ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← उत्तरभागः, अध्यायः २४ ब्रह्माण्डपुराणम्
अध्यायः २५
[[लेखकः :|]]
उत्तरभागः, अध्यायः २६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

ततः श्रुत्वा वधं तेषां तपोबलवतामपि ।
न्यश्वसत्कृष्णसर्पेन्द्र इव भण्डो महासुरः ॥ ३,२५.१ ॥

एकान्ते मन्त्रयामास स आहूय महोदरौ ।
भण्डः प्रचण्डशैण्डीर्यः काङ्क्षमाणो रणे जयम् ॥ ३,२५.२ ॥

युवराजोऽपि सक्रोधो विषङ्गेण यवीयसा ।
भण्डासुरं नमस्कृत्य मन्त्रस्थानमुपागमत् ॥ ३,२५.३ ॥

अत्याप्तैर्मन्त्रिभिर्युक्तः कुटिलाक्षपुरःसरैः ।
ललिताविजये मन्त्रं चकार क्वथिताश्यः ॥ ३,२५.४ ॥

भण्ड उवाच
अहो बत कुलभ्रंशः समायातः सुरद्विषाम् ।
उपेक्षामधुना कर्तुं प्रवृत्तो बलवान्विधिः ॥ ३,२५.५ ॥

मद्भृत्यनाममात्रेण विद्रवन्ति दिवौकसः ।
तादृशानामिहास्माकमागतोऽयं विपर्ययः ॥ ३,२५.६ ॥

करोति बलिनं क्लीबं धनिनं धनवर्जितम् ।
दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता ॥ ३,२५.७ ॥

क्व सत्त्वमस्मद्बाहुनां क्वेयं दुर्ल्ललिता वधूः ।
अकाण्ड एव विधिना कृतोऽयं निष्ठुरो विधिः ॥ ३,२५.८ ॥

सर्पिणीमाययोदग्रास्तंया दुर्घटशौर्यया ।
अधिसंग्रामभूचक्रे सेनान्यो विनिपातिताः ॥ ३,२५.९ ॥

एवमुद्दामदर्पाढ्या वनिता कापि मायिनी ।
यदि संप्रहरत्यस्मान्धिग्बलं नो भुजार्जितम् ॥ ३,२५.१० ॥

इमं प्रसंगं वक्तुं च जिह्वा जिह्वेति मामकी ।
वनिता किमु मत्सैन्यं मर्द यिष्यति दुर्मदा ॥ ३,२५.११ ॥

तदत्र मूलच्छेदाय तस्या यत्नो विधीयताम् ।
मया चारमुखाज्ज्ञाता तस्या वृत्तिर्महाबला ॥ ३,२५.१२ ॥

सर्वेषामपि सैन्यानां पश्चादेवावतिष्ठते ।
अग्रतश्चलितं सैन्यं हयहस्तिरथादिकम् ॥ ३,२५.१३ ॥

अस्मिन्नेव ह्यवसरे पार्ष्णिग्राहो विधीयताम् ।
पार्ष्णिग्रहमिमं कर्तुं विषङ्गश्चतुरो भवेत् ॥ ३,२५.१४ ॥

तेन प्रौढमदोन्मता बहुसंग्रामदुर्मदाः ।
दश पञ्च च सेनान्यः सह यान्तु युयुत्सया ॥ ३,२५.१५ ॥

पृष्ठतः परिवारास्तु न तथा संति ते पुनः ।
अल्पैस्तु रक्षिता वै स्यात्तेनैवासौ सुनिग्रहा ॥ ३,२५.१६ ॥

अतस्त्वं बहुसन्नाहमाविधाय मदोत्कटः ।
विषङ्ग गुप्तरूपेण पार्ष्णिग्राहं समाचर ॥ ३,२५.१७ ॥

