ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३६ ब्रह्माण्डपुराणम्
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ३८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

हयग्रीव उवाच
सर्वज्ञद्यन्तरालस्योपरिष्टात्कलशोद्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३७.१ ॥

वशिन्याद्यन्तरं ज्ञेयं प्राग्वत्सोपानमन्दिरम् ।
सर्वरोगहरं नाम्ना तच्चक्रमिति विश्रुतम् ॥ ३,३७.२ ॥

वशिन्याद्यास्तत्र देव्यः पूर्वादिदिगनुक्रमात् ।
स्वरैस्तु रहितास्तत्र प्रथमा वशिनीश्वरी ॥ ३,३७.३ ॥

कवर्गसहिता पश्चात्कामेश्वर्याख्यवाह्मयी ।
चवर्गजुष्टा वागीशी मोदिनी स्यात्तृतीयका ॥ ३,३७.४ ॥

टवर्गमण्डिताकारा विमलाख्या सरस्वती ।
तवर्गेण तथोपेता पञ्चमी वाक्प्रधारणा ॥ ३,३७.५ ॥

पवर्गेण परिस्फीता षष्ठी तु जयिनी मता ।
यादिवर्णचतुष्कोणे सर्वैश्वर्यादिवाङ्मयी ॥ ३,३७.६ ॥

साधिकाक्षरषट्केन कौलिनी त्वष्टमी मता ।
एता देव्यो जपरता मुक्ताभरणमण्डिताः ॥ ३,३७.७ ॥

सदा स्फुरद्गद्यपद्यलहरीलालिता मताः ।
काव्यैश्च नाटकैश्चैव मधुरैः कर्णहारिभिः ।
विनोदयन्त्यः श्रीदेवीं वर्तन्ते कुम्भसम्भवः ॥ ३,३७.८ ॥

एता रहस्यनाम्नैव ख्याता वातापितापन ।
नायिका स्वस्य चक्रस्य सिद्धानाम्ना प्रकीर्तिता ॥ ३,३७.९ ॥

अस्य चक्रस्य संरक्षाकारिणी खेचरी मता ।
वशिन्याद्यन्तरालस्योपरिष्टाद्विन्ध्यमर्दन ॥ ३,३७.१० ॥

हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
अस्त्रं चक्रमितिज्ञेयं तत्र बाणादिदेवताः ॥ ३,३७.११ ॥

पञ्च बाणेश्वरीदेव्यः पञ्च कामेश्वराशुगाः ।
अङ्कुशद्वितयं दीप्तमादिस्त्रीपुंसयोर्द्वयोः ॥ ३,३७.१२ ॥

धनुर्द्वयं च विन्ध्यारे नव पुण्ड्रेषु कल्पितम् ।
पाशद्वयं च दीप्ताभं चत्वार्यस्त्राणि कुम्भज ॥ ३,३७.१३ ॥

कामेश्वर्यास्तु चत्वारि चत्वारि श्रीमहेशितुः ।
आहत्याष्टायुधानीति प्रज्वलन्ति विभान्ति च ॥ ३,३७.१४ ॥

भण्डासुरमहायुद्धे दुष्टदानवशोणितैः ।
पीतैरतीव तृप्तानिदिव्यास्त्राण्यति जाग्रति ॥ ३,३७.१५ ॥

एतेषामायुधानां तु परिवारायुधान्यलम् ।
वर्तन्तेऽस्त्रान्तरे तत्र तेषां संख्या तु कोटिशः ॥ ३,३७.१६ ॥

वज्रशक्तिः शतघ्नी च भुशुण्डी मुसलं तथा ।
कृपाणः पट्टिशं चैव मुद्गरं भिन्दिपालकम् ॥ ३,३७.१७ ॥

एवमादीनि शस्त्राणि सहस्राणां सहस्रशः ।
अष्टायुधमहाशक्तीः सेवन्ते मदविह्वलाः ॥ ३,३७.१८ ॥

अथ शस्त्रान्तरालस्योपरि वातापितापन ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
धिष्ण्यं तु समयेशीनां स्थानं च तिसृणां मतम् ॥ ३,३७.१९ ॥

कामेशाद्यास्तत्र देव्यस्तिस्रोऽन्या तु चतुर्थिका ।
सैव निःशेषविश्वानां सवित्री ललितेश्वरी ॥ ३,३७.२० ॥

