ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २७ ब्रह्माण्डपुराणम्
अध्यायः २८
[[लेखकः :|]]
उत्तरभागः, अध्यायः २९ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


रणेभग्नं महादैत्यं भण्डदैत्यः सहोदरम् ।
सेनानां कदनं श्रुत्वा सन्तप्तो बहुचिन्तया ॥ ३,२८.१ ॥

उभावपि समेतौ तौ युक्तौ सर्वैश्चसैनिकैः ।
प्रेषयामास युद्धाय भण्डदैत्यः सहोदरौ ॥ ३,२८.२ ॥

तावुभौ परमक्रुद्धौ भण्डदैत्येन देशितौ ।
विषङ्गश्च विशुक्रश्च महोद्यम मवापनुः ॥ ३,२८.३ ॥

कनिष्ठसहितं तत्र युवराजं महाबलम् ।
विशुक्रमनुवव्राज सेना त्रैलोक्यकम्पिनी ॥ ३,२८.४ ॥

अक्षौहिणीचतुःशत्या सेनानामावृतश्च सः ।
युवराजः प्रववृधे प्रतापेन महीयसा ॥ ३,२८.५ ॥

उलूकजित्प्रभृतयो भागिनेया दशोद्धताः ।
भण्डस्य च भगिन्यान्तु धूमिन्यां जातयोनयः ॥ ३,२८.६ ॥

कृतास्त्रशिक्षा भण्डेन मातुलेन महीयसा ।
विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे ॥ ३,२८.७ ॥

प्रोद्गतैश्चापनिर्घोषैर्घोषयन्तो दिशो दश ।
द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे ॥ ३,२८.८ ॥

आरूढयानाः प्रत्येकगाढाहङ्कारशालिनः ।
आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः ॥ ३,२८.९ ॥

यौवराज्यप्रभाचिह्नच्छत्रचामरशोभितः ।
आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम् ॥ ३,२८.१० ॥

ततः कलकलारावकारिण्या सेनया वृतः ।
विशुक्रः पटु दध्वान सिंहनादं भयङ्करम् ॥ ३,२८.११ ॥

तत्क्षोभात्क्षुभितस्वान्ताः शक्तयः संभ्रमोद्धताः ।
अग्निप्राकारवलयान्निर्जगमुर्बद्धपङ्कयः ॥ ३,२८.१२ ॥

तडिन्मयमिवाकाशं कुर्वन्त्यः स्वस्वरोचिषा ।
रक्ताम्वुजावृतमिव व्योमचक्रं रणोन्मुखाः ॥ ३,२८.१३ ॥

अथ भण्डकनीयांसावागतौ युद्धदुर्मदौ ।
निशम्य युगपद्योद्धं मन्त्रिणीदण्डनायके ॥ ३,२८.१४ ॥

किरिचकं ज्ञेयचक्रमारूढे रथशेखरम् ।
धृतातपत्रवलये चामराभ्यां च वीजिते ॥ ३,२८.१५ ॥

अप्सरोभिः प्रनृत्ताभिर्गीयमानमहोदये ।
निर्जगमतू रणं कर्तुमुभाभ्यां ललिताज्ञया ॥ ३,२८.१६ ॥

श्रीचक्ररथराजस्य रक्षणार्थं निवेशिते ।
शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम् ॥ ३,२८.१७ ॥

अन्यत्सर्वं चमुजालं निर्जगाम रणोन्मुखी ।
पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी ॥ ३,२८.१८ ॥

एकयैव कराङ्गुल्या घूर्णयन्ती हलायुधम् ।
मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः ॥ ३,२८.१९ ॥

तरलेन्दुकलाचूडास्फुरत्पोत्रमुखाम्बुजा ।
पुरः प्रहर्त्री समरे सर्वदा विक्रमोद्धता ।
अस्या अनुप्रचलिता गेयचक्ररथस्थिता ॥ ३,२८.२० ॥

धनुषो ध्वनिना विश्वं पूरयन्ती महोद्धता ।
वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा ॥ ३,२८.२१ ॥