अल्पीयसी त्वया सार्द्धं सेना गच्छतु विक्रमात् ।
सज्जाश्च लन्तु सेनान्यो दिक्पालविजयोद्धताः ॥ ३,२५.१८ ॥

अक्षौहिण्यश्च सेनानां दश पञ्च चलन्तु ते ।
त्वं गुप्तवेषस्तां दुष्टां सन्निपत्य दृढं जहि ॥ ३,२५.१९ ॥

सैव निःशेषशक्तीनां मूलभूता महीयसी ।
तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति ॥ ३,२५.२० ॥

कन्दच्छेदे सरोजिन्या दलजालमिवांभसि ।
सर्वेषामेव पश्चाद्यो रथश्चलति भासुरः ॥ ३,२५.२१ ॥

दशयोजनसंपन्ननिजदेहसमुच्छ्रयः ।
महामुक्तातपत्रेण सर्वोद्ध्व परिशोभितः ॥ ३,२५.२२ ॥

वहन्मुहर्वीज्यमानं चामराणां चतुष्टयम् ।
उत्तङ्गकेतुसंघातलिखितांबुदमण्डलः ॥ ३,२५.२३ ॥

तस्मिन्रथे समायाति सा दृष्टा हरिणेक्षणा ।
निबृतं संनिपत्य त्वं चिह्नेनानेन लक्षिताम् ॥ ३,२५.२४ ॥

तां विजित्य दुराचारां केशेष्वा कृष्य मर्दय ।
पुरतश्चलिते सैन्ये सत्त्वशालिनि सा वधूः ॥ ३,२५.२५ ॥

स्त्रीमात्ररक्षा भवतो वशमेष्यति सत्त्वरम् ।
भवत्सहायभूतायां सेनेन्द्राणामिहाभिधा ॥ ३,२५.२६ ॥

शृणु यैर्भवतो युद्धे साह्यकार्यमतन्द्रितैः ।
आद्यो मदनको नाम दीर्घजिह्वो द्वितीयकः ॥ ३,२५.२७ ॥

हुबको हुलुमुलुश्च कक्लसः कक्लिवाहनः ।
थुक्लसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः ॥ ३,२५.२८ ॥

जंबुकाक्षो जंभनश्च तीक्ष्णशृङ्गस्त्रिकण्टकः ।
चन्द्रगुप्तश्च पञ्चैते दश चोक्ताश्चमूवराः ॥ ३,२५.२९ ॥

एकैकाक्षौहिणीयुक्ताः प्रत्येकं भवता सह ।
आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः ॥ ३,२५.३० ॥

परस्य कटकं नैव यथा जानाति ते गतिम् ।
तथा गुप्तसमाचारः पार्ष्णिग्राहं समाचर ॥ ३,२५.३१ ॥

अस्मिन्कार्ये सुमहतां प्रौढिमानं समुद्वहन् ।
निषङ्ग त्वं हि तभसे जयसिद्धिमनुत्तमाम् ॥ ३,२५.३२ ॥

इति मन्त्रितमन्त्रोऽयं दुर्मन्त्री भण्डदानवः ।
विषङ्गं प्रेषयामास रक्षितं सैन्यपालकैः ॥ ३,२५.३३ ॥

अथ श्रीललितादेव्याः पार्ष्णिग्राहकृतोद्यमे ।
युवराजानुजे दैत्ये सूर्योऽस्तगिरिमाययौ ॥ ३,२५.३४ ॥

प्रथमे युद्धदिवसे व्यतीते लोकभीषणे ।
अन्धकारः समभवत्तस्य बाह्यचिकीर्षया ॥ ३,२५.३५ ॥

महिषस्कन्धधूम्राभं वनक्रोडवपुर्द्दुति ।
नीलकण्ठनिभच्छायं निबिडं पप्रथे तमः ॥ ३,२५.३६ ॥

कुञ्जेषु पिण्डितमिव प्रधावदिव संधिषु ।
उज्जिहानमिव क्षोणीविवरेभ्यः सहस्रशः ॥ ३,२५.३७ ॥

