सामग्री पर जाएँ

ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ४२

विकिस्रोतः तः
← अध्यायः ४१ ब्रह्माण्डपुराणम्
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ४३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

अगस्त्य उवाच
मुद्राविरचनारीतिमश्वानन निवेदय ।
याभिर्विरचिताभिस्तु श्रीदेवी संप्रसीदति ॥ ३,४२.१ ॥

हयग्रीव उवाच
आवाहनी महामुद्रा त्रिखण्डेति प्रकीर्तिता ।
परिवृत्य करौ स्पष्टमङ्गुष्ठौ कारयेत्समौ ॥ ३,४२.२ ॥

अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ।
कनिष्ठिके नियुञ्जीत निजस्थाने तपोधन ।
संक्षोभिण्याख्यामुद्रां तु कथयाम्यधुना श्रुणु ॥ ३,४२.३ ॥

मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्टरोधिते ।
तर्जन्यो दण्डवत्कृत्वा मध्यमोपर्यनामिके ॥ ३,४२.४ ॥

एतस्या एव मुद्राया मध्यमे सरले यदि ।
क्रियते विन्ध्यदर्पारे मुद्रा विद्राविणी तथा ॥ ३,४२.५ ॥

मध्यमातर्जनीभ्यां तु कनिष्ठानामिके समे ।
अङ्कुशाकाररूपाभ्यां मध्यगे कलशोद्भव ।
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षणे क्षमा ॥ ३,४२.६ ॥

पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ।
परिवर्तक्रमेणैव मध्यमे तदधोगते ॥ ३,४२.७ ॥

क्रमेणानेन देवर्षे मध्यमामध्यगेऽनुजे ।
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ॥ ३,४२.८ ॥

दण्डाकारौ ततोंऽगुष्ठौ मध्यमावर्तदेशगौ ।
मुद्रैषोन्मादिनी नाम्ना ख्याता वातापितापन ॥ ३,४२.९ ॥

अस्यास्त्वनामिकायुग्ममधः कृत्वाङ्कुशाकृति ।
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ॥ ३,४२.१० ॥

इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ३,४२.११ ॥

सव्यं दक्षिणादेशे तु दक्षिणं सव्यदेशतः ।
बाहू कृत्वा तु देवर्षे हस्तौ सम्परिवर्त्य च ४२.१२ ।
कनिष्ठानामिके युक्ते क्रमेणानेन तापस ।
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ॥ ३,४२.१३ ॥

लोपामुद्रापतेङ्गुष्ठौ कारयेत्सकलावपि ।
इयं तु खेचरी नाम मुद्रा सर्वोत्तमोत्तमा ।
एतद्विज्ञानमात्रेण योगिनीनां प्रियो भवेत् ॥ ३,४२.१४ ॥

परिवर्त्य करौ स्पृष्टावर्धचन्द्रसमाकृती ।
तर्जन्यङ्गुष्ठयुगलं युगपद्योजयेत्ततः ॥ ३,४२.१५ ॥

अधः कनिष्ठावष्टब्धमध्यमे विनियोजयेत् ।
अथैते कुटिले युक्त्वा सर्वाधस्तादनामिके ।
बीजमुद्रेयमाचिरात्सर्वसिद्धप्रवर्तिनी ॥ ३,४२.१६ ॥

मध्याग्रे कुटिलाकारे तर्जन्युपरि संस्थिते ।
अनामिकामध्यगते तथैव हि कनिष्टिके ॥ ३,४२.१७ ॥

सर्वा एकत्र संयोज्य चाङ्गुष्ठपरिपीडिताः ।
एषा तु प्रथमा मुद्रा योनिमुद्रेति संज्ञिता ॥ ३,४२.१८ ॥

एता मुद्रास्तु देवर्षे श्रीदेव्याः प्रीतिहेतवः ।
पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥ ३,४२.१९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने हयग्रीवागस्त्यसम्वादे द्वाचत्वारिंशोऽध्यायः