ऋग्वेदः सूक्तं ४.५४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.५३ ऋग्वेदः - मण्डल ४
सूक्तं ४.५४
वामदेवो गौतमः
सूक्तं ४.५५ →
दे. सविता।जगती, ६ त्रिष्टुप्


अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः ।
वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥१॥
देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमम् ।
आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥२॥
अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता ।
देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः ॥३॥
न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति ।
यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत् ॥४॥
इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः ।
यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥५॥
ये ते त्रिरहन्सवितः सवासो दिवेदिवे सौभगमासुवन्ति ।
इन्द्रो द्यावापृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥६॥


सायणभाष्यम्

‘ अभूद्देवः' इति षडृचं नवमं सूक्तं वामदेवस्यर्षं सावित्रम् । अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रमणिका -- अभूद्देवः षट् त्रिष्टुबन्तम्' इति । अनिष्टोमे वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रम् - ‘ अभूद्देव एकया च दशभिश्च स्वभूते' ( आश्व. श्रौ. ५. १८) इति । आद्या सावित्रग्रहस्यानुवाक्या । तथा च सूत्रं - सावित्रेण ग्रहेण चरन्त्यभूद्देवः सविता वन्द्यो नु नः ' ( आश्व. श्रौ. ५. १८) इति ॥


अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभि॑ः ।

वि यो रत्ना॒ भज॑ति मान॒वेभ्य॒ः श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥१

अभू॑त् । दे॒वः । स॒वि॒ता । वन्द्यः॑ । नु । नः॒ । इ॒दानी॑म् । अह्नः॑ । उ॒प॒ऽवाच्यः॑ । नृऽभिः॑ ।

वि । यः । रत्ना॑ । भज॑ति । मा॒न॒वेभ्यः॑ । श्रेष्ठ॑म् । नः॒ । अत्र॑ । द्रवि॑णम् । यथा॑ । दध॑त् ॥१

अभूत् । देवः । सविता । वन्द्यः । नु । नः । इदानीम् । अह्नः । उपऽवाच्यः । नृऽभिः ।

वि । यः । रत्ना । भजति । मानवेभ्यः । श्रेष्ठम् । नः । अत्र । द्रविणम् । यथा । दधत् ॥१

सः "सविता "देवः "अभूत् प्रादुरासीत् । अतः “नु क्षिप्रमेव "नः अस्माकं "वन्द्यः वन्दनीयो भवति । "इदानीं यागकाले "अह्नः तृतीयसवने "नृभिः अस्मदीयैर्होतृभिः "उपवाच्यः स्तुत्यः भवति । “यः देवः "मानवेभ्यः मनोरपत्येभ्यो यजमानेभ्यस्तेषामर्थाय "रत्ना रमणीयानि धनानि "वि “भजति स देवः "श्रेष्ठं प्रशस्यं "द्रविणं गवादिलक्षणं धनं "नः अस्मभ्यम् "अत्र अस्मिन् कर्मणि "यथा “दधत् दद्यादित्यर्थः । तथा वन्द्य उपवाच्यश्चाभूदिति ॥


दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् ।

आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥२

दे॒वेभ्यः॑ । हि । प्र॒थ॒मम् । य॒ज्ञिये॑भ्यः । अ॒मृ॒त॒ऽत्वम् । सु॒वसि॑ । भा॒गम् । उ॒त्ऽत॒मम् ।

आत् । इत् । दा॒मान॑म् । स॒वि॒तः॒ । वि । ऊ॒र्णु॒षे॒ । अ॒नू॒ची॒ना । जी॒वि॒ता । मानु॑षेभ्यः ॥२

