ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः ९ ब्रह्माण्डपुराणम्
अध्यायः १०
[[लेखकः :|]]
उत्तरभागः, अध्यायः ११ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

हयग्रीव उवाच
अथ देवा महेन्द्राद्या विष्णुना प्रभविष्मुना ।
अङ्गीकृता महाधीराः प्रमोदं परमं ययुः ॥ ३,१०.१ ॥

मलकाद्यास्तु ते सर्वे दैत्या विष्णुपराङ्मुखाः ।
संत्यक्ताश्च श्रिया देव्या भृशमुद्वेगमागताः ॥ ३,१०.२ ॥

ततो जगृहिरे दैत्या धन्वन्तरिकरस्थितम् ।
परमामृतसाराढ्यं कलशं कनकोद्भवम् ।
अथासुराणां देवानामन्योन्यं कलहोऽभवत् ॥ ३,१०.३ ॥

एतस्मिन्नन्तरे विष्णुः सर्वलोकैकरक्षकः ।
सम्यगाराधयामासललितां स्वैक्यरूपिणीम् ॥ ३,१०.४ ॥

सुराणामसुराणां च रणं वीक्ष्य सुदारुणम् ।
ब्रह्मा निजपदं प्राप शंभुः कैलासमास्थितः ॥ ३,१०.५ ॥

मलकं योधयामास दैत्यानामधिपं वृषा ।
असुरैश्च सुराः सर्वे सांपरायमकुर्वत ॥ ३,१०.६ ॥

भगवानपि योगीन्द्रः समाराध्य महेश्वरीम् ।
तदेकध्यानयोगेन तद्रूपः समजायत ॥ ३,१०.७ ॥

सर्वसंमोहिनी सा तु साक्षाच्छृङ्गारनायिका ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ३,१०.८ ॥

सुराणामसुराणां च निवार्य रणमुल्वणम् ।
मन्दस्मितेन दैतेयान्मोहयन्ती जगद ह ॥ ३,१०.९ ॥

अलं युद्धेन किं शस्त्रेर्मर्मस्थानविभेदिभिः ।
निष्ठुरैः किं वृथालापैः कण्ठशोषणहेतुभिः ॥ ३,१०.१० ॥

अहमेवात्र मध्यस्था युष्माकं च दिवौकसाम् ।
यूयं तथामी नितरामत्र हि क्लेशभागिनः ॥ ३,१०.११ ॥

सर्वेषां सममेवाद्य दास्याम्यमृतमद्भुतम् ।
मम हस्ते प्रदातव्यं सुधापात्रमनुत्तमम् ॥ ३,१०.१२ ॥

इति तस्या वचः श्रुत्वा दैत्यास्तद्वाक्यमोहिताः ।
पीयूषकलशं तस्यै ददुस्ते मुग्धचेतसः ॥ ३,१०.१३ ॥

सा तत्पात्रं समादाय जगन्मोहनरूपिणी ।
सुराणामसुराणां च वृथक्पङ्क्तिं चकार ह ॥ ३,१०.१४ ॥

द्वयोः पङ्क्त्योश्च मध्यस्थास्तानुवाच सुरासुरान् ।
तूष्णीं भवन्तु सर्वेऽपि क्रमशो दीयते मया ॥ ३,१०.१५ ॥

तद्वाक्यमुररीचक्रुस्ते सर्वे समवायिनः ।
सा तु संमोहिताश्लेषलोका दातुं प्रचक्रमे ॥ ३,१०.१६ ॥

क्वणत्कनकदर्वीका क्वणन्मङ्गलकङ्कणा ।
कमनीयविभूषाढ्या कला सा परमा बभौ ॥ ३,१०.१७ ॥

वामे वामे करांभोजे सुधाकलशमुज्ज्वलम् ।
सुधां तां देवतापङ्क्तौ पूर्वं दर्व्या तदादिशत् ॥ ३,१०.१८ ॥

दिशन्ती क्रमशास्तत्र चन्द्रभास्करसूचितम् ।
दर्वीकरेण चिच्छेद सैंहिकेयं तु मध्यगम् ।
पीतामृतशिरोमात्रं तस्य व्योम जगाम च ॥ ३,१०.१९ ॥

तं दृष्ट्वाप्यसुरास्तत्र तूष्णीमासन्विमोहिताः ।
एवं क्रमेण तत्सर्वं विबुधेभ्यो वितीर्य सा ।
असुराणां पुरः पात्रं सानिनाय तिरोदधे ॥ ३,१०.२० ॥

रिक्तपात्रं तु तं दृष्ट्वा सर्वे दैतेयदानवाः ।
उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया ॥ ३,१०.२१ ॥

