ऋग्वेदः सूक्तं ४.५८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.५७ ऋग्वेदः - मण्डल ४
सूक्तं ४.५८
वामदेवो गौतमः
दे. अग्निः, सूर्यो वाऽऽपो वा गावो वा घृतस्तुतिर्वा। त्रिष्टुप्, ११ जगती


समुद्रादूर्मिर्मधुमाँ उदारदुपांशुना सममृतत्वमानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥१॥
वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥२॥
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥३॥
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।
इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥४॥
एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे ।
घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥५॥
सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः ।
एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ॥६॥
सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥७॥
अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् ।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥८॥
कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥९॥
अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥१०॥
धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि ।
अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥११॥


सायणभाष्यम्

‘ समुद्रादूर्मिः ' इत्येकादशर्चं त्रयोदशं सूक्तम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । अग्निसूर्याब्गोघृतानामन्यतमो देवता । वामदेव ऋषिः । अत्रानुक्रमणिका -- समुद्रादूर्मिरेकादशाग्नेयं जगत्यन्तं सौर्यं वापं वा गव्यं वा घृतस्तुतिर्वा ' इति । विषुवतीदं सूक्तमाज्यम् । तथा च सूत्रं -- ‘ समुद्रादूर्मिरित्याज्यं त्यं सुमेषम् ' ( आश्व. श्रौ. ८. ६ ) इति । व्यूढे दशरात्रे सप्तमेऽहनीदमेव सूक्तमाज्यम् । सूत्रितं च -' अथ छन्दोमाः समुद्रादूर्मिरित्याज्यम् ' ( आश्व. श्रौ. ८. ९) इति ॥


स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् ।

घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑ः ॥१

स॒मु॒द्रात् । ऊ॒र्मिः । मधु॑ऽमान् । उत् । आ॒र॒त् । उप॑ । अं॒शुना॑ । सम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒ट् ।

घृ॒तस्य॑ । नाम॑ । गुह्य॑म् । यत् । अस्ति॑ । जि॒ह्वा । दे॒वाना॑म् । अ॒मृत॑स्य । नाभिः॑ ॥१

समुद्रात् । ऊर्मिः । मधुऽमान् । उत् । आरत् । उप । अंशुना । सम् । अमृतऽत्वम् । आनट् ।

घृतस्य । नाम । गुह्यम् । यत् । अस्ति । जिह्वा । देवानाम् । अमृतस्य । नाभिः ॥१

संमोदन्तेऽस्मिन्यजमाना इति वा समुद्रोऽग्निः पार्थिवः अथवा समुद्द्रवन्त्यापोऽस्मादिति व्युत्पत्त्या वैद्युतोऽग्निः । तस्मात् “ऊर्मिः ऊर्मिवदुपर्युपरि उद्भूतः “मधुमान् माधुर्योपेतफलसमूहः "उदारत् उद्गच्छति । अथवा वैद्युतात् ऊर्म्यूत्पादकः रस उदारत् उद्भूतः । अथवा समुद्रात् समुद्द्रवणसाधनात् आदित्यादूर्मी रस उदकलक्षण उदारत् । ‘ आदित्याज्जायते वृष्टिः' इति श्रुतेः । यद्वा । समुद्रादुक्तव्युत्पत्तेः अन्तरिक्षादूर्मिरुदकमुदारत् । अथवा समुद्रादुक्तलक्षणात् गवामूधसः सकाशात् ऊर्मिरुज्वलः क्षीररसः । एतत् घृतपक्षेऽपि समानम् । यद्यपि घृतं क्षीराज्जायते तथापि तस्योधस उत्पत्तेरेवमुपचर्यते । शिष्टं वाक्यमग्न्यादिपञ्चसु पक्षेष्वपि समानम् । “अंशुना दीप्त्यांशेन वा “अमृतत्वं मोक्षम् “उप “सम् “आनट् । उपेति पूरणः । प्राप्नोति नरः । “घृतस्य दीप्तस्य क्षीरद्रव्यरूपस्य वा "गुह्यं “नाम गोपनीयं नमनसाधनं “यदस्ति तद्ब्रवीमि । तत् "देवानां “जिह्वा आस्वादकजिह्वास्थानीयं भवति । तदेव “अमृतस्य “नाभिः बन्धकं भवति । तदुभयं घृतस्य नामेत्यर्थः । एवं सर्वमन्त्रेषु तत्तत्पक्षानुसारेण योज्यम् ॥


