ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २२ ब्रह्माण्डपुराणम्
अध्यायः २३
[[लेखकः :|]]
उत्तरभागः, अध्यायः २४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


अथाश्वरूढया क्षिप्ते कुरण्डे भण्डदानवः ।
कुटिलाक्षमिदं प्रोचे पुनरेव युयुत्सया ॥ ३,२३.१ ॥

स्वप्नेऽपि यन्न संभाव्यं यन्न श्रुतमितः पुरा ।
यच्च नो शङ्कितं चित्ते तदेतत्कष्टमागतम् ॥ ३,२३.२ ॥

कुरण्डदुर्मदौ सत्त्वशालिनौ भ्रातरौ हितौ ।
दुष्टदास्याः प्रभावोऽयं मायाविन्या महत्तरः ॥ ३,२३.३ ॥

इतः परं करङ्कादीन्पञ्चसेनाधिनायकान् ।
शतमक्षौहिणीनां च प्रस्थापय रणाङ्गणे ॥ ३,२३.४ ॥

ते युद्धदुर्मदाः शूराः संग्रामेषु तनुत्यजः ।
सर्वथैव विजेष्यन्ते दुर्विदग्धविलासिनीम् ॥ ३,२३.५ ॥

इति भण्डवचः श्रुत्वा भृशं चत्वरयान्वितः ।
कुटिलाक्षः करङ्कादीनाजुहाव चमूपतीन् ॥ ३,२३.६ ॥

ते स्वामिनं नमस्कृत्य कुटिलाक्षेण देशिताः ।
अग्नौ प्रविष्णव इव क्रोधान्धा निर्ययुः पुरात् ॥ ३,२३.७ ॥

तेषां प्रयाणनिःसाणरणितं भृशदुःसहम् ।
आकर्ण्य दिग्गजास्तूर्णं शीर्णकर्णा जुघूर्णिरे ॥ ३,२३.८ ॥

शतमक्षौहिणीनां च प्राचलत्केतुमालकम् ।
उत्तरङ्गतुरङ्गादि बभौ मत्तमतङ्गजम् ॥ ३,२३.९ ॥

ह्रेषमाणहयाकीर्णं क्रन्दद्भटकुलोद्भवम् ।
बृंहमाणगजं गर्जद्रथयक्रं चचाल तत् ॥ ३,२३.१० ॥

चक्रनेमिहतक्षोणीरेणुक्षपितरोचिषा ।
बभूवे तुहिनासारच्छन्नेनेव विवस्वता ॥ ३,२३.११ ॥

धूलीमयमिवाशेषमभवद्विश्वमण्डलम् ।
क्वचिच्छब्दमयं चैव निःसाणकठिनस्वनैः ॥ ३,२३.१२ ॥

उद्भूतैर्धूलिकाजालैराक्रान्ता दैत्यसैनिकाः ।
इयत्तयातः सेनायाः संख्यापि परिभाविता ॥ ३,२३.१३ ॥

ध्वजा बहुविधाकारा मीनव्यालादिचित्रिताः ।
प्रचेलुर्धूलिकाजाले मत्स्या इव महोदधौ ॥ ३,२३.१४ ॥

तानापतत आलोक्य ललितासैनिकं प्रति ।
वित्रेसुरमराः सर्वे शक्तीनां भङ्गशङ्कया ॥ ३,२३.१५ ॥

ते करङ्कमुखाः पञ्च सेनापतय उद्धताः ।
सर्पिणीं नाम समरे मायां चक्रुर्महीयसीम् ॥ ३,२३.१६ ॥

तैः समुत्पतिता दुष्टा सर्पिणी रमशांबरी ।
धूम्रवर्णा च धूम्रोष्ठी धूम्रवर्मपयोधरा ॥ ३,२३.१७ ॥

महोदधिरिवात्यन्तं गंभीरकुहरोदरी ।
पुरश्चचाल शक्तीनान्त्रासयन्ती मनो रणे ॥ ३,२३.१८ ॥

कद्रूरिवापरा दुष्टा बहुसर्पविभूषणा ।
सर्पाणामुद्भवस्थानं मायामयशरीरिणाम् ॥ ३,२३.१९ ॥

