ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← उत्तरभागः, अध्यायः २९ ब्रह्माण्डपुराणम्
अध्यायः ३०
[[लेखकः :|]]
उत्तरभागः, अध्यायः ३१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
अश्वानन महाप्राज्ञ श्रुतमाख्यानमुत्तमम् ।
विक्रमो ललितादेव्या विशिष्टो वर्णितस्त्वया ॥ ३,३०.१ ॥

चरितैरनघैर्देव्याः सुप्रीतोऽस्मि हयानन ।
श्रुता सा महतीशक्तिर्मन्त्रिणीदण्डनाथयोः ॥ ३,३०.२ ॥

पश्चात्किमकरोत्तत्र युद्धानन्तरमंबिका ।
चतुर्थदिनशर्वर्यां विभातायां हयानन ॥ ३,३०.३ ॥

हयग्रीव उवाच
शृणु कुम्भज तत्प्राज्ञ यत्तया जगदंबया ।
पश्चादाचरितं कर्म निहते भण्डदानवे ॥ ३,३०.४ ॥

शक्तीनामखिलं सैन्यं दैत्ययुधशतार्दितम् ।
मुहुराह्लादयामास लोचनैरमृताप्लुतैः ॥ ३,३०.५ ॥

ललितापरमेशान्याः कटाक्षामृतधारया ।
जहुर्युद्धपरिश्रान्तिं शक्तयः प्रीतिमानसाः ॥ ३,३०.६ ॥

अस्मिन्नवसरे देवा भण्डमर्दनतोषिताः ।
सर्वेऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः ॥ ३,३०.७ ॥

ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्यास्त्रिदशास्तथा ।
आदित्या वसवो रुद्रा मरुतः साध्यदेवताः ॥ ३,३०.८ ॥

सिद्धाः किंपुरुषा यक्षा निरृत्याद्या निशाचराः ।
प्रह्लादाद्या महादैत्याः सर्वेऽप्यण्डनिवासिनः ॥ ३,३०.९ ॥

आगत्य तुष्टुवुः प्रीत्या सिंहासनमहेश्वरीम् ॥ ३,३०.१० ॥

ब्रह्माद्या ऊचुः
नमोनमस्ते जगदेकनाथे नमोनमः श्रीत्रिपुराभिधाने ।
नमोनमो भण्डमहासुरघ्ने नमोऽस्तु कामेश्वरि वामकेशि ॥ ३,३०.११ ॥

चिन्तामणे चिन्तितदानदक्षेऽचिन्तये चिराकारतरङ्गमाले ।
चित्राम्बरे चित्रजगत्प्रसूते चित्राख्यनित्ये सुखदे नमस्ते ॥ ३,३०.१२ ॥

मोक्षप्रदे मुग्धशशाङ्कचूडे मुग्धस्मिते मोहनभेददक्षे ।
मुद्रेश्वरीचर्चितराजतन्त्रे मुद्राप्रिये देवि नमोनमस्ते ॥ ३,३०.१३ ॥

क्रूरान्तकध्वंसिनि कोमलाङ्गे कोपेषु कालीं तनुमादधाने ।
क्रोडानने पालितसैन्यचक्रे क्रोडीकृताशेषभये नमस्ते ॥ ३,३०.१४ ॥

षडङ्गदेवीपरिवारकृष्णे षडङ्गयुक्तश्रुतिवाक्यमृग्ये ।
षट्चक्रसंस्थे च षडूर्मियुक्ते षड्भावरूपे ललिते नमस्ते ॥ ३,३०.१५ ॥

कामे शिवे मुख्यसमस्तनित्ये कान्तासनान्ते कमलायताक्षि ।
कामप्रदे कामिनि कामशंभोः काम्ये कलानामधिपे नमस्ते ॥ ३,३०.१६ ॥

दिव्यौषधाद्ये नगरौघरूपे दिव्ये दिनाधीशसहस्रकान्ते ।
देदीप्यमाने दयया सनाथे देवाधिदेवप्रमदे नमस्ते ॥ ३,३०.१७ ॥