निर्गच्छदिव शैलानां भूरि कन्दरमन्दिरात् ।
क्वचिद्दीपप्रभाजाले कृतकातरचेष्टितम् ॥ ३,२५.३८ ॥

दत्तावलंबनमिव स्त्रीणां कर्णोत्पलत्विषि ।
एकीभूतमिव प्रौढदिङ्नागमिव कज्जले ।
आबद्धमैत्रकमिव स्फुरच्छाद्वलमण्डले ॥ ३,२५.३९ ॥

कृतप्रियाश्लेषमिव स्फुरन्तीष्वसियष्टिषु ।
गुप्तप्रविष्टमिव च श्यामासु वनपङ्क्तिषु ॥ ३,२५.४० ॥

क्रमेण बहुलीभूतं प्रससार महत्तमः ।
त्रियामावामनयना नीलकञ्चुकरोचिषा ॥ ३,२५.४१ ॥

तिमिरेणावृतं विश्वं न किञ्चित्प्रत्यपद्यत ।
असुराणां प्रदुष्टानां रात्रिरेव बलावहा ॥ ३,२५.४२ ॥

तेषां मायाविलासोऽयं तस्यामेव हि वर्धते ।
अथ प्रचलितं सैन्यं विषङ्गेण महौजसा ॥ ३,२५.४३ ॥

धौतखड्गलताच्छायावर्धिष्णु तिमिरच्छटम् ।
दमनाद्याश्च सेनान्यः श्मामकङ्कटधारिणः ॥ ३,२५.४४ ॥

श्यामोष्णीषधराः श्यामवर्णसर्वपरिच्छदाः ।
एकत्वमिव संप्राप्तास्तिमिरेणातिभूयसा ॥ ३,२५.४५ ॥

विषङ्गमनुसंचेलुः कृताग्रजनमस्कृतिम् ।
कूटेन युद्धकृत्येन विजिगीषुर्महेश्वरीम् ॥ ३,२५.४६ ॥

मेघडंबरकं नाम दधे वक्षसि कङ्कटम् ।
यथा तस्य निशायुद्धानुरूपो वेषसंग्रहः ॥ ३,२५.४७ ॥

तथा कृतवती सेना श्यामलं कञ्चुकादिकम् ।
न च दुन्दुभिनिस्वानो न च मर्द्दलगर्जितम् ॥ ३,२५.४८ ॥

पणवानकभेरीणां न च घोषविजृंभणम् ।
गुप्ताचाराः प्रचलितास्तिमिरेण समावृताः ॥ ३,२५.४९ ॥

परैरदृश्यगतयो विष्कोशीकृतरिष्टयः ।
पश्चिमाभिमुखं यान्ति ललितायाः पताकिनीम् ॥ ३,२५.५० ॥

आवृतोत्तरमार्गेण पूर्वभागमशिश्रियन् ।
निश्वासमपि सस्वानमकुर्वन्तः पदेपदे ॥ ३,२५.५१ ॥

सावधानाः प्रचलिताः पार्ष्णिग्राहाय दानवाः ।
भूयः पुरस्य दिग्भागं गत्वा मन्दपराक्रमाः ॥ ३,२५.५२ ॥

ललितासैन्यमेव स्वान्सूचयन्तः प्रपृच्छतः ।
आगत्य निभृतं पृष्ठे कवचच्छन्नविग्रहाः ॥ ३,२५.५३ ॥

चक्रराजरथं तुङ्गं मेरुमन्दरसंनिभम् ।
अपश्यन्नतिदीप्ताभिः शक्तिभिः परिवारितम् ॥ ३,२५.५४ ॥

तत्र मुक्तातपत्रस्य वर्त्तमानामधःस्थले ।
सहस्रादित्यसंकाशां पश्चिमाभिमुखीं स्थिताम् ॥ ३,२५.५५ ॥