सेनापतीनां नासीरे वेल्लयन्तीमहीतले ।
वेल्लितं बहुधा चक्रे घोरारावविराविणी ॥ ३,२३.२० ॥

तथैव मायया पूर्वं तेऽसुरेद्रा व्यजीजयन् ।
करङ्काद्या दुरात्मानः पञ्चपञ्चत्त्वकामुकाः ॥ ३,२३.२१ ॥

अथ प्रववृते युद्धं शक्तीनाममरद्रुहाम् ।
अन्योन्यवीरभाषाभिः प्रोत्साहितघनक्रुधाम् ॥ ३,२३.२२ ॥

अत्यन्तसंकुलतया न विज्ञातपरस्पराः ।
शक्तयो दानवश्चैव प्रजहुः शस्त्रपाणयः ॥ ३,२३.२३ ॥

अन्योन्यशस्त्रसंघट्टसमुत्थितहुताशने ।
प्रवृत्तविशिखस्रोतःप्रच्छन्नहरिदन्तरे ॥ ३,२३.२४ ॥

बहुरक्तनदीपूरह्रियमाणमतङ्गजे ।
मांसकर्दमनिर्मग्ननिष्पन्दरथमण्डले ॥ ३,२३.२५ ॥

विकीर्णकेशशैवालविलसद्रक्तनिर्झरे ।
अतिनिष्ठुरविध्वंसि सिंहनादभयङ्करे ॥ ३,२३.२६ ॥

रजोऽन्धकारतु मुले राक्षसीतृप्तिदायिनि ।
शस्त्रीशरणिविच्छिन्नदैत्यकण्ठोत्थितासृजि ॥ ३,२३.२७ ॥

प्रवृत्ते घोरसंग्रामे शक्तीनां च सुरद्विषाम् ।
अथस्वबलमादाय पञ्चभिः प्रेरिता सती ।
सर्पिणी बहुधा सर्पान्विससर्ज शरीरतः ॥ ३,२३.२८ ॥

तक्षकर्केटकसमा वासुकिप्रमुखत्विषः ।
नानाविधवपुर्वर्णा नानादृष्टिभयङ्कराः ॥ ३,२३.२९ ॥

नानाविधविषज्वालानिर्दग्धभुवनत्रयाः ।
दारदं वत्सनाभं च कालकूटमथापरम् ॥ ३,२३.३० ॥

सौराष्ट्रं च विषं घोरं ब्रह्मपुत्रमथापरम् ।
प्रतिपन्नं शौक्लिकेयमन्यान्यपि विषाणि च ॥ ३,२३.३१ ॥

व्यालैः स्वकीयवदनैर्विलोलरसनाद्वयैः ।
विकिरन्तः शक्तिसैन्ये विसम्रुः सर्पिणीतनोः ॥ ३,२३.३२ ॥

धूम्रवर्णा द्विवदना सर्पा अतिभयङ्कराः ।
सर्पिण्या नयनद्वन्द्वा दुत्थिताः क्रोधदीपिताः ॥ ३,२३.३३ ॥

पीतवर्णास्त्रिफणका दंष्ट्राभिर्विकटाननाः ।
सर्पिण्याः कर्णकुहरादुत्थिताः सर्पकोटयः ॥ ३,२३.३४ ॥

अग्रेपुच्छे च वदनं धारयन्तः फणान्वितम् ।
आस्यादा नीलवपुषः सर्पिण्याः फणिनोऽभवन् ॥ ३,२३.३५ ॥

अन्यैश्च बलवर्णाश्च चतुर्वक्त्राश्चतुष्पदाः ।
नासिकाविवरात्तस्या उद्गता उग्ररोचिषः ॥ ३,२३.३६ ॥

लंबमानमहाचर्मावृत्तस्थूलपयोधरात् ।
नाभिकुण्डाच्च बहवो रक्तवर्णा भयानकाः ॥ ३,२३.३७ ॥

हलाहलं वहन्तश्च प्रोत्थिताः पन्नगाधिपाः ।
विदशन्तः शक्तिसेनां दहन्तो विषवह्निभिः ॥ ३,२३.३८ ॥

बध्नन्तो भोगपाशैश्च निघ्नन्तः फणमण्डलैः ।
अत्यन्तमाकुलां चक्रुर्ललितेशीचमूममी ॥ ३,२३.३९ ॥