सदाणिमाद्यष्टकसेवनीये सदाशिवात्मोज्ज्वलमञ्चवासे ।
सभ्ये सदेकाल यपादपूज्ये सवित्रि लोकस्य नमोनमस्ते ॥ ३,३०.१८ ॥

ब्राह्मीमुखैर्मातृगणैर्निषेव्ये ब्रह्मप्रिये ब्राह्मणबन्धमेत्रि ।
ब्रह्मामृतस्रोतसि राजहंसिब्रह्मेश्वरि श्रीललिते नमस्ते ॥ ३,३०.१९ ॥

संक्षोभिणीमुख्यसमस्तमुद्रासंसेविते संसरणप्रहन्त्रि ।
संसारलीलाकृतिसारसाक्षि सदा नमस्ते ललितेऽधिनाथे ।
नित्ये कलाषोडशकेन नामाकर्षिण्यधीशि प्रमथेन सेव्ये ॥ ३,३०.२० ॥

नित्ये निरातङ्कदयाप्रपञ्चे नीलालकश्रेणि नमोनमस्ते ।
अनङ्गपुष्पादिभिरुन्नदाभिरनङ्गदेवीभिरजस्रसेव्ये ।
अभव्यहन्त्र्यक्षरराशिरूपे हतारिवर्गे ललिते नमस्ते ॥ ३,३०.२१ ॥

संक्षोभिणीमुख्यचतुर्दशार्चिर्मालावृतोदारमहाप्रदीप्ते ।
आत्मानमाबिभ्रति विभ्रमाढ्ये शुभ्राश्रये शुभ्रपदे नमस्ते ॥ ३,३०.२२ ॥

सशर्वसिद्धादि कशक्तिवन्द्ये सर्वज्ञविज्ञातपदारविन्दे ।
सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥ ३,३०.२३ ॥

सर्वज्ञजातप्रथमाभिरन्यदेवी भिरप्याश्रितचक्रभूमे ।
सर्वामराकाङ्क्षितपूरयित्रि सर्वस्य लोकस्य सवित्रि पाहि ॥ ३,३०.२४ ॥

वन्दे वशिन्यादिकवाग्विभूते वर्द्धिष्णुचक्र द्युतिवाहवाहे ।
बलाहकश्यामकचे वचोऽब्धे वरप्रदे सुंदरि पाहि विश्वम् ॥ ३,३०.२५ ॥

बाणादिदिव्यायुधसार्वभौमे भण्डासुरानीकवनान्तदावे ।
अत्युग्रतेजोज्ज्वलितांबुराशे प्रसेव्यमाने परितो नमस्ते ॥ ३,३०.२६ ॥

कामेशि वज्रेशि भगेश्यरूपे कन्ये कले कालविलोपदक्षे ।
कथाविशेषीकृतदैत्यसैन्ये कामेशयान्ते कमले नमस्ते ॥ ३,३०.२७ ॥

बिन्दुस्थिते बिन्दुकलैकरूपे बिन्द्वात्मिके बृंहितचित्प्रकाशे ।
बृहत्कुचंभोजविलोलहारे बृहत्प्रभावे ललिते नमस्ते ॥ ३,३०.२८ ॥

कामेश्वरोत्संगसदानिवासे कालात्मिके देवि कृतानुकंपे ।
कल्पावसानोत्थित कालिरूपे कामप्रदे कल्पलते नमस्ते ॥ ३,३०.२९ ॥

सवारुणे सांद्रसुधांशुशीते सारङ्गशावाक्षि सरोजवक्त्रे ।
सारस्य सारस्य सदैकभूमे समस्तविद्येश्वरि संनतिस्ते ॥ ३,३०.३० ॥

तव प्रभावेण चिदग्निजायां श्रीशंभुनाथप्रकडीकृतायाः ।
भण्डासुराद्याः समरे प्रचण्डा हता जगत्कण्टकतां प्रयाताः ॥ ३,३०.३१ ॥

नव्यानि सर्वाणि वपूंषि कृत्वा हि सांद्रकारुण्यसुधाप्लवैर्न्नः ।
त्वया समस्तं भुवनं सहर्षं सुजीवितं सुंदरि सभ्यलभ्ये ॥ ३,३०.३२ ॥

