ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २१

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← उत्तरभागः, अध्यायः २० ब्रह्माण्डपुराणम्
अध्यायः २१
[[लेखकः :|]]
उत्तरभागः, अध्यायः २२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४


आकर्ण्य ललितादेव्या यात्रानिगमनिस्वनम् ।
महान्तं क्षोभमायाता भण्डासुरपुरालयाः ॥ ३,२१.१ ॥

यत्र चास्ति दुराशस्य भण्डदैत्यस्य दुर्धियः ।
महेन्द्रपर्वतोपान्ते महार्णवतटे पुरम् ॥ ३,२१.२ ॥

तत्तु शून्यकनाम्नैव विख्यातं भुवनत्रये ।
विषङ्गाग्रजदैत्यस्य सदावासः किलाभवत् ॥ ३,२१.३ ॥

तस्मिन्नेव पुरे तस्य शतयोजनविस्तरे ।
वित्रेसुर सुराः सर्वे श्रीदेव्यागमसंभ्रमात् ॥ ३,२१.४ ॥

शतयोजनविस्तीर्णं तत्सर्वं पुरमासुरम् ।
धूमैरिवावृतमभूदुत्पातजनितैर्मुहुः ॥ ३,२१.५ ॥

अकाल एव निर्भिन्ना भित्तयो दैत्यपत्तने ।
धूर्णमाना पतन्ति स्म महोल्का गगनस्थलात् ॥ ३,२१.६ ॥

उत्पातानां प्राथमिको भूकंपः पर्यवर्तत ।
मही जज्वाल सकला तत्र शून्यकपत्तने ॥ ३,२१.७ ॥

अकाल एव हृत्कंपं भेजुर्दैत्यपुरौकसः ।
ध्वजाग्रवर्तिनः कङ्कगृध्राश्चैव बकाः खगाः ॥ ३,२१.८ ॥

आदित्यमण्डले दृष्ट्वादृष्ट्वा चक्रन्दुरुच्चकैः ।
क्रव्यादा बहवस्तत्र लोचनैर्नावलोकिताः ॥ ३,२१.९ ॥

मुहुराकाशवाणीभिः परुषाभिर्बभाषिरे ।
सर्वतो दिक्षुदृश्यन्ते केतवस्तु मलीमसाः ॥ ३,२१.१० ॥

धूमायमानाः प्रक्षोभजनका दैत्यरक्षसाम् ।
दैत्यस्त्रीणां च विभ्रष्टा अकाले भूषणस्रजः ॥ ३,२१.११ ॥

हाहेति दूरं क्रन्दन्त्यः पर्यश्रु समरोदिषुः ।
दपणानां वर्मणां च ध्वजानां खड्गसंपदाम् ॥ ३,२१.१२ ॥

मणीनामंबराणां च मालिन्यमभवन्मुहुः ।
सौधेषु चन्द्रशालासु केलिवेश्मसु सर्वतः ॥ ३,२१.१३ ॥

अट्टालकेषु गोष्ठेषु विपणेषु सभासु च ।
चतुष्किकास्वलिङ्गेषु प्रग्रीवेषु वलेषु च ॥ ३,२१.१४ ॥

सर्वतोभद्रवासेषु नन्द्यावर्तेषु वेश्मसु ।
विच्छन्दकेषु संक्षुब्धेष्ववरोधनपालिषु ।
स्वस्तिकेषु च सर्वेषु गर्भागारपुटेषु च ॥ ३,२१.१५ ॥

गोपुरेषु कपाटेषु वलभीनां च सीमसु ।
वातायनेषु कक्ष्यासु धिष्ण्येषु च खलेषु च ॥ ३,२१.१६ ॥

सर्वत्र दैत्य नगरवासिभिर्जनमण्डलैः ।
अश्रूयन्त महाघोषाः परुषा भूतभाषिताः ॥ ३,२१.१७ ॥

शिथिली सवतो जाता घोरपर्णा भयानका ।
करटैः कटुकालापैर्वलोकि दिवाकरः ।
आराविषु करोटीनां कोटयश्चापतन्भुवि ॥ ३,२१.१८ ॥

अपतन्वेदिमध्येषु बिन्दवः शोणितांभसाम् ।
केशौघकाश्च निष्पेतुः सर्वतो धूमधूसराः ॥ ३,२१.१९ ॥