खण्ड्यमाना अपि मुहुः शक्तीनां शस्त्रकोटिभिः ॥ ३,२३.४० ॥

उपर्युपरि वर्धन्ते सपिण्डप्रविसर्पिणः ।
नश्यन्ति बहवः सर्पा जायन्ते चापरे पुनः ॥ ३,२३.४१ ॥

एकस्य नाशसमये बहवोऽन्ये समुत्थिताः ।
मूलभूता यतो दुष्टा सर्पिणी न विनश्यति ॥ ३,२३.४२ ॥

अतस्तत्कृतसर्पाणां नाशे सर्पान्तरोद्भवः ।
ततश्चशक्तिसैन्यानां शरीराणि विषानलैः ॥ ३,२३.४३ ॥

दह्यमानानि दुःखेन विप्लुतान्यभवन्रणे ।
किङ्कर्तव्यविमूढेषु शक्तिचक्रेषु भोगिभिः ॥ ३,२३.४४ ॥

पराक्रमं बहुविधं चक्रुस्ते पञ्च दानवाः ।
करीन्द्री गर्दभशतैर्युक्तं स्यन्दनमास्थितः ॥ ३,२३.४५ ॥

चक्रेण तीक्ष्णधारेण शक्तिसेनाममर्दयत् ।
वज्रदन्ताभिधश्चान्यो भण्डदैत्यचमूपतिः ॥ ३,२३.४६ ॥

वज्रबाणाभिघातेन होष्ट्रतो हि रणं व्यधात् ।
अथ वज्रमुखश्चैव चक्रिवन्तं महत्तरम् ॥ ३,२३.४७ ॥

आरुह्य कुन्तधाराभिः शक्तिचक्रममर्दयत् ।
वज्रदन्ताभिधानोऽन्यश्चमूनामधिपो बली ॥ ३,२३.४८ ॥

गृध्रयुग्मरथारूढः प्रजहार शिलीमुखैः ।
तैः सेनापतिभिर्दुष्टैः प्रोत्साहितमथाहवे ॥ ३,२३.४९ ॥

शतमक्षौहिणीनां च निपपातैकहेलया ।
सर्पिणी च दुराचारा बहुमायापरिग्रहा ॥ ३,२३.५० ॥

क्षणेक्षणे कोटिसंख्यान्विससर्ज फणाधरान् ।
तथा विकलितं सैन्यमवलोक्य रुषाकुला ॥ ३,२३.५१ ॥

नकुली गरुडारूढा सा पपात रणाजिरे ।
प्रतप्तकनकप्रख्या ललितातालुसम्भवा ॥ ३,२३.५२ ॥

समस्तवाङ्मयाकारा दन्तैर्वज्रमयैर्युता ।
सर्पिण्यभिमुखं तत्र विससर्ज निजं बलम् ॥ ३,२३.५३ ॥

तयाधिष्ठिततुङ्गांसः पक्षविक्षिप्तभूधरः ।
गरुडः प्राचलद्युद्धे सुमेरुरिव जङ्गमः ॥ ३,२३.५४ ॥

सर्पिणीमायया जातान्सर्पान्दृष्ट्वा भयानकान् ।
क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम् ॥ ३,२३.५५ ॥

अथ श्रीनकुलीदेव्या द्वात्रिंशद्दन्तकोटयः ।
द्वात्रिंशत्कोटयो जाता नकुलाः कनकप्रभाः ॥ ३,२३.५६ ॥

इतस्ततः खण्डयन्तः सर्पिणीसर्पमण्डलम् ।
निजदंष्ट्राविमर्देन नाशयन्तश्च तद्विषम् ।
व्यभ्रमन्समरे घोरे विषघ्नाः स्वर्णबभ्रवः ॥ ३,२३.५७ ॥

उत्कर्णाः क्रोध सम्पर्काद्धूनिताशेषलोमकाः ।
उत्फुल्ला नकुला व्यात्तवदना व्यदशन्नहीन् ॥ ३,२३.५८ ॥

एकैकमायासर्पस्य बभ्रुरेकैक उद्गतः ।
तीक्ष्णदन्तनिपातेन खण्डयामास विग्रहम् ॥ ३,२३.५९ ॥