तिसृणां शृणु नामानि कामेशी प्रथमा मता ।
वज्रेशी भगमाला च ताः सेवन्ते सहस्रशः ॥ ३,३७.२१ ॥

सर्वेषां दर्शनानां च या देव्यो विविधाः स्मृताः ।
ताः सर्वास्तत्र सेवन्ते कामेशादिमहोदयाः ॥ ३,३७.२२ ॥

एतासांच प्रसंगेषु नित्यानां च प्रसञ्जने ।
चक्रिणीनां योगिनीनां श्रीदेवी पूरणात्मिका ॥ ३,३७.२३ ॥

या कामेश्वरदेवाङ्कशायिनी ललितांबिका ।
कामेश्यादिचतुर्थी सा नित्यानां षोडशी मता ॥ ३,३७.२४ ॥

योगिनी चक्रदेवीनां नवमी परिकीर्तिता ।
समयेश्यन्तरालस्योपरिष्टादिल्वलान्तक ॥ ३,३७.२५ ॥

नाथान्तरमिति प्रोक्तं हस्तविंशतिरुन्नतम् ।
चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम् ॥ ३,३७.२६ ॥

तत्र नाथामहादेव्या योगशास्त्रप्रवर्त्तकाः ।
सर्वेषां मन्त्रगुरवः सर्वविद्यामहार्णवाः ॥ ३,३७.२७ ॥

चत्वारो यागनाथाश्च लोकानामिह गुप्तये ।
सृष्टाः कामंशदेवेन तेषां नामानि मे शृणु ॥ ३,३७.२८ ॥

मित्री च शोडिशश्चैव चर्याख्यः कुम्भसम्भव ।
तैः सृष्टा बहवो लोकारक्षार्थं पादुकात्मकाः ॥ ३,३७.२९ ॥

दिव्यविद्या मानवौघसिद्धौघाः सुरतापसाः ।
प्राप्तसालोक्यसारूप्यसायुज्यादिकसिद्धयः ॥ ३,३७.३० ॥

महान्तो गुरवस्तांस्तु सेवन्ते प्रचुरा गुरून् ।
अथ नाथान्तरालस्योपरिष्टाद्धिष्ण्यमुत्तमम् ॥ ३,३७.३१ ॥

हस्तविंशतिरुन्नमं चतुर्नल्वप्रविस्तरम् ।
नित्यान्तरमिति प्रोक्तं नित्याः पञ्चदशात्र वै ॥ ३,३७.३२ ॥

अथ कामेश्वरी नित्या नित्या च भगमालिनी ।
नित्यक्लिन्ना अपि तथा भेरुण्डा वह्निवासिनी ॥ ३,३७.३३ ॥

महावज्रेश्वरी दूती त्वरिता कुलसुन्दरी ।
नित्या नीलपताका च विजया सर्वमङ्गला ॥ ३,३७.३४ ॥

ज्वालामालिनिका चित्रेत्येताः पञ्चदशोदिताः ।
एता देवीस्वरूपाः स्युर्महाबलपराक्रमाः ॥ ३,३७.३५ ॥

प्रथमा मुख्यतिथितां प्राप्ता व्याप्य जगत्त्रयाः ।
कालत्रितयरूपाश्च कालग्रासविचक्षणाः ॥ ३,३७.३६ ॥

ब्रह्मादीनामशेषाणां चिरकालमुपेयुषाम् ।
तत्तत्कालशतायुष्यरूपा देव्याज्ञया स्थिताः ॥ ३,३७.३७ ॥

नित्योद्यता निरान्तकाः श्रीपराङ्गसमुद्भवाः ।
सेवन्ते जगतामृद्ध्यै ललितां चित्स्वरूपिणीम् ॥ ३,३७.३८ ॥

तासां भवनतां प्राप्ता दीप्ताः पञ्चदशेश्वराः ।
विसृष्टिबिन्दुचक्रे तु षोडश्या भवनं मतम् ॥ ३,३७.३९ ॥

अथ नित्यान्तरालस्योपरिष्टात्कुम्भसम्भव ।
अङ्गदेव्यन्तरं प्रोक्तं हस्तविंशातिरुन्नतम् ॥ ३,३७.४० ॥

चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमन्दिरम् ।
तस्मिन्हृदयदेव्याद्याः शक्तयः संति वै मुने ॥ ३,३७.४१ ॥