व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।

उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑ःशृङ्गोऽवमीद्गौ॒र ए॒तत् ॥२

व॒यम् । नाम॑ । प्र । ब्र॒वा॒म॒ । घृ॒तस्य॑ । अ॒स्मिन् । य॒ज्ञे । धा॒र॒या॒म॒ । नमः॑ऽभिः ।

उप॑ । ब्र॒ह्मा । शृ॒ण॒व॒त् । श॒स्यमा॑नम् । चतुः॑ऽशृङ्गः । अ॒व॒मी॒त् । गौ॒रः । ए॒तत् ॥२

वयम् । नाम । प्र । ब्रवाम । घृतस्य । अस्मिन् । यज्ञे । धारयाम । नमःऽभिः ।

उप । ब्रह्मा । शृणवत् । शस्यमानम् । चतुःऽशृङ्गः । अवमीत् । गौरः । एतत् ॥२

"वयं यजमानाः “घृतस्य “नाम “प्र “ब्रवाम स्तुमः । अस्मिन्यज्ञे “नमोभिः नमस्कारैः हविर्भिर्वा “धारयाम च । “ब्रह्मा परिवृढो देवः “शस्यमानं स्तूयमानमिदम् “उप “शृणवत् शृणुयात् । “चतुःशृङ्गः । चत्वारि शृङ्गाणि वेदचतुष्टयरूपाणि यस्य सः । आदित्याग्निपक्षे एवम् । इतरेष्वपि यास्कोक्तव्युत्पत्त्या शृङ्गशब्दो व्याख्येयः । “गौरः अरुणवर्णः तादृशो देवः “एतत् कर्म जगद्वा “अवमीत् उद्गिरति निर्वहतीत्यर्थः ।।


च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।

त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥३

च॒त्वारि॑ । शृङ्गा॑ । त्रयः॑ । अ॒स्य॒ । पादाः॑ । द्वे इति॑ । शी॒र्षे इति॑ । स॒प्त । हस्ता॑सः । अ॒स्य॒ ।

त्रिधा॑ । ब॒द्धः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या॑न् । आ । वि॒वे॒श॒ ॥३

चत्वारि । शृङ्गा । त्रयः । अस्य । पादाः । द्वे इति । शीर्षे इति । सप्त । हस्तासः । अस्य ।

त्रिधा । बद्धः । वृषभः । रोरवीति । महः । देवः । मर्त्यान् । आ । विवेश ॥३

यद्यपि सूक्तस्याग्निसूर्यादिपञ्चदेवताकत्वात् पञ्चधायं मन्त्रो व्याख्येयस्तथापि निरुक्ताद्युक्तनीत्या यज्ञात्मकाग्नेः सूर्यस्य च प्रकाशकत्वेन तत्परतया व्याख्यायते । अस्य यज्ञात्मकस्याग्नेः “चत्वारि “शृङ्गा चत्वारो वेदाः शृङ्गस्थानीयाः । यद्यप्यापस्तम्बेन यज्ञं व्याख्यास्यामः स त्रिभिर्वेदैर्विधीयते (परिभा. १. ३ ) इत्युक्तं तथाप्याथर्वणस्य इतरानपेक्षयैव एकाग्निसाध्यानां कृत्स्नकर्मणामभिधायक त्वात्तदपेक्षया चत्वारि शृङ्गेत्युक्तम् । “त्रयो “अस्य “पादाः सवनानि त्रीण्यस्य पादाः । प्रवृत्तिसाधनत्वात् पादा इत्युच्यन्ते । “द्वे “शीर्षे ब्रह्मौदनं प्रवर्ग्यश्च । इष्टिसोमप्राधान्येनेदमुक्तम् । “सप्त “हस्तासः सप्त छन्दांसि । हस्ता: अनुष्ठानस्य मुख्यसाधनम् । छन्दांस्यपि देवताप्रीणनस्य मुख्यसाधनमिति हस्तव्यवहारः। “त्रिधा “बद्धः मन्त्रब्राह्मणकल्पैः त्रिप्रकारं बद्धः । बन्धनमस्य तन्निष्पाद्यत्वम् । “वृषभः फलानां वर्षिता “रोरवीति । भृशं शब्दायते । ऋग्यजुःसामोक्थैः शस्त्रयागस्तुतिरूपैर्होत्राद्युत्पादितैर्ध्वनिभिरसौ रौति । एवं “महो “देवः “मर्त्यान् “आ “विवेश । मर्त्यैर्यजमानैर्निष्पाद्यत्वात् प्रवेश उपचर्यते । अत्र यास्कः -- ‘ चत्वारिशृङ्गेति वेदा वा एत उक्ताः । ( निरु. १३.७ ) इत्यादिना निरवोचत् । तदत्रानुसंधेयम् ॥ अथ ‘ सूर्यपक्षे व्याख्यायते-- अस्यादित्यस्य चत्वारि शृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वात् शृङ्गाणीत्युपचर्यन्ते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा हि - ऋग्भिः पूर्वाह्णे दिवि देव ईयते ' इत्युपक्रम्य • वेदैरशून्यस्त्रिभिरेति सूर्यः ' (तै. ब्रा. ३. १२. ९. १ ) इति हि वेदत्रयेण गतिराम्नाता । द्वे शीर्षे । अहश्च रात्रिश्चेति द्वे शिरसी । सप्त हस्तासो अस्य । सप्त रश्मयः षड्विलक्षणा ऋतव एकः साधारण इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेषु क्षित्यादिषु अग्न्याद्यात्मकत्वेन संबद्धः । ग्रीष्मवर्षांहेमन्ताख्यैस्त्रिभिस्त्रेधा बद्धो वा । वृषभो वर्षिता रोरवीति । शब्दं करोति वृष्ट्यादिद्वारा । स महो महान् देवो मर्त्यानां विवेश तन्नियन्तृतया। सूर्य आत्मा जगतस्तस्थुषश्च' ( ऋ. सं. १. ११५. १ ) इति हि श्रुतम् ॥ एवं त्वबादिपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च इत्यादिना व्याचक्षते । अपरे त्वपरथा । तत्सर्वमत्र द्रष्टव्यम् ॥