स्फुरत्त्रितयनेत्रेण सिन्दूरतिलकत्विषा ।
पाणिना पद्मरम्येण मणिकङ्कणचारुणा ॥ ३,२८.२२ ॥

तूणीरमुखतः कृष्टं भ्रामयन्ती शिलीमुखम् ।
जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले ॥ ३,२८.२३ ॥

नृत्यद्भिर्दिव्यमुनिभिर्वर्द्धिताशीर्वचोऽमृतैः ।
गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः ॥ ३,२८.२४ ॥

दारयन्ती क्षितितलं दैत्यानां हृदयैः सह ।
लोकातिशायिता विश्वमनोमोहनकारिणा ।
गीतिबन्धेनामरीभिर्बह्वीभिर्गीतवैभवा ॥ ३,२८.२५ ॥

अक्षौहिणीसहस्राणामष्टकं समरोद्धतम् ।
कर्षती कल्पविश्लेषनिर्मर्यादाब्धिसंनिभम् ॥ ३,२८.२६ ॥

तस्याः शक्तिचमूचक्रे काश्चित्कनकरोचिषः ।
काश्चिद्दाडिमसंकाशाः काश्चिज्जीमूतरोचिषः ॥ ३,२८.२७ ॥

अन्याः सिंदूररुचयः पराः पाटलपाटलाः ।
काचाद्रिकाम्बराः काश्चित्पराः श्यामलकोमलाः ॥ ३,२८.२८ ॥

अन्यास्तु हीरकप्रख्याः परा गारुत्मतोपमाः ।
विरुद्धैः पञ्चभिर्बाणैर्मिश्रितैः शतकोटिभिः ॥ ३,२८.२९ ॥

व्यञ्जयन्त्यो देहरुचं कतिचिद्विविधायुधाः ।
असंख्याः शक्तयश्चेलुर्दण्डिन्यास्सैनिके तथा ॥ ३,२८.३० ॥

तथैव सैन्यसन्नाहो मन्त्रिण्याः कुम्भसम्भव ।
यथा भूषणवेषादि यथा प्रभावलक्षणम् ॥ ३,२८.३१ ॥

यथा सद्गुणशालित्वं यथा चाश्रितलक्षणम् ।
यथा दैत्यौघसंहारो यथा सर्वैश्च पूजिता ॥ ३,२८.३२ ॥

यथा शक्तिर्महाराज्ञ्या देडिन्यश्च तथाखिलम् ।
विशेषस्तु परं तस्याः साचिव्ये तत्करे स्थितम् ।
महाराज्ञीवितीर्णं तदाज्ञामुद्राङ्गुलीयकम् ॥ ३,२८.३३ ॥

इत्थं प्रचलिते सैन्ये मन्त्रिणीदण्डनाथयोः ।
तद्भारभङ्गुरा भूमिर्देलालीलामलंबत ॥ ३,२८.३४ ॥

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
उद्धूतधूलिजंबालीभूतसप्तार्णवीजलम् ॥ ३,२८.३५ ॥

हयस्थैर्हयसादिन्यो रथस्थै रथसंस्थिताः ।
आधोरणैर्हस्तिपकाः खड्गैः पद्गाश्च सङ्गताः ॥ ३,२८.३६ ॥

दण्डनाथाविषङ्गेण समयुध्यन्त सङ्गरे ।
विशुक्रेण समं श्यामा विकृष्टमणिकार्मुका ॥ ३,२८.३७ ॥

अश्वरूढा चकारोच्चैः सहोलूकजिता रणम् ।
सम्पदीशाच जग्राह पुरुषेण युयुत्सया ॥ ३,२८.३८ ॥

विषेण नकुली देवी समाह्वास्त युयुत्सया ।
कुन्तिषेणेन समरं महामाया तदाकरोत् ॥ ३,२८.३९ ॥

मलदेन समं चक्रे युद्धमुन्मत्तभैरवी ।
लघुश्यामा चकारोच्चैः कुशूरेण समं रणम् ॥ ३,२८.४० ॥