श्रीशंभुनाथस्य महाशयस्य द्वितीयतेजः प्रसरात्मके यः ।
स्थाण्वाश्रमे कॢप्ततया विरक्तः सतीवियोगेन विरस्तभोगः ॥ ३,३०.३३ ॥

तेनाद्रिवंशे धृतजन्मलाभां कन्यामुमां योजयितुं प्रवृत्ताः ।
एवं स्मरं प्रेरितवन्त एव तस्यान्तिकं घोर तपःस्थितस्य ॥ ३,३०.३४ ॥

तेनाथ वैराग्यतपोविघातक्रोधेन लालाटकृशानुदग्धः ।
भस्मावशेषो मदनस्ततोऽभूत्ततो हि भण्डासुर एष जातः ॥ ३,३०.३५ ॥

ततो वधस्तस्य दुराशयस्य कृतो भवत्या रणदुर्मदस्य ।
अथास्मदर्थे त्वतनुस्सजातस्त्वं कामसंजीवनमाशुकुर्याः ॥ ३,३०.३६ ॥

इयं रतिर्भर्तृवियोगखिन्ना वैधव्यमत्यन्तमभव्यमाप ।
पुनस्त्वदुत्पादितकामसंगाद्भविष्यति श्रीललिते सनाथा ॥ ३,३०.३७ ॥

तया तु दृष्टेन मनोभवेन संमोहितः पूर्ववदिन्दुमौलिः ।
चिरं कृतात्यन्तमहासपर्या तां पार्वतीं द्राक्परिणेष्यतीशः ॥ ३,३०.३८ ॥

तयोश्च संगाद्भविता कुमारः समस्तगीर्वाणचमूविनेता ।
तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः ॥ ३,३०.३९ ॥

यो भण्डदैत्यस्य दुराशयस्य मित्रं स लोकत्रयधूमकेतुः ।
श्रीकण्ठपुत्रैण रणे हतश्चेत्प्राणप्रतिष्ठैव तदा भवेन्नः ॥ ३,३०.४० ॥

तस्मात्त्वमंबत्रिपुरे जनानां मानापहं मन्मथवीरवर्यम् ।
उत्पाद्यरत्या विधवात्वदुःखमपाकुरु व्याकुलकुन्तलायाः ॥ ३,३०.४१ ॥

एषा त्वनाथा भवतीं प्रपन्ना भर्तृप्रणाशेन कृशाङ्गयष्टिः ।
नमस्करोति त्रिपुराभिधाने तदत्र कारुण्यकलां विधेहि ॥ ३,३०.४२ ॥

हयग्रीव उवाच
इति स्तुत्वा महेशानी ब्रह्माद्या विबुधोत्तमाः ।
तां रतिं दर्शयमासुर्मलिनां शोककर्शितम् ॥ ३,३०.४३ ॥

सा पर्यश्रुमुखी कीर्णकुन्तला धूलिधूसरा ।
ननाम जगदंबां वै वैधव्यत्यक्तभूषणा ॥ ३,३०.४४ ॥

अथ तद्दर्शनोत्पन्नकारुण्या परमेश्वरी ।
ततः कटाक्षादुत्पन्नः स्मयमानसुखांबुजः ॥ ३,३०.४५ ॥

पूर्वदेहाधिकरुचिर्मन्मथो मदमेदुरः ।
द्विभुजः सर्वभूषाढ्यः पुष्पेषुः पुष्पकार्मुकः ॥ ३,३०.४६ ॥

आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् ।
अथ सापि रतिर्देवी महत्यानन्दसागरे ।
मज्जन्ती निजभर्तारमवरोक्य मुदं गता ॥ ३,३०.४७ ॥

आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् ।
अथ सापि रतिर्देवी महत्यानन्दसागरे ।
मज्जन्ती निजभर्तारमवलोक्य मुदं गता ॥ ३,३०.४८ ॥

श्यामले स्नापयित्वैनां वस्त्रकाञ्च्यादिभूषणैः ।
अलङ्कृत्य यथापूर्वं शीघ्रमानीयतामिह ॥ ३,३०.४९ ॥