भौमान्तरिक्षदिव्यानामुत्पातानामिति व्रजम् ।
अवलोक्य भृशं त्रस्ताः सर्वे नगरवासिनः ।
निवेदयामासुरमी भण्डाय प्रथितौजसे ॥ ३,२१.२० ॥

स च भण्डः प्रचण्डोत्थैस्तैरुत्पातकदंबकैः ।
असंजातधृतिभ्रंशो मन्त्र स्थानमुपागमत् ॥ ३,२१.२१ ॥

मेरोरिव वपुर्भेदं बहुरत्नविचित्रितम् ।
अध्यासामास दैत्येन्द्रः सिंहासनमनुत्तमम् ॥ ३,२१.२२ ॥

स्फुरन्मुकुटलग्नानां रत्नानां किरणैर्घनैः ।
दीपयन्नखिलाशान्तानद्युतद्दानवेश्वरः ॥ ३,२१.२३ ॥

एकयोजनविस्तारे महत्यास्थानमण्डपे ।
तुङ्गसिंहासनस्थं तं सिषेवाते तदानुजै ॥ ३,२१.२४ ॥

विशुक्रश्च विषङ्गश्च महाबलपराक्रमौ ।
त्रैलोक्यकण्टकीभूतभुजदण्डभयङ्करौ ॥ ३,२१.२५ ॥

अग्रजस्य सदैवाज्ञामविलङ्घ्य मुहुर्मुहुः ।
त्रैलोक्यविजये लब्धं वर्धयन्तौ महद्यशः ॥ ३,२१.२६ ॥

न तेन शिरसा तस्य मृदूनन्तौ पादपीठिकाम् ।
कृतां जरिप्रणामौ च समुपाविशता भुवि ॥ ३,२१.२७ ॥

अथास्थाने स्थिते तस्मिन्नमरद्वेषिणां वरे ।
सर्वे सामन्तदैत्येन्द्रास्तं द्रष्टुं समुपागताः ॥ ३,२१.२८ ॥

तेषामे कैकसैन्यानां गणना न हि विद्यते ।
स्वंस्वं नाम समुच्चार्य प्रणेमुर्भण्डकेश्वरम् ॥ ३,२१.२९ ॥

म च तानसुरान्सर्वानतिधीरकनीनकैः ।
संभावयन्समालोकैः कियन्तं चित्क्षणं स्थितः ॥ ३,२१.३० ॥

अवोचत विशुक्रस्तमग्रजं दानवेश्वरम् ।
मथ्यमानमहासिंधुसमानार्गलनिस्वनः ॥ ३,२१.३१ ॥

देवत्वदीयदोर्द्दण्डविध्वस्तबलविक्रमाः ।
पापिनः पामराचारा दुरात्मानः सुराधमाः ॥ ३,२१.३२ ॥

शरण्यमन्यतः क्वापि नाप्नुवन्तो विषादिनः ।
ज्वलज्ज्वालाकुले वह्नौ पतित्वा नाशमागताः ॥ ३,२१.३३ ॥

तस्माद्देवात्समुत्पन्ना काचित्स्त्री बलगर्विता ।
स्वयमेव किलास्राक्षुस्तां देवा वासवादयः ॥ ३,२१.३४ ॥

तैः पुनः प्रबलोत्साहैः प्रोत्साहितपराक्रमाः ।
बहुस्त्रीपरिवाराश्च विविधायुधमण्डिताः ॥ ३,२१.३५ ॥

अस्माञ्जेतुं किलायान्ति हा कष्टं विधिवैशसम् ।
अबलानां समूहस्छेद्बलिनोऽस्मान्विजेष्यते ॥ ३,२१.३६ ॥

तर्हि पल्लवभङ्गेन पाषाणस्य विदारणम् ।
ऊह्यमानमिदं हन्तुं परिहासाय कल्प्यते ॥ ३,२१.३७ ॥

विडंबना न किमसौ लज्जाकरमिदं न किम् ।
अस्मत्सैनिकनासीरभटेभ्योऽपि भवेद्भयम् ॥ ३,२१.३८ ॥

कातरत्वं समापन्नाः शक्राद्यास्त्रिदिवौकसः ।
ब्रह्मादयश्च निर्विण्णविग्रहा मद्बलायुधैः ॥ ३,२१.३९ ॥