स्वप्नेशी मङ्गलाख्येन दैत्येन्द्रेण रणंव्यधात् ।
वाग्वादिनी तु जघटे द्रुघणेन समं रणे ॥ ३,२८.४१ ॥

कोलाटेन च दुष्टेन चण्डकाल्यकरोद्रणम् ।
अक्षौहिणीभिर्दैत्यानां शताक्षौहिणिकास्तथा ।
महान्तं समरे चक्रुरन्योन्यं क्रोधमूर्छिताः ॥ ३,२८.४२ ॥

प्रवर्तमाने समरे विशुक्रो दुष्टदानवः ।
वर्धमानां शक्तिचमूं हीयमानां निजां चमूम् ॥ ३,२८.४३ ॥

अवलोक्य रुषाविष्टः स कृष्टगुरुकार्मुकः ।
शक्तिसैन्ये समस्तेऽपि तृषास्त्रं प्रमुमोच ह ॥ ३,२८.४४ ॥

तेन दावानलज्वालादीप्तेन मथितं बलम् ।
तृतीये युद्धदिवसे याममात्रं गते रवौ ।
विशुक्रमुक्ततर्षास्त्रव्याकुलाः शक्तयोऽवन् ॥ ३,२८.४५ ॥

क्षोभयन्निन्द्रियग्रामं तालुमूलं विशोषयन् ।
रूक्षयन्कर्णकुहरमङ्गदौर्वल्यमाहवन् ॥ ३,२८.४६ ॥

पातयन्पृथिवीपृष्ठे देहं विस्रंसितायुधम् ।
आविर्बभूव शक्तीनामतितीव्रस्तृषाज्वरः ॥ ३,२८.४७ ॥

युद्धेष्वनुद्यमकृता सर्वोत्साहविरोधिना ।
तर्षेण तेन क्वथितं शक्तिसैन्यं विलोक्यसा ।
मन्त्रिणी सह पोत्रिण्या भृशं चिन्तामवाप ह ॥ ३,२८.४८ ॥

उवाच तां दण्डनाथामत्याहितविशङ्किनीम् ।
रथस्थिता रथगता तत्प्रती कारकर्मणे ।
सखि पोत्रिणि दुष्टस्य तर्षास्त्रमिदमागतम् ॥ ३,२८.४९ ॥

शिथिलीकुरुते सैन्यमस्माकं हा विधेः क्रमः ।
विशुष्कतालुमूलानां विभ्रष्टायुधतेजसाम् ।
शक्तीनां मण्डलेनात्र समरे समुपेक्षितम् ॥ ३,२८.५० ॥

न कापि कुरुते युद्धं न धारयति चायुधम् ।
विशुष्कतालुमूलत्वा द्वक्तुमप्यालि न क्षमाः ॥ ३,२८.५१ ॥

ईदृशीन्नो गतिं श्रुत्वा किं वक्ष्यति महेश्वरी ।
कृता चापकृतिर्दैत्यैरुपायः प्रविचिन्त्यताम् ॥ ३,२८.५२ ॥

सर्वत्र द्व्यष्टसाहस्राक्षौहिण्यमत्र पोत्रिणि ।
एकापि शक्तिर्नैवास्ति या तर्षेण न पीडिता ॥ ३,२८.५३ ॥

अत्रैवावसरे दृष्ट्वा मुक्तशस्त्रां पताकिनीम् ।
रन्ध्रप्रहारिणो हन्त बाणैर्निघ्नन्ति दानवाः ॥ ३,२८.५४ ॥

अत्रोपायस्त्वया कार्यो मया च समरोद्यमे ।
त्वदीयरथपर्वस्थो योऽस्ति शीतमहार्णवः ॥ ३,२८.५५ ॥

तमादिश समस्तानां शक्तीनां तर्षनुत्तये ।
नाल्पैः पानीयपानाद्यैरेतासां तर्षसंक्षयः ॥ ३,२८.५६ ॥

स एव मदिरासिंधुः शक्त्यौघं तर्पयिष्यति ।
तमादिश महात्मानं समरोत्साहकारिणम् ।
सर्वतर्षप्रशमनं महाबलविवर्धनम् ॥ ३,२८.५७ ॥