तदाज्ञां शिरसा धृत्वा श्यामा सर्वं तथाकरोत ।
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्वैवाहि कविधानतः ॥ ३,३०.५० ॥

कारयामास दंपत्योः पाणिग्रहणमङ्गलम् ।
अप्सरोभिश्च सर्वाभिर्नृत्यगीतादिसंयुतम् ॥ ३,३०.५१ ॥

एतद्दृष्ट्वा महेन्द्राद्या ऋषयश्च तपोधनाः ।
साधुसाध्विति शंसंतस्तुष्टुवुर्ललितांबिकाम् ॥ ३,३०.५२ ॥

पुष्पवृष्टिं विमुञ्चन्तः सर्वे सन्तुष्टमानसाः ।
बभूवुस्तौ महाभक्त्या प्रणम्य ललितेश्वरीम् ॥ ३,३०.५३ ॥

तत्पार्श्वे तु समागत्य बद्धाञ्जलिपुटौ स्थितौ ।
अथ कन्दर्पवीरोऽपि नमस्कृत्य महेश्वरीम् ।
व्यज्ञापयदिदं वाक्यं भक्तिनिर्भरमानसः ॥ ३,३०.५४ ॥

यद्दग्धमीशनेत्रेण वपुर्मे ललितांबिके ।
तत्त्वदीयकटाक्षस्य प्रसादात्पुनरागतम् ॥ ३,३०.५५ ॥

तव पुत्रोऽस्मि दासोऽस्मि क्वापि कृत्ये नियुङ्क्ष्व माम् ।
इत्युक्ता परमेशानी तमाह मकरध्वजम् ॥ ३,३०.५६ ॥

श्रीदेव्युवाच
वत्सागच्छ मनोजन्मन्न भयं तव विद्यते ।
मत्प्रसादाज्जगत्सर्वं मोहयाव्याहताशुग ॥ ३,३०.५७ ॥

तद्बाणपातनाज्जातधैर्यविप्लव ईश्वरः ।
पर्वतस्य सुतां गौरीं परिणेष्यति सत्वरम् ॥ ३,३०.५८ ॥

सहस्रकोटयः कामा मत्प्रसादात्त्वदुद्भवाः ।
सर्वेषां देहमाविश्य दास्यन्ति रतिमुत्तमाम् ॥ ३,३०.५९ ॥

मत्प्रसादेन वैराग्यात्संक्रुद्धोऽपि स ईश्वरः ।
देहदाहं विधातुं ते न समर्थो भविष्यति ॥ ३,३०.६० ॥

अदृश्यमूर्तिः सर्वेषां प्राणिनां भवमोहनः ।
स्वभार्याविरहाशङ्की देहस्यार्धं प्रदास्यति ।
प्रयातोऽसौ कातरात्मा त्वद्बाणाहतमानसः ॥ ३,३०.६१ ॥

अद्य प्रभृति कन्दर्प मत्प्रसादान्महीयसः ।
त्वन्निन्दां ये करिष्यन्ति त्वयि वा विमुखाशयाः ।
अवश्यं क्लीबतैव स्यात्तेषां जन्मनिजन्मनि ॥ ३,३०.६२ ॥

ये पापिष्ठा दुरात्मानो मद्भक्तद्रोहिणश्च हि ।
तानगम्यासु नारीषु पातयित्वा विनाशय ॥ ३,३०.६३ ॥

येषां मदीय पूजासु मद्भक्तेष्वादृतं मनः ।
तेषां कामसुखं सर्वं संपादय समीप्सितम् ॥ ३,३०.६४ ॥

इति श्रीललितादेव्या कृताज्ञावचनं स्मरः ।
तथेति शिरसा बिभ्रत्सांजलिर्निर्ययौ ततः ॥ ३,३०.६५ ॥

तस्यानङ्गस्य सर्वेभ्यो रोमकूपेभ्य उत्थिताः ।
बहवः शोभनाकारा मदना विश्वमोहनाः ॥ ३,३०.६६ ॥

तैर्विमोह्य समस्तं च जगच्चक्रं मनोभवः ।
पुनः स्थाण्वाश्रमं प्राप चन्द्रमौलेर्जिगीषया ॥ ३,३०.६७ ॥