त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।

इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥४

त्रिधा॑ । हि॒तम् । प॒णिऽभिः॑ । गु॒ह्यमा॑नम् । गवि॑ । दे॒वासः॑ । घृ॒तम् । अनु॑ । अ॒वि॒न्द॒न् ।

इन्द्रः॑ । एक॑म् । सूर्यः॑ । एक॑म् । ज॒जा॒न॒ । वे॒नात् । एक॑म् । स्व॒धया॑ । निः । त॒त॒क्षुः॒ ॥४

त्रिधा । हितम् । पणिऽभिः । गुह्यमानम् । गवि । देवासः । घृतम् । अनु । अविन्दन् ।

इन्द्रः । एकम् । सूर्यः । एकम् । जजान । वेनात् । एकम् । स्वधया । निः । ततक्षुः ॥४

“पणिभिः असुरैः “गवि गोषु “त्रिधा क्षीरदध्याज्यभेदेन त्रिप्रकारं “हितं निहितं “गुह्यमानं गोपितं “घृतं दीप्तं रसरूपं वा द्रव्यं “देवासः देवाः “अन्वविन्दन् अलभन्त । तत्र “इन्द्र “एकं क्षीरं “जजान उदपादयत् । “सूर्य “एकं जजान । "वेनात् कान्तिमतः अग्नेर्गमनवतो वायोर्वा “एकं घृतं “स्वधया अन्नेन निमित्तेन द्रव्येण वा साधनेन “निष्टतक्षुः निरपादयन् देवाः ।।


ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।

घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥५

ए॒ताः । अ॒र्ष॒न्ति॒ । हृद्या॑त् । स॒मु॒द्रात् । श॒तऽव्र॑जाः । रि॒पुणा॑ । न । अ॒व॒ऽचक्षे॑ ।

घृ॒तस्य॑ । धाराः॑ । अ॒भि । चा॒क॒शी॒मि॒ । हि॒र॒ण्ययः॑ । वे॒त॒सः । मध्ये॑ । आ॒सा॒म् ॥५