हृद्देवी च शिरोदेवी शिखादेवी तथैव च ।
वर्मदेवी दृष्टिदेवी शस्त्रदेवी षडीरिताः ॥ ३,३७.४२ ॥

अत्यन्तसन्निकृष्टास्ताः श्रीकामेश्वरसुभ्रुवः ।
नवलावण्यपूर्णाङ्ग्यः सावधाना धृतायुधाः ॥ ३,३७.४३ ॥

परितो बिन्दुपीठे च भ्राम्यन्तो दृप्तमूर्तयः ।
ललिताज्ञाप्रवर्तिन्यो वशीनां पीठवर्तिकाः ॥ ३,३७.४४ ॥

अथाङ्गदेव्यन्तरस्योपरिष्टान्मण्डलाकृति ।
बिन्दुनाद महापीठं दशहस्तसमुन्नतम् ॥ ३,३७.४५ ॥

नल्वाष्टकप्रविस्तारमुद्यदादित्यसंनिभम् ।
बिन्दुपीठमिदं ज्ञेयं श्रीपीठमपि चेष्यते ॥ ३,३७.४६ ॥

महापीठमिति ज्ञेयं विद्यापीठमपीष्यते ।
आनन्दपीठमपि च पञ्चाशत्पीठरूपधृक् ॥ ३,३७.४७ ॥

तत्र श्रीललितादेव्याः पञ्चब्रह्ममये महत् ।
जागर्ति मञ्चरत्नं तु प्रपञ्चत्रयमूलकम् ॥ ३,३७.४८ ॥

तस्य मञ्चस्य पादास्तु चत्वारः परिकीर्तिताः ।
दशहस्तसमुन्नम्रा हस्तत्रितयविष्ठिताः ॥ ३,३७.४९ ॥

ब्रह्मविष्णुमहेशानेश्वररूपत्वमागताः ।
शक्तिभावमनुप्राप्ताः सदा श्रीध्यानयोगतः ॥ ३,३७.५० ॥

एकस्तु पञ्चपादः स्याज्जपाकुसुमसन्निभः ।
ब्रह्मात्मकः स विज्ञेयो वह्निदिग्भागमाश्रितः ॥ ३,३७.५१ ॥

चतुर्थो मञ्चपादस्तु कर्णिकारकसाररुक् ।
ईश्वरात्मा स विज्ञेय ईशदिग्भागमाश्रितः ॥ ३,३७.५२ ॥

एते सर्वे सायुधाश्च सर्वालङ्कारभूषिताः ।
उपर्यधःस्तंभरूपा मध्ये पुरुषरूपिणः ॥ ३,३७.५३ ॥

श्रीध्यानमीलिताक्षाश्च श्रीध्यानान्निश्चलाङ्गकाः ।
तेषामुपरि मञ्चस्य फलकस्तु सदाशिवः ॥ ३,३७.५४ ॥

विकासिदाडिमच्छायश्चतुर्नल्वप्रविस्तरः ।
नल्वषट्कायामवांश्च सदाभास्वरमूर्तिमान् ॥ ३,३७.५५ ॥

अङ्गदेव्यन्तरारंभान्मञ्चस्य फलकावधि ।
चिन्तामणिमयाङ्गानि तत्त्वरूपाणि तापस ॥ ३,३७.५६ ॥

सोपानानि विभासंते षट्त्रिंशद्वै निवेशनैः ।
आरोहस्य क्रमेणैव सोपानान्यभिदध्महे ॥ ३,३७.५७ ॥

भूमिरापोऽनलो वायुराकाशो गन्ध एव च ।
रसो रूपं स्पर्शसंब्दोपस्थपायुपदानि च ॥ ३,३७.५८ ॥

पाणिवाग्घ्राणजिह्वाश्चत्वक्चक्षुः श्रोत्रमेव च ।
अहङ्कारश्च बुद्धिश्च मनः प्रकृतिपूरुषौ ॥ ३,३७.५९ ॥

नियतिः कालरागौ च कला विद्ये च मायया ।
शुद्धाविद्येश्वरसदाशिवशक्तिः शिवा इति ॥ ३,३७.६० ॥

एताः षट्त्रिंशदाख्यातास्तत्त्वसोपानपङ्क्तयः ।
पूषा सोपानपङ्क्तिश्च मञ्चपूर्वदिशंश्रिताः ॥ ३,३७.६१ ॥

