ ॥

सोऽपि तच्छिलयाच्छाद्य मृद्भिरापूर्ययत्नतः ।
पुनश्च तत्पुरं प्रायाद्वज्रोऽपि धनतृष्मया ॥ ३,७.१४ ॥

एवं बहुधनं त्दृत्वा निश्चिक्षेप महीतले ।
किरातोऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम् ॥ ३,७.१५ ॥

मया काष्ठं समाहर्तुं गच्छता पथि निर्जने ।
लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि ॥ ३,७.१६ ॥

तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः ।
चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत् ॥ ३,७.१७ ॥

नित्यं संचरते विप्रो मामकानां गृहेषु यः ।
मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत् ॥ ३,७.१८ ॥

चातुर्वर्ण्यासु नरीषु स्थेयं चेद्राजवल्लभा ।
किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे ।
लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः ॥ ३,७.१९ ॥

तथापि बहुभाग्यानां पुण्यानामपि पात्रिणे ।
दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत् ॥ ३,७.२० ॥

अथ वात्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम् ।
तदेव तिष्ठति चिरादन्यद्गच्छति कालतः ॥ ३,७.२१ ॥

स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत् ।
कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान् ॥ ३,७.२२ ॥

इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितम् ।
बहूदकसमं देशं तत्र तत्र व्यलोकयत् ॥ ३,७.२३ ॥

निर्ममेऽथ महेन्द्रस्य दिग्भागे विमलोदकम् ।
सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकम् ॥ ३,७.२४ ॥

दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च ।
असंबूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलोऽभवत् ॥ ३,७.२५ ॥

तं चोर वज्रनामानमज्ञातोऽनुचराम्यहम् ।
तेनैव बहुधा क्षिप्तं धनं भूरि महीतले ॥ ३,७.२६ ॥

स्तोकंस्तोकं हरिष्यामि तत्रतत्र धनं बहु ।
इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात् ॥ ३,७.२७ ॥

तथैवात्दृत्य तद्द्रव्यं तेन सेतुमपूरयत् ।
मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः ॥ ३,७.२८ ॥

तत्तटाकमभूद्दिव्यमशोषितजलं महत् ।
सेतुमध्ये चकारासौ शङ्करायतनं महत् ॥ ३,७.२९ ॥

काननं च क्षयं नीतं बहुसत्त्वसमाकुलम् ।
तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः ॥ ३,७.३० ॥

देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य वै ।
ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून् ॥ ३,७.३१ ॥

संतोष्य हेमवस्त्राद्यैरिदं वचनमब्रवीत् ।
क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी ॥ ३,७.३२ ॥

क्व वा महासेतुबन्धः क्व देवालयकल्पना ।
क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च ॥ ३,७.३३ ॥

कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः ।
प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः ॥ ३,७.३४ ॥

द्विजवर्मेति नामास्मै तस्यै शीलवतीति च ।
चक्रुः संतुष्टमनसो महात्मानो महौजसः ॥ ३,७.३५ ॥

तेषां संरक्षणार्थाय बन्धुमिः सहितो वशी ।
तत्रैव वसतिं चक्रे मुदितो भार्यया सह ॥ ३,७.३६ ॥

पुरोहिताभिधानेन देवरातपुरन्त्विति ।
नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान् ॥ ३,७.३७ ॥

ततः कालवशं प्राप्तो द्विजवर्मा मृतस्तदा ।
यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः ॥ ३,७.३८ ॥

अन्योऽन्यमभवत्तेषां युद्धं देवासुरोपमम् ।
अत्रान्तरे समागत्य नारदो मुनिरब्रवीत् ॥ ३,७.३९ ॥

मा कुर्वन्तु मिथो युद्धं शृण्वन्तु वचनं मम ।
अयं किरातश्चैर्येण सेतुबन्धं पुराकरोत् ॥ ३,७.४० ॥

वायुभूतस्चरेदेको यावद्द्रव्यवतो मृतिः ।
स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः ॥ ३,७.४१ ॥

गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम् ।
चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः ॥ ३,७.४२ ॥

भार्यां तस्याह स मुनिस्तव दोषो न किञ्चन ।
त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज ॥ ३,७.४३ ॥

वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम् ।
निर्वेदं परमापन्ना मुनिमेवमभाषत ॥ ३,७.४४ ॥

विना पतिमहं तेन न गच्छेयं पितामहम् ।
हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा ॥ ३,७.४५ ॥

ततस्तु या गतिस्तस्य तामेवानुचराम्यहम् ।
परिहारोऽथवा किं तु मया कार्यस्तु तेन वा ॥ ३,७.४६ ॥