कामेश्वर्यादिनित्याभिः स्वसमानसमृद्धिभिः ।
नर्मालापविनोदेन सेव्यमानां रथोत्तमे ॥ ३,२५.५६ ॥

तां तथाभूतवृत्तान्ताम तादृशरणोद्यमाम् ।
पुरोगतं महत्सैन्यं वीक्षमाण सकौतुकम् ॥ ३,२५.५७ ॥

मन्वानश्च हि तामेव विषङ्गः सुदुराशयः ।
पृष्ठवंशे रथेन्द्रस्य घट्टयामास सैनिकैः ॥ ३,२५.५८ ॥

तत्राणि मादिशक्तीनां परिवारवरूथिनी ।
महाकलकलं चक्रुरणिमाद्याः परःशतम् ॥ ३,२५.५९ ॥

पट्टिशैर्द्रुघणैश्चैव भिन्दिपालैर्भुशुण्डिभिः ।
कठोरवज्रनिर्धातनिष्ठुरैः शक्तिमण्डलैः ॥ ३,२५.६० ॥

मर्दयन्तो महासत्त्वाः समरं बहुमेनिरे ।
आकस्मिकरणोत्साहविपर्याविष्टविग्रहम् ॥ ३,२५.६१ ॥

अकाण्डक्षुभितं चासीद्रथस्थं शक्तिमण्डलम् ।
विपाटैः पाटयामासुरदृश्यैरन्धकारिणः ॥ ३,२५.६२ ॥

ततश्चक्ररथेन्द्रस्य नवमे पर्वणि स्थिताः ।
अदृश्यमानशस्त्राणामदृश्यनिजवर्मणाम् ॥ ३,२५.६३ ॥

तिमिरच्छन्नरूपाणां दानवानां शिलीमुखैः ।
इतस्ततो बहु क्लिष्टं छन्नवर्मितमर्मवत् ॥ ३,२५.६४ ॥

शक्तीनां मण्डलं तेने क्रन्दनं ललितां प्रति ।
पूर्वानुक्रम तस्तत्र संप्राप्तं सुमहद्भयम् ॥ ३,२५.६५ ॥

कर्णाकर्णिकयाकर्ण्य ललिता कोपमादधे ।
एतस्मिन्नन्तरे भण्डश्चण्डदुर्मत्रिपण्डितः ॥ ३,२५.६६ ॥

दशाक्षौहिणिकायुक्तं कुटिलाक्षं महौजसम् ।
ललितासैन्यनाशाय युद्धाय प्रजिघाय सः ॥ ३,२५.६७ ॥

यथा पश्चात्कलकलं श्रुत्वाग्रेवर्तिनी चमूः ।
नागच्छति तथा चक्रे कुटिलाक्षो महारणम् ॥ ३,२५.६८ ॥

एवं चोभयतो युद्धं पश्चादग्रे तथाभवत् ।
अत्यन्ततुमुलं चासीच्छक्तीनां सैनिके महत् ॥ ३,२५.६९ ॥

नक्तसत्त्वाश्च दैत्येन्द्रास्तिमिरेण समावृताः ।
इतस्ततः शिथिलतां कण्टके निन्युरुद्धताः ॥ ३,२५.७० ॥

निषङ्गेण दुराशेन धमनाद्यैश्चमूवरैः ।
चमूभिश्च प्रणहिता न्यपतञ्छत्रुकोटयः ॥ ३,२५.७१ ॥

ताभिर्दैत्यास्त्रमालाभिश्चक्रराजरथो वृतः ।
बकावलीनिबिडतः शैलराज इवाबभौ ॥ ३,२५.७२ ॥

आक्रान्तपर्वणाधस्ताद्विषङ्गेण दुरात्मना ।
मुक्त एकः शरोदेव्यास्तालवृन्तमचूर्णयत् ॥ ३,२५.७३ ॥