वसंतेन च मित्रेण सेनान्या शीतरोचिषा ।
रागेण पीठमर्देन मन्दानिलरयेण च ॥ ३,३०.६८ ॥

पुंस्कोकिलगलत्स्वानकाहलीभिश्च संयुतः ।
शृङ्गारवीरसंपन्नो रत्यालिङ्गितविग्रहः ॥ ३,३०.६९ ॥

जैत्र शरासनं धुन्वन्प्रवीराणां पुरोगमः ।
मदनारेरभिमुखं प्राप्य निभय आस्थितः ॥ ३,३०.७० ॥

तपोनिष्ठं चन्द्रचूडं ताडयामास सायकैः ।
अथ कन्दर्पबाणौधैस्ताडितश्चन्द्रशेखरः ।
दूरीचकार वैराग्यं तपस्तत्त्याज दुष्करम् ॥ ३,३०.७१ ॥

नियमानखिलांस्त्यक्त्वा त्यक्तधैर्यः शिवः कृतः ।
तामेव पार्वतीं ध्यात्वा भूयोभूयः स्मरातुरः ॥ ३,३०.७२ ॥

निशश्वास वहञ्शर्वः पाण्डुरं गण्डमण्डलम् ।
बाष्पायमाणो विरही संतप्तो धैर्यविप्लवात् ।
भूयोभूयो गिरिसुतां पूर्वदृष्टामनुस्मरन् ॥ ३,३०.७३ ॥

अनङ्गबाणदहनैस्तप्यमानस्य शूलिनः ।
न चन्द्ररेखा नो गङ्गा देहतापच्छिदेऽभवत् ॥ ३,३०.७४ ॥

नन्दिभृङ्गिमहाकालप्रमुखैर्गणमण्डलैः ।
आहृते पुष्पशयने विलुलोठ मुहुर्मुहुः ॥ ३,३०.७५ ॥

नन्दिनो हस्तमालंब्य पुष्पतल्पान्तरात्पुनः ।
पुष्पतल्पान्तरं गत्वा व्यचेष्टत मुहुर्मुहुः ॥ ३,३०.७६ ॥

न पुष्पशयनेनेन्दुखण्डनिर्गलितामृते ।
न हिमानीपयसि वा निवृत्तस्तद्वपुर्ज्वरः ॥ ३,३०.७७ ॥

स तनेरतनुज्वालां शमयिष्यन्मुहुर्मुहुः ।
शिलीभूतान्हिमपयः पट्टानध्यवसच्छिवः ।
भूयः शैलसुतारूपं चित्रपट्टे नखैर्लिखत् ॥ ३,३०.७८ ॥

तदालोकनतोऽदूरमनङ्गार्तिमवर्धयत् ।
तामालिख्य ह्रिया नम्रां वीक्षमाणां कटाक्षतः ॥ ३,३०.७९ ॥

तच्चित्रपट्टमङ्गेषु रोमहर्षेषु चाक्षिपत् ।
चिन्तासंगेन महता महात्या रतिसंपदा ।
भूयसा स्मरतापेन विव्यथे विषमेक्षणः ॥ ३,३०.८० ॥

तामेव सर्वतः पश्यंस्तस्यामेव मनो दिशन् ।
तथैव संल्लपन्सार्धमुन्मादेनोपपन्नया ॥ ३,३०.८१ ॥

तन्मात्रभूतहृदयस्तच्चित्तस्तत्परायणः ।
तत्कथासुधया नीतसमस्तरजनीदिनः ॥ ३,३०.८२ ॥

तच्छीलवर्णन रतस्तद्रूपालोकनोत्सुकः ।
तच्चारुभोगसंकल्पमालाकरसुमालिकः ।
तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः ॥ ३,३०.८३ ॥

इमां मनोभव रुजमचिकित्स्यां स धूर्जटिः ।
अवलोक्य विवाहाय भृशमुद्यमवानभूत् ॥ ३,३०.८४ ॥

इत्थं विमोह्य तं देवं कन्दर्पो ललिताज्ञया ।
अथ तां पर्वतसुतामाशुगैरभ्यतापयत् ॥ ३,३०.८५ ॥