इत्युक्ते दण्डनाथा सा सदुपायेन हर्षिता ।
आजुहाव सुधासिंधुमाज्ञां चक्रेश्वरी रणे ॥ ३,२८.५८ ॥

स मदालसरक्ताक्षो हेमाभः स्रग्विभूषितः ॥ ३,२८.५९ ॥

प्रणम्य दण्डनाथां तां तदाज्ञापरिपारकः ॥ ३,२८.६० ॥

आत्मानं बहुधा कृत्वा तरुणादित्यपाटलम् ।
क्वचित्तापिच्छवच्छ्यामं क्वचिच्च धवलद्युतिम् ॥ ३,२८.६१ ॥

कोटिशो मधुराधारा करिहस्तसमाकृतीः ।
ववर्ष सिंधुराजोऽयं वायुना बहुलीकृतः ॥ ३,२८.६२ ॥

पुष्कलावर्तकाद्यैस्तु कलपक्षयबलाहकैः ।
निषिच्यमानो मध्येऽब्धिः शक्तिसैन्ये पपात ह ॥ ३,२८.६३ ॥

यद्गन्धाघ्राममात्रेण मृत उत्तिष्ठते स्फुटम् ।
दुर्बलः प्रबलश्च स्यात्तद्ववर्ष सुरांबुधिः ॥ ३,२८.६४ ॥

परार्द्धसंख्यातीतास्ता मधुधारापरंपराः ।
प्रपिबन्त्यः पिपासार्तैर्मुखैः शक्तय उत्थिताः ॥ ३,२८.६५ ॥

यथा सा मदिरासिंधुवृष्टिर्दैत्येषु नो पतेत् ।
तथा सैन्यस्य परितो महाप्राकारमण्डलम् ॥ ३,२८.६६ ॥

लघुहस्ततया मुक्तैः शरजातैः सहस्रशः ।
चकार विस्मयकरी कदंबवनवासिनी ॥ ३,२८.६७ ॥

कर्मणा तेन सर्वेऽपि विस्मिता मरुतोऽभवन् ।
अथ ताः शक्तयो भूरि पिबन्ति स्म रणान्तरे ॥ ३,२८.६८ ॥

विविधा मदिराधारा बलोत्साहविवर्धनीः ।
यस्या यस्या मनःप्रीती रुचिः स्वादो यथायथा ॥ ३,२८.६९ ॥

तृतीये युद्धदिवसे प्रहरद्वितयावधि ।
संततं मध्यधाराभिः प्रववर्ष सुरांबुधिः ॥ ३,२८.७० ॥

गौडी पैष्टी च माध्वी च वरा कादंबरी तथा ।
हैताली लाङ्गलेया च तालजातास्तथा सुराः ॥ ३,२८.७१ ॥

कल्पवृक्षोद्भवा दिव्या नानादेशसमुद्भवाः ।
सुस्वादुसौरभाद्याश्च शुभगन्धसुखप्रदाः ॥ ३,२८.७२ ॥

बकुलप्रसवामोदा ध्वनन्त्यो बुद्बुदोज्ज्वलाः ।
कटुकाश्च कषायाश्च मधुरास्तिक्ततास्पृशः ॥ ३,२८.७३ ॥

बहुवर्मसमाविष्टाश्छेदिनीः पिच्छलास्तथा ।
ईषदम्लाश्च कट्वम्ला मधुराम्लास्तथा पराः ॥ ३,२८.७४ ॥

शस्त्रक्षतरुगाहन्त्री चास्थिसंधानदायिनी ।
रणभ्रमहरा शीता लघ्व्यस्तद्वत्कवोष्ठकाः ॥ ३,२८.७५ ॥

संतापहारिणीश्चैव वारुणीस्ता जयप्रदाः ।
नानाविधाः सुराधारा ववर्ष मदिरार्णवः ॥ ३,२८.७६ ॥

अविच्छिन्नं याममात्रमेकैका तत्र योगिनी ।
ऐरावतकर प्रख्यां सुराधारां मुदा पपौ ॥ ३,२८.७७ ॥