भोगिभोगसृतै रक्तैः सृक्किणी शोणतां गते ।
लिहन्तो नकुला जिह्वापल्लवैः पुप्लुवुर्मृधे ॥ ३,२३.६० ॥

नकुलैर्दश्यमानानामत्यन्तचटुलं वपुः ।
मुहुः कुण्डलितैर्भोगैः पन्नगानां व्यचेष्टत ॥ ३,२३.६१ ॥

नकुलावलिदष्टानां नष्टासूनां फणाभृताम् ।
फणाभरसमुत्कीर्णा मणयो व्यरुचन्रणे ॥ ३,२३.६२ ॥

नकुलाघातसंशीर्णफणाचक्रैर्विनिर्गतैः ।
फणयस्तन्महाद्रोहवह्विज्वाला इवाबभुः ॥ ३,२३.६३ ॥

एवंप्रकारतो बभ्रुमण्डलैरवखण्डिते ।
मायामये सर्पजाले सर्पिणी कोपमादधे ॥ ३,२३.६४ ॥

तया सह महद्युद्धं कृत्वा सा नकुलेश्वरी ।
गारुडास्त्रमतिक्रूरं समाधत्त शिलीमुखे ॥ ३,२३.६५ ॥

तद्गारुडास्त्रमुद्दामज्वालादीपितदिङ्मुखम् ।
प्रविश्य सर्पिणीदेहं सर्पमायां व्यशोषयत् ॥ ३,२३.६६ ॥

मायाशक्तोर्विनाशेन सर्पिणी विलयं गता ।
क्रोधं च तद्विनाशेन प्राप्ताः पञ्च चमूवराः ॥ ३,२३.६७ ॥

यद्बलेन सुरान्सर्वान्सेनान्यस्तेऽवमेनिरे ।
सा सर्पिणी कथाशेषं नीता नकुलवीर्यतः ॥ ३,२३.६८ ॥

अतःस्वबलनाशेन भृशं क्रुद्धाश्चमूचराः ।
एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन् ॥ ३,२३.६९ ॥

एकैव सा तार्क्ष्यरथा पञ्चभिः पृतनेश्वरी ।
लघुहस्ततया युद्धे चक्रे वै शस्त्रवर्षिणी ॥ ३,२३.७० ॥

पट्टिशैर्मुसलैश्चैव भिन्दिपालैः सहस्रशः ।
वज्रसारमयैर्दन्तैर्व्यदशन्मर्म सीमसु ॥ ३,२३.७१ ॥

ततो हाहारुतं घोरं कुर्वाणा दैत्यकिङ्कराः ।
उदग्रदंशनकुलैर्नकुलैराकुलीकृताः ॥ ३,२३.७२ ॥

उत्पत्य गगनात्केचिद्घोरचीत्कार कारिणः ।
देशन्तस्तद्द्विषां सैन्य सकुलाः प्रज्वलक्रुधः ॥ ३,२३.७३ ॥

कर्णेषु दष्ट्वा नासायामन्ये दष्टाः शिरस्तटे ।
पृष्ठतो प्यदशन्केचिदा गत्य व्याकृतक्रियाः ॥ ३,२३.७४ ॥

विकलाश्छिन्नवर्माणो भयविस्रस्तशस्त्रिकाः ।
नकुलैरभिभूतास्ते न्यपतन्नमरद्रुहः ॥ ३,२३.७५ ॥

केचित्प्रविश्यनकुला व्यात्तान्यास्यानि वैरिणाम् ।
भोगिभोगानि वाकृष्य व्यदशन्रसनातलम् ॥ ३,२३.७६ ॥

अन्ये कर्णेषु नकुलाः प्राविशन्देववैरिणाम् ।
सूक्ष्मरूपा विशन्तिस्म नानारन्ध्राणि बभ्रवः ॥ ३,२३.७७ ॥

इति तैरभिभूतानि नकुलैरवलोकयन् ।
निजसैन्यानि दीनानि करङ्कः कोपमास्थितः ॥ ३,२३.७८ ॥

अन्येऽपि च चमूनाथा लघुहस्ता महाबलाः ॥ ३,२३.७९ ॥

प्रतिबभ्रु शरस्तोमान्ववृषुर्वारिदा इव ।
दैत्यसैन्यपतिप्रौढ कोदडोत्थाः शिलीमुखाः ।
बभ्रूणां दन्तकोटीषु कठोरघट्टनं व्यधुः ॥ ३,२३.८० ॥