देवेभ्यः । हि । प्रथमम् । यज्ञियेभ्यः । अमृतऽत्वम् । सुवसि । भागम् । उत्ऽतमम् ।

आत् । इत् । दामानम् । सवितः । वि । ऊर्णुषे । अनूचीना । जीविता । मानुषेभ्यः ॥२

"प्रथमं “देवेभ्यो "हि । हिशब्दः प्रसिद्धौ। देवेभ्यः "यज्ञियेभ्यः यज्ञार्हेभ्यः "अमृतत्वं तत्साधनम् “उत्तमम् उत्कृष्टतमं "भागं सोमादिलक्षणं "सुवसि अनुजानासि । "आदित् अनन्तरमेव "दामानं हविषां दातारं हे "सवितः "ब्यूर्णुषे प्रकाशयसि । "मानुषेभ्यः यजमानेभ्यः "जीविता जीवितानि “अनूचीना अनुक्रमयुक्तानि । पितृपुत्रपौत्रा इत्यनुक्रमः । ईदृशानि जीवितानि पश्चात् व्यूर्णुषे ॥


अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षै॒ः प्रभू॑ती पूरुष॒त्वता॑ ।

दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥३

अचि॑त्ती । यत् । च॒कृ॒म । दैव्ये॑ । जने॑ । दी॒नैः । दक्षः॑ । प्रऽभू॑ती । पु॒रु॒ष॒त्वता॑ ।

दे॒वेषु॑ । च॒ । स॒वि॒तः॒ । मानु॑षेषु । च॒ । त्वम् । नः॒ । अत्र॑ । सु॒व॒ता॒त् । अना॑गसः ॥३

अचित्ती । यत् । चकृम । दैव्ये । जने । दीनैः । दक्षः । प्रऽभूती । पुरुषत्वता ।

देवेषु । च । सवितः । मानुषेषु । च । त्वम् । नः । अत्र । सुवतात् । अनागसः ॥३

हे "सवितः वयम् "अचित्ती अप्रज्ञया "दैव्ये "जने देवे त्वयि "दीनैः दुर्बलैः पुत्रादिभिर्ऋत्विग्भिर्वा तथा "दक्षैः प्रवृद्धैर्वा तैः "प्रभूती प्रभूत्या। ऐश्वर्यमदेनेति यावत् । "पुरुषत्वता पुरुषवत्तया च "यत् आगः "चकृम । न केवलं त्वय्येव कृतम् अपि तु "देवेषु अन्येषु "मानुषेषु च अज्ञानादिभिः यच्चकृम "नः कृतवतोऽस्मान् "त्वम् "अत्र अस्मिन् कर्मणि "अनागसः अपापान “सुवतात् अनुजानीहि ॥


देवसुवां हविःषु सवितुः सत्यप्रसवस्य ' न प्रमिये' इति याज्या । सूत्रितं च -- न प्रमिये सवितुर्दैव्यस्य तद्बृहस्पते प्रथमम् ' ( आश्व. श्रौ. ४. ११ ) इति ॥

न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ ।

यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व॑ङ्गु॒रिर्वर्ष्म॑न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥४

न । प्र॒ऽमिये॑ । स॒वि॒तुः । दैव्य॑स्य । तत् । यथा॑ । विश्व॑म् । भुव॑नम् । धा॒र॒यि॒ष्यति॑ ।

यत् । पृ॒थि॒व्याः । वरि॑मन् । आ । सु॒ऽअ॒ङ्गु॒रिः । वर्ष्म॑न् । दि॒वः । सु॒वति॑ । स॒त्यम् । अ॒स्य॒ । तत् ॥४

न । प्रऽमिये । सवितुः । दैव्यस्य । तत् । यथा । विश्वम् । भुवनम् । धारयिष्यति ।

यत् । पृथिव्याः । वरिमन् । आ । सुऽअङ्गुरिः । वर्ष्मन् । दिवः । सुवति । सत्यम् । अस्य । तत् ॥४

"सवितुर्दैव्यस्य देवस्य “तत् कर्म "न “प्रमिये न प्रमीयेत न प्रहिंस्येत । हिंसार्हं न भवतीत्यर्थः ॥ कृत्यार्थे केन्प्रत्ययः ॥ यद्वा । दैव्यस्येति अधिकरणे षष्ठी । सा च कर्मार्था । दैव्यं कर्मेत्यर्थः । कथमहिंस्यमित्यत आह । "यथा "विश्वं “भुवनं “धारयिष्यति धारयति । विश्वधारणरूपं यत् कर्मास्ति तन्न प्रमिये । तथा 'स्वङ्गुरिः शोभनाङ्गुल्युपलक्षितहस्तः "यत् यः “पृथिव्या "वरिमन्ना । आकारश्चार्थे । भूम्या उरुत्वे च "सुवति प्रेरयति । तथा "दिवः द्युलोकस्य “वर्ष्मन् उरुत्वे च सुवति । "अस्य देवस्य “तत् उक्तं कर्म "सत्यम् अबाध्यमिति ॥