उत्तानं वदनं कृत्वा विलोलरसनाश्चलम् ।
शक्तयः प्रपपुः सीधु मुदा मीलितलोचनाः ॥ ३,२८.७८ ॥

इत्थं बहुविधं माध्वीधारापातैः सुधांबुधिः ।
आगतस्तर्पयित्वा तु दिव्यरूपं समास्थितः ॥ ३,२८.७९ ॥

पुनर्गत्वा दण्डनाथां प्रणम्य स सुरांबुधिः ।
स्निग्धगंभीरघोषेण वाक्यं चेदमुवाच ताम् ॥ ३,२८.८० ॥

देवि पश्य महाराज्ञि दण्डमण्डलनायिके ।
मया संतर्पिता मुग्धरूपा शक्तिवरूथिनी ॥ ३,२८.८१ ॥

काश्चिन्नृत्यन्ति गायन्त्यो कलक्वणितमेखलाः ।
नृत्यन्तीनां पुरः काश्चित्करतालं वितन्वते ॥ ३,२८.८२ ॥

काश्चिद्धसंति व्यावल्गद्वल्गुवक्षोजमण्डलाः ।
पतन्त्यन्योन्यमङ्गेषु काश्चिदानन्दमन्थराः ॥ ३,२८.८३ ॥

काश्चिद्वल्गन्ति च श्रोणिविगलन्मेखलांबराः ।
काश्चिदुत्थाय संनद्धा घूर्णयन्ति निरायुधाः ॥ ३,२८.८४ ॥

इत्थं निर्दिश्यमानास्ताः शक्ती मैरेय सिंधुनां ।
अवलोक्य भृशं तुष्टा दण्डिनी तमुवाच ह ॥ ३,२८.८५ ॥

परितुष्टास्मि मद्याब्धे त्वया साह्यमनुष्ठितम् ।
देवकार्यमिद किञ्च निर्विघ्नितमिदं कृतम् ॥ ३,२८.८६ ॥

अतः परं मत्प्रसादाद्द्वापरे याज्ञिकैर्मखे ।
सोमपानवदत्यन्तमुपयोज्यो भविष्यसि ॥ ३,२८.८७ ॥

मन्त्रेण पूतं त्वां यागे पास्यन्त्यखिलदेवताः ।
यागेषु मन्त्रपूतेन पीतेन भवता जनाः ॥ ३,२८.८८ ॥

सिद्धिमृद्धिं बलं स्वर्गमपवर्गं च बिभ्रतु ।
महेश्वरी महादेवो बलदेवश्च भार्गवः ।
दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः ॥ ३,२८.८९ ॥

यागे समर्चितस्त्वं तु सर्वसिद्धिं प्रदास्यसि ॥ ३,२८.९० ॥

इत्थं वरप्रदानेन तोषयित्वा सुरांबुधिम् ॥ ३,२८.९१ ॥

मन्त्रिणीं त्वरयामास पुनर्युद्धाय दण्डिनी ।
पुनः प्रववृते युद्धं शक्तीनां दानवैः सह ॥ ३,२८.९२ ॥

मुदाट्टहासनिर्भिन्नदिगष्टकधरा धरम् ।
प्रत्यग्रमदिरामत्ताः पाटलीकृतलोचनाः ।
शक्तयो दैत्यचक्रेषु न्यपतन्नेकहेलया ॥ ३,२८.९३ ॥

द्वयेन द्वयमारेजे शक्तीनां समदश्रियाम् ।
मदरागेण चक्षूंषि दैत्यरक्तेन शस्त्रिका ॥ ३,२८.९४ ॥

तथा बभूव तुमुलं युद्धं शक्तिसुरद्विषाम् ।
यथा मृत्युरवित्रस्तः प्रजाः संहरते स्वयम् ॥ ३,२८.९५ ॥

संस्खलत्पदविन्यासा मदेनारक्तदृष्टयः ।
स्खलदक्षरसंदर्भवीरभाषा रणोद्धताः ॥ ३,२८.९६ ॥

