ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ५

विकिस्रोतः तः
← उत्तरभागः, अध्यायः ४ ब्रह्माण्डपुराणम्
अध्यायः ५
[[लेखकः :|]]
उत्तरभागः, अध्यायः ६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

श्रीगणेशाय नमः ।
अथ श्रीललितोपाख्यानं प्रारभ्यते ।
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥ ३,५.१ ॥

अस्तु नः श्रेयसे नित्यं वस्तु वामाङ्गसुन्दरम् ।
यतस्तृतीयो विदुषां तृतीयस्तु परं महः ॥ ३,५.२ ॥

अगस्त्यो नाम देवर्षिर्वेदवेदाङ्गपारगः ।
सर्वसिद्धान्तसारज्ञो ब्रह्मानन्दरसात्मकः ॥ ३,५.३ ॥

चचाराद्भुतहेतूनि तीर्थान्यायतनानि च ।
शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि ॥ ३,५.४ ॥

तेषु तेष्वखिलाञ्जन्तूनज्ञानतिमिरावृतान् ।
शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति ॥ ३,५.५ ॥

तस्य चिन्तयमानस्य चरतो वसुधामिमाम् ।
प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम् ॥ ३,५.६ ॥

तत्र वारणशैलेनद्रमेकाम्रनिलयं शिवम् ।
कामाक्षीं करिदोषध्नीमपूजयदथात्मवान् ॥ ३,५.७ ॥

लोकहेतोर्दयार्द्रस्य धीमतश्चिन्तनो मुहुः ।
चिरकालेन तपसा तोषितोऽभूज्जनार्दनः ॥ ३,५.८ ॥

हयग्रीवां तनुं कृत्वा साक्षाच्चिन्मात्रविग्रहाम् ।
शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ३,५.९ ॥

पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया ।
प्रादुर्बभूव पुरतो मुनेरमिततेजसा ॥ ३,५.१० ॥

तं दृष्ट्वानन्दभरितः प्रणम्य च मुहुर्मुहुः ।
विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम् ॥ ३,५.११ ॥

अथोवाच जगन्नाथस्तुष्टोऽस्मि तपसा तव ।
वरं वरय भद्रं ते भविता भूसुरोत्तमः ॥ ३,५.१२ ॥

इति पृष्टो भगवता प्रोवाच मुनिसत्तमः ।
यदि तुष्टोऽसि भगवन्निमे पामरजन्तवः ॥ ३,५.१३ ॥

केनोपायेन मुक्ताः स्युरेतन्मे वक्तुमर्हसि ।
इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः ॥ ३,५.१४ ॥

एष एव पुरा प्रश्नः शिवेन चरितो मम ।
अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम् ॥ ३,५.१५ ॥

कृतो दुर्वाससा पश्चाद्भवता तु ततः परम् ॥ ३,५.१६ ॥

भवद्भिः सर्वभूतानां गुरुभूतैर्महात्मभिः ।
ममोपदेशो लोकेषु प्रथितोऽस्तु वरो मम ॥ ३,५.१७ ॥

अहमादिर्हि भूतानामादिकर्ता स्वयं प्रभुः ।
सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः ॥ ३,५.१८ ॥

त्रिमूर्तिस्त्रिगुणातीतो गुणहीनो गुणाश्रयः ॥ ३,५.१९ ॥

इच्छाविहारो भूतात्मा प्रधानपुरुषात्मकः ।
एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः ॥ ३,५.२० ॥

द्विधाकृतमभूद्रूपं प्रधान पुरुषात्मकम् ।
मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम् ॥ ३,५.२१ ॥

अपरं यद्गुणातीतं परात्परतरं महत् ।
एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु ॥ ३,५.२२ ॥

तपोभिश्चिरकालोत्थैर्यमैश्च नियमैरपि ।
त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते ॥ ३,५.२३ ॥

यद्रूपं यद्गुणयुतं तद्गुण्यैक्येन लभ्यते ।
अन्यत्सर्वजगद्रूपं कर्मभोगपराक्रमम् ॥ ३,५.२४ ॥

कर्मभिर्लभ्यते तच्च तत्त्यागेनापि लभ्यते ।
दुस्तरस्तु तयोस्त्यागः सकलैरपि तापस ॥ ३,५.२५ ॥

अनपायं च सुगमं सदसत्कर्मगोचरम् ॥ ३,५.२६ ॥

आत्मस्थेन गुणेनैव सता चाप्यसतापिवा ।
आत्मैक्येनैव यज्ज्ञानं सर्वसिद्धिग्रदायकम् ॥ ३,५.२७ ॥

वर्णत्रयविहीनानां पापिष्ठानां नृणामपि ।
यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥ ३,५.२८ ॥

येर्ऽचयन्ति परां शक्तिं विधिनाविधिनापि वा ।
न ते संसारिणो नूनं मुक्ता एव न संशयः ॥ ३,५.२९ ॥

शिवो वा यां समाराध्य ध्यानयोगबलेन च ।
ईश्वरः सर्वसिद्धानामर्द्धनारीश्वरोऽभवत् ॥ ३,५.३० ॥

अन्येऽब्जप्रमुखा देवाः सिद्धास्तद्ध्यानवैभवात् ।
तस्मादशेषलोकानां त्रिपुराराधनं विना ॥ ३,५.३१ ॥

न स्तो भोगापवर्गौं तु यौगपद्येन कुत्रचित् ।
तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः ॥ ३,५.३२ ॥

तादात्म्येनैव कर्माणि कुर्वन्मुक्तिमवाप्स्यसि ।
एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया ॥ ३,५.३३ ॥

सन्तुष्टेनैव तपसा भवतो मुनिसत्तम ।
देवाश्च मुनयः सिद्धा मानुषाश्च तथापरे ।
त्वन्मुखांभोजतोऽवाप्यसिद्धिं यान्तु परात्पराम् ॥ ३,५.३४ ॥

इति तस्य वचः श्रुत्वा हयग्रीवस्य शार्ङ्गिणः ।
प्रणिपत्य पुनर्वाक्यमुवाच मधुसूदनम् ॥ ३,५.३५ ॥

भगवन्कीदृशं रूपं भवता यत्पुरोदितम् ।
किंविहारं किंप्रभावमेतन्मे वक्तुमर्हसि ॥ ३,५.३६ ॥

हयग्रीव उवाच
एषोंऽशभूतो देवर्षे हयग्रीवो ममापरः ।
श्रोतुमिच्छसियद्यत्त्वं तत्सर्वं वक्तुमर्हति ॥ ३,५.३७ ॥

इत्यादिश्य जगन्नाथो हयग्रीवं तपोधनम् ।
पुरतः कुम्भजातस्य मुनेरन्तरधाद्धरिः ॥ ३,५.३८ ॥

ततस्तु विस्मयाविष्टो हृष्टरोमा तपोधनः ।
हयग्रीवेण मुनिना स्वाश्रमं प्रत्यपद्यत ॥ ३,५.३९ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अगस्त्ययात्राजनार्दनाविर्भावो नाम पञ्चमोऽध्यायः