इन्द्रादयः सुराः सर्वे सुधापानाद्बलोत्तराः ।
दुर्वलैरसुरैः सार्धं समयुद्ध्यन्त सायुधाः ॥ ३,१०.२२ ॥

ते विध्यमानाः शतशो दानवेन्द्राः सुरोत्तमैः ।
दिगन्तान्कतिचिज्जग्मुः पातालं कतिचिद्ययुः ॥ ३,१०.२३ ॥

दैत्यं मलकनामानं विजित्य विबुधेश्वरः ।
आत्मीयां श्रियमाजह्रे श्रीकटाक्ष समीक्षितः ॥ ३,१०.२४ ॥

पुनः सिंहासनं प्राप्य महेन्द्रः सुरसेवितः ।
त्रैलोक्यं पालयामास पूर्ववत्पूर्वदेवजित् ॥ ३,१०.२५ ॥

निर्भया निखिला देवास्त्रैलोक्ये सचराचरे ।
यथाकामं चरन्ति स्म सर्वदा हृष्टचेतसः ॥ ३,१०.२६ ॥

तदा तदखिलं दृष्ट्वा मोहिनीचरितं मुनिः ।
विस्मितः कामचारी तु कैलासं नारदो गतः ॥ ३,१०.२७ ॥

नन्दिना च कृतानुज्ञः प्रणम्य परमेश्वरम् ।
तेन संभाव्यमानोऽसौ तुष्टो विष्टरमास्त सः ॥ ३,१०.२८ ॥

आसनस्थं महादेवो मुनिं स्वेच्छाविहारिणम् ।
पप्रच्छ पार्वतीजानिः स्वच्छस्फटिकसन्निभः ॥ ३,१०.२९ ॥

भगवन्सर्ववृत्तज्ञ पवित्रीकृतविष्टर ।
कलहप्रिय देवर्षे किं वृत्तं तत्र नाकिनाम् ॥ ३,१०.३० ॥

सुराणामसुराणां वा विजयः समजायत ।
किं वाप्यमृतवृत्तान्तं विष्णुना वापि किं कृतम् ॥ ३,१०.३१ ॥

इति पृष्टो महेशेन नारदो मुनिसत्तमः ।
उवाच विस्मयाविष्टः प्रसन्नवदनेक्षणः ॥ ३,१०.३२ ॥

सर्वं जानासि भगवन्सर्वज्ञोऽसि यतस्ततः ।
तथापि परिपृष्टेन मया तद्वक्ष्यतेऽधुना ॥ ३,१०.३३ ॥

तादृशे समरे घोरे सति दैत्यदिवौकसाम् ।
आदिनारायमः श्रीमान्मोहिनीरूपमादधे ॥ ३,१०.३४ ॥

तामुदारविभूषाढ्यां मूर्तां शृङ्गारदेवताम् ।
सुरासुराः समालोक्य विरताः समरोध्यमात् ॥ ३,१०.३५ ॥

तन्मायामोहिता दैत्याः सुधापात्रं च याचिताः ।
कृत्वा तामेव मध्यस्थामर्पयामासुरञ्जसा ॥ ३,१०.३६ ॥

तदा देवी तदादाय मन्दस्मितमनोहरा ।
देवेभ्य एव पीयूषमशेषं विततार सा ॥ ३,१०.३७ ॥

तिरोहितामदृष्ट्वा तां दृष्ट्वा शून्यं च पात्रकम् ।
ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुत्थिताः ॥ ३,१०.३८ ॥

अमरैरमृतास्वादादत्युल्वणपराक्रमैः ।
पराजिता महादैत्या नष्टाः पातालमभ्ययुः ॥ ३,१०.३९ ॥

इमं वृत्तान्तमाकर्ण्य भवानीपतिख्ययः ।
नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन् ॥ ३,१०.४० ॥

अज्ञातः प्रमथैः सर्वैः स्कन्दनन्दिविनायकैः ।
पार्वतीसहितो विष्णुमाजगाम सविस्मयः ॥ ३,१०.४१ ॥

क्षीरोदतीरगं दृष्ट्वा सस्त्रीकं वृषवाहनम् ।
भोगिभोगासनाद्विष्णुः समुत्थाय समागतः ॥ ३,१०.४२ ॥

वाहनादवरुह्येशः पार्वत्या सहितः स्थितम् ।
तं दृष्ट्वा शीघ्रमागत्य संपूज्यार्घ्यादितो मुदा ॥ ३,१०.४३ ॥

सस्नेहं गाढमालिङ्ग्य भवानीपतिमच्युतः ।
तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः ॥ ३,१०.४४ ॥

