ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २३ ब्रह्माण्डपुराणम्
अध्यायः २४
[[लेखकः :|]]
उत्तरभागः, अध्यायः २५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


हतेषु तेषु रोषान्धो निश्वसञ्छून्यकेश्वरः ।
कुजलाशमिति प्रोचे युयुत्साव्याकुलाशयः ॥ ३,२४.१ ॥

भद्र सेनापतेऽस्माकमभद्रं समुपागतम् ।
करङ्काद्यश्चमूनाथाः कन्दलद्भुजविक्रमाः ॥ ३,२४.२ ॥

सर्पिणीमायया सर्वगीर्वाणमदभञ्जनाः ।
पापीयस्या तया गूढमायया विनिपातिताः ॥ ३,२४.३ ॥

बलाहकप्रभृतयः सप्त ये सैनिकाधिपाः ।
तानुदग्रभुजासत्त्वान्प्राहिणु प्रधनं प्रति ॥ ३,२४.४ ॥

त्रिशतं चाक्षौहिणीनां प्रस्थापय सहैव तैः ।
ते मर्दयित्वा ललितासैन्यं मायापरायणाः ॥ ३,२४.५ ॥

अये विजयमाहार्य संप्राप्स्यन्ति ममान्तिकम् ।
कीकसगर्भसंजातास्ते प्रचण्डपराक्रमाः ॥ ३,२४.६ ॥

बलाहकमुखाः सप्त भ्रातरो जयिनः सदा ।
तेषामवश्यं विजयो भविष्यति रणाङ्गणे ॥ ३,२४.७ ॥

इति भण्डासुरेणोक्तः कुटिलाक्षः समाह्वयत् ।
बलाहकमुखान्सप्त सेनानाथान्मदोत्कटान् ॥ ३,२४.८ ॥

बलाहकः प्रथमतस्तस्मा त्सूचीमुखोऽपरः ।
अन्यः फालमुखश्चैव विकर्णो विकटाननः ॥ ३,२४.९ ॥

करालायुः करटकः सप्तैते वीर्यशालिनः ।
भण्डासुरं नमस्कृत्य युद्धकौतूहलोल्वणाः ॥ ३,२४.१० ॥

कीकसासूनवः सर्वे भ्रातरोऽन्योन्यमावृताः ।
अन्योन्यसुसहायाश्च निर्जगमुर्नगरान्तरात् ॥ ३,२४.११ ॥

त्रिशाताक्षौहिणीसेनासेनान्योऽन्वगमंस्तदा ।
उल्लिखन्ति केतुजालैरंबरे घनमण्डलम् ॥ ३,२४.१२ ॥

घोरसंग्रामिणीपादा घातैर्मर्दितभूतला ।
पिबन्ति धूलिकाजालैरशेषानपि सागरान् ॥ ३,२४.१३ ॥

भेरीनिः साणतंपोट्टपणवानकनिस्वनैः ।
नभोगुणमयं विश्वमादधानाः पदेपदे ॥ ३,२४.१४ ॥

त्रिशताक्षौहिणीसेनां तां गृहीत्वा मदेद्धताः ।
प्रवेष्टुमिव विश्वस्मिन्कैकसेयाः प्रतस्थिरे ॥ ३,२४.१५ ॥

धृतरोषारुणाः सूर्यमण्डलो द्दीप्तकङ्कटाः ।
उद्दीप्तशस्त्रभरणाश्चेलुर्द्दीप्तोर्ध्वकेशिनः ॥ ३,२४.१६ ॥

सप्त लोकान्प्रमथितुं प्रोषिताः पूर्वमुद्धताः ।
भण्डासुरेण महता जगद्विजयकारिणा ॥ ३,२४.१७ ॥

सप्तलोकविमर्देन तेन दृष्ट्वा महाबलाः ।
प्रोषिता ललितासैन्यं जेतुकामेन दुर्धिया ॥ ३,२४.१८ ॥

ते पतन्तो रणतलमुच्चलच्छत्रपाणयः ।
शक्तिसेनामभिमुखं सक्रोधमभिदुद्रुवुः ॥ ३,२४.१९ ॥

मुहुः किलकिलाराबैर्घोषयन्तो दिशो दश ।
देव्यास्तु सैनिकं यत्र तत्र ते जगमुरुद्धताः ॥ ३,२४.२० ॥

सैन्यं च ललितादेव्याः सन्नद्धं शास्त्रभीषणम् ।
अभ्यमित्रीणमभवद्बद्धभ्रुकुटिनिष्ठुरम् ॥ ३,२४.२१ ॥