एताः । अर्षन्ति । हृद्यात् । समुद्रात् । शतऽव्रजाः । रिपुणा । न । अवऽचक्षे ।

घृतस्य । धाराः । अभि । चाकशीमि । हिरण्ययः । वेतसः । मध्ये । आसाम् ॥५

“एताः आपो घृतधारा वा “अर्षन्ति अधः पतन्ति। “शतव्रजाः अपरिमितगतयः सत्यः “हृद्यात् हृदयङ्गमात् “समुद्रात् अन्तरिक्षात् रिपुणा जलमोकप्रतिबन्धकारिणा शत्रुणा वृत्रेण “नावचक्षे न अवदर्शनाय यथादृष्टं भवति तथा अर्षन्ति । ताः “घृतस्य “धारा “अभि “चाकशीमि अभिपश्यामि । कुत्रेति तदुच्यते “हिरण्ययः हिरण्मयः "वेतसः अप्संभवोऽग्निर्वैद्युतः “आसाम् अपां “मध्ये वर्तत इति शेषः । अत्र घृतस्य धारा अभि चाकशीमीत्यनेन चरमपादेन होमाधारोऽग्निर्वैद्युतोऽग्निरादित्यो वोक्तः ॥ ॥१०॥


स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।

ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥६

स॒म्यक् । स्र॒व॒न्ति॒ । स॒रितः॑ । न । धेनाः॑ । अ॒न्तः । हृ॒दा । मन॑सा । पू॒यमा॑नाः ।

ए॒ते । अ॒र्ष॒न्ति॒ । ऊ॒र्मयः॑ । घृ॒तस्य॑ । मृ॒गाःऽइ॑व । क्षि॒प॒णोः । ईष॑माणाः ॥६

सम्यक् । स्रवन्ति । सरितः । न । धेनाः । अन्तः । हृदा । मनसा । पूयमानाः ।

एते । अर्षन्ति । ऊर्मयः । घृतस्य । मृगाःऽइव । क्षिपणोः । ईषमाणाः ॥६

अस्याग्नेरुपरि “सम्यक् “स्रवन्ति क्षरन्ति । घृतस्य धाराः। किमिव । “सरितो "न “धेनाः प्रीणयित्र्यो नद्य इव । “अन्तर्हृदा “मनसा हृदयमध्यगतेन चित्तेन । भावनासचिवेनेति यावत् । तेन “पूयमानाः शुद्धीकृताः । तदेवोच्यते । “एते “घृतस्य “ऊर्मयः रसाः “अर्षन्ति गच्छन्ति । जुह्वाः सकाशादग्नेरुपरि पतन्ति । किमिव । “क्षिपणोः क्षेपकात् व्याधात् । “ईषमाणाः पलायमानाः “मृगाइव । ते यथा कक्षं प्रविशन्ति तद्वत् । अनेन शैघ्र्यमुक्तं भवति ॥


सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः ।

घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभि॒ः पिन्व॑मानः ॥७

सिन्धोः॑ऽइव । प्र॒ऽअ॒ध्व॒ने । शू॒घ॒नासः॑ । वात॑ऽप्रमियः । प॒त॒य॒न्ति॒ । य॒ह्वाः ।

घृ॒तस्य॑ । धाराः॑ । अ॒रु॒षः । न । वा॒जी । काष्ठाः॑ । भि॒न्दन् । ऊ॒र्मिभिः॑ । पिन्व॑मानः ॥७

सिन्धोःऽइव । प्रऽअध्वने । शूघनासः । वातऽप्रमियः । पतयन्ति । यह्वाः ।

घृतस्य । धाराः । अरुषः । न । वाजी । काष्ठाः । भिन्दन् । ऊर्मिभिः । पिन्वमानः ॥७

“सिन्धोः स्यन्दमानाया नद्याः सकाशात् “इव उदकानीव “प्राध्वने प्रवणवति देशे “शूघनासः आशुगन्त्र्यः । ‘ आशु इति च शु इति च क्षिप्रनामनी भवतः ' ( निरु. ६. १ ) इति निरुक्तम् । “वातप्रमियः वायुवत् प्रकृष्टवेगाः "यह्वाः महत्यः “घृतस्य “धाराः “पतयन्ति गच्छन्त्यग्नेरुपरि । घृतमुदकमिति पक्षे सिन्धोरिवेत्यत्र इवशब्दोऽनर्थकः । स्यन्दनसाधनादन्तरिक्षादुक्तलक्षणा घृतधारा उदकधाराः पतयन्ति गच्छन्ति भूमौ । किंच घृतसंस्त्यायः "काष्ठाः मर्यादाभूतान् परिधीन् “भिन्दन् “ऊर्मिभिः रसैः “पिन्वमानः वर्धमानो भवति । उदकमिति पक्षे काष्ठाः क्रान्त्वा स्थिता दिशो भिन्दन्नूर्मिभिः तरङ्गैः पिन्वमानो भवति । तत्र दृष्टान्तः । “अरुषो “न “वाजी आरोचमानो गर्वेण गमनशीलोऽश्व इव । स यथा भिन्दन् पिन्वमानश्च भवति तद्वत् ॥


अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषा॑ः कल्या॒ण्य१॒॑ः स्मय॑मानासो अ॒ग्निम् ।

घृ॒तस्य॒ धारा॑ः स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥८

अ॒भि । प्र॒व॒न्त॒ । सम॑नाऽइव । योषाः॑ । क॒ल्या॒ण्यः॑ । स्मय॑मानासः । अ॒ग्निम् ।

घृ॒तस्य॑ । धाराः॑ । स॒म्ऽइधः॑ । न॒स॒न्त॒ । ताः । जु॒षा॒णः । ह॒र्य॒ति॒ । जा॒तऽवे॑दाः ॥८

अभि । प्रवन्त । समनाऽइव । योषाः । कल्याण्यः । स्मयमानासः । अग्निम् ।

घृतस्य । धाराः । सम्ऽइधः । नसन्त । ताः । जुषाणः । हर्यति । जातऽवेदाः ॥८

“घृतस्य धाराः अमुम् "अग्निं "समनेव समानमनस्काः “योषाः योषितः पतिमिव “अभि ”प्रवन्त अभिनमयन्ति । निमग्नं कुर्वन्ति । कीदृश्यस्ताः । "कल्याण्यः भद्ररूपाः 'स्मयमानासः हसन्त्यः । किंच ताः “समिधः सम्यग्दीपयित्र्यः सत्यः "नसन्त व्याप्नुवन्ति । “ताः एव धाराः "जुषाणः प्रीयमाणः सेवमानो वा अयं “जातवेदाः "हर्यति कामयते । घृतशब्दस्योदकमिति पक्षेऽग्निजातवेदःशब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभि प्रवन्त नसन्त च । स ताश्च हर्यति ॥


क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भि चा॑कशीमि ।

यत्र॒ सोम॑ः सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥९

क॒न्याः॑ऽइव । व॒ह॒तुम् । एत॒वै । ऊं॒ इति॑ । अ॒ञ्जि । अ॒ञ्जा॒नाः । अ॒भि । चा॒क॒शी॒मि॒ ।

यत्र॑ । सोमः॑ । सू॒यते॑ । यत्र॑ । य॒ज्ञः । घृ॒तस्य॑ । धाराः॑ । अ॒भि । तत् । प॒व॒न्ते॒ ॥९

कन्याःऽइव । वहतुम् । एतवै । ऊं इति । अञ्जि । अञ्जानाः । अभि । चाकशीमि ।

यत्र । सोमः । सूयते । यत्र । यज्ञः । घृतस्य । धाराः । अभि । तत् । पवन्ते ॥९

"कन्याइव अनूढा बालिका इव । ता यथा “वहतुम् उद्वाहं प्राप्तुम् “एतवा “उ एतुं पतिं गन्तुम् “अञ्जि अञ्जकमाभरणं तेजो वा “अञ्जानाः व्यञ्जयन्त्यः । एवं कुर्वत्यः कन्याइव स्वभर्तृभूतमाध्वरं वैद्यतं वाग्निमादित्यं वा वहतुम् एतुम् अञ्जि व्यञ्जकं तदीयं रूपमञ्जाना व्यञ्जयन्तीः “घृतस्य “धाराः "अभि “चाकशीमि अभिपश्यामि । घृतेनोदकेन च भौमस्य वैद्युतस्य चाग्नेः प्रज्वलनं प्रसिद्धम् । किंच ता धाराः “सोमः “सूयते “यत्र “यत्र चेतर: “यज्ञः तायते “तत् तं यज्ञमभिलक्ष्य “पवन्ते गच्छन्ति खलु ॥


अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।

इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥१०

अ॒भि । अ॒र्ष॒त॒ । सु॒ऽस्तु॒तिम् । गव्य॑म् । आ॒जिम् । अ॒स्मासु॑ । भ॒द्रा । द्रवि॑णानि । ध॒त्त॒ ।

इ॒मम् । य॒ज्ञम् । न॒य॒त॒ । दे॒वता॑ । नः॒ । घृ॒तस्य॑ । धाराः॑ । मधु॑ऽमत् । प॒व॒न्ते॒ ॥१०