विष्णोश्च का कथैवास्ते वित्रस्तः स महेश्वरः ।
अन्येषामिह का वार्ता दिक्पालास्ते पलायिताः ॥ ३,२१.४० ॥

अस्माकमिषुभिस्तीक्ष्णैरदृश्यैरङ्गपातिभिः ।
सर्वत्र विद्धवर्माणो दुर्मदा विबुधाः कृताः ॥ ३,२१.४१ ॥

तादृशानामपि महापराक्रमभुजोष्मणाम् ।
अस्माकंविजयायाद्य स्त्री काचिदभिधावति ॥ ३,२१.४२ ॥

यद्यपि स्त्री तथाप्येषा नावमान्या कदाचन ।
अल्पोऽपि रिपुरात्मज्ञैर्नावमान्यो जिगीषुभिः ॥ ३,२१.४३ ॥

तस्मात्तदुत्सारणार्थं प्रेषणीयास्तु किङ्कराः ।
सकचग्रहमाकृष्य सानेतव्या मदोद्धता ॥ ३,२१.४४ ॥

देव त्वदीय शुद्धान्तर्वर्तिनीनां मृगीदृशाम् ।
चिरेण चेटिकाभावं सा दुष्टा संश्रयिष्यति ॥ ३,२१.४५ ॥

एकैकस्माद्भटादस्मात्सैन्येषु परिपन्थिनः ।
शङ्कते खलु वित्रस्तं त्रैलोक्यं सचराचरम् ॥ ३,२१.४६ ॥

अन्यद्देवस्य चित्तं तु प्रमाणमिति दानव ।
निवेद्य भण्डदैत्यस्य क्रोधं तस्य व्यवीवृधत् ॥ ३,२१.४७ ॥

विषङ्गस्तु महासत्त्वो विचारज्ञो विचक्षणः ।
इदमाह महादैत्यमग्रजन्मानमुद्धतम् ॥ ३,२१.४८ ॥

देव त्वमेव जानासि सर्वं कार्यमरिन्दम ।
न तु ते क्वापि वक्तव्यं नीतिवर्त्मनि वर्तते ॥ ३,२१.४९ ॥

सर्वं विचार्य कर्तव्यं विचारः परमा गतिः ।
अविचारेण चेत्कर्म समूलमवकृन्तति ॥ ३,२१.५० ॥

परस्य कटके चाराः प्रेषणीयाः प्रयत्नतः ।
तेषां बलाबलं ज्ञेयं जयसंसिद्धिमिच्छता ॥ ३,२१.५१ ॥

चारचक्षुर्दृढप्रज्ञः सदाशङ्कितमानसः ।
अशङ्किताकारवांश्च गुप्तमन्त्रः स्वमन्त्रिषु ॥ ३,२१.५२ ॥

षडुपायान्प्रयुञ्जानः सर्वत्रा भ्यर्हिते पदे ।
विजयं लभते राजा जाल्मो मक्षु विनश्यति ॥ ३,२१.५३ ॥

अविमृश्यैव यः कश्चिदारम्भः स विनाशकृत् ।
विमृश्य तु कृतं कर्म विशेषाज्जयदायकम् ॥ ३,२१.५४ ॥

तिर्यगित्यपि नारीति क्षुद्रा चेत्यपि राजभिः ।
नावज्ञा वैरिणां कार्या शक्तेः सर्वत्र सम्भवः ॥ ३,२१.५५ ॥

स्तंभोत्पन्नेन केनापि नरतिर्यग्वपुर्भृता ।
भूतेन सर्वभूतानां हिरण्यकशिपुर्हतः ॥ ३,२१.५६ ॥

पुरा हि चण्डिका नाम नारी मयाविजृंभिणी ।
निशुम्भशुंभौ महिषं व्यापादितवती रणे ॥ ३,२१.५७ ॥

तत्प्रसंगेन बहवस्तया दैत्या विनाशिताः ।
अतो वदामिनावज्ञा स्त्रीमात्रे क्रियतां क्वचित् ॥ ३,२१.५८ ॥

शक्तिरेव हि सर्वत्र कारणं विजयश्रियः ।
शक्तेराधारतां प्रप्तैः स्त्रीपुंलिङ्गैर्न नो भयम् ॥ ३,२१.५९ ॥

शक्तिस्तु सर्वतो भाति संसारस्य स्वभावतः ।
तर्हि तस्या दुराशायाः प्रवृत्तिर्ज्ञायतां त्वया ॥ ३,२१.६० ॥