अथ मञ्चस्योपरिष्टाद्धंसतूलिकतल्पकः ।
हस्तमात्रं समुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३७.६२ ॥

पादोपधानमूर्धोपधान दन्द्वविराजितम् ।
गड्डकानां चतुः षष्टिशोभितं पाटलत्विषा ॥ ३,३७.६३ ॥

तस्योपरिष्टात्कौसुंभवसनेनोत्तरच्छदः ।
शुचिना मृदुना कॢप्तः पद्मरागमणित्विषा ॥ ३,३७.६४ ॥

तस्योपरि वसन्पूर्वदिङ्मुखो दययान्वितः ।
शृङ्गारवेषरुचिरस्सदा षोडशवार्षिकः ॥ ३,३७.६५ ॥

उद्यद्भास्करबिंबाभश्चतुर्हस्तस्त्रिलोचनः ।
हारकेयूरमुकुटकटकाद्यैरलङ्कृतः ॥ ३,३७.६६ ॥

कमनीयस्मितज्योत्स्नामरिपूर्णकपोलभूः ।
जागर्ति भगवानादिदेवः कामेश्वरः शिवः ॥ ३,३७.६७ ॥

तस्योत्संगे समासीना तरुणादित्यपाटला ।
सदा षोडशवर्षा च नवयौवनदर्पिता ॥ ३,३७.६८ ॥

अमृष्टपद्मरागाभा चन्दनाब्जनखच्छटा ।
यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी ॥ ३,३७.६९ ॥

कलनिस्वानमञ्जीरपतत्कङ्कणमोहना ।
अनङ्गवरतूणीरदर्पोन्मथनजङ्घिका ॥ ३,३७.७० ॥

करिशुण्डदोः कदलिकाकान्तितुल्योरुशोभिनी ।
अरुणेन दुकूलेन सुस्पर्शेन तनीयसा ।
अलङ्कृतनितंबाढ्या जघनाभोगभासुरा ॥ ३,३७.७१ ॥

अर्धोरुकग्रन्थिमती रत्नकाञ्चीविराजिता ।
नतनाभिमहावर्तत्रि वल्यूर्मिप्रभासरित् ॥ ३,३७.७२ ॥

स्तनकुड्मलहिन्दोलमुक्तादामशतावृता ।
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ३,३७.७३ ॥

शिरीषदाममृदुलच्छदाभांश्चतुरो भुजान् ॥ ३,३७.७४ ॥

केयूरकङ्कणश्रेणीमण्डितान्सोर्मिकाङ्गुलीन् ।
वहन्ती पतिसंसृष्टशङ्खसुन्दरकन्धरा ॥ ३,३७.७५ ॥

मुखदर्पण वृत्ताभचिबुका पाटलाधरा ।
शुचिभिः पङ्क्तिशुद्धैस्च विद्यारूपैर्विभास्वरैः ।
कुन्दकुड्मललक्ष्मीकैर्दन्तैर्दर्शितचन्द्रिका ॥ ३,३७.७६ ॥

स्थूलमौक्तिकसनद्धनानाभरणभासुरा ।
केतकान्तर्दलश्रोणी दीर्घदीर्घविलोचना ॥ ३,३७.७७ ॥

अर्धेन्दुललिते भाले सम्यक्कॢप्तालकच्छटा ।
पालीवतं समाणिक्यकुण्डलामण्डितश्रुतिः ॥ ३,३७.७८ ॥

नवकर्पूरकस्तूरीसदामोदितवीटिका ।
शरच्चञ्चन्निशानाथमण्डलीमधुरानना ॥ ३,३७.७९ ॥

चिन्तामणीनां सारेण कॢप्तचारुकिरीटिका ।
स्फुरत्तिलकरत्नाभभालनेत्रविराजिता ॥ ३,३७.८० ॥

गाढान्धकारनिबिडक्षामकुन्तलसंहतिः ।
सीमन्तरेशाविन्यस्तकिन्दूरश्रेणिभासुरा ॥ ३,३७.८१ ॥

स्फुरच्चन्द्रकलोत्तंसमदलोलविलोचना ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ३,३७.८२ ॥