अभि । अर्षत । सुऽस्तुतिम् । गव्यम् । आजिम् । अस्मासु । भद्रा । द्रविणानि । धत्त ।

इमम् । यज्ञम् । नयत । देवता । नः । घृतस्य । धाराः । मधुऽमत् । पवन्ते ॥१०

हे मदीया ऋत्विजः “गव्यं गोसमूहरूपं गोसंबन्धिनं वा “आजिं संघातम् “अभ्यर्षत अभिगच्छत अभिगमयत वा “सुष्टुतिं शोभनां स्तुतिम् । अत्र गोशब्देनोदकानि गावो वोच्यन्ते । तत्संघातोऽभिप्रेतः । “अस्मासु यजमानेषु "भद्रा स्तुत्यानि 'द्रविणानि “धत्त धारयत । स्तुत्या खलु फलं लप्स्यते । किंच “नः अस्मदीयम् "इमं “यज्ञं “देवता अत्र यष्टव्यान् देवान् “नयत प्रापयत । “घृतस्य “धारा “मधुमत् यथा तथा “पवन्ते गच्छन्ति ॥


‘धामन्ते ' इत्येषोत्तरसूक्तस्याद्या चाध्यायोत्सर्जनोपाकरणयोर्विनियुक्ते । ‘धामन्ते विश्वम्' इति प्रतीकमुक्त्वा तदन्ते ' द्वृचाः ' ( आश्व. गृ. ३. ५. ७ ) इति सूत्रितत्वात् ॥

धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॒॑न्तरायु॑षि ।

अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥११

धाम॑न् । ते॒ । विश्व॑म् । भुव॑नम् । अधि॑ । श्रि॒तम् । अ॒न्तरिति॑ । स॒मु॒द्रे । हृ॒दि । अ॒न्तः । आयु॑षि ।

अ॒पाम् । अनी॑के । स॒म्ऽइ॒थे । यः । आऽभृ॑तः । तम् । अ॒श्या॒म॒ । मधु॑ऽमन्तम् । ते॒ । ऊ॒र्मिम् ॥११

धामन् । ते । विश्वम् । भुवनम् । अधि । श्रितम् । अन्तरिति । समुद्रे । हृदि । अन्तः । आयुषि ।

अपाम् । अनीके । सम्ऽइथे । यः । आऽभृतः । तम् । अश्याम । मधुऽमन्तम् । ते । ऊर्मिम् ॥११

“ते त्वदीये “धामन् धामनि तेजःस्थाने "विश्वं “भुवनम् “अधि “श्रितम् । “अन्तः “समुद्रे वडवाग्नित्वेन “हृद्यन्तः सर्वप्राणिनां हृदये वैश्वानरत्वेन “आयुषि अन्ने सर्व प्राण्याहारत्वेन । यद्वा । आयुषीत्येतत् हृद्विशेषणम् । जठराग्निना खल्वायुः धार्यते । “अपामनीके उदकसंस्त्याये वैद्युताग्नित्वेन “समिथे संग्रामे च शौर्याग्निरूपेण । एवं सर्वेषु स्थानेषु वर्तमानं धाम । तस्मिन् धामनि “यः ऊर्मिर्घृतरूप उदकरूपो वा रसः “आभृतः स्थापितः “ते त्वदीयं “तं रसं “मधुमन्तं माधुर्योपेतम् “अश्याम व्याप्नुयाम ॥ ॥ ११ ॥ ॥ ५ ॥

इत्थं श्रीबुक्कभूपालसाम्राज्यैकधुरंधरः ।।

विद्यातीर्थगुरोदृष्टया प्राप्तसार्वज्ञ्यवैभवः॥

श्रीमत्सायणमन्त्रीशः 'सकलागमतत्ववित् ।

दाशतय्यां माधवीये वेदार्थस्य प्रकाशने ॥

चतुर्थं मण्डलं सम्यक् वामदेवेन वीक्षितम् ।

अष्टोत्तरैस्तु पञ्चाशत्सूक्तैः पञ्च शतैरपि ॥

एकोनया नवत्या च युक्तैर्मन्त्रैश्च संमितम् ।

व्याकार्षीत्सुखबोधार्थं पश्यतैतद्विमत्सराः ॥

॥ इति चतुर्थं मण्डलं समाप्तम् ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५८&oldid=198783" इत्यस्माद् पुनः प्राप्तिः