तमुवाच महादेवो भगवन्पुरुषोत्तम ।
महायोगेश्वर श्रीमन्सर्वसौभाग्यसुन्दरम् ॥ ३,१०.४५ ॥

सर्वसंमोहजनकमवाङ्मनसगोचरम् ।
यद्रूपं भवतोपात्तं तन्मह्यं संप्रदर्शय ॥ ३,१०.४६ ॥

द्रष्टुमिच्छामि ते रूपं शृङ्गारस्याधिदैवतम् ।
अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक् ॥ ३,१०.४७ ॥

इति संप्रार्थितः शश्वन्महादेवेन तेन सः ।
यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम् ॥ ३,१०.४८ ॥

तदेवानन्यमनसा ध्यात्वा किञ्चिद्विहस्य सः ।
तथास्त्विति तिरोऽधत्त महायोगेश्वरो हरिः ॥ ३,१०.४९ ॥

शर्वोऽपि सर्वतश्चक्षुर्मुहुर्व्यापारयन्क्वचित् ।
अदृष्टपूर्वमाराममभिरामं व्यलोकयत् ॥ ३,१०.५० ॥

विकसत्कुसुमश्रेणीविनोदिमधुपालिकम् ।
चंपकस्तबकामोदसुरभीकृतदिक्तटम् ॥ ३,१०.५१ ॥

माकन्दवृन्दमाध्वीकमाद्यदुल्लोलकोकिलम् ।
अशोकमण्डलीकाण्डसताण्डवशिखण्डिकम् ॥ ३,१०.५२ ॥

भृङ्गालिनवझङ्कारजितवल्लकिनिस्वनम् ।
पाटलोदारसौरभ्यपाटलीकुसुमोज्ज्वलम् ॥ ३,१०.५३ ॥

तमालतालहिन्तालकृतमालाविलासितम् ।
पर्यन्तदीर्घिकादीर्घपङ्कजश्रीपरिष्कृतम् ॥ ३,१०.५४ ॥

वातपातचलच्चारुपल्लवोत्फुल्लपुष्पकम् ।
सन्तानप्रसवामोदसन्तानाधिकवासितम् ॥ ३,१०.५५ ॥

तत्र सर्वत्र पुष्पाढ्ये सर्वलोकमनोहरे ।
पारिजाततरोर्मूले कान्ता काचिददृश्यत ॥ ३,१०.५६ ॥

बालार्कपाटलाकारा नवयौवनदर्पिता ।
आकृष्टपद्मरागाभा चरणाब्जनखच्छदा ॥ ३,१०.५७ ॥

यावकश्रीविनिक्षेपपादलौहित्यवाहिनी ।
कलनिःस्वनमञ्जीरपदपद्ममनोहरा ॥ ३,१०.५८ ॥

अनङ्गवीरतूणीरदर्पोन्मदनजङ्घिका ।
करिशुण्डाकदलिकाकान्तितुल्योरुशोभिनी ॥ ३,१०.५९ ॥

अरुणेन दुकूलेन सुस्पर्शेन तनीयसा ।
अलङ्कृतनितंबाढ्या जघनाभोगभासुरा ॥ ३,१०.६० ॥

नवमाणिक्यसन्नद्धहेमकाञ्जीविराजिता ।
नतनाभिमहावर्त्तत्रिवल्यूर्मिप्रभाझरा ॥ ३,१०.६१ ॥

स्तनकुड्मलहिन्दोलमुक्तादामशतावृता ।
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ३,१०.६२ ॥

शिरीषकोमलभुजा कङ्कणाङ्गदशालिनी ।
सोर्मिकां गुलिमन्मृष्टशङ्खसुन्दरकन्धरा ॥ ३,१०.६३ ॥

मुखदर्पणवृत्ताभचुबुकापाटलाघरा ।
शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः ॥ ३,१०.६४ ॥

कुन्दकुड्मलसच्छायैर्दन्तैर्दर्शितचन्द्रिका ।
स्थूलमौक्तिकसन्नद्धनासाभरणभासुरा ॥ ३,१०.६५ ॥

केतकान्तर्द्दलद्रोणिदीर्घदीर्घविलोचना ।
अर्धेन्दुतुलिताफाले सम्यक्कॢप्तालकच्छटा ॥ ३,१०.६६ ॥