इति तस्या वचः श्रुत्वा प्रीतः प्राह तपोधनः ।
भोगात्मकं शरीरं तु कर्म कार्यकरं तव ॥ ३,७.४७ ॥

मम प्रभावाद्भविता परिहारं वदामि ते ।
निराहारो महातीर्थेस्नात्वा नित्यं हि सांबिकम् ॥ ३,७.४८ ॥

पूजयित्वा शिवं भक्त्या कन्दमूलफलाशनः ।
ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत् ॥ ३,७.४९ ॥

ब्रह्महा मुच्यते पापैरष्टोत्तरसहस्रतः ।
पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः ॥ ३,७.५० ॥

इत्यादिश्य ददौ तस्यै रुद्राध्यायं तपोधनः ।
अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत् ॥ ३,७.५१ ॥

भर्तुः प्रियार्थे संकल्प्य जजाप परमं जपम् ।
विमुक्तस्तेयदोषेण स्वशरीरमवाप सः ॥ ३,७.५२ ॥

ततो वज्राभिधश्चौरः कालधर्ममुपागतः ।
अन्ये तद्द्रव्यवन्तोऽपि कालधर्ममुपागताः ॥ ३,७.५३ ॥

यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह ॥ ३,७.५४ ॥

भवद्भिस्तु कृतं पापं दैवात्सुकृतमप्युत ।
किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा ॥ ३,७.५५ ॥

इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः ।
सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते ॥ ३,७.५६ ॥

पुनराह यमो यूयं पुत्रमित्र कलत्रकैः ।
एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम् ॥ ३,७.५७ ॥

तेऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः ।
यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा ॥ ३,७.५८ ॥

द्विजवर्माखिलांल्लोकानतीत्य प्रमदासखः ।
गाणपत्यमनुप्राप्य कैलासेऽद्यापि मोदते ॥ ३,७.५९ ॥

इन्द्र उवाच
तारतम्यविभागं च कथय त्वं महामते ।
सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम् ॥ ३,७.६० ॥

बृहस्पतिरुवाच
पुण्यस्यार्द्धफलं प्राप्य द्विजवर्मा महायशाः ।
वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे ॥ ३,७.६१ ॥

मनोवाक्कायचेष्टाभिश्चतुर्धाक्रियते कृतिः ।
विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः ॥ ३,७.६२ ॥

इन्द्र उवाच
आसवस्य तु किं रूपं को दोषः कश्चवा गुणः ।
अन्नं दोषकरं किं तु तन्मे विस्तरतो वद ॥ ३,७.६३ ॥

बृहस्पतिरुवाच
पैष्टिकं तालजं कैरं माधूकं गुडसंभवम् ।
क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा ॥ ३,७.६४ ॥

क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते ।
स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना ॥ ३,७.६५ ॥

पतिहीना च कन्या च त्यजेदृतुमती तथा ।
अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा ॥ ३,७.६६ ॥

उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव ॥ ३,७.६७ ॥

दशाष्टषट्चतस्रस्तु द्विजातीनामयं भवेत् ।
स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे ॥ ३,७.६८ ॥

मद्यं पीत्वा द्विजो मोहात्कृच्छ्रचान्द्रायमं चरेत् ।
जपेच्चायुतगायत्रीं जातवेदसमेव वा ॥ ३,७.६९ ॥

अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः ।
क्षत्रियोऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात् ॥ ३,७.७० ॥

स्त्रीणामर्धार्धकॢप्तिः स्यात्कारयेद्वा द्विजैरपि ।
अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात् ॥ ३,७.७१ ॥

लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुरांबिका ।
भैरवो भैरवी काली महाशास्त्री च मातरः ॥ ३,७.७२ ॥

अन्याश्च शक्तयस्तासां पूजने मधु शस्यते ।
ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः ॥ ३,७.७३ ॥

तन्निवेदितमश्नन्तस्तदनन्यास्तदात्मकाः ।
तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम् ॥ ३,७.७४ ॥

कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः ॥ ३,७.७५ ॥

अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु योऽधमः ।
रौरवे नरकेऽब्दं तु निवसेद्ब्रिन्दुसंख्यया ॥ ३,७.७६ ॥

भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः ।
प्रायश्चितं न चैवास्य शिलाग्निपतनादृते ॥ ३,७.७७ ॥

द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतोऽपि वा ।
अनुग्रहाच्च महतामनुतापाच्च कर्मणः ॥ ३,७.७८ ॥

अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि ।
चान्द्रायणेन कृच्छ्रेण दिनसंख्याकृतेन च ।
शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः ॥ ३,७.७९ ॥

इति ब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तेयपानकथनं नाम सप्तमोऽध्यायः