प्रभूतविरहज्वालामलिनैः श्वसितानलैः ।
शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः ॥ ३,३०.८६ ॥

नाहारे वा न शयने न स्वापे धृतिमिच्छति ।
मखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः ॥ ३,३०.८७ ॥

पुनः पुनस्तप्यमाना पुनरेव च विह्वला ।
न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः ॥ ३,३०.८८ ॥

न निद्रां पार्वती भेजे विरहेणोपतापिता ।
स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत् ॥ ३,३०.८९ ॥

अप्रतीकारपुरुषं विरहं तुहितुः शिवे ।
अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान् ॥ ३,३०.९० ॥

भद्रे त्वं तपसा देवं तोषयित्वा महेश्वरम् ।
भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा ॥ ३,३०.९१ ॥

हिमवच्छैलशिखरे गौरीशिखरनामनि ।
वकार पतिलाभाय पार्वती दुष्करं तपः ॥ ३,३०.९२ ॥

शिशिरेषु जलावासा ग्रीष्मे दहनमध्यगा ।
अर्के निविष्टदृष्टिश्च सुघोरं तप आस्थिता ॥ ३,३०.९३ ॥

तेनैव तपसा तुष्टः सान्निध्यं दत्तवाञ्छिवः ।
अङ्गीचकार तां भार्यां वैवाहिकविधानतः ॥ ३,३०.९४ ॥

अथाद्रिपतिना दत्तां तनयां नलिनेक्षणाम् ।
सप्तर्षिद्वारतः पूर्वं प्रार्थितामुदवोढ सः ॥ ३,३०.९५ ॥

तया च रममाणोऽसौ बहुकालं महेश्वरः ।
ओषधीप्रस्थनगरे श्वशुरस्य गृहेऽवसत् ॥ ३,३०.९६ ॥

पुनः कैलासमागत्य समस्तैः प्रमथैः सह ।
पार्वतीमानिनायाद्रिनाथस्य प्रीतिमावहत् ॥ ३,३०.९७ ॥

रममाणस्तया सार्थं कैलासे मन्दरे तथा ।
विन्ध्याद्रौ हेमशैले च मलये पारियात्रके ॥ ३,३०.९८ ॥

नानाविधेषु स्थानेषु रतिं प्राप महेश्वरः ।
अथ तस्यां ससर्जोग्रं वीर्यं सा सोढुमक्षमा ॥ ३,३०.९९ ॥

भुव्यत्यजत्सापि वह्नौ कृत्तिकासु स चाक्षिपत् ।
ताश्च गङ्गाजलेऽमुञ्चन्सा चैव शरकानने ॥ ३,३०.१०० ॥

तत्रोद्भूतो महावीरो महासेनः षडाननः ।
गङ्गायाश्चान्तिकं नीतो धूर्जटिर्वृद्धि मागमत् ॥ ३,३०.१०१ ॥

स वर्धमानो दिवसेदिवसे तीव्रविक्रमः ।
शिक्षितो निजतातेन सर्वा विद्या अवाप्तवान् ॥ ३,३०.१०२ ॥

अथ तातकृतानुज्ञः सुरसैन्यपतिर्भवन् ।
तारकं मारयामास समस्तैः सह दानवैः ॥ ३,३०.१०३ ॥

ततस्तारकदैत्येन्द्रवधसन्तोषशालिना ।
शक्रेण दत्तां स गुहो देवसेनामुपानयत् ॥ ३,३०.१०४ ॥

सा शक्रतनया देवसेना नाम यशस्विनी ।
आसाद्यरमणं स्कन्दमानन्दं मृशमादधौ ॥ ३,३०.१०५ ॥

इत्थं संमोहिताशेषविश्वचक्रो मनोभवः ।
देवकार्यं सुसम्पाद्य जगाम श्रीपुरं पुनः ॥ ३,३०.१०६ ॥

यत्र श्रीनगरे पुण्ये ललिता परमेश्वरी ।
वर्तते जगतामृद्ध्यै तत्र तां सेवितुं ययौ ॥ ३,३०.१०७ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनपुनर्भवो नाम त्रिंशोऽध्यायः