पालीवतंसमाणिक्यकुण्डलामण्डितश्रुतिः ।
नवकर्पूरकस्तूरीरसामोदितवीटिका ॥ ३,१०.६७ ॥

शरच्चरुनिशानाथमण्डलीमधुरानना ।
स्फुरत्कस्तूरितिलका नीलकुन्तलसंहतिः ॥ ३,१०.६८ ॥

सीमन्तरेखाविन्यस्तसिंदूरश्रेणिभासुरा ॥ ३,१०.६९ ॥

स्फरच्चन्द्रकलोत्तंसमदलोलविलोचना ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणमण्डिता ॥ ३,१०.७० ॥

तामिमां कन्दुकक्रीडालोलामालोलभूषणाम् ।
दृष्ट्वा क्षिप्रमुमां त्यक्त्वा सोऽन्वधावदथेश्वरः ॥ ३,१०.७१ ॥

उमापि तं समोवेक्ष्य धावन्तं चात्मनः प्रियम् ।
स्वात्मानं स्वात्मर्सोन्दर्यं निन्दन्ती चातिविस्मिता ।
तस्थाववाङ्मुखी तूष्णीं लज्जासूयासमन्विता ॥ ३,१०.७२ ॥

गृहीत्वा कथमप्येनामालिलिग मुहुर्मुहुः ।
उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः ॥ ३,१०.७३ ॥

पुनर्गृहीत्वा तामीशः कामं कामवशीसृतः ।
आश्र्लिष्टं चातिवेगेन तद्वीर्यं प्रच्युतं तदा ॥ ३,१०.७४ ॥

ततः समुत्थितो देवो महाशास्ता महाबलः ।
अनेककोटिदैत्येन्द्रगर्वनिर्वापणक्षमः ॥ ३,१०.७५ ॥

तद्वीर्यबिन्दुसंस्पर्शात्सा भूमिस्तत्रतत्र च ।
रजतस्वर्मवर्णाभूल्लक्षणाद्विन्ध्यमर्दन ॥ ३,१०.७६ ॥

तथैवान्तर्दधे सापि देवता विश्वमोहिनी ।
निवृत्तः स गिरीशोऽपि गिरिं गौरीसखो ययौ ॥ ३,१०.७७ ॥

अथाद्भुतमिदं वक्ष्ये लोपामुद्रापते शृणु ।
यन्न कस्यचिदाख्यातं ममैव त्दृदयेस्थितम् ॥ ३,१०.७८ ॥

पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः ।
पूर्वं देवान्बहुविधान्यः शास्ता स्वेच्छया पटुः ॥ ३,१०.७९ ॥

विशुक्रं नाम दैतेयं वर्गसंरक्षणक्षमम् ।
शुक्रतुल्यं विचारज्ञं दक्षांसेन ससर्ज सः ॥ ३,१०.८० ॥

वामांसेन विषाङ्गं च सृष्टवान्दुष्टशेखरम् ।
धूमिनीनामधेयां च भगिनीं भण्डदानवः ॥ ३,१०.८१ ॥

भ्रातृभ्यामुग्रवीर्याभ्यां सहितो निहताहितः ।
ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः ॥ ३,१०.८२ ॥

ब्रह्मविष्णुमहेशाश्च तं दृष्ट्वा दीप्ततेजसम् ।
पलायनपराः सद्यः स्वे स्वे धाम्नि सदावसन् ॥ ३,१०.८३ ॥

तदानीमेव तद्बाहुमंमर्द्दन विमूर्च्छिताः ।
श्वसितुं चापि पटवो नाभवन्नाकिनां गणाः ॥ ३,१०.८४ ॥

केचित्पातालगर्भेषु केचिदंबुधिवारिषु ।
केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम् ॥ ३,१०.८५ ॥

विलीना भृशवित्रस्तास्त्यक्तदारसुतस्त्रियः ।
भ्रष्टाधिकारा ऋभवो विचेरुश्छन्नवेषकाः ॥ ३,१०.८६ ॥

यक्षान्महोरगान्सिद्धान्साध्यान्समरदुर्मदान् ।
ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमेव च ।
मत्वा तृणायितान्सर्वांल्लोकान्भण्डः शशासह ॥ ३,१०.८७ ॥

अथ भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् ।
तृतीयमुदभूद्रूपं महायागानलान्मुने ॥ ३,१०.८८ ॥

यद्रूपशालिनीमाहुर्ललिता परदेवताम् ।
पाशाङ्कुशधनुर्वाणपरिष्कृतचतुर्भुजाम् ॥ ३,१०.८९ ॥

सा देवी परम शक्तिः परब्रह्मस्वरूपिणी ।
जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा ॥ ३,१०.९० ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मोहिनीप्रादुर्भावमलकासुरवधो नाम दशमोऽध्यायः
समाप्तश्चोपोद्धातखण्डः ।