समस्तलोकमाता च सदानन्दविवर्धिनी ।
ब्रह्मविष्णुगिरीशेशसदाशिवनिदानभूः ॥ ३,३७.८३ ॥

अपाङ्गरिङ्खत्करुणानिर्झरीतर्पिताखिला ।
भासते सा भगवती पापघ्नी ललितांबिका ॥ ३,३७.८४ ॥

अन्यदैवतपूजानां यस्याः पूजाफलं विदुः ।
यस्याः पूजाफलं प्राहुयस्या एव हि पूजनम् ॥ ३,३७.८५ ॥

तस्याश्च ललितादेव्या वर्णयामि कथं पुनः ।
वर्षकोटिसहस्रेणाप्येकांशो वर्ण्यते न हि ॥ ३,३७.८६ ॥

वर्ण्यमाना ह्यवाग्रूपा वाचस्तस्यां कुतो गतिः ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ३,३७.८७ ॥

बहुना किमिहोक्तेन तत्त्वभूतमिदं शृणु ।
न पक्षपातान्न स्नेहान्न मोहाद्वा मयोच्यते ॥ ३,३७.८८ ॥

संतु कल्पतरोः शाखा लेखिन्यस्तपसां निधे ।
मषीपात्राणि सर्वेऽपि सप्त संतु महार्णवाः ॥ ३,३७.८९ ॥

पञ्चाशत्कोटिविस्तीर्णा भूमिः पत्रत्वमृच्छतु ।
तस्य लेखनकालोऽस्तु परार्ध्याधिकवत्सरैः ॥ ३,३७.९० ॥

लिखन्तु सर्वे लोकाश्च प्रत्येकं कोटिबाहवः ।
सर्वे बृहस्पतिसमा वक्तारो यदि कुंभज ॥ ३,३७.९१ ॥

अथापि तस्याः श्रीदेव्याः पादाब्जैकाङ्गुलिद्युतेः ।
सहस्रांशेष्वेकैकांशवर्णना न हि जायते ।
अथ वा वृत्तिरखिला निष्फला तद्गुणस्तुतौ ॥ ३,३७.९२ ॥

बिन्दुपीठस्य परितश्चतुरस्रवया स्थिता ।
महामायाजवनिका लंबते मेचकप्रभा ॥ ३,३७.९३ ॥

देव्या उपरि हस्तानां विंशतिद्वितयोर्ध्वतः ।
इन्द्रगोपवितानं तु बद्धं त्रैलोक्यदुर्लभम् ॥ ३,३७.९४ ॥

तत्रालङ्कारजालं तु वर्तमानं सुदुर्लभम् ।
मद्वाणी वर्णयिष्यन्ती कण्ठ एव ह्रिया हता ॥ ३,३७.९५ ॥

सैव जानाति तत्सर्वं तत्रत्यमखिलं गुणम् ।
मनसोऽपि हि दूरे तत्सौभाग्यं केनवर्ण्यते ॥ ३,३७.९६ ॥

इत्थं भण्डमहादैत्यवधाय ललितांबिका ।
प्रादुर्भुता चिदनलाद्दग्धनिःशेषदानवा ॥ ३,३७.९७ ॥

दिव्यशिल्पिजनैः कॢप्तं षोडशक्षेत्रवेशनम् ।
अधिष्ठाय श्रीनगरं सदा रक्षति विष्टपम् ॥ ३,३७.९८ ॥

इत्थमेव प्रकारेण श्रीपुराण्यन्यकान्यपि ।
न भेदकोऽपि विन्यासो नाममात्रं पुरां भिदा ॥ ३,३७.९९ ॥

नानावृक्षमहोद्यानमारभ्येतिक्रमेण ये ।
वदन्ति श्रीपुरकथां ते यान्ति परमां गतिम् ॥ ३,३७.१०० ॥

आकर्णयन्ति पृच्छन्ति विचिन्वन्ति च ये नराः ।
ये पुस्तके धारयन्ति ते यान्ति परमां गतिम् ॥ ३,३७.१०१ ॥

ये श्रीपुरप्रकारेण तत्तत्स्थानविभेदतः ।
कृत्वा शिल्पिजनैः सर्वं श्रीदेव्यायतनं महत् ।
संपादयन्ति ये भक्तास्ते यान्ति परमां गतिम् ॥ ३,३७.१०२ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने गृहराजान्तरकथनं नाम सप्तत्रिंशोऽध्यायः