केयं कस्मात्समुत्पन्ना किमाचारा किमाश्रया ।
किंबला किंसहाया वा देव तत्प्रविचार्यताम् ॥ ३,२१.६१ ॥

इत्युक्तः स विषङ्गेण को विचारो महौजसाम् ।
अस्मद्बले महासत्त्वा अक्षौहिण्यधिपाः शतम् ॥ ३,२१.६२ ॥

पातुं क्षमास्ते जलधीनलं दग्धुं त्रिविष्टपम् ।
अरे पापसमाचार किंवृथा शङ्कसे स्त्रियः ॥ ३,२१.६३ ॥

तत्सर्वं हि मया पूर्वं चारद्वारावलोकितम् ।
अग्रे समुदिता काचिल्ललितानामधारिणी ॥ ३,२१.६४ ॥

यथार्थनामवत्येषा पुष्पवत्पेशलाकृतिः ।
न स्त्त्वं न च वीर्यं वा न संग्रामेषु वा गतिः ॥ ३,२१.६५ ॥

सा चाविचारनिवहा किन्तु मायापरायणा ।
तत्सत्त्वेनाविद्यमानं स्त्रीकदम्बकमात्मनः ॥ ३,२१.६६ ॥

उत्पादितवती किं ते न चैवं तु विचेष्टते ।
अथ वा भव दुक्तेन न्यायेनास्तु महद्बलम् ॥ ३,२१.६७ ॥

त्रैलोक्योल्लङ्घिमहिमा भण्डः केन विजीयते ॥ ३,२१.६८ ॥

इदानीमपि मद्बाहुबलसंमर्दमूर्च्छिताः ।
श्वसितुं चापि पटवो न कदाचन नाकिनः ॥ ३,२१.६९ ॥

केचित्पातालगर्भेषु केचिदम्बुधिवारिषु ।
केचिद्दिगन्तकोणेषु केचित्कुञ्जेषुभूभृताम् ॥ ३,२१.७० ॥

विलीना भृशवित्रस्तास्त्यक्तदारसुतश्रियः ।
भ्रष्टाधिकाराः पशवश्छन्नवेषाश्चरन्ति ते ॥ ३,२१.७१ ॥

एतादृशं न जानाति मम बाहुपराक्रमम् ।
अबला न चिरोत्पन्ना तेनैषा दर्पमश्नुते ॥ ३,२१.७२ ॥

न जानन्ति स्त्रियो मूढा वृथा कल्पितसाहसाः ।
विनाशमनुधावन्ति कार्याकार्यविमोहिताः ॥ ३,२१.७३ ॥

अथ वा तां पुरस्कृत्य यद्यागच्छन्ति नाकिनः ।
यथा महोरगाः सिद्धाः साध्या वा युद्धदुर्मदाः ॥ ३,२१.७४ ॥

ब्रह्मा वा पद्मनाभो वा रुद्रो वापि सुराधिपः ।
अन्ये वा हरितां नाथास्तान्संपेष्टुमहं पटुः ॥ ३,२१.७५ ॥

अथ वा मम सेनासु सेनान्यो रणदुर्मदाः ।
पक्वकर्करिकापेषमवपेक्ष्यति वैरिणः ॥ ३,२१.७६ ॥

कुटिलाक्षः कुरण्डश्च करङ्कः कालवाशितः ।
वज्रदन्तो वज्रमुखो वज्रलोमा बलाहकः ॥ ३,२१.७७ ॥

सूचीमुखः फलमुखो विकटो विकटाननः ।
करालाक्षः कर्कटको मदनो दीर्घजिह्वकः ॥ ३,२१.७८ ॥

हुंबको हलमुल्लुञ्चः कर्कशः कल्किवाहनः ।
पुल्कसः पुण्ड३ एतुश्च चण्डबाहुश्च कुक्कुरः ॥ ३,२१.७९ ॥

जंबुकाक्षो जृंभणश्च तीक्ष्मशृङ्गस्त्रिकण्टक ।
चतुर्गुप्तश्चतुर्बाहुश्चकाराक्षश्चतुःशिराः ॥ ३,२१.८० ॥

वज्रघोषश्चोर्ध्वकेशो महामायामहाहनुः ।
मखशत्रुर्मखास्कन्दी सिंहघोषः शिरालकः ॥ ३,२१.८१ ॥