चमूपतिशख्यूहैराहतेभ्यः परःशतैः ।
बभ्रूणां वज्रदतेभ्यो निश्चक्राम हुताशनः ।
पञ्चापि ते चमूनाथविसृष्टैरेकहेलया ॥ ३,२३.८१ ॥

स्फुरत्फलैः शरकुलैर्बभ्रुसेनां व्यमर्दयत् ।
इतस्ततश्चमूनाथविक्षिप्तशरकोटिभिः ।
विशीर्णगात्रा नकुला नकुलीं पर्यवारयन् ॥ ३,२३.८२ ॥

अथ सा नकुली वाणी वाङ्मयस्यैकनायिका ।
नकुलानां परावृत्त्या महान्तं रोषमाश्रिता ॥ ३,२३.८३ ॥

अक्षीणनकुलं नाम महास्त्रं सर्वतोमुखम् ।
वह्निज्वालापरीताग्रं संदधे शार्ङ्गधन्वनि ॥ ३,२३.८४ ॥

तदस्त्रतो विनिष्ठ्यूता नकुलाः कोटिसंख्याकाः ।
वज्राङ्गा वज्रलोमानो वज्रदंष्ट्रा महाजवा ॥ ३,२३.८५ ॥

वज्रसाराश्च निबिडा वज्रजाल भयङ्करा ।
वज्राकारैर्नशैस्तूर्ण दारयन्तो महीतलम् ॥ ३,२३.८६ ॥

वज्ररत्नप्रकाशेन लोचनेनापि शोभिताः ।
वज्रसंपातसदृशा नासाचीत्कार कारिणः ॥ ३,२३.८७ ॥

मर्दयन्ति सुरारातिसैन्यं दशनकोटिभिः ।
पराक्रमं बहुविधं तेनिरे ते निरेनसः ॥ ३,२३.८८ ॥

एवं नकुलकोटीभिर्वज्रघोरैर्महाबलैः ।
विनष्टाः प्रत्यवयवं विनेशुर्दानवाधमाः ॥ ३,२३.८९ ॥

एवं वज्रमयैर्बभुमण्डलैः शण्डिते बले ॥ ३,२३.९० ॥

शताक्षौहिणिके संख्ये ते स्वमात्रावशेषिताः ।
अतित्रासेन रोषेण गृहीताश्च चमूवराः ।
संग्राममधिकं तेनुः समाकृष्टशरासनाः ॥ ३,२३.९१ ॥

तैः समं बहुधा युद्धं तन्वाना नकुलेश्वरी ।
पट्टिशेन करङ्कस्य चिच्छेद कठिनं शिरः ॥ ३,२३.९२ ॥

काकवाशितसुख्यानां चतुर्णामपि वैरिणाम् ।
उत्पत्योत्पत्य तार्क्ष्येण व्यलुनादसिना शिरः ॥ ३,२३.९३ ॥

तादृशं लाघवं दृष्ट्वा नकुल्या श्यामलांबिका ॥ ३,२३.९४ ॥

बहु मेने महासत्त्वां दुष्टासुरविनाशिनीम् ।
निजाङ्गदेवतत्त्वं च तस्यै श्यामांबिका ददौ ॥ ३,२३.९५ ॥

लोकोत्तरे गुणे दृष्टे कस्य न प्रीतिसंभवः ।
हतशिष्टा भीतभीता नकुलीशरणं गताः ॥ ३,२३.९६ ॥

सापि तान्वीक्ष्य कृपया मा भैष्टेति विहस्य च ।
भवद्राज्ञे रणोदन्तमशेषं च निबोधत ॥ ३,२३.९७ ॥

तयैवं प्रेषिताः शीघ्रं तदालोक्य रणक्षितिम् ।
मुदितास्ते पुनर्भीत्या शून्यकायां पलायिताः ॥ ३,२३.९८ ॥

तदुदन्तं ततः श्रुत्वा भण्डश्चण्डो रुषाभवत् ॥ ३,२३.९९ ॥

इति ब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने करङ्कादिपञ्चसेनापतिवधो नाम त्रयोविंशोऽध्यायः