अथ तेनाव्याहितेन संभ्रान्ते शक्तिमण्डले ।
कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः ॥ ३,२५.७४ ॥

ईषद्भृकुटिसंसक्तं श्रीदेव्या वदनांबुजम् ।
अवलोक्य भृशोद्विग्ना नित्या दधुरतिश्रमम् ॥ ३,२५.७५ ॥

नित्या कालस्वरूपिण्यः प्रत्येकं तिथिविग्रहाः ।
क्रोधमुद्वीक्ष्य सन्नाज्ञ्या युद्धाय दधुरुद्यमम् ॥ ३,२५.७६ ॥

प्रणिपत्य च तां देवीं महाराज्ञीं महोदयाम् ।
ऊचुर्वाचमकाण्डोत्थां युद्धकौतुकगद्गदाम् ॥ ३,२५.७७ ॥

तिथिनित्या उचुः ।
देवदेवी महाराज्ञी तवाग्रे ब्रेक्षितां चमूम् ।
दण्डिनीमन्त्रनाथादिमहाशक्त्याभपालिताम् ॥ ३,२५.७८ ॥

धर्षितु कातरा दुष्टा मायाच्छद्मपरायणाः ।
पार्ष्णिग्राहेण युद्धेन बाधन्ते रथपुङ्गवम् ॥ ३,२५.७९ ॥

तस्मात्तिमिरसंछन्नमूर्तीनां विबुधद्रुहाम् ।
शमयामो वयं दर्पं क्षणमात्रं विलोकय ॥ ३,२५.८० ॥

या वह्निवासिनी नित्या या ज्वालामालिनी परा ।
ताभ्यां प्रदीपिते युद्धे द्रष्टुं शक्ताः सुरद्विषः ॥ ३,२५.८१ ॥

प्रशमय्य महादर्पं पार्ष्णिग्राहप्रवर्तिनाम् ।
सहसैवागमिष्यामः सेवितुं श्रीपदांबुजम् ।
आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनाम् ॥ ३,२५.८२ ॥

इत्युक्ते सति नित्याभिस्तथास्त्विति जगाद सा ।
अथ कामेश्वरी नित्या प्रणम्य ललितेश्वरीम् ।
तया संप्रेषिता ताभिः कुण्डलीकृत कार्मुका ॥ ३,२५.८३ ॥

सा हन्तुं तान्दुराचारान्कूटयुद्धकृतक्षणान् ।
बालारुणमिव क्रोधारुणं वक्त्रं वितन्वती ॥ ३,२५.८४ ॥

रे रे तिष्ठत पापिष्ठा मायानिष्ठाश्छिनद्मि वः ।
अन्धकारमनुप्राप्य कूटयुद्धपरायणाः ॥ ३,२५.८५ ॥

इति तान्भर्त्सयन्ती सा तूणीरोत्खातसायकात् ।
पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः ॥ ३,२५.८६ ॥

सज्जकार्मुकहस्ताश्च भगमालापुरःसराः ।
अन्याश्च चरिता नित्याः कृत पर्वावरोहणाः ॥ ३,२५.८७ ॥

ज्वालामालिनि नित्या च या नित्या वह्निवासिनी ।
सज्जे युद्धे स्वतेजोभिः समदीपयतां रणे ॥ ३,२५.८८ ॥

अथ ते दुष्टदनुजाः प्रदीप्ते युद्धमण्डले ।
प्रकाशवपुषस्तत्र मरान्तं क्रोधमाययुः ॥ ३,२५.८९ ॥

कामेश्वर्यादिका नित्यास्ताः पञ्चदश सायुधाः ।
ससिंहनादास्तान्दैत्यानमृद्नन्नेव हेलया ॥ ३,२५.९० ॥

महाकलकलस्तत्र समभूद्युद्धसीमनि ।
मन्दरक्षोभितांभोदिवेल्लत्कल्लोलमण्डलः ॥ ३,२५.९१ ॥