इन्द्र॑ज्येष्ठान्बृ॒हद्भ्य॒ः पर्व॑तेभ्य॒ः क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः ।

यथा॑यथा प॒तय॑न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥५

इन्द्र॑ऽज्येष्ठान् । बृ॒हत्ऽभ्यः॑ । पर्व॑तेभ्यः । क्षया॑न् । ए॒भ्यः॒ । सु॒व॒सि॒ । प॒स्त्य॑ऽवतः ।

यथा॑ऽयथा । प॒तय॑न्तः । वि॒ऽये॒मि॒रे । ए॒व । ए॒व । त॒स्थुः॒ । स॒वि॒त॒रिति॑ । स॒वाय॑ । ते॒ ॥५

इन्द्रऽज्येष्ठान् । बृहत्ऽभ्यः । पर्वतेभ्यः । क्षयान् । एभ्यः । सुवसि । पस्त्यऽवतः ।

यथाऽयथा । पतयन्तः । विऽयेमिरे । एव । एव । तस्थुः । सवितरिति । सवाय । ते ॥५

हे "सवितः "इन्द्रज्येष्ठान् । इन्द्रः परमैश्वर्ययुक्तस्त्वमेवेन्द्रो वा ज्येष्ठो ज्यायान् पूज्यो येषां ते तादृशाः । तान् अस्मान् "बृहद्भ्यः महद्भ्यः "पर्वतेभ्यः अप्यधिकान् "सुवसि प्रेरयसि । किंच “एभ्यः यजमानेभ्यः "पस्त्यावतः गृहवतः "क्षयान् निवासान् ग्रामनगरादीन् सुवसि प्रेरयसि । "यथायथा "पतयन्तः गच्छन्तः त्वां “वियेमिरे विनियम्यन्ते त्वया । "ते तव "सवाय अनुज्ञायै "एवैव एवमेव नियमनमनतिक्रम्य "तस्थुः तिष्ठन्ति ।।


ये ते॒ त्रिरह॑न्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ ।

इन्द्रो॒ द्यावा॑पृथि॒वी सिन्धु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑ति॒ः शर्म॑ यंसत् ॥६

ये । ते॒ । त्रिः । अह॑न् । स॒वि॒त॒रिति॑ । स॒वासः॑ । दि॒वेऽदि॑वे । सौभ॑गम् । आ॒ऽसु॒वन्ति॑ ।

इन्द्रः॑ । द्यावा॑पृथि॒वी इति॑ । सिन्धुः॑ । अ॒त्ऽभिः । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥६

ये । ते । त्रिः । अहन् । सवितरिति । सवासः । दिवेऽदिवे । सौभगम् । आऽसुवन्ति ।

इन्द्रः । द्यावापृथिवी इति । सिन्धुः । अत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥६

"ये यजमाना हे "सवितः "ते त्वदर्थं "सवासः सवाः सोमाः। द्वितीयार्थे प्रथमा । सोमान् । यद्वा । सवासः सवनानि प्रातरादीनि प्रति "त्रिरहन् अभिषुण्वन्ति । न केवलमेकस्मिन्नेवाहनि सवनत्रयेषु अपि तु "दिवेदिवे प्रतिदिनं "सौभगं सौभाग्यजनकम् "आसुवन्ति अभिषुण्वन्ति । तेभ्यः "नः अस्मभ्यम् “इन्द्रः “शर्म "यंसत् यच्छतु । "द्यावापृथिवी द्यावापृथिव्यौ च "अद्भिः विशिष्टा "सिन्धुः सिन्ध्वभिमानिदेवता च "आदित्यैः सहिता "अदितिः च शर्म यंसत् । सावित्रे सूक्ते इन्द्रादीनां निपातमुक्त्वा तेषां प्रार्थना न विरुध्यते ॥ ॥ ५ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५४&oldid=198714" इत्यस्माद् पुनः प्राप्तिः