अन्धकः सिंधुनेत्रश्च कूपकः कूपलोचनः ।
गुहाक्षो गण्डगल्लश्च चण्डधर्मो यमान्तकः ॥ ३,२१.८२ ॥

लडुनः पट्टसेनश्च पुरजित्पूर्वमारकः ।
स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः ॥ ३,२१.८३ ॥

अतिमायो बृहन्माय उपमाय उलूकजित् ।
पुरुषेणो विषेणश्च कुन्तिषेणः परूषकः ॥ ३,२१.८४ ॥

मलकश्च कशूरश्च मङ्गलो द्रघणस्तथा ।
कोल्लाटः कुजिलाश्वश्च दासेरो बभ्रुवाहनः ॥ ३,२१.८५ ॥

दृष्टहासो दृष्टकेतुः परिक्षेप्तापकञ्चुकः ।
महामहो महादंष्ट्रो दुर्गतिः स्वर्गमेजयः ॥ ३,२१.८६ ॥

षट्केतुः षड्वसुश्चैव षड्दन्त षट्प्रियस्तथा ।
दुःशठो दुर्विनीतश्च छिन्नकर्णश्च मूषकः ॥ ३,२१.८७ ॥

अदृहासी महाशी च महाशीर्षो मदोत्कटः ।
कुम्भोत्कचः कुम्भनासः कुम्भग्रीवो घटोदरः ॥ ३,२१.८८ ॥

अश्वमेढ्रो महाण्डश्च कुम्भाण्डः पूतिनासिकः ।
पूतिदन्तः पूतिचक्षुः पूत्यास्यः पूतिमेहनः ॥ ३,२१.८९ ॥

इत्येवमादयः शूरा हिरण्यकशिपोः समाः ।
हिरण्याक्ष समाश्चैव मम पुत्रा महाबलाः ॥ ३,२१.९० ॥

एकैकस्य सुतास्तेषु जाताः शुराः परःशतम् ।
सेनान्यो मे मदोदुवृत्ता मम पुत्रैरनुद्रुताः ॥ ३,२१.९१ ॥

नाशयिष्यन्ति समरे प्रोद्धतानमराधमान् ।
ये केचित्कुपिता युद्धे सहस्राक्षौहिणी वराः ।
भस्मशेषा भवेयुस्तै हा हन्त किमुताबला ॥ ३,२१.९२ ॥

मायाविलासाः सर्वेऽपि तस्याः समरसीमनि ।
महामायाविनोदाश्च कुप्युस्ते भस्मसाद्बलम् ॥ ३,२१.९३ ॥

तद्वृथा शङ्कया खिन्नं मा ते भवतु मानसम् ।
इत्यक्त्वा भण्डदैत्येन्द्रः समुत्थाय नृपासनात् ॥ ३,२१.९४ ॥

उवाच निजसेनान्यं कुटिलाक्षं महाबलम् ।
उत्तिष्ठ रे बलं सर्वं संनाहय समन्ततः ॥ ३,२१.९५ ॥

शून्यकस्य समन्ताच्च द्वारेषु बलमर्पय ।
दुर्गाणि संगृहाण त्वं कुरुक्षेपणिकाशतम् ॥ ३,२१.९६ ॥

दुष्टाभिचाराः कर्तव्या मेत्रिभिश्च पुरोहितैः ।
सज्जीकुरु त्वं शस्त्राणि युद्धमेतदुपस्थितम् ॥ ३,२१.९७ ॥

सेनापतिषु यं केचिदग्रे प्रस्थापयाधुना ।
अनेकबलसंघातसहितं घोरदर्शनम् ॥ ३,२१.९८ ॥

तेन संग्रामसमये सन्निपत्य विनिर्जितम् ।
केशेष्वाकृष्य तां मूढां देवसत्त्वे न दर्पिताम् ॥ ३,२१.९९ ॥

इत्याभाष्य चमूनाथं सहस्रत्रितयाधिपम् ।
कुटिलाक्षं महासत्त्वं स्वयं चान्तः पुरं ययौ ॥ ३,२१.१०० ॥

अथापतन्त्याः श्रीदेव्या यात्रानिः साणनिःस्वनाः ।
अश्रूयन्त च दैत्येन्द्रैरतिकर्णज्वरावहाः ॥ ३,२१.१०१ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुराहङ्कारो नामैकविंशोऽध्यायः