कदंबगोलकाकारा दृष्टसर्वाङ्गदृष्टयः ।
युवराजस्य सैन्यानि शक्त्यः समानाशयन् ॥ ३,२८.९७ ॥

अक्षौहिणीशतं तत्र दण्डिनी सा व्यदारयत् ।
अक्षौहिणीसार्द्धशत नाशयामास मन्त्रिणी ॥ ३,२८.९८ ॥

अश्वारूढाप्रभृतयो मदारुणविलोचनाः ।
अक्षौहिणीसार्धशतं नित्युरन्तकमन्दिरम् ॥ ३,२८.९९ ॥

अङ्कुशेनातितीक्ष्णेन तुरगा रोहिणी रणे ।
उलूकजितमुन्मथ्य परलोकातिथिं व्यधात् ॥ ३,२८.१०० ॥

सम्पत्करीप्रभृतयः शक्तिदण्डाधिनायिकाः ।
परुषेण मुखान्यन्यान्यवरुद्धाव्यदारयन् ॥ ३,२८.१०१ ॥

अस्तं गते सवितरि ध्वस्तसर्वबलं ततः ।
विशुक्रं योधयामास श्यामला कोपशालिनी ॥ ३,२८.१०२ ॥

अस्त्रप्रत्य स्त्रमोक्षेण भीषणेन दिवौकसाम् ।
महता रणकृत्येन योधयामास मन्त्रिणी ॥ ३,२८.१०३ ॥

आयुधानि सुतीक्ष्णानि विशुक्रस्य महौजसः ।
क्रमशः खण्डयन्ती सा केतनं रथसारथिम् ॥ ३,२८.१०४ ॥

धनुर्गुणं धनुर्दण्डं खण्डयन्ती शिलीमुखैः ।
अस्त्रेण ब्रह्मशिरसा ज्वलत्पावकरोचिषा ॥ ३,२८.१०५ ॥

विशुक्रं मर्दयामास सोऽपतच्छूर्णविग्रहः ।
विषङ्गं च महादैत्यं दण्डनाथा मदोद्धता ॥ ३,२८.१०६ ॥

योधयामास चण्डन मुसलेन विनिघ्नती ।
सचापि दुष्टो दनुजः कालदण्डनिभां गदाम् ।
उद्यम्य बाहुना युद्धं चकाराशेषभीषणम् ॥ ३,२८.१०७ ॥

अन्योन्यमङ्गं मृद्नन्तौ गदायुद्धप्रवर्तिनौ ।
चण्डाट्टहासमुखरौ परिभ्रमणकारिणौ ॥ ३,२८.१०८ ॥

कुर्वाणौ विविधांश्चारान्घूर्णन्तौ तूर्मवेष्टिनौ ।
अन्योन्यदण्डहननैर्मोहयन्तौ मुहुर्मुहुः ॥ ३,२८.१०९ ॥

अन्योन्यप्रहृतौ रन्ध्रमीक्षमाणौ महोद्धतौ ।
महामुसलदण्डाग्रघट्टनक्षोभितांबरौ ।
अयुध्येतां दुराधर्षौं दण्डिनीदैत्यशेखरौ ॥ ३,२८.११० ॥

अथार्द्धरात्रिसमयपर्यन्तं कृतसंगरा ।
संक्रुद्धा हन्तुमारेभे विषङ्गं दण्डनायिका ॥ ३,२८.१११ ॥

तं मूर्धनि निमग्नेन हलेनाकृष्य वैरिणम् ।
कठोरं ताडनं चक्रे मुसलेनाथ पोत्रिणी ॥ ३,२८.११२ ॥

ततो मुसलघातेन त्यक्तप्राणो महासुरः ।
चूर्णितेन शताङ्गेन समं भूतलमाश्रयत् ॥ ३,२८.११३ ॥

इति कृत्वा महत्कर्म मन्त्रिणीदण्डनायिके ।
तत्रैव तं निशा शेषं निन्यतुः शिबिरं प्रति ॥ ३,२८.११४ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपख्याने विशुक्रविषङ्गवधो नामाष्टाविंशोऽध्यायः