ताश्च नित्यावलत्क्वाणकङ्कणैर्युधि पाणिभिः ।
आकृष्य प्रामकोदण्डास्तेनिरे युद्धमुद्धतम् ॥ ३,२५.९२ ॥

यामत्रितयपर्यन्तमेवं युद्धमवर्त्तत ।
नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः ॥ ३,२५.९३ ॥

जघान दमनं दुष्टं कामेशी प्रथमं शरैः ।
दीर्घजिह्वं चमूनाथं भगमाला व्यदारत् ॥ ३,२५.९४ ॥

नित्यक्लिन्ना च भेरुण्डा हुम्बेकं हुलुमल्लकम् ।
कक्लसं वह्निवासा च निजघान शरैः शतैः ॥ ३,२५.९५ ॥

महावज्रेश्वरी बाणैरभिनत्केकिवाहनम् ।
पुक्लसं शिवदूती च प्राहिणोद्यमसादनम् ॥ ३,२५.९६ ॥

पुण्ड्रकेतुं भुजोद्दण्डं त्वरिता समदारयत् ।
कुलसुन्दरिका नित्या चण्डबाहुं च कुक्कुरम् ॥ ३,२५.९७ ॥

अथ निलपताका च विजया च जयोद्धते ।
जंबुकाक्षं जृंभणं च व्यतन्वातां रणे बलिम् ।
सर्वमङ्गलिका नित्या तीक्ष्णशृङ्गमखण्डयत् ।
ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम् ॥ ३,२५.९८ ॥

चन्द्रगुप्तं च दुःशीलं चित्रं चित्रा व्यदारत् ।
सेनानाथेषु सर्वेषु निहतेषु दुरात्मसु ॥ ३,२५.९९ ॥

विषङ्गः परमः कुद्धश्चचाल पुरतो बली ।
अथ यामावशेषायां यामिन्यां घटिकाद्वयम् ॥ ३,२५.१०० ॥

नित्याभिः सह संग्रामं विधाय स दुराशयः ।
अशक्यत्वं समुद्दिश्य चक्राम प्रपलायितुम् ॥ ३,२५.१०१ ॥

कामेश्वरीकराकृष्टचापोत्थौर्निशितैः शरैः ।
भिन्नवर्मा दृढतरं विषङ्गो विह्वलाशयः ।
हतावशिष्टैर्योधैश्च सार्धमेव पलायितः ॥ ३,२५.१०२ ॥

ताभिर्न निहतो दुष्टो यस्माद्वध्यः स दानवः ।
दण्डनाथाशरेणैव कालदण्डसमत्विषा ॥ ३,२५.१०३ ॥

तस्मिन्पलायिते दुष्टे विषङ्गे भण्डसोदरे ।
सा विभाता च रजनी प्रसन्नाश्चाभवन्दिशः ॥ ३,२५.१०४ ॥

पलायितं रणेवीरमनुसर्त्तुमनौचिती ।
इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः ॥ ३,२५.१०५ ॥

दैत्यशस्त्रव्रणस्यन्दिशोणितप्लुतविग्रहाः ।
नित्याः श्रीललितां देवीं प्रणिपेतुर्जयोद्धताः ॥ ३,२५.१०६ ॥

इत्थं रात्रौ महद्युद्धं तत्र जातं भयङ्करम् ।
नित्यानां रूपजालं च शस्त्रक्षतमलोकयत् ॥ ३,२५.१०७ ॥

श्रुत्वोदन्तं महाराज्ञी कृपापाङ्गेन सैक्षत ।
तदालोकनमात्रेण व्रणो निर्व्रणतामगात् ॥ ३,२५.१०८ ॥

नित्यानां विक्रमैश्चापि ललिता प्रीतिमासदत् ॥ ३,२५.१०९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने विषङ्गपलायनं नाम पञ्चविंशोऽध्याय