पाशिन्यो मुसलिन्यश्च चक्रिण्यश्चापरा मुने ।
मुद्गरिण्यः पट्टिशिन्यः कोदण्डिन्यस्तथापराः ॥ ३,२४.२२ ॥

अनेकाःशक्तयस्तीव्रा ललितासैन्यसंगताः ।
पिबन्त्य इव दैत्याब्धिं सान्निपेतुः सहस्रशः ॥ ३,२४.२३ ॥

आयातायात हे दुष्टाः पापिन्यो वनिताधमाः ।
मायापरिग्रहैर्दूरं मोहयन्त्यो जडाशयान् ॥ ३,२४.२४ ॥

नेष्यामो भवतीरद्य प्रेतनाथनिकेतनम् ।
श्वसद्भुजगसंकाशैर्बाणैर त्यन्तभीषणैः ।
इति शक्तीर्भर्त्सयन्तो दानवाश्चक्रुराहवम् ॥ ३,२४.२५ ॥

काचिच्चिच्छेद दैत्येन्द्रं कण्ठे पट्टिशपातनात् ।
तद्गलोद्गलितो रक्तपूर ऊर्ध्वमुखोऽभवत् ॥ ३,२४.२६ ॥

तत्र लग्ना बहुतरा गृध्रा मण्डलतां गताः ।
तैरेव प्रेतनाथस्य च्छत्रच्छविरुदञ्चिता ॥ ३,२४.२७ ॥

काचिच्छक्तिः मुरारातिं मुक्तशक्त्यायुधं रणे ।
लूनतच्छक्तिनैकेन बाणेन व्यलुनीत च ॥ ३,२४.२८ ॥

एका तु गजमारूढा कस्यचिद्दैत्यदुर्मतेः ।
उरःस्थले स्वकरिणा वप्राघातमशिक्षयत् ॥ ३,२४.२९ ॥

काचित्प्रतिभटारूढं दन्तिनं कुंभसीमनि ।
खड्गेन सहसा हत्वा गजस्य स्वप्रियं व्यधात् ॥ ३,२४.३० ॥

करमुक्तेन चक्रेण कस्यचिद्देववैरिणः ।
धनुर्दण्डं द्विधा कृत्वा स्वभ्रुवोः प्रतिमां तनेत् ॥ ३,२४.३१ ॥

शक्तिरन्या शरैः शातैः शातयित्वा विरोधिनः ।
कृपाणपद्मा रोमाल्यां स्वकीयायां मुदं व्यधात् ॥ ३,२४.३२ ॥

काचिन्मुद्गरपातेन चूर्णयित्वा विरोधिनः ।
रथ्यक्रनितंबस्य स्वस्य तेनातनोन्मुदम् ॥ ३,२४.३३ ॥

रथकूबरमुग्रेण कस्यचिद्दानवप्रभोः ।
खड्गेन छिन्दती स्वस्य प्रियमुव्यास्ततान ह ॥ ३,२४.३४ ॥

अभ्यन्तरं शक्तिसेना दैत्यानां प्रविवेश ह ।
प्रविवेश च दैत्यानां सेना शक्तिबलान्तरम् ॥ ३,२४.३५ ॥

नीरक्षीरवदत्यन्ताश्लेषं शक्तिसुरद्विषाम् ।
संकुलाकारतां प्राप्तो युद्धकालेऽभवत्तदा ॥ ३,२४.३६ ॥

शक्तीनां खड्गपातेन लूनशुण्डारदद्वयाः ।
दैत्यानां करिणो मत्ता महाक्रोडा इवाभवन् ॥ ३,२४.३७ ॥

एवं प्रवृत्ते समरे वीराणां च भयङ्करे ।
अशक्ये स्मर्तुमप्यन्तं कातरत्ववतां नृणाम् ।
भीषणानां भीषणे च शस्त्रव्यापारदुर्गमे ॥ ३,२४.३८ ॥

बलाहको महागृध्रं वज्रतीक्ष्णमुखादिकम् ।
कालदण्डोपमं जङ्घाकाण्डे चण्डपराक्रमम् ॥ ३,२४.३९ ॥

संहारगुप्तनामानं पूर्वमग्रे समुत्थितम् ।
धूमवद्धूसराकारं पक्षक्षेपभयङ्करम् ॥ ३,२४.४० ॥

आरुह्य विविधंयुद्धं कृतवान्युद्धदुर्मदः ।
पक्षौ वितत्य क्रोशार्धं स स्थितो भीमनिःस्वनैः ।
अङ्गारकुण्डवच्चञ्चुं विदार्याभक्षयच्चमूम् ॥ ३,२४.४१ ॥

संहारगुप्तं स महागृध्रः क्रूरविलोचनः ।
बलाहकमुवाहोच्चैराकृष्टधनुषं रणे ॥ ३,२४.४२ ॥

बलाहको वपुर्धुन्वन्गृध्रपृष्ठकृतस्थितिः ।
सपक्षकूटशैलस्थो बलाहक इवाभवत् ॥ ३,२४.४३ ॥

सूचीमुखश्च दैत्येन्द्रः सूचीनिष्ठुरपक्षतिम् ।
काकवाहनमारुह्य कठिनं समरं व्यधात् ॥ ३,२४.४४ ॥

मत्तः पर्वतशृङ्गाभश्चञ्चूदण्डं समुद्वहन् ।
कालदण्डप्रमाणेन जङ्घाकाण्डेन भीषणः ॥ ३,२४.४५ ॥

पुष्कलावर्तकसमा जंबालसदृशद्यतिः ।
क्रोशमात्रायतौ पक्षावुभावपि समुद्वहन् ॥ ३,२४.४६ ॥

सूचीमुखाधिष्ठितोऽसौ करटः कटुवासितः ।
मर्दयञ्चञ्चुघातेन शक्तीनां मण्डलं महत् ॥ ३,२४.४७ ॥

अथो फलमुखः फालं गृहीत्वा निजमायुधम् ।
कङ्कमारुह्य समरे चकाशे गिरिसन्निभम् ॥ ३,२४.४८ ॥

विकर्णाख्यश्च दैत्येन्द्रश्चमूभर्ता महाबलः ।
भेरुण्डपतनारूढः प्रचण्डयुद्धमातनोत् ॥ ३,२४.४९ ॥

विकटानननामानं विलसत्पट्टिशायुधम् ।
उवाह समरे चण्डः कुक्कुटोऽतिभयङ्करः ॥ ३,२४.५० ॥

गर्जन्कण्ठस्थरोमाणि हर्षयञ्ज्वलदीक्षणः ।
पश्यन्पुरः शक्तिसैन्यं चचाल चरणायुधः ॥ ३,२४.५१ ॥

करालाक्षश्च भूभर्ता षष्ठोऽत्यन्तगरिष्ठदः ।
वज्रनिष्ठुरघोषश्च प्राचलत्प्रेतवाहनः ॥ ३,२४.५२ ॥

श्मशानमन्त्रशूरेणतेन संसाधितः पुरा ।
प्रेतो भूतसमाविष्टस्तमुवाह रणाजिरे ॥ ३,२४.५३ ॥

अवाङ्मुखो दीर्घबाहुः प्रसारितपदद्वयः ।
प्रोतो वाहनतां प्राप्तःकरालाक्षमथावहत् ॥ ३,२४.५४ ॥

अन्यः करटको नाम दैत्यसेनाशिखामणिः ।
सर्दयामास शक्तीनां सैन्यं वेतालवाहनः ॥ ३,२४.५५ ॥

योजनायतमूर्तिः सन्वेतालः क्रूरलोचनः ।
श्मशानभूमौ वेतालो मन्त्रेणानेन साधितः ॥ ३,२४.५६ ॥

मर्दयामास पृतनां शक्तीनां तेन देशितः ।
तस्य वेतालवर्यस्य वर्तमानोंससीमनि ।
बहुधायुध्यत तदा शक्तिभिः सह दानवः ॥ ३,२४.५७ ॥

एवमेते खलात्मानः सप्त सप्तार्णवोपमाः ।
शक्तीनां सैनिकं तत्र व्याकुलीचक्रुरुद्धताः ॥ ३,२४.५८ ॥

ते सप्त पूर्वं तपसा सवितारमतोषयन् ।
तेन दत्तो वरस्तेषां तपस्तुष्टेन भास्वता ॥ ३,२४.५९ ॥

कैकसेया महाभागा भवतां तपसाधुना ।
परितुष्टोऽस्मि भद्रं वो भवन्तो वृणतां वरम् ॥ ३,२४.६० ॥

इत्युक्ते दिननाथेन कैकसेयास्तपः कृशाः ।
प्रार्थयामासुरत्यर्थं दुर्दान्तं वरमीदृशम् ॥ ३,२४.६१ ॥

रणेषु सन्निधातव्यमस्माकं नेत्रकुक्षिषु ।
भवता घोरतेजोभिर्दहता प्रतिरोधिनः ॥ ३,२४.६२ ॥

त्वया यदा सन्निहितं तपनास्माकमक्षिषु ।
तदाक्षिविषयः सर्वो निश्चेष्टो भवतात्प्रभो ॥ ३,२४.६३ ॥

त्वत्सान्निध्यसमिद्धेन नेत्रेणास्माकमीक्षिताः ।
स्तब्धशस्त्रा भविष्यन्ति प्रतिरोधकसैनिकाः ॥ ३,२४.६४ ॥

ततः स्तब्धेषु शस्त्रेषु वीक्षणादेव नः प्रभो ।
निश्चेष्टा रिपवोऽस्माभिर्हन्तव्याः सुकरत्वतः ॥ ३,२४.६५ ॥

इति पूर्वं वरः प्राप्तः कैकसेयौर्दिवाकरात् ।
वरदानेन ते तत्र युद्धे चेरुर्मधोद्धताः ॥ ३,२४.६६ ॥

अथ सूर्यसमाविष्टनेत्रैस्तेस्तु निरीक्षिताः ।
शक्तयः स्तब्धशस्त्रौघा विफलोत्सा हतां गताः ॥ ३,२४.६७ ॥

कीकसातनयैस्तैस्तु सप्तभिः सत्त्वशालिभिः ।
विष्टंभितास्त्रशस्त्राणां शक्तीनां नोद्यमोऽभवत् ॥ ३,२४.६८ ॥

उद्यमे क्रियभाणेऽपि शस्त्रस्तम्भेन भूयसा ।
अभिभूताः सनिश्वासं शक्तयो जोषमासत ॥ ३,२४.६९ ॥

अथ ते वासरं प्राप्य नानाप्रहरणोद्यताः ।
व्यमर्दयञ्छक्तिसैन्यं दैत्याः स्वस्वामिदेशिताः ॥ ३,२४.७० ॥

शक्तयस्तास्तु सैन्येन निर्व्यापारा निरायुधाः ।
अक्षुभ्यन्त शरैस्तेषां वज्रकङ्कटभोदिभिः ॥ ३,२४.७१ ॥

शक्तयो दैत्यशस्त्रौधैर्विद्धगात्राः सृतामृजः ।
सुपल्लवा रणे रेजुः कङ्कोललतिका इव ॥ ३,२४.७२ ॥

हाहाकारं वितन्वत्यः प्रपन्ना ललितेश्वरीम् ।
चुक्रुशुः शक्तयः सर्वास्तैः स्तंभितनिजायुधाः ॥ ३,२४.७३ ॥

अथ देव्याज्ञया दण्डनाथा प्रत्यङ्गरक्षिणी ।
तिरस्करणिका देवी समुत्तस्थौ रणाजिरे ॥ ३,२४.७४ ॥

तमोलिप्ताह्वयं नाम विमानं सर्वतोमुखम् ।
महामाया समारुह्य शक्तीनामभयं व्यधात् ॥ ३,२४.७५ ॥

तमालश्यामलाकारा श्यामकञ्चुकधारिणी ।
श्यामच्छाये तमोलिप्ते श्यामयुक्ततुरङ्गमे ॥ ३,२४.७६ ॥

वासन्ती मोहनाभिख्यं धनुरादाय सस्वनम् ।
सिंहनादं विनद्येषूनवर्षत्सर्पसन्निभान् ॥ ३,२४.७७ ॥

कृष्णरूपभुजङ्ग भानधोमुसलसंनिभान् ।
मोहनास्त्रविनिष्ठ्यूतान्बाणान्दैत्या न सेहिरे ॥ ३,२४.७८ ॥

इतस्ततो मर्द्यमाना महामायाशिलीमुखैः ।
प्रकोपं परमं प्राप्ता बलाहकमुखाः खलाः ॥ ३,२४.७९ ॥

अथो तिरस्करण्यंबा दण्डनाथानिदेशतः ।
अन्धाभिधं महास्त्रं सा मुमोच द्विषतां गणे ॥ ३,२४.८० ॥

बलाहकाद्यास्ते सप्त दिननाथवरोद्धताः ।
अन्धास्त्रेण निजं नेत्रं दधिरे च्छादितं यथा ॥ ३,२४.८१ ॥

तिरस्करणिकादेव्या महामोहनधन्वनः ।
उद्गतेनान्धबाणेन चक्षुस्तेषां व्यधीयत ॥ ३,२४.८२ ॥

अन्धीकृताश्च ते सप्त न तु प्रैक्षन्त किञ्चन ।
तद्वीक्षणस्य विरहाच्छस्त्रस्तम्भः क्षयं गतः ॥ ३,२४.८३ ॥

पुनः ससिंहनादं ताः प्रोद्यतायुधपाणयः ।
चक्रुः समरसन्नाहं दैत्यानां प्रजिघांसया ॥ ३,२४.८४ ॥

तिरस्करणिकां देवीमग्रे कृत्वा महाबलाम् ।
सदुपायप्रसङ्गेन भृशं तुष्टा रणं व्यधुः ॥ ३,२४.८५ ॥

साधुसाधु महाभागे तिरस्करणिकांबिके ।
स्थाने कृततिरस्कारा द्विपामेषां दुरात्मनाम् ॥ ३,२४.८६ ॥

त्वं हि दुर्जननेत्राणां तिरस्कारमहौषधी ।
त्वया बद्धदृशानेन दैत्यचक्रेण भूयते ॥ ३,२४.८७ ॥

देवकार्यमिदं देवि त्वया सम्यगनुष्टितम् ।
अस्मादृशामजय्येषु यदेषु व्यसनं कृतम् ॥ ३,२४.८८ ॥

तत्त्वयैव दुराचारानेतान्सप्त महासुरान् ।
निहतांल्ललिता श्रुत्वा सन्तोषं परमाप्स्यति ॥ ३,२४.८९ ॥

एवं त्वया विरचिते दण्डिनीप्रीति माप्स्यति ।
मन्त्रिण्यपि महाभागायास्यत्येव परां मुदम् ॥ ३,२४.९० ॥

तस्मात्त्वमेव सप्तैतान्निगृहण रणाजिरे ।
एषां सैन्यं तु निखिलं नाशयाम उदायुधाः ॥ ३,२४.९१ ॥

इत्युक्त्वा प्रेरिता ताभिः शक्तिभियुर्द्धकौतुकान् ।
तमोलिप्तेन यानेन बलाहकबलं ययौ ॥ ३,२४.९२ ॥

तामायान्तीं समावेक्ष्य ते सप्ताथ सुराधमाः ।
पुनरेव च सावित्रं वरं सस्मरुरञ्जसा ॥ ३,२४.९३ ॥

प्रविष्टमपि सावित्रं नाशकं तन्निरोधने ।
तिरस्कृतं तु नेत्रस्थं तिरस्करणितेजसा ॥ ३,२४.९४ ॥

वरदानास्त्ररोषान्धं महाबलपराक्रमम् ।
अस्त्रेण च रुषा चान्धं बलाहकमहासुरम् ।
आकृष्य केशेष्वसिना चकर्तान्तर्धिदेवता ॥ ३,२४.९५ ॥

तस्य वाहनगृध्रस्य लुनाना पत्रिणा शिरः ।
सूचीमुखस्याभिमुखं तिरस्करणिका व्रजत् ॥ ३,२४.९६ ॥

तस्य पट्टिशपातेन विलूय कठिनं शिरः ।
अन्येषामपि पञ्चानां पञ्चत्वमकरोच्छनैः ॥ ३,२४.९७ ॥

तैः सप्तदैत्यमुण्डैश्चग्रथितान्योन्यकेशकैः ।
हारदाम गले कृत्वा ननादान्तर्धिदेवता ॥ ३,२४.९८ ॥

समस्तमपि तत्सैन्यं शक्तयः क्रोधसूर्च्छिताः ।
हत्वा तद्रक्तसलिलैर्बह्वीः प्रावाहयन्नदीः ॥ ३,२४.९९ ॥

तत्राश्चर्यमभूद्भूरि माहामायांबिकाकृतम् ।
बलाहकादिसेनान्यां दृष्टिरोधनवैभवात् ॥ ३,२४.१०० ॥

हतशिष्टाः कतिपया बहुवित्राससङ्कुलाः ।
शरणं जग्मुरत्यार्त्ताः क्रन्दन्तं शून्यकेश्वरम् ॥ ३,२४.१०१ ॥

दण्डिनीं च महामायां प्रशंसन्ति मुहुर्मुहुः ।
प्रसादमपरं चक्षुस्तस्या आदायपिप्रियुः ॥ ३,२४.१०२ ॥

साधुसाध्विति तत्रस्थाः शक्तयः कम्पमौलयः ।
तिरस्करणिकां देवीमश्लाघन्त पदेपदे ॥ ३,२४.१०३ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने बलाहकादिसप्तसेनापतिवधो नाम चतुर्